Chapter 2
Verse 2.20
Adhikaraṇa 4.2.9 रश्म्यनुसाराधिकरणम्
रश्म्यनुसारी ॥4.2.17॥
Commentaries
Commentary by Śrī Rāmānujācārya's Śrībhāṣya
Adhikaraṇa 4.2.9 रश्म्यनुसाराधिकरणम्
विदुषो हृदयाच्छताधिकया मूर्धन्यनाड्या निर्गतस्यादित्यरश्मीननुसृत्यादित्यमण्डलगतिः श्रूयते। "अथ यत्रैतस्माच्छरीरादुत्क्रामत्यथैतैरेव रश्मिभिरूर्ध्वमाक्रमते" इति। तत्र रश्म्यनुसारेणैवेत्ययं गतिनियमः सम्भवति, नेति चिन्तायां निशि मृतस्य विदुषो रश्म्यनुसारासम्भवादनियमः। वचनं तु पक्षप्राप्तविषयम्- इति प्राप्ते उच्यते- रश्म्यनुसारी इति। रश्म्यनुसार्येव विद्वानूर्ध्वं गच्छति। कुतः? "अथैतैरेव रश्मिभिः" इत्यवधारणात्; पाक्षिकत्वे ह्येवकारोऽनर्थकः स्यात्। यदुक्त्तं निशि मृतस्य रश्म्यसम्भवात् रश्मीननुसृत्य गमनं नोपपद्यत इति, तन्न, निश्यपि सूर्यरश्म्युनुसारः सम्भवति, लक्ष्यते हि निश्यपि निदाधसमये ऊष्मोपलब्ध्या रश्मिसद्भावः, हेमन्तादौ तु हिमाभिभवाद्दुर्दिन इवोष्मानुपलम्भः, श्रूयते च नाडीरश्मीनां सर्वदाऽन्योन्यान्वयः, "तद्यथा महापथ आतत उभौ ग्रामौ गच्छतीमं चामुं च एवमेवैत आदित्यस्य रश्मय उभौ लाकौ गच्छन्तीमं चामुञ्च अमुष्मादादित्यात्प्रतायन्ते त आसु नाडीषु सृप्ता आभ्या नाडीभ्यः प्रतायन्ते तेऽमुष्मिन्नादित्ये सृप्ताः" इति। तस्मान्निश्यपि रश्मिसम्भवान्निशि मृतानामपि विदुषां रश्म्यनुसारेणैव ब्रह्मप्राप्तिरस्त्येव।। 17।।
।। रश्म्यनुसाराधिकरणं समाप्तम्।।