Śrīkoṣa
Chapter 1

Verse 1.28

Adhikaraṇam 1.4.1 अनुमानिकाधिकरणम्
आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च ॥1.4.1॥
सूक्ष्मं तु तदर्हत्वात् ॥1.4.2॥
तदधीनत्वादर्थवत् ॥1.4.3॥
ज्ञेयत्वावचनाच्च ॥1.4.4
वदतीति चेन्न प्राज्ञो हि प्रकरणात् ॥1.4.5॥
त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॥1.4.6॥
महद्वच्च ॥1.4.7॥

Commentaries