Chapter 2
Verse 2.17
Adhikaraṇa 1.2.6 वैश्वानराधिकरणम्
वैश्वानरस्साधरणशब्दविशेषात् ॥1.2.25॥
स्मर्यमाणमनुमानं स्यादिति ॥1.2.26॥
शब्दादिभ्योऽन्तःप्रतिष्ठानाच्च नेति चेन्न तथा दृष्ट्युपदेशादसम्भवात्पुरुषमपि चैनमधीयते ॥1.2.27॥
अत एव न देवता भूतञ्च ॥1.2.28॥
साक्षादप्यविरोधं जैमिनिः ॥1.2.29॥
अभिव्यक्तेरित्याश्मरथ्यः ॥1.2.30॥
अनुस्मृतेर्बादरिः ॥1.2.31॥
सम्पत्तेरिति जैमिनिस्तथा हि दर्शयति ॥1.2.32॥
आमनन्ति चैनमस्मिन् ॥1.2.33॥