Chapter 3
Verse 3.26
Adhikaraṇa 1.3.9 अपशूद्राधिकरणम्
शुगस्य तदनादरश्रवणात् तदाद्रवणात् सूच्यते हि ॥1.3.35॥
क्षत्रियत्वगतेश्च ॥1.3.36॥
उत्तरत्र चैत्ररथेन लिङ्गात् ॥1.3.37॥
संस्कारपरामर्शात् तदभावाभिलापाच्च 1.3.॥38॥
तदभावनिर्धारणे च प्रवृत्तेः ॥1.3.39॥
श्रवणाध्ययनार्थप्रतिषेधात् ॥1.3.40॥
स्मृतेश्च ॥1.3.41॥
Commentaries
Commentary by Śrī Rāmānujācārya's Śrībhāṣya
Adhikaraṇa 1.3.9 अपशूद्राधिकरणम्
ब्रह्मविद्यायां शूद्रस्याप्यधिकोऽस्ति, न वेति विचार्यते । किं युक्त्तम् ? अस्तीति । कुतः ? आर्थित्वसामर्थ्यप्रयुक्त्तत्वादधिकारस्य, शूद्रस्यापि तत्संभवात् । यद्यप्यग्निविद्यासाध्येषु कर्मसु अनग्निविद्यत्वात् शूद्रस्यानधिकारः तथापि मनोवृत्तिमात्रत्वाद्ब्रह्मोपासनस्य, तत्राधिकारोऽस्त्येव । शास्त्रीयक्रियापेक्षत्वेऽप्युपासनस्य, तत्तद्वर्णाश्रमोचितक्रियाया एवापेक्षितत्वात् शूद्रस्यापि स्ववर्णोचितपूर्ववर्णशुश्रूषैव क्रिया भविष्यति । "तस्मा च्छूद्रो यज्ञेऽनवक२प्तः" इत्यपि, अग्निविद्यासाध्ययज्ञादिकर्मानधिकार एव न्यायसिद्धोऽनूद्यते । ननु अनधीतवेदस्याश्रुतवेदान्तस्य ब्रह्मस्वरूपदुपासनप्रकारानभिज्ञस्य कथं ब्रह्मोपासनं संभवति । उच्यते- अनदीतवेदस्याश्रुतवेदान्तवाक्यस्यापि इतिहासपुराणश्रवणेनापि ब्रह्मस्वरूपतदुपासनज्ञानं संभवति । अस्ति च शूद्रस्यापि इतिहासपुराणश्रवणानुज्ञा, "श्रावयेत् चतुरो वर्णान् कृत्वा ब्रह्मणमग्रतः" इत्यादौ । दृश्यन्ते चेति- हासपुराणेषु विदुरादयो ब्रह्मनिष्ठाः । तथोपनिषत्स्वपि संवर्गविद्यायां शूद्रस्यापि ब्रह्मविद्याधिकारः प्रतीयते- शुश्रूषुं हि जानश्रुतिमाचार्यो रैक्वः शूद्रेत्यामन्त्र्य तस्मै ब्रह्मविद्यामुपदिशति, "आजहारेमाः शूद्र! अनेनैव मुखेनालापयिष्यथाः" इत्यादिना । अतः शूद्रस्याप्यधिकारः संभवति-इति प्राप्ते उच्यते- न शूद्रस्याधिकारः संभवति, सामर्थ्याभावात् । न हि ब्रह्मस्वरूपतदुपासनप्रकारमजानतः तदङ्गभूतवेदानुवचनयज्ञादिष्वनधिकृतस्य उपासनोपसंहारसामर्थ्यसंभवः । असमर्थस्य चार्थित्वसद्भावेऽप्यधिकारो न संभवति । असामर्थ्यं च वेदाध्ययनाभावात् । यथैव हि त्रैवर्णिकविषयाध्ययनविधिसिद्धस्वाध्यायसंपाद्यज्ञानलाभेन कर्मविधयो ज्ञानतदुपायादीन् अपरान् न स्वीकुर्वन्ति, तथा ब्रह्मोपासनविधयोऽपि । अतोऽध्ययनविधिसिद्धस्वाध्यायाधिगतज्ञानस्यैव ब्रह्मोपासनोपायत्वात् शूद्रस्य ब्रह्मोपासनसामर्थ्यासंभवः ।
इतिहासपुराणे अपि वेदोपबृंहणं कुर्वती एवोपायभावमनुभवतः; न स्वातन्त्र्ेण । शूद्रस्येतिहासपुराणश्रवणानुज्ञानं पापक्षयादिफलार्थम्, नोपासनार्थम् । विदुरादयस्तु भवान्तराधिगतज्ञानाप्रमोषात् ज्ञानवन्तः प्रारब्धकर्मवशाच्चेदृशजन्मयोगिन इति तेषां ब्रह्मनिष्ठत्वम् । यत्तु- संवर्गविद्यायां शुश्रूषोः शूद्रेति संबोधनं शूद्रस्याधिकारं सूचयतीति तेन्नेत्याह- शुगस्य तदनादरश्रवणात् तदाद्रवणात् सूच्यते हि । शुश्रूषोर्जानश्रुतेः पौत्रायणस्य ब्रह्मज्ञानवैकल्येन हंसोक्त्तानादरवाक्यश्रवणात् तदैव ब्रह्मविदो रैक्वस्य सकाशं प्रति आद्रवणात् शुक् अस्य सञ्जातेति सूच्यते; अतः स शूद्रेत्यामन्त्र्यते; न चतुर्थवर्णत्वेन । शोचतीति हि शूद्रः; "शुचेर्दश्च" इति रक्(र)प्रत्यये धातोश्च दीर्धे चकारस्य च दकारे शूद्र इति भवति । अतः शोचितृत्वमेवास्य शूद्रशब्दप्रयोगेण सूच्यते; न जातियोगः । जानश्रुतिः किल पौत्रायणो बहुद्रव्यप्रदो बह्वन्नप्रदश्च बभूव । तस्य धार्मिकाग्रेसरस्य धर्मेण प्रीतयोः कयोश्चिन्महात्मनोः, अस्य ब्रह्मजिज्ञासामुतिपपादयिषतोः हंसरूपेण निशायामस्याविदूरे गच्छतोरन्यतर इतरमुवाच- "भो भो अयि भल्लाक्ष !
भल्लाक्ष ! जानश्रुतेः पौत्रायणस्य समं दिवा ज्योतिराततम् । तन्मा प्रसाङ्क्षीः । तत् त्वा मा प्रधाक्षीत्" इति । एवं जानश्रुतिप्रशंसारूपं वाक्यमुपश्रुत्य परो हंसः प्रत्युवाच- "कम्वरे एनमेतत्सन्तं सयुग्वानमिव रैक्वमात्थ" इति । कं सन्तमेनं जानश्रुतिं सयुग्वानं रैक्वं ब्रह्मज्ञमिव गुणश्रेष्ठमेतदात्थ; स ब्रह्मज्ञो रैक्व एव लोके गुणवत्तरः; महता धर्मेण संयुक्त्तस्याप्यस्य जानश्रुतेरब्रह्मज्ञस्य को गुणः; यद्गुणजनितं तेजो रैक्वतेज इव मां दहेदित्यर्थः । एवमुक्त्तेन परेण, कोऽसौ रैक्व इति पृष्टः, "लोके यत् किंचित् साध्वनुष्ठितं कर्म, यच्च सर्वचेतनगतं विज्ञानम्, तदुभयं यदीयज्ञानकर्मान्तर्भूतम्, स रैक्वः" इत्याह । तदेतत् हंसवाक्यं ब्रह्मज्ञानविधुरतया आत्मनिन्दागर्भं तद्वत्तया च रैक्वप्रशंसारूपं जानश्रुतिरुपश्रुत्य, तत्क्षणादेव क्षत्तारं रैक्वान्वेषणाय प्रेषयन्, तस्मिन् विदित्वा आगते, स्वयमपि, रैक्वमुपसद्य गवां षट्छतं निष्कमश्वतरीरथं च रैक्वायोपहृत्य रैक्वं प्रार्थयामास, "अनु मे एतां भगवो देवतां शाधि, यां देवतामुपास्से" इति । त्वदुपास्यां परां देवतां ममा(माम)नुशाधीत्यर्थः । स च रैक्वः स्वयोगमहिमविदितलोकत्रयो जानश्रुतेर्ब्रह्मज्ञानविधुरतानिमित्तानादरगर्भहंसवाक्यश्रवणेन शोकाविष्टतां तदनन्तरमेव ब्रह्मजिज्ञासया उद्योगं च विदित्वा अस्य ब्रह्मविद्यायोग्यतामभिज्ञाय, चिरकालसेवां विना द्रव्यप्रदानेन शुश्रूषमाणस्यास्य यावच्छक्त्तिप्रदानेन ब्रह्मविद्या प्रतिष्ठिता भवतीति मत्वा तमनुगृह्णन्, तस्य शोकाविष्टतामुपदेशयोग्यताख्यापिकां शूद्रशब्देनाऽऽमन्त्रणेन ज्ञापयन्निदमाह, "अह हारेत्वा शूद्र तवैव सह गोभिरस्तु" इति । सह गोभिरयं रथस्तवैवास्तु; नैतावता मह्यं दत्तेन ब्रह्मजिज्ञासया शोकाविष्टस्य तव ब्रह्मविद्या प्रतिष्ठिता भवतीत्यर्थः । स च जानश्रुतिर्भूयोऽपि स्वशक्तयनुगुणमेव गवादिकं धनं कन्यां च प्रदायोपससाद । रैक्वः पुनरपि तस्य योग्यतामेव ख्यापयन् शूद्रशब्देनामन्त्र्ाह "आजहारेमाः शूद्र अनेनैव मुखेनाऽऽलापयिष्यथाः" इति । इमानि धनानि शक्तयनुगुणानि आजहर्थं; अनेनैव द्वारेण, चिरसेवया विनाऽपि, मां त्वदभिलषितं ब्रह्मोपदेशरूपवाक्यमालपयिष्यसीत्युक्तवा तस्मा उपदिदेश । अतः शूद्रशब्देन विद्योपदेशयोग्यताख्यापनार्थं शोक एवास्य सूचितः; न चतुर्थवर्णत्वम् ।। 33 ।।
"बहुदायी" इति दानपतित्वेन, "बहुपाक्यः" इत्यादिना "सर्वत एव मे अन्नमत्स्यन्ति" इत्यन्तेन बहुतरपक्वान्नप्रदायित्वप्रतीतेः, "स ह संजिहान एव क्षत्तारमुवाच" इति क्षत्तृप्रेषणात्, बहुग्रामप्रदानावगतजनपदाधिपत्याच्चास्य जानश्रुतेः क्षत्रियत्वप्रतीतेश्च न चतुर्थवर्णत्वम् । तदेवमुपक्रमगताख्यायिकायां क्षत्रियत्वप्रतीतिरुक्त्ता; उपसंहारगताख्यायिकायामपि क्षत्रियत्वमस्य प्रतीयत इत्याह ।। 34 ।।
अस्य जानश्रुतेरुपदिश्यमानायामस्यामेव संवर्गविद्यायामुत्तरत्र कीर्त्यमानेन अभिप्रतारिनाम्ना चैत्ररथेन क्षत्रियेण अस्य क्षत्रियत्वं गम्यते । कथम् "अथ ह शौनकं च कापेयम् अभिप्रतारिणं च काक्षसेनिं परिविष्यमाणौ ब्रह्मचारी बिभिक्षे" इत्यादिना, "ब्रह्मचारिन्नेदमुपास्महे" इत्यन्तेन कापेयाभिप्रतारिणोः, भिक्षमाणस्य ब्रह्मचारिणश्च संवर्गविद्यासंबन्धित्वं प्रतीयते । तेषु चाभिप्रतारी क्षत्रियः, इतरौ ब्राह्मणौ । अतोऽस्यां विद्यायां ब्राह्मणस्य, तदितरेषु च क्षत्रिययस्यैवान्वयो दृश्यते; न शूद्रस्य । अतोऽस्यां विद्यायामन्वितात् रैक्वाद् ब्राह्मणादन्यस्य जानश्रुतेरपि क्षत्रियत्वमेव युक्त्तम्; न चतुर्थवर्णत्वम् । नन्वस्मिन् प्रकरणे अभिप्रतारिणश्चैत्ररथत्वं क्षत्रियत्वं च न श्रुतम्; तत् कथमस्याभिप्रतारिणश्चैत्ररथत्वम्, कथं वा क्षत्रियत्वम् ? तत्राह लिङ्गात् इति । "अथ ह शौनकं च कापेयमभिप्रतारिणञ्च काक्षसेनिम्" इत्यभिप्रतारिणः कापेयसाहचर्याल्लिंङ्गात् अस्याभिप्रतारिणः कापेयसंबन्धः प्रतीयते; अन्यत्र च, "एतेन वै चि(चै)त्ररथं कापेया अयाजयन्" इति कापेयसंबन्धिनः चि(चै)त्ररथत्वं श्रूयते; तथा चैत्ररथस्य क्षत्रियत्वम्, "तस्माच्चैत्ररथीनामेकः (रथोनामैकः) क्षत्रपतिरजायत" इति । अतोऽभिप्रतारिणश्चैत्ररथत्वं क्षत्रियत्वं च गम्यते ।। 35 ।।
तदेवं न्यायविरोधिनि शूद्रस्याधिकारे लिङ्गं नोपलभ्यत इत्युक्त्तम्; इदानीं न्यायसिद्धः शूद्रस्यानधिकारः श्रुतिस्मृतिभिरनुगृह्यत इत्याह- ब्रह्मविद्योपदेश प्रदेशेषूपनसंस्कारः परामृश्यते, "उप त्वा नेष्ये", "तं होपनिन्ये" इत्यादिषु । शूद्रस्य चोपनयनादिसंस्काराभावोऽभिलप्यते, "न शूद्रे पातकं किञ्चिन्न च संस्कारमर्हति" "चतुर्थो वर्ण एकजातिर्न च संस्कारमर्हति" इत्यादिषु ।। 36 ।।
"नैतदब्राह्मणो विवक्त्तुमर्हति । समिधं सोम्याहर" इति शुश्रुषोर्जाबालस्य शूद्रत्वाभावनिर्धारणे सत्येव विद्योपदेशप्रवृत्तेश्च न शूद्रस्याधिकारः ।। 37 ।।
शूद्रस्य वेदश्रवण-तदध्ययन-तदर्थानुष्ठानमिति प्रतिषिध्यन्ते, "पद्यु ह वा एतच्छमशानम्, यच्छूद्रः । तस्माच्छूद्रसमीपे नाध्येतव्यम्", "तस्माच्छूद्रो बहुपशुरयज्ञीयः" इति । बहुपशुः- पशुसदृश इत्यर्थः । अनुपृण्वतो-ऽध्ययन-तदर्थज्ञान-तदर्थानुष्ठानानि न संभवन्ति । अतः तान्यपि प्रतिषिद्धान्येव ।। 38 ।।
स्मर्यते च श्रवणादिनिषेधः, "अथ हास्य वेदमुपृण्वतः त्रपुजतुभ्यां श्रोत्रप्रतिपूरणमुदाहरणे जिह्वाच्छेदो धारणे शरीरभेदः" इति, "न चास्योपदिशेद्धर्मं न चास्य व्रतमादिशेत्" इति च । अतः शूद्रस्याधिकार इति सिद्धम् ।। 39 ।।
ये तु निर्विशेषचिन्मात्रं ब्रह्मैव परमार्थः; अन्यत् सर्वं मिथ्याभूतम्; बन्धश्चापारमार्थिका; स च वाक्यजन्यवस्तुयाथात्म्यज्ञानमात्रनिवर्त्यः; तन्निवृत्तिरेव मोक्षः इति वदन्ति । तैर्ब्रह्मज्ञाने शूद्रादेरनधिकारो वक्त्तुं न शक्यते; अनुपनीतस्य अनधीतवेदस्याश्रुतवेदान्तवाक्यस्यापि यस्मात् कस्मादपि, "निर्विशेषचिन्मात्रं ब्रह्मैव परमार्थः; अन्यत् सर्वं तस्मिन् परिकल्पितं मिथ्याभूतम्" इति वाक्यात् वस्तुयाथात्म्यज्ञानोत्पत्तेः; तावतैव बन्धनिवृत्तेश्च । न च तत्त्वमस्यादिवाक्येनैव ज्ञानोत्पत्तिः कार्या, न वाक्यान्तरेणेति नियन्तुं शक्यम्; ज्ञानस्यापुरुषतन्त्रत्वात्; सत्यां समाग्य्रामनिच्छतोऽपि ज्ञानोत्पत्तेः । न च वेदवाक्यादेव वस्तुयाथात्म्यज्ञाने सति बन्धनिवृत्तिर्भवतीति शक्यं वक्त्तुम्; येन केनापि वस्तुयाथात्म्यज्ञाने सति भ्रान्तिनिवृत्तेः । पौरुषेयादपि, निर्विशेषचिन्मात्रं ब्रह्म परमाथर्ः; अन्यत् सर्वं मिथ्याभूतमिति वाक्यात् ज्ञानोत्पत्तेः, तावतैव भ्रमनिवृत्तेश्च । यथा पौरुषेयादप्याप्तवाक्यात् शुक्त्तिकारजतादि भ्रान्तिर्ब्राह्मणस्य शूद्रादेरपि निवर्तते, तद्वदेव शूद्रस्यापि वेदवित्संप्रदायागतवाक्यात् वस्तुयाथात्म्यज्ञानेन भगद्भ्रमनिवृत्तिरपि भविष्यति । "न चास्योपदिशेद्धर्मम्" इत्यादिना, वेदविदः शूद्रादिभ्यो न वदन्तीति च न शक्यं वक्त्तुम्; तत्त्वमस्यादिवाक्यावगतब्रह्मात्मभावानां वेदशिरसि वतर्मानतया दग्धाखिलाधिकारत्वेन निषेधशास्त्रकिङ्करत्वाभावात् । अतिक्रान्तनिषेधैर्वा कैश्चिदुक्त्तात् वाक्यात् शूद्रादेः ज्ञानमुत्पद्यत एव । नच वाच्यम्- शुकितकादौ रजतादिब्रमनिवृत्तिवत् पौरुषेयवाक्यजन्यतत्त्वज्ञानसमनन्तरं शूद्रत्य जगद्भ्रमो न निवर्तत इति; तत्त्वमस्यादिवाक्यश्रवणसमनन्तरं ब्राह्मणस्यापि जगद्भ्रमानिवृत्तेः । निदिध्यासनेन द्वैतवासनायां निरस्तायामेव तत्त्वमस्यादिवाक्यं निवर्तकज्ञानमुत्पादयतीति चेत्- पौरुषेयमपि वाक्यं शूद्रादेस्तथैवेति न कश्चिद्विशेषः । "निदिध्यासनं हि नाम ब्रह्मात्मभावाभिधायि वाक्यं यदर्थप्रतिपादनयोग्यम्, तदर्थभावना । सैव विपरीतवासनां निवर्तयति इति दृष्टार्थत्वं निदिध्यादनविधेबर्ूषे । वेदानुवचनादीन्यपि विविदिषोत्पत्तावेवोपयुज्यन्ते इति शूद्रस्यापि विविदिषायां जातायां पौरुषेयवाक्यात् निदिध्यासनादिभिर्विपरीतवासनायां निरस्तायां ज्ञानमुत्पत्स्यते; तेनैवापारमार्थिको बन्धो निवर्तिष्यते ।
अथवा तर्कानुगृहीतत्वात् प्रत्यक्षादनुमानाच्च निर्विशेषत्वप्रकाशचिन्मात्रप्रत्यग्वस्तुनि अज्ञानसाक्षित्वं तत्कृतविविधविचित्रज्ञातृज्ञेयविकल्परूपं कृत्स्नं जगच्चाध्यस्तमिति निश्चित्य, एवम्भूतपरिशुद्धप्रत्यग्वस्तुनि अनवरतभावनया विपरीतवासनां निरस्य तदेव प्रत्यग्वस्तु साक्षात्कृत्य शूद्रादयोऽपि विमोक्ष्यन्त इति मिथ्याभूतविचित्रैश्वर्यविचित्रसृष्टयाद्यलौकिकानन्तविशेषावलम्बिना वेदान्तवाक्येन न किञ्चित्प्रयोजनमिह दृश्यत इति शूद्रादीनामेव ब्रह्मविद्यायामधिकारः सुशोभनः । अनेनैव न्यायेन ब्राह्मणादीनामपि ब्रह्मवेदनसिद्धेरुपनिषञ्च तपस्विनि दत्तजलाञ्जलिस्स्यात् । न च वाच्यम्- नैसगिर्कलोकव्यवहारे भ्राम्यतोऽस्य केनचित्, अयं लौकिकव्यवहारो भ्रमः, परमार्थस्त्वेवमिति समर्पिते सत्येव प्रत्यक्षानुमानवृत्तबुभुत्सा जायत इति तत्समर्पिका श्रुतिरप्यास्थेवेति; यतो भवभयभीतानां साङ्खयादय एव प्रत्यक्षानुमानाभ्यां वस्तुनिरूपणं कुर्वन्तः प्रत्यक्षानुमानवृत्तबुभुत्सां जनयन्ति; बुभुत्सायां च जातायां प्रत्यक्षानुमानाभ्यामेव विविक्त्तस्वभावाभ्याम्, "नित्यशुद्धस्वप्रकाशाद्वितीयकूटस्थचैतन्यमेव सत्; अन्यत् सर्वं तस्मिन् अध्यस्तम्" इति सुविवेचम् । एवम्भूते स्वप्रकाशे वस्तुनि श्रुतिसमधिगम्यं विशेषान्तरं च नाभ्युपगम्यते; अध्यस्तातद्रूपनिवर्तिनी हि श्रुतिरपि त्वन्मते । न च सत आत्मनः आनन्दरूपताज्ञानायोपनिदास्थेया, विद्रूपताया एव सकलेतरातद्रूपव्यावृत्ताया आनन्दरूपत्वात् । यस्य तु मोक्षसाधनतया वैदान्तवाक्यैर्विहितं ज्ञानमुपासनरूपम्; तच्च परब्रह्मभूतपरमपुरुषप्रीणनम्; तच्च शस्त्रैकसमधिगम्यम्; उपासनशास्त्रं चोपनयनादिसंस्कृताधीतस्वाध्यायजनितं ज्ञानं विवेकविमोकादिसाधनानुगृहीतमेव स्वोपायतया स्वीकरोति; एवंरूपोपासनप्रीतः पुरुषोत्तमः उपासकं स्वाभाविकात्मयाथात्म्यज्ञानदानेन कर्मजनिताज्ञानं नाशयन् बन्धान्मोचयति इति पक्षः, तस्य यथोक्त्तया नीत्या शूद्रादेरधिकार उपपद्यते ।। 39 ।। ।। इति अपशूद्राधिकरणम् ।। 9 ।।
प्रमिताधिकरण 6. शेषः । तदेवं प्रसक्त्तानुप्रसक्त्ताधिकारकथां परिसमाप्य प्रकृतस्याङ्गुष्ठिप्रमितस्य भूतभव्येशितृत्वावगतपरब्रह्मभावोत्तम्भनं हेत्वन्तरमाह-