Chapter 4
Verse 4.52
Adhikaraṇa 3.4.12 सहकार्यन्तराधिकरणम्
सहकार्यन्तरविधिःपक्षेणतृतीयं तद्वतोविध्यादिवत्॥3.4.46॥
कृत्स्नभावात्तु गृहिणोपसंहारः॥3.4.47॥
मौनवदितरेषामप्युपदेशात्॥3.4.48॥
Commentaries
Commentary by Śrī Rāmānujācārya's Śrībhāṣya
Adhikaraṇa 3.4.12 सहकार्यन्तराधिकरणम्
"तस्माद्व्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिषांसद् बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिः" इत्यत्र बाल्यपाण्डित्यवन्मौनमपि विधीयते? उतानूद्यते? इति विषये मौनपाण्डित्यशब्दयोर्ज्ञानार्थत्वात्, "पाण्डित्यं निर्विद्य" इति विहितमेव ज्ञानम् "अथ मुनिः" इत्यनूद्यते विधिशब्दो न ह्यत्र श्रूयत इति एवं प्राप्ते व्रूमः- सहकार्यन्तरविधिः इति तद्वतः- विद्यावतः, विध्यादिवद्- विधीयत इति यज्ञादिः सर्वाश्रमधर्मः शमदमदिश्च विधिशब्देनोच्यते आदिशब्देन श्रवणमनने गृह्येते, सहकार्यन्तरविधिरित्यत्रापि विधीयत इति विधिः, सहकार्यन्तरं विधिश्चेति सहकार्यन्तरविधिः एतदुक्त्तं भवति- यथा "तमेतं वेदानुवचनेन बाह्मणा विविदिषन्ति यज्ञेन दानेन" इत्यादिना "शान्तो दान्तः" इत्यादिना च सहकारी यज्ञादिः शमदमादिश्च विधीयते; यथा च "श्रोतव्यो मन्तव्यः" इति श्रवणमनने चार्थप्राप्ते विद्यासहकारित्वेन गृह्येते; तथा "तस्माद्व्र्ाह्मणः पाण्डित्यं निर्विद्य" इत्यादिना पाण्डित्यं बाल्यं मौनमिति त्रितयं विद्यायाः सहकार्यन्तरं विधीयते इति मौनं च पाण्डित्यादर्थान्तरमित्याह- पक्षेणेति मुनिशब्दस्य पक्षेण प्रकृष्यमननशीले व्यासादौ प्रयोगदर्शनान्मौनं पाण्डित्यबाल्ययोर्द्वयोस्तृतीयम् यद्यपि "अथ मुनिः" इत्यत्र विधिप्रत्ययो न श्रूयते; तथाऽपि मौनस्याप्राप्तत्वात् विधेयत्वमङ्गीकरणीयम् अथ मुनिः स्यात् इति इदं च मौनं श्रवण प्रतिष्ठार्थान्मनना दर्थान्तरभूतमुपासनालम्बनस्य पुनः पुनः संशीलनं तद्भावनारूपम् तदेवं वाक्यार्थः ब्राह्मणः- विद्यावान् पाण्डित्वं निर्विद्यउपास्यं ब्रह्मतत्त्वं परिशुद्धं परिपूर्णं च विदित्वा श्रवणमननाभ्यामप्राप्तं वेदनं प्रतिलभ्येत्यर्थः; तच्च भगवद्भक्त्तिकृतसत्त्वविवृद्धिकृतम्; यथोक्त्तं "नाहं वैदैः" इत्यारभ्य "भक्त्तया त्वनन्यया शक्यः ज्ञातुम्" इति श्रुतिश्च "यस्य देवे परा भक्त्तिः" "नायमात्मा प्रवचनेन लभ्यः" इत्यादिका बाल्येन तिष्ठासेत्, बाल्यस्वरूपं चानन्तरमेव वक्ष्यते; बाल्यं च पाण्डित्वं च निर्विद्याथ मुनिः स्यात्, बाल्यपाण्डित्ये यथावदुपादाय परिशुद्धे परिपूर्णे ब्रह्मणि मननशीलो भवेन्निदिध्यासनरूपविद्यावाप्तये एवं त्रितयोपादानेन लब्दविद्यो भवतीत्याह "अमौनं मौनं च निर्विद्याथ ब्राह्मणः" इति अमौनम्- मौनेतरसहकारिकलापः, तं च मौनं च यथावदुपाददानो विद्याककाष्ठां तदेकनिष्पाद्यं लभेतेत्यर्थः "स ब्राह्मणः केन स्यात्" इत्युक्त्तादुपायात्किमन्योऽप्युपायोऽस्तीति पृष्टे "येन स्यात्तेनेदृश एव" इति येन मौनपर्यन्तेन ब्राह्मणः स्यादित्युक्त्तम्, तेनैवेदृशः स्यात्; न केनाप्यन्येनोबायेनेति परिहृतम् अतः सर्वेष्वाश्रमेषु स्थितस्य विदुषो यज्ञादिस्वाश्रमधर्मवत् पाण्डित्यािेदकं मौनतृतीयं विद्यायाः सहकार्यन्तरं विधीयते अथ स्यात्- यदि सर्वेष्वाश्रमेषु स्थितानां विदुषां तत्तदाश्रमधर्मसहकारिणी मौनतृतीयसचिवा विद्या ब्रह्मप्राप्तिसाधनमुच्यते; कथं तर्हि छान्दोग्ये "अभिसमावृत्य कुटुम्बे शुचौ देशे" इत्यारभ्य "स खल्वेवं वर्तयन् यावदायुषं ब्रह्मलोकमभिसम्पद्यते न च पुनरावर्त्तते" इति यावदायुषं र्गाहस्थ्यधर्मेण स्थितिदर्शनमुपपद्यते; अत आह -। 46।
तुशब्दश्चोद्यं व्यावर्त्तयति; कृत्स्नभावात्- कुत्स्नेष्वाश्रमेषु विद्यायाःसद्भावात्, गृहिणोऽप्यस्तीति तेनोपसंहारः; तस्मात्सर्वाश्रमधर्म्मप्रदर्शनार्थो गृहिणोपसंहार इत्यभिप्रायः। 47।
तथैतस्मिन्नपि वाक्ये "ब्राह्मणः पुत्रेषणायाश्च वित्तेषणायाश्च लोकेषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरति" इति पारिव्रज्यैकान्तधर्मं प्रतिपाद्य "तस्माद्व्र्ाह्मणः पाण्डित्यं निर्विद्य" इत्यादिना पारिव्रज्यधर्मस्थितिहेतुकमौनतृतीयसहकारिविधानं प्रदर्शनार्थमित्याह - सर्वेषणाविनिर्मुक्त्तस्य भिक्षाचरणपूर्वकमौनोपदेशः सर्वेषामाश्रमधर्माणां प्रदर्शनार्थः; कुतः? एवंविधमौनोपदेशवदितरेषामाश्रमिणामपि "त्रयो धर्मस्कन्धाः" इत्यारभ्य "ब्रह्मसंस्थोऽमृतत्वमेति" इति ब्रह्मप्रेप्त्यारभ्युपदेशात् उपपादितश्च पूर्वमेव ब्रह्मसंस्थशब्दः सर्वाश्रमिसाधारण इति अतः सुष्ठूक्त्तम्- यज्ञादिसर्वाश्रमधर्मवन्मौनतृतीय। पाण्डित्यादिर्विद्यासहकारित्वेन विधीयत इति। 48।
।। सहकार्यन्तरविध्यधिकरणं समाप्तम्।