Chapter 2
Verse 2.13
Adhikaraṇa 2.2.3 समुदायाधिकरणम्
समुदाय उभयहेतुकेऽपि तदप्राप्तिः॥2.2.17॥
इतरेतरप्रत्ययत्वादुपपन्नमिति चेन्न संघातभावानिमित्तत्वात्॥2.2.18॥
उत्तरोत्पादे च पूर्वनिरोधात्॥2.2.19॥
असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा॥2.2.20॥
प्रतिसंख्याऽप्रतिसंख्यानिरोधाऽप्राप्तिरविच्छेदात्॥2.2.21॥
उभयथा च दोषात्॥2.2.22॥
आकाशे चाविशेषात्॥2.2.23॥
अनुस्मृतेश्च॥2.2.24॥
नासतोऽदृष्टत्वात्॥2.2.25॥
उदासीनानामपि चैवं सिद्धिः॥2.2.26॥