Śrīkoṣa
Chapter 1

Verse 1.2

Adhikaraṇa 2.1.2 योगप्रत्युक्त्यधिकरणम्
एतेन योगः प्रत्युक्तः॥2.1.3॥

Commentaries

Commentary by Śrī Rāmānujācārya's Śrībhāṣya

Adhikaraṇa 2.1.2 योगप्रत्युक्त्यधिकरणम्
एतेन कापिलस्मृतिनिराकरणेन योगस्मृतिरपि प्रत्युक्त्ता। का पुनरत्राधिकाशङ्का, यन्निराकरणाय न्यायातिदेशः, योगस्मृतावपीश्वराभ्युपगमान्मोक्षसाधनतया वेदान्तविहितयोगस्य चाभिधानात् वक्त्तुर्हिरण्यगर्भस्य सर्ववेदान्तप्रवर्तनाधिकृतत्वाच्च तत्स्मृत्या वेदान्तोपबृंहणं न्याय्यमिति। परिहारस्तु- अब्रह्मात्मकप्रधानकारणवादान्निमित्तकारणमात्रेश्वराभ्युपगमात् ध्यानात्मकस्य योगस्य ध्येयैकनिरूपणीयस्य ध्येयभूतयोरात्मेश्वरयोर्ब्रह्मात्मकत्वजगदुपादानतादिसवर्कल्याणगुणात्मकत्वविरहेणावैदिकत्वाद्वक्त्तुर्हिरण्यगर्भस्यापि क्षेत्रज्ञभूतस्य कदाचिद्रजस्तमोऽभिभवसम्भवाच्च योगस्मृतिरपि तत्प्रणीतरजस्तमोमूलपुराणवद्भ्रान्तिमूलेति न तया वेदान्तोपबृंहणं न्याय्यमिति।। इति योगप्रत्युक्त्यधिकरणम्।।