Śrīkoṣa
Chapter 3

Verse 3.22

Adhikaraṇa 2.3.4 ज्ञाधिकरणम्
ज्ञोऽत एव॥2.3.19॥
उत्क्रान्तिगत्यागतीनाम्॥2.3.20॥
स्वात्मना चोत्तरयोः॥2.3.21॥
नाणुरतच्छ्रुतेः इति चेत् न इतराधिकारात्॥2.3.22॥
स्वशब्दोन्मानाभ्यां च॥2.3.23॥
अविरोधश्चन्दनवत्॥2.3.24॥
अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि॥2.3.25॥
गुणाद्वाऽऽलोकवत्॥2.3.26॥
व्यतिरेको गन्धवत् तथा च दर्शयति॥2.3.27॥
पृथगुपदेशात्॥2.3.28॥
तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत्॥2.3.29॥
यावदात्मभावित्वाच्च न दोषः तद्दर्शनात्॥2.3.30॥
पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात्॥2.3.31॥
नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वाऽन्यथा॥2.3.32॥

Commentaries