Śrīkoṣa

Gītārthasaṅgraha

By Śrī Yāmunācārya

Composed in 10th Century CE

1 chapter32 verses

Filter Content

Display Mode

Chapter 1

नमो नमो यामुनाय यामुनाय नमो नमः।
नमो नमो यामुनाय यामुनाय नमो नमः॥
स्वधर्मज्ञानवैराग्यसाध्यभक्त्येकगोचरः।
नारायणः परं ब्रह्म गीताशास्त्रे समीरितः ॥१॥
View Verse
ज्ञानकर्मात्मिके निष्ठे योगलक्ष्ये सुसंस्कृते ।
आत्मानुभूतिसिद्ध्यर्थे पूर्वषट्केन चोदिते ॥२॥
View Verse
मध्यमे भगवत्तत्त्वयाथात्म्यावाप्तिसिद्धये ।
ज्ञानकर्माभिनिर्वर्त्यो भक्तियोगः प्रकीर्तितः ॥३॥
View Verse
प्रधानपुरुषव्यक्तसर्वेश्वरविवेचनम् ।
कर्मधीर्भक्तिरित्यादिः पूर्वशेषोऽन्तिमोदितः ॥४॥
View Verse
अस्थानस्नेहकारुण्यधर्माधर्मधियाकुलम् ।
पार्थं प्रपन्नमुद्दिश्य शास्त्रावतरणं कृतम् ॥५॥
View Verse
नित्यात्मासङ्गकर्मेहागोचरा साङ्ख्ययोगधीः ।
द्वितीये स्थितधीलक्षा प्रोक्ता तन्मोहशान्तये ॥६॥
View Verse
असक्त्या लोकरक्षायै गुणेष्वारोप्य कर्तृताम् ।
सर्वेश्वरे वा न्यस्योक्ता तृतीये कर्मकार्यता ॥७॥
View Verse
प्रसङ्गात्स्वस्वभावोक्तिः कर्मणोऽकर्मतास्य च ।
भेदा ज्ञानस्य माहात्म्यं चतुर्थाध्याय उच्यते ॥८॥
View Verse
कर्मयोगस्य सौकर्यं शैघ्र्यं काश्चन तद्विधाः ।
ब्रह्मज्ञानप्रकारश्च पञ्चमाध्याय उच्यते ॥९॥
View Verse
योगाभ्यासविधिर्योगी चतुर्धा योगसाधनम् ।
योगसिद्धिः स्वयोगस्य पारम्यं षष्ठ उच्यते ॥१०॥
View Verse
स्वयाथात्म्यं प्रकृत्यास्य तिरोधिः शरणागतिः ।
भक्तभेदः प्रबुद्धस्य श्रैष्ठ्यं सप्तम उच्यते ॥११॥
View Verse
ऐश्वर्याक्षरयाथात्म्यभगवच्चरणार्थिनाम् ।
वेद्योपादेयभावानामष्टमे भेद उच्यते ॥१२॥
View Verse
स्वमाहात्म्यं मनुष्यत्वे परत्वं च महात्मनाम् ।
विशेषो नवमे योगो भक्तिरूपः प्रकीर्तितः ॥१३॥
View Verse
स्वकल्याणगुणानन्त्यकृत्स्नस्वाधीनतामतिः ।
भक्त्युत्पत्तिविवृद्ध्यर्था विस्तीर्णा दशमोदिता ॥१४॥
View Verse
एकादशे स्वयाथात्म्यसाक्षात्कारावलोकनम् ।
दत्तमुक्तं विदिप्राप्त्योर्भक्त्येकोपायता तथा ॥१५॥
View Verse
भक्तेः श्रैष्ठ्यमुपायोक्तिः अशक्तस्यात्मनिष्ठता ।
तत्प्रकारास्त्वतिप्रीतिः भक्ते द्वादश उच्यते ॥१६॥
View Verse
देहस्वरूपमात्माप्तिहेतुरात्मविशोधनम् ।
बन्धहेतुर्विवेकश्च त्रयोदश उदीर्यते ॥१७॥
View Verse
गुणबन्धविधा तेषां कर्तृत्वं तन्निवर्तनम् ।
गतित्रयस्वमूलत्वं चतुर्दश उदीर्यते ॥१८॥
View Verse
अचिन्मिश्राद्विशुद्धाच्च चेतनात् पुरुषोत्तमः ।
व्यापनात् भरणात् स्वाम्यात् अन्यः पञ्चदशोदितः ॥१९॥
View Verse
देवासुरविभागोक्तिपूर्विका शास्त्रवश्यता ।
तत्त्वानुष्ठानविज्ञानस्थेम्ने षोडश उच्यते ॥१०॥
View Verse
अशास्त्रमासुरं कृत्स्नं शास्त्रीयं गुणतः पृथक् ।
लक्षणं शास्त्रसिद्धस्य त्रिधा सप्तदशोदितम् ॥२१॥
View Verse
ईश्वरे कर्तृताबुद्धिः सत्त्वोपादेयतान्तिमे ।
स्वकर्मपरिणामश्च शास्त्रसारार्थ उच्यते ॥२२॥
View Verse
कर्मयोगस्तपस्तीर्थदानयज्ञादिसेवनम् ।
ज्ञानयोगो जितस्वान्तैः परिशुद्धात्मनि स्थितिः ॥२३॥
View Verse
भक्तियोगः परैकान्तप्रीत्या ध्यानादिषु स्थितिः ।
त्रयाणामपि योगानां त्रिभिरन्योन्यसङ्गमः ॥२४॥
View Verse
नित्यनैमित्तिकानां च पराराधनरूपिणाम् ।
आत्मदृष्टेस्त्रयोऽप्येते योगद्वारेण साधकाः ॥२५॥
View Verse
निरस्तनिखिलाज्ञानो दृष्ट्वात्मानं परानुगम् ।
प्रतिलभ्य परां भक्तिं तयैवाप्नोति तत्पदम् ॥२६॥
View Verse
भक्तियोगस्तदर्थी चेत्समग्रैश्वर्यसाधकः ।
आत्मार्थी चेत् त्रयोऽप्येते तत्कैवल्यस्य साधकाः ॥२७॥
View Verse
ऐकान्त्यं भगवत्येषां समानमधिकारिणाम् ।
यावत्प्राप्ति परार्थी चेत् तदेवात्यन्तमश्नुते ॥२८॥
View Verse
ज्ञानी तु परमैकान्ती तदायत्तात्मजीवनः ।
तत्संश्लेषवियोगैकसुखदुःखस्तदेकधीः ॥२९॥
View Verse
भगवद्ध्यानयोगोक्तिवन्दनस्तुतिकीर्तनैः ।
लब्धात्मा तद्गतप्राणमनोबुद्धीन्द्रियक्रियः ॥३०॥
View Verse
निजकर्मादि भक्त्यन्तं कुर्यात् प्रीत्यैव कारितः ।
उपायतां परित्यज्य न्यस्येत् देवे तु तामभीः ॥३१॥
View Verse
एकान्तात्यन्तदास्यैकरतिः तत्पदमाप्नुयात् ।
तत्प्रधानमिदं शास्त्रमिति गीतार्थसङ्ग्रहः ॥३२॥
View Verse