Śrīkoṣa

Śrī Pārameśvara Saṃhitā

By Śrī Sanaka and Śrī Śāṇḍilya

Composed in Tretā Yuga

26 chapters8283 verses

Filter Content

Display Mode

Chapter 1

ॐ ॥
नमः सकलकल्याणदायिने चक्रपाणये ।
विषयार्णवमग्नानां समुद्धरणहेतवे ॥ १ ॥
View Verse
तोताद्रिशिखरक्षेत्रे देवगन्धर्वसेविते ।
पुण्यतीर्थसमायुक्ते सर्वर्तुकुसुमान्विते ॥ २ ॥
View Verse
प्रशस्ताश्रमसंयुक्ते पुण्यक्षेत्रोपशोभिते ।
वेदवेदान्तनिष्ठैस्तु तपोनिष्ठैर्महर्षिभिः ॥ ३ ॥
View Verse
सांख्यसिद्धान्तसंयुक्तैः योगसिद्धान्तवेदिभिः ।
इतिहासपुराणज्ञैर्धर्मशास्त्रार्थकोविदैः ॥ ४ ॥
View Verse
वेदाङ्गज्ञानकुशलैर्युक्ते देवर्षिभिस्तथा ।
राजर्षिभिः समायुक्ते मन्त्रसिद्धैर्महात्मभिः ॥ ५ ॥
View Verse
सनको नाम योगर्षिर्ब्रह्मपुत्रो महातपाः ।
भगवज्ज्ञानसिद्ध्यर्थं तपस्तेपे सुदुश्चरम् ॥ ६ ॥
View Verse
शतवर्षं ध्यायमाने परमात्मानमात्मनि ।
न लेभेऽभि मतं सोऽपि तप्त्वा घोरतरं तपः ॥ ७ ॥
View Verse
शोकेन महताऽविष्टो बभूव स मुनिस्तदा ॥
ततः शोकार्णवे मग्नं जितक्रोधं जितेन्द्रियम् ॥ ८ ॥
View Verse
दान्तं योगाङ्गनिरतं तं भक्तं भक्तवत्सलः ।
वाक्यमेतज्जगद्धाता जगाद जगतो हितम् ॥ ९ ॥
View Verse
वासुदेवः परंज्योतिरदृश्यः पुरुषोत्तमः ।
श्रीभगवानुवाच ।
त्वया योगीश्वरेणेह सुतप्तं तप उत्तमम् ॥ १० ॥
View Verse
प्राप्स्यसे न चिराद्ब्रह्मन् महतस्तपसः फलम् ।
समाश्वसिहि भद्रं ते मा विषीद महामते ॥ ११ ॥
View Verse
कृतकृत्यो जगत्यस्मिन् शाण्‍डिल्यः श्रूयते महान् ।
तमाश्रयस्व भद्रं ते भगवद्धर्मसिद्धये ॥ १२ ॥
View Verse
एतस्मिन् पर्वतश्रेष्ठे पुराऽनेन महात्मना ।
साक्षाद्भगवतो व्यक्तादच्युतादच्युताभिधात् ॥ १३ ॥
View Verse
अधीतास्त्रिसुपर्णाद्याः साक्षात्सद्ब्रह्मवाचकाः ।
शाखाश्च निषदः सर्वाः संहिता ब्राह्मणाभिधाः ॥ १४ ॥
View Verse
निरुक्तानि ततो ज्ञाताः पदार्थाः सप्त च क्रमात् ।
ज्ञानं च द्विविधं ज्ञातं शास्त्राणि विविधानि च ॥ १५ ॥
View Verse
त्रयोदशविधं कर्म द्वादशाद्यात्मसंयुतम् ।
श्रुत्वैवं प्रथमं शास्त्रं रहस्याम्नायसंज्ञितम् ॥ १६ ॥
View Verse
दिव्यमन्त्रक्रमोपेतं मोक्षैकफललक्षणम् ।
भूयः संचोदितात्तस्मात्तेन लोकहितैषिणा ॥ १७ ॥
View Verse
श्रुतं विस्तरतः शास्त्रं भोगमोक्षप्रदं हि यत् ।
अनुष्टुप्छन्दोब द्धेन प्रोक्तं भगवता स्वयम् ॥ १८ ॥
View Verse
सात्वतं पौष्करं चैव जयाख्येत्येवमादिकम् ।
तत्सर्वं विदितं सम्यक् शाण्डिल्यस्य महात्मनः ॥ १९ ॥
View Verse
एवं सकलशास्त्रज्ञः शाण्डिल्यः परमो गुरुः ।
आस्ते शिष्यैः परिवृतः स्वाश्रमे श्रमनाशने ॥ २० ॥
View Verse
पाञ्चकाल्यं परं यज्ञं कुर्वाणः सर्वदा वशी ।
स ते वक्ष्यति धर्मज्ञो धर्मं भागवतं मुने ॥ २१ ॥
View Verse
तमाश्रयस्व भद्रं ते भगवज्ज्ञानसिद्धये ।
इत्युक्त्वाऽस्तमिता वाणी वासुदेवसमीरिता ॥ २२ ॥
View Verse
इत्यद्भुततमं वाक्यं श्रुत्वा हृष्टतनूरुहः ।
तदा कृतार्थमात्मानं मन्यमानो महामुनिः ॥ २३ ॥
View Verse
शाण्डिल्यदर्शनाकाङ्क्षी संचचाराचलाधिपम् ।
अपश्यदाश्रमश्रेष्ठं शाण्डिल्यस्य महात्मनः ॥ २४ ॥
View Verse
नानापुष्पसमाकीर्णं नानाफलसमन्वितम् ।
नानापक्षिगणैर्जुष्टं नानामृगनिषेवितम् ॥ २५ ॥
View Verse
कमलोत्पलसंकी र्णैः शोभितं कमलाकरैः ।
भगवद्धर्मजिज्ञासापरैः शान्तैरमत्सरैः ॥ २६ ॥
View Verse
मुनिमुख्यैः समाकीर्णं सर्वत्र च मुमुक्षुभिः ।
सप्रविश्य तमद्राक्षीन्मुनिमुख्यैरुपासितम् ॥ २७ ॥
View Verse
शिष्यैः परिवृतं शान्तैरात्मनिष्ठं दयापरम् ।
दिव्यज्ञानोपपन्नं तं दृष्ट्वा दिव्यक्रियापरम् ॥ २८ ॥
View Verse
उद्वहन्तं परां भक्तिं वासुदेवे परात्परे ।
अभ्यवन्दिष्ट सनको विनयात्तस्य पादयोः ॥ २९ ॥
View Verse
तिष्ठन्तं भगवद्धर्मे दृष्ट्वा दिव्येन चक्षुषा ।
शाण्डिल्यो मुनिशार्दूलः सनकं ब्रह्मसंभवम् ॥ ३० ॥
View Verse
अब्रवीन्मधुरं वाक्यं कृतार्थोऽसि महामुने ।
भगवान् सुप्रसन्नस्ते सुतप्तं तप उत्तमम् ॥ ३१ ॥
View Verse
आदिष्टोऽहं भगवता भवदर्थे तपोनिधे ।
इत्युक्त्वाऽध्यापयामास वेदमेकायनाभिधम् ॥ ३२ ॥
View Verse
मूलभूतस्तु महतो वेदवृक्षस्य यो महान् ।
सद्ब्रह्मवासुदेवाख्य परतत्वैकसंश्रयम् ॥ ३३ ॥
View Verse
दिव्यैर्बलादिकैर्मन्त्रैः साक्षात्तत्प्रतिपादकैः ।
अलङ्कृतमसन्दिग्धमविद्यातिमिरापहम् ॥ ३४ ॥
View Verse
अध्याप्य संजगादास्य स्वरूपं च समागति म् ।
शाण्डिल्यः ।
एष कार्तयुगो धर्मो निराशीःकर्मसंज्ञितः ॥ ३५ ॥
View Verse
योगाख्यो योगधर्माख्यः शास्त्राख्यश्च समागमः ।
प्रवर्त्यते भगवता प्रथमे प्रथमे युगे ॥ ३६ ॥
View Verse
युगेषु मन्दसञ्चार इतरेष्वितरेष्वपि ।
अनन्तचेष्टादध्यक्षादनिरुद्धात् सनातनात् ॥ ३७ ॥
View Verse
ब्रह्मणो मानसं जन्म प्रथमं चाक्षुषं स्मृतम् ।
द्वितीयं वाचिकं चान्यच्चतुर्थं श्रोत्रसंभवम् ॥ ३८ ॥
View Verse
नासिक्यमपरं चान्यदण्डजं पद्मजं तथा ।
एतेष्वपि च सर्वेषु साक्षाद्भगवतो विभोः ॥ ३९ ॥
View Verse
ब्रह्मणा मुनिमुख्यैश्च सुपर्णाद्यैर्महर्षिभिः ।
वालखिल्यमुखैश्चान्यैः क्रमाद्राजर्षिभिस्तथा ॥ ४० ॥
View Verse
एष प्रकृतिधर्माख्यः प्राधीतः प्रथमो द्विज ।
सप्तमे पद्मजे सर्गे प्राप्तो भगवतस्तथा ॥ ४१ ॥
View Verse
विवस्वता ततः प्राप्तो मनुनेक्ष्वाकुणा ततः ।
इक्ष्वाकुणा च कथितो व्याप्य लोकानवस्थितः ॥ ४२ ॥
View Verse
एष एव महान् धर्म आद्यो विप्र सनातनः ॥
दुर्विज्ञेयो दुष्करश्च सात्वतैर्धार्यते सदा ॥ ४३ ॥
View Verse
चातुरात्म्यपरैर्नित्यं पञ्चकालपरायणैः ।
बलादिमन्त्रनिरतैर्देवतान्तरवर्जितैः ॥ ४४ ॥
View Verse
एष धर्मो यथा प्राप्तो मया तद्ग दतः श्रृणु ।
साङ्गोपनिषदा वेदाः समधीता मया पुरा ॥ ४५ ॥
View Verse
ऋग्यजुस्सामसंज्ञास्तु संकीर्णा देवतान्तरैः ।
व्यामिश्रयागसंयुक्ताः प्रवृत्तिफलदायिनः ॥ ४६ ॥
View Verse
तदर्थाश्च परिज्ञाता यथान्यायं यथाविधि ।
क्वचित् क्वचित् प्रदेशेषु भगवन्तं जगत्पतिम् ॥ ४७ ॥
View Verse
तदीयं कर्म च ज्ञानमप्रणाड्या वदन्ति हि ।
तथा तदतिसंक्षिप्तमनभिव्यक्तलक्षणम् ॥ ४८ ॥
View Verse
अग्नीन्द्रादिप्रणाड्यैव प्रदेशेषु बहुष्वपि ।
प्रवदन्ति जगन्नाथं तथा च सकलाः क्रियाः ॥ ४९ ॥
View Verse
नित्यादिका मुनिश्रेष्ठ प्रवृत्तिफलसंयुताः ।
देवतान्तरनाड्यैव प्रब्रुवन्ति सुविस्तरात् ॥ ५० ॥
View Verse
तथा क्वचित् क्वचिद्विप्र प्रवदन्ति च केवलम् ।
इन्द्रादिदेवतावर्जं तत्कर्माऽपि सुविस्तरम् ॥ ५१ ॥
View Verse
मन्त्राः प्राचुर्यतस्तत्र फलसङ्गसमन्विताः ।
एवं व्यामिश्ररूपत्वात्तेषु निष्ठां न लब्धवान् ॥ ५२ ॥
View Verse
यस्तु सर्वपरो धर्मो यस्मान्नास्ति महत्तरः ।
वासुदेवैकनिष्ठस्तु देवतान्तरवर्जितः ॥ ५३ ॥
View Verse
तज्जिज्ञासा बलवती तदा त्वाविरभून्मम ।
ततोऽत्र पर्वतश्रेष्ठे तपस्तप्तं मयोत्तमम् ॥ ५४ ॥
View Verse
अनेकानि सहस्राणि वर्षाणां तपसोऽन्ततः ॥
द्वापरस्य युगस्यान्ते आदौ कलियुगस्य च ॥ ५५ ॥
View Verse
साक्षात्सङ्कर्षणाद्व्यक्तात् प्राप्त एव महत्तरः ।
एष एकायनो वेदः प्रख्यातः सात्वतो विधिः ॥ ५६ ॥
View Verse
दुर्विज्ञेयो दुष्करश्च प्रतिबुद्धैर्निषेव्यते ।
मोक्षायनाय वैपन्था एतदन्यो न विद्यते ॥ ५७ ॥
View Verse
तस्मादेकायनं नाम प्रवदन्ति मनीषिणः ।
श्वेतद्वीपे पुराऽधीतो नारदेन सुरर्षिणा ॥ ५८ ॥
View Verse
सनः सनत्सुजातश्च भवानपि सनन्द नः ।
सनत्कुमारः कपिलः सप्तमश्च सनातनः ॥ ५९ ॥
View Verse
एते एकान्तिधर्मस्य आचार्याश्च प्रवर्तकाः ।
मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ॥ ६० ॥
View Verse
वसिष्ठश्च महातेजा एते चित्रशिखण्डिनः ।
मनुः स्वायभ्भुवश्चापि समाराध्य जगत्पतिम् ॥ ६१ ॥
View Verse
महता तपसा चैव देवं नारायणं प्रभुम् ।
दिव्यं वर्षसहस्रं तु तदन्ते समधीत्य च ॥ ६२ ॥
View Verse
मूलश्रुतिं यथावच्चा ऋषयोऽध्यापितास्तु तैः ।
ततस्ते ऋषयस्त्वष्टौ लोकानां हितकाम्यया ॥ ६३ ॥
View Verse
श्लोकानां शतसाहस्रैर्मूलवेदं निरीक्ष्य च ।
तथा दिव्यानि तन्त्राणि सात्वतादीनि चक्रिरे ॥ ६४ ॥
View Verse
अन्यच्छास्त्रं तु तन्त्राख्यमस्मान्मन्वादयोऽपि च ।
धर्मशास्त्राण्यनेकानि करिष्यन्ति यथातथम् ॥ ६५ ॥
View Verse
अन्येषामपि शास्त्राणां योनिरेतद्भविष्यति ।
अस्मिन् धर्मश्च अर्थश्चोक्तः सुविस्तरम् ॥ ६६ ॥
View Verse
मोक्षश्च सूचितः पश्चादत्रोक्तश्च यथातथम् ॥
अश्वमेधादयो यज्ञा अधिकृत्याच्युतं हरिम् ॥ ६७ ॥
View Verse
यथा क्रियन्ते च तथा द्विषट्कार्णपुरस्सरैः ।
निवृत्तिफलदैर्मन्त्रैस्तस्यासाधारणैर्हरेः ॥ ६८ ॥
View Verse
पूजिता विनियुज्यन्ते तस्मिंस्तस्मिंश्च कर्मणि ।
ऋगादिमन्त्राः सर्वेऽपि तथा चास्मिन् प्रकीर्तिताः ॥ ६९ ॥
View Verse
वसूराजोपरिचरो मूलवेदेन संस्कृतः ।
स्वर्गलोकाधिकारार्थमेतदुक्तप्रकारतः ॥ ७० ॥
View Verse
अश्वमेधादिकान् यज्ञानन्वशिष्टद्यथाविधि ।
अन्यांश्च भगवद्यागान् खिन्नवृत्त्यधिकारतः ॥ ७१ ॥
View Verse
इति श्रुत मया पूर्वं स चार्थः प्रतिभाति मे ।
सुमन्तुर्जैमिनिर्ब्रह्मन् भृगुश्चैवौपगायनः ॥ ७२ ॥
View Verse
मौञ्ज्यायनश्च तत्सर्वं सम्यगध्यापिता मया ।
नरनारायणाभ्यां तु जगतो हितकाम्यया ॥ ७३ ॥
View Verse
तथाऽनुष्ठीयते मूलधर्मो बदरिकाश्रमे ।
एष प्रकृतिधर्माख्यो वासुदेवैकगोचरः ॥ ७४ ॥
View Verse
प्रवर्तते कृतयुगे ततस्त्रेतायुगादिषु ।
विकारवेदाः सर्वत्र देवतान्तरगोचराः ॥ ७५ ॥
View Verse
महतो वेदवृक्षस्य मूलभूतो महानयम् ।
स्कन्धभूता ऋगाद्यास्ते शाखाभूतास्तथा मुने ॥ ७६ ॥
View Verse
जगन्मूलस्य देवस्य वासुदेवस्य मुख्यतः ।
प्रतिपादकतासिद्धा मूलवेदाख्यता द्विज ॥ ७७ ॥
View Verse
आद्यं भागवतं धर्ममादिभूते कृते युगे ।
मानवा योग्यभूतास्तु अनुतिष्ठन्ति नित्यशः ॥ ७८ ॥
View Verse
ततस्त्रेतायुगे सर्वे नानाकामसमन्विताः ॥
व्यामिश्रयाजिनो भूत्वा त्यजन्त्याद्यं सनातनम् ॥ ७९ ॥
View Verse
अन्तर्दधाति सर्वोऽयं वासुदेवसमाहृतः ।
ततो योग्याय भगवान् प्रादुर्भावयति स्वयम् ॥ ८० ॥
View Verse
यथा पुरा मया प्राप्तो देवाद् ज्ञानबलात्मनः ।
तथा प्रकाशितो वेदः सरहस्यो महामुने ॥ ८१ ॥
View Verse
एवं निगदिते सम्यक् शाण्डिल्येन महात्मना ।
ततः कृतार्थमात्मानं मन्यमानः कृताञ्जलिः ॥ ८२ ॥
View Verse
सनकः प्रश्रितं वाक्यं शाण्डिल्यं मुनिमब्रवीत् ।
सनकः ।
भगवन् सर्वधर्मज्ञ सर्वशास्त्रार्थपारग ॥ ८३ ॥
View Verse
त्वत्प्रसादेन संप्राप्तो मया धर्मवरो महान् ।
निवृत्तिलक्षणाख्योऽयं प्रतिबुद्धैर्निषेवितः ॥ ८४ ॥
View Verse
कथमप्रतिबुद्धैस्तैर्मग्नैर्भवमहाम्बुधौ ।
प्राप्यते भगवद्धर्म एकान्तिभिरनुष्ठितः ॥ ८५ ॥
View Verse
शाण्डिल्यः ।
श्रूयतामभिधास्यामि यदहं चोदितस्त्वया ।
एतदर्थं मया पृष्टः पुरा सङ्कर्षणः प्रभुः ॥ ८६ ॥
View Verse
परित्यज्य परं धर्मं मिश्रधर्ममुपेयुषाम् ।
भूयस्तत्पदकाङ्क्षाणां श्रद्धाभक्ती उपेयुषाम् ॥ ८७ ॥
View Verse
अनुग्रहार्थं वर्णाणां योग्यतापाद नाय च ।
तथा जनानां सर्वेषामभीष्टफलसिद्धये ॥ ८८ ॥
View Verse
सात्वतादीनि शास्त्राणि भोगमोक्षप्रदानि च ।
उपदिश्य तु दिव्यानि शास्त्राणि तदनन्तरम् ॥ ८९ ॥
View Verse
पारमेश्वरशास्त्राणां सर्वेषां मुनिपुङ्गव ॥
सारभूतं विशेषेण पौष्करार्थोपपादकम् ॥ ९० ॥
View Verse
मूलवेदानुसारेण छन्दसाऽनुष्टुभेन च ।
लक्षग्रन्थेन सर्वार्थक्रियाज्ञानोपलब्धये ॥ ९१ ॥
View Verse
स मेऽब्रवीन्म हाशास्त्रं पारमेश्वरसंज्ञया ।
तस्मात्तु सारमुद्धृत्य सर्वशास्त्रोपयोगिनम् ॥ ९२ ॥
View Verse
श्लोकैः षोडशसाहस्रैः पारमेश्वरसंज्ञया ।
संप्रवक्ष्यामि ते शास्त्रमिदानीमवधारय ॥ ९३ ॥
View Verse
नारदोऽपि पुरा चैतदपि संक्षेपतो विभोः ।
क्षीरोदशायिनो देवात् साक्षात् संश्रुतवान् द्विज ॥ ९४ ॥
View Verse
ज्ञानकाण्डक्रियाकाण्डभेदेनै व द्विधाकृतम् ।
यत्र संकीर्त्यते सम्यग्वासुदेवस्य वै विभोः ॥ ९५ ॥
View Verse
दिव्यमात्मस्वरूपं च नित्या ज्ञानादयो गुणाः ।
प्रधाना षट् समस्ताश्च व्यस्ता युग्मत्रयेण हि ॥ ९६ ॥
View Verse
कीर्त्यादयो गुणाश्चान्ये आकृतिश्च परात्परा ।
नित्यैका वासुदेवाख्या ततः सृष्ट्यादिहेतुना ॥ ९७ ॥
View Verse
सङ्ककर्षणादिव्यूहश्च जगज्जन्मादयोऽपि च ।
उपासनार्थं भक्तानामास्तिकानां महात्मनाम् ॥ ९८ ॥
View Verse
जगतामुपकारार्थं वासुदेवस्य वै विभोः ।
परात्परस्वरूपस्य चतुर्व्यूहस्तुरीयकः ॥ ९९ ॥
View Verse
व्यूहः सुषुप्तिसंज्ञश्च स्वप्नव्यूहस्तथैव च ।
जाग्रद्व्यूहस्तथाऽन्ये च व्यूहा मूर्त्यन्तरा अपि ॥ १०० ॥
View Verse
मूर्तयो विभवाख्याश्च प्रादुर्भावान्तराण्यपि ।
लक्ष्मीपुष्ट्योः स्वरूपे च नित्ये भगवता सह ॥ १०१ ॥
View Verse
कान्त्यादयोऽवताराश्च भूषणानां तु विग्रहाः ।
नित्याः किरीटपूर्वाणामनित्याश्च पृथग्विधाः ॥ १०२ ॥
View Verse
चक्रादीनां स्वरूपं च नित्यानित्योभयात्मकम् ।
गरुडप्रमुखानां तु अन्येषामात्मनामपि ॥ १०३ ॥
View Verse
विभोः साधनभूतानां स्वं स्वं नित्यं स्वरूपिणाम् ।
एतेषां मूर्तयो नित्या अनित्याश्च पृथग्विधाः ॥ १०४ ॥
View Verse
विभोर्वै वासुदेवस्य स्थानं नित्यं परात्परम् ।
अन्येषां व्यूहरूपाणां विभवानां तथैव च ॥ १०५ ॥
View Verse
नानाविधानि स्थानानि विरजांसि बहूनि च ।
तेषां विस्तारमानं च तथा स्वं स्वं व्यवस्थितम् ॥ १०६ ॥
View Verse
तत्सालानां प्रतोलीनां संख्यामानं च लक्षणम् ।
जीवात्मनां स्वरूप च मुक्तामुक्तोभयात्मकम् ॥ १०७ ॥
View Verse
तेषां गतिविशेषाश्च प्रोच्यन्ते यत्र विस्तरात् ।
भगवन्मन्त्रमूर्तीनां तथाऽन्येषां क्रमेण तु ॥ १०८ ॥
View Verse
म न्त्रध्यानं तथा मुद्रा योगरूपं च कीर्तितम् ।
ज्ञानकाण्डाभिधानेन तदेतत् परिकीर्तितम् ॥ १०९ ॥
View Verse
यत्र नित्यानि कर्माणि स्नानादीन्यखिलानि च ।
नैमित्तिकानि काम्यानि प्रायश्चित्तानि विस्तरात् ॥ ११० ॥
View Verse
तुलाभारादिकादीनि कर्माणि विविधान्यपि ।
तथा च कर्षणादीनि स्थापनान्तान्यशेषतः ॥ १११ ॥
View Verse
प्रासादप्रतिमाभद्रपीठादीनां च लक्षणम् ।
एवमादीनि चान्यानि देवेशयजनार्थतः ॥ ११२ ॥
View Verse
कीर्त्यन्ते विस्तराद्यत्र क्रियाकाण्डं तु विद्धि तत् ।
एवं द्विविधरूपं तु शास्त्रं वक्ष्येऽवधारय ॥ ११३ ॥
View Verse

Chapter 2

श्रीः ।
क्रियाकाण्डे द्वितीयोऽध्यायः ।
शाण्डिल्यः ।
अथाधिकारसिद्ध्यर्थं स्नानं वक्ष्यामि पूर्वतः ।
येन भक्तोऽभिषिक्तस्तु स्यादर्हो यागहोमयोः ॥ १ ॥
View Verse
स्नानं तु द्विविधं कुर्यान्मलसंकरशुद्धये ।
सामान्यविधिना स्नात्वा विशेषविधिना ततः ॥ २ ॥
View Verse
सामान्यं लौकिकं स्नानं विशिष्टं मन्त्रसंस्कृतम् ।
तच्चापि शौचपूर्वं स्यात्तदादौ कथयामि ते ॥ ३ ॥
View Verse
ब्राह्मं मुहूर्तमासाद्य उदयात्पूर्वमेव च ।
मन्त्रज्ञः प्रयतः कुर्याद्विधिदृष्टेन कर्मणा ॥ ४ ॥
View Verse
संप्रबुद्धः प्रभाते तु उत्थाय शयने स्थितः ।
नाम्नां संकीर्तनं कुर्यात् षोडशानां प्रयत्नतः ॥ ५ ॥
View Verse
ॐ नमो वासुदेवाय नमः संकर्षणाय ते ।
प्रद्युम्नाय नमस्तेऽस्तु अनिरुद्धाय ते नमः ॥ ६ ॥
View Verse
क्रमशः केशवादीनां यावद्दामोदरं द्विज ।
नमो नमः केशवाय नमो नारायणाय च ॥ ७ ॥
View Verse
माधवाय नमश्चैव गोविन्दाय नमस्ततः ।
विष्णवेऽथ नमस्कुर्यान्नमस्ते मधुसूदन ॥ ८ ॥
View Verse
नमस्त्रिविक्रमायाथ वामनाय नमस्ततः ।
श्रीधराय नमश्चाथ हृषीकेशाय ॐ नमः ॥ ९ ॥
View Verse
नमस्ते पद्मनाभाय नमो दामोदराय च ।
दिव्यानामवताराणां दशानामथ कीर्तनम् ॥ १० ॥
View Verse
एकश्रृङ्गादिकानां तु विहितं क्रमशः प्रभोः ।
नमस्ते मीनरूपाय कमठाय नमो नमः ॥ ११ ॥
View Verse
नमोऽस्त्वादिवराहाय नारसिंहाय ते नमः ।
नमो वामनरूपाय नमो रामत्रयाय च ॥ १२ ॥
View Verse
कुठारज्याहलास्त्राय नमः कृष्णाय वेधसे ।
कल्कि विष्णो नमस्तेऽस्तु पूर्वं सप्रणवं द्विज ॥ १३ ॥
View Verse
यथास्थितक्रमेणैव भेदांस्त्वेतान् हरेर्विभोः ।
नमस्कुर्यात् प्रभाते तु यागान्ते तु दिनक्षये ॥ १४ ॥
View Verse
शब्देनोच्चतरेणैव संहृ ष्टिजननेन तु ।
स्तोत्राणि चाथ मन्त्राणि उदीर्यान्यानि वै ततः ॥ १५ ॥
View Verse
इत्येवमादिभिः स्तोत्रैरभिष्टूय श्रियः पतिम् ।
इदं विज्ञापयामास हरये वरदायिने ॥ १६ ॥
View Verse
हरिर्हरिर्ब्रुवंस्तल्पादुत्थाय भुवि विन्यसेत् ।
नमः क्षितिधरायोक्त्वा वामपादं महामते ॥ १७ ॥
View Verse
बहिर्निर्गमनार्थं तु सञ्चाल्यादौ तमेव हि ।
जलसंपूर्णपात्रं च अस्त्रमन्त्रोद्धृतं मुने ॥ १८ ॥
View Verse
देवाग्निगिरिगोष्ठेषु नद्यां वा न श्मशानके ।
वल्मीके मूषिकास्थाने वृक्षमूले सुरालये ॥ १९ ॥
View Verse
जलान्तरे च मार्गे च न गृह्णीयात् कदाचन ।
देशे मनोरमे ग्राह्या विहाय चतुरङ्गुलम् ॥ २० ॥
View Verse
प्राण्यङ्गतुषभस्मास्थिकाष्ठलोष्टविवर्जितम् ।
परशौचावशिष्टं यच्छ्रेयःकामैः सदा नरैः ॥ २१ ॥
View Verse
अनङ्गारामनूषारां तथा कृष्णामवालुकाम् ।
शस्त्रादिनाऽस्त्रजप्तेन निखनेच्छुभदेशगाम् ॥ २२ ॥
View Verse
मृदं दोषविनिर्मुक्तां ततस्तेनैव चाहरेत् ।
स्नानोपकरणं चान्यच्छमीशाखाः सपल्लवाः ॥ २३ ॥
View Verse
अर्कन्यग्रोधखदिरकरञ्जककुभादिकम् ।
शरजोदुम्बराश्वत्थप्लक्षदर्भांश्च वैणवान् ॥ २४ ॥
View Verse
आम्राङ्कुरमपामार्गमर्जुनं धातकीं शमीम् ।
अन्यानि च पवित्राणि तेषु संपन्नमाहरेत् ॥ २५ ॥
View Verse
यथावसरमेतद्वै नृपवत् संप्रयोज्य च ।
कूपस्नानं न कुर्वीत तटाकादिषु सत्सु च ॥ २६ ॥
View Verse
तेषु नाल्पोदके स्नायात्तीर्थेषु बहुवारिषु ।
एतेष्वपि तु न स्नायात् सत्यां सरिति साधकः ॥ २७ ॥
View Verse
सरित्स्वपि च सर्वासु विशिष्टाः स्युः समुद्रगाः ।
तासामपि विशिष्टाः स्युः सर्वाः प्राक्स्रोतसः सदा ॥ २८ ॥
View Verse
नदीनामपि सर्वासां दक्षिणं तीरमुत्तमम् ।
प्राक्स्रोतसः स्रवन्त्यस्तु यत्र चोदङ्मुखस्थिताः ॥ २९ ॥
View Verse
प्राक्तीरं तत्र तीर्थं स्यात् सर्वपापप्रणाशनम् ।
कूपाद्दशगुणा वापी वाप्या दशगुणा नदी ॥ ३० ॥
View Verse
नद्यां स्नानफलं स्नातुस्तथा तस्याः समुद्रगाः ।
तथा दशगुणं तस्याः प्राक्स्रोताः कुरुते फलम् ॥ ३१ ॥
View Verse
प्राक्स्रोतसोदङ्मुखायाः प्राक्तीरेऽनन्तकं फलम् ।
पूर्वं तु क्षालिते तीरे संप्रोक्ष्य स्थापयेत् पृथक् ॥ ३२ ॥
View Verse
जलसंपूर्णपात्रं च अस्त्रमन्त्रोद्धृतं मुने ।
शौचार्थं मृदमाहृत्य जलकूले निधाय वै ॥ ३३ ॥
View Verse
मनोरमे शुचौ देशे तृणान्निक्षिप्य भूतले ।
दिवासन्ध्यासु कर्णस्थब्रह्मसूत्र उदङ्मुखः ॥ ३४ ॥
View Verse
कुर्यान्मूत्रपुरीषे तु रात्रौ चेद्दक्षिणामुखः ।
न कुर्याद्भुवि विण्मूत्रे संभवद्दीर्घजन्तुषु ॥ ३५ ॥
View Verse
न चाप्सु न गिरौ चापि चत्वरेषु चतुष्पथे ।
न राजमार्गे नो वीथ्यां न देवायतने क्वचित् ॥ ३६ ॥
View Verse
न श्मशाने न चैत्ये च न भस्मनि न गोव्रजे ।
न ग्राममध्ये विप्रेन्द्र कुर्वीताप्यन्यथाविधि ॥ ३७ ॥
View Verse
आत्मच्छायां तरुच्छायां न मेहेत कदाचन ।
अवकुण्ठ्योत्तमाङ्गं तु न पश्येद्दिग्गणं मलम् ॥ ३८ ॥
View Verse
तथा ज्योतींष्यपश्यंश्च देवतायतनानि च ।
पुरीषं गुदसंयुक्तं काष्ठपर्णतृणादिभिः ॥ ३९ ॥
View Verse
वामहस्तेन सम्मार्ज्य तेन हस्ततलेन तु ।
गृहीतशिश्नश्चोत्थाय जलकूलं समाश्रयेत् ॥ ४० ॥
View Verse
ऊरुद्वयान्तरस्थेन गुदं मृद्दायिनाऽपि च ।
दाक्षिण्यजानोर्बाह्यं च दीयमानजलेन च ॥ ४१ ॥
View Verse
वामेन दक्षिणेनैव पाणिना कुक्कुटासनी ।
अस्पृष्टतीर्थः शौचार्थं मृद्भिरभ्युद्धृतैर्जलैः ॥ ४२ ॥
View Verse
गन्धलेपक्षयकरं शौचं कुर्यादतन्द्रितः ।
तिस्रो लिङ्गे मृदो देया एकैकान्तरमृत्तिकाः ॥ ४३ ॥
View Verse
पञ्च वामकरे देयास्तिस्रः पाण्योर्विशुद्धये ।
मूत्रोत्सर्गे शुद्धिरेषा पुरीषस्याप्यनन्तरम् ॥ ४४ ॥
View Verse
अर्धप्रसृतिमात्रं तु प्रथमा मृत्तिका स्मृता ।
द्वितीया च तृतीया च तदर्धा परिकीर्तिता ॥ ४५ ॥
View Verse
बिडालपदमात्रं तु तदूर्ध्वा परिकीर्तिता ।
पञ्चापाने मृत्तिकाः स्युस्तथैवान्तरमृत्तिकाः ॥ ४६ ॥
View Verse
दश वामकरे देयाः सप्त तूभयहस्तयोः ।
पादाभ्यां तिसृभिः शुद्धिर्जङ्घाशुद्धिश्च पञ्चभिः ॥ ४७ ॥
View Verse
नियोजयेत्ततो विप्र कट्यां वै सप्त मृत्तिकाः ।
स्वदेहस्वेददोषघ्ना बाह्यकर्दमशान्तये ॥ ४८ ॥
View Verse
भक्तानां श्रोत्रियाणां च वर्षास्वेवं निरूपितम् ।
प्रावृ डुक्तात्तु वै तस्मादेकमृद्व्यपनोदनम् ॥ ४९ ॥
View Verse
शरद्ग्रीष्मवसन्तेषु नित्यं कार्यं क्रियापरैः ।
एतस्मादपि चैकैका परिलोप्या तु मृत्तिका ॥ ५० ॥
View Verse
हेमन्ते शिशिरे विप्र श्रोत्रियैः संयमस्थितैः ।
पथि शौचं प्रकर्तव्यं देशकालानुरूपतः ॥ ५१ ॥
View Verse
गन्धलेपमपास्यैवं मनः शुद्ध्या विशुध्यति ।
विहिताः पादशौचे तु बिडालपदसंमिताः ॥ ५२ ॥
View Verse
मृदश्चतुर्द्विजेन्द्राणां त्रिर्द्विरेका क्रमात्ततः ।
वर्णानां शूद्रनिष्ठानां कटिशौचे तथैव हि ॥ ५३ ॥
View Verse
सप्त सप्त च ऊरुभ्यां कराभ्यां त्रितयं पुनः ।
सर्वेषामेव सामान्यं पाणिशौचमुदाहृतम् ॥ ५४ ॥
View Verse
अन्तर्जानुगतं कृत्वा भुजयुग्मं द्विजोत्तम ।
चतुर्धा मणिबन्धस्थं तोयं कृत्वा सुनिर्मलम् ॥ ५५ ॥
View Verse
बुद्बुदाद्यैर्विनिर्मुक्तं पिबेद्विप्रो हृदा ततः ।
एकैकां ह्रासयेन्मात्रां वर्णत्रयमनुक्रमात् ॥ ५६ ॥
View Verse
पाणिना क्षालितेनैव पुनराचामयेद्बुधः ।
एवं प्रक्षाल्य विधिवदाचम्य प्रयतः शुचिः ॥ ५७ ॥
View Verse
प्राङ्मुखोदङ्मुखो वाऽपि उपविश्यासनं ततः ।
अर्कादिभिरपामार्गैः कारयेद्दन्तधावनम् ॥ ५८ ॥
View Verse
प्रातर्भुक्त्वा च मृद्वग्रं कषायकटुतिक्तकम् ।
भक्षयेद्दन्तधवनं दन्तमांसान्यबाधयन् ॥ ५९ ॥
View Verse
द्वादशाङ्गुलमात्रं तु वक्रग्रन्थिविवर्जितम् ।
पयोभिः सह तर्जन्या ब्रह्म द्वादशसंख्यया ॥ ६० ॥
View Verse
काष्ठालाभे तु रोगे वा कर्तव्यं दन्तधावनम् ।
षोडशाङ्गुलदीर्घैस्तु वक्रग्रन्थिविवर्जितैः ॥ ६१ ॥
View Verse
हेमादिनिर्मितैर्वाऽपि कुशदर्भादिभिस्तथा ।
जिह्वानिर्लेहनं चैव गण्डूषं मुखधावनम् ॥ ६२ ॥
View Verse
कुर्यादाचमनं विप्र शुद्धेन सलिलेन च ।
विना विविधसंपर्कैः पञ्चाङ्गस्नानमाचरेत् ॥ ६३ ॥
View Verse
मुखं करद्वयोपेतं पादौ कटितलावधि ।
स्त्रीसङ्गाद्युपघातेषु स्नानं कुर्याद्यथाविधि ॥ ६४ ॥
View Verse
अधोत्तमाङ्गात् पादान्तं शिरसाऽभ्यञ्जयेद्द्विज ।
अङ्गान्युद्वर्त्य चास्त्रेण चरणान्तान्यनुक्रमात् ॥ ६५ ॥
View Verse
गोमयेन मृदा विप्र निर्मलीकृत्य विग्रहम् ।
नरामरप्रयुक्तां प्राक् स्नानार्थं चाहरेत् खलीम् ॥ ६६ ॥
View Verse
माषचूर्णादिना देहं निर्हृत्य कवचं स्मरन् ।
शुद्ध्यर्थं प्रथमं स्नात्वा मन्त्रस्नानं समाचरेत् ॥ ६७ ॥
View Verse
स्नायाद्राजोपचारेण दिव्यैर्गन्धैः पुराऽहृतैः ।
हृन्मन्त्रेण च विप्रेन्द्र वामहस्ततले ततः ॥ ६८ ॥
View Verse
मृदाऽमलकमानेन क्रमशोऽभिनिधाय च ।
प्रान्तपर्वावधौ मध्ये मणिबन्धसमीपतः ॥ ६९ ॥
View Verse
अस्त्रमन्त्रेण मूलेन क्रमात् पञ्चाङ्गमन्त्रितम् ।
कृत्वा नियोज्य दिक्ष्वप्सु सर्वाङ्गालेपनं क्रमात् ॥ ७० ॥
View Verse
अध ऊर्ध्वे च तन्मन्त्रं मुद्राबन्धेन संयुतम् ।
तेन स्नानहरा विघ्ना दिग्विदिक्परिसंस्थिताः ॥ ७१ ॥
View Verse
प्रयान्ति विह्वलीभूता यावत्तन्नोपसंहृतम् ।
मृद्भागो मूल्मन्त्रेण मन्त्रितो यः पुरा स्थितः ॥ ७२ ॥
View Verse
तमुच्चरन् समादाय तोयमध्ये विनिक्षिपेत् ।
तेन तद्द्विजशार्दूल तत्क्षणादेव जायते ॥ ७३ ॥
View Verse
गङ्गातोयेन संपूर्णं यामुनेन शुभेन च ।
प्रयागं चक्रतीर्थं च प्रभासं पुष्कराणि च ॥ ७४ ॥
View Verse
भवन्ति सन्निधीभूता मन्त्रस्यास्य प्रभावतः ।
ततो वै विष्णुतीर्थाय मन्त्रान्ते पदमुच्चरेत् ॥ ७५ ॥
View Verse
सनमस्कं भवेत्तेन विष्णुतीर्थस्य सन्निधौ ।
अन्यतीर्थे यदा स्नानं कुर्यात्तत्र च योजयेत् ॥ ७६ ॥
View Verse
केवलं मूलमन्त्रं तु विष्णुतीर्थपदं विना ।
तीर्थान्तरेष्विदं नाम न संकीर्तयते सुधीः ॥ ७७ ॥
View Verse
नित्यसन्निधितीर्थस्य यद्यन्यस्याभिधां स्मरेत् ।
स्नातस्य तत्र तीर्थं तदभिशापं क्षणं सृजेत् ।
निर्झराम्बुतटाकादौ सामान्यस्नानकर्मणि ।
गङ्गादीनां नदीनां च तीर्थानां च प्रकीर्तनम् ॥ ७९ ॥
View Verse
मन्त्रस्नानं क्रमैः सम्यग्विष्णुतीर्थाय कीर्तयेत् ।
ततोऽङ्गमन्त्रजप्तं च भागं पाणितले स्थितम् ॥ ८० ॥
View Verse
तोयेनालोड्य मसृणं तापयेदर्करश्मिभिः ।
मेघच्छन्ने स्वकं मन्त्रं सूर्यवत् खस्थितं स्मरेत् ॥ ८१ ॥
View Verse
दर्शयित्वा करौ तस्य ताभ्यां सर्वाऽङ्गकं स्पृशेत् ।
अपास्य प्रोच्चरन् वर्म मृल्लेपं वारिणाऽङ्गगम् ॥ ८२ ॥
View Verse
दर्भपुञ्जीलमादाय दक्षिणेन करेण तु ।
जले त्वावर्त्य तन्मन्त्रं सकृद्वा बहुशो द्विधा ॥ ८३ ॥
View Verse
ततः कुम्भाभिषेकं वा पाणिकुम्भोदराम्बुना ।
स हिता वर्तितेनैव अभिषेकं तु मूर्धनि ॥ ८४ ॥
View Verse
श्रोत्रदृग्वदनं नासां स्वकराङ्गुलिभिः क्रमात् ।
स्थगयित्वा निमज्याथ साङ्गं मन्त्रमथोच्चरन् ॥ ८५ ॥
View Verse
सकृद्वा बहुशः शक्त्या ध्यायेज्ज्योतिर्मयं हरिम् ।
देवं हृत्पुष्करान्तस्थं नेत्रयोरथ चान्तरे ॥ ८६ ॥
View Verse
सर्वपापनिरासार्थं कृत्वैवमघमर्षणम् ।
प्राणायामैस्त्रिभिर्द्वाभ्यामेकेन नियतेन वा ॥ ८७ ॥
View Verse
समुत्थायाचरेत् पश्चात् सन्निरीक्ष्यार्कमण्डलम् ।
मन्त्रमूर्तिर्महातेजाः समुत्तीर्य जलान्तरात् ॥ ८८ ॥
View Verse
स्नानवस्त्रं परित्यज्य परिधायाम्बरान्तरम् ।
शिखयाऽथ शिखाबन्धं कृत्वाऽचम्य यथाविधि ॥ ८९ ॥
View Verse
अङ्गुष्ठमूलं ब्राह्मं तु अङ्गुल्यग्रं तु दैविकम् ।
पैतृकं हस्तमध्यं तु तीर्थं दक्षिणहस्तजम् ॥ ९० ॥
View Verse
ब्राह्मेण तु पिबेत्तोयं पैतृकेन तु मार्ज्रयेत् ।
दैविकेन स्पृशेदङ्गान् येषां तृप्तिं यदीच्छति ॥ ९१ ॥
View Verse
त्रिधा चतुर्धा वा विप्र द्विरामृज्य मुखं पुनः ।
वामहस्ततलं प्रोक्ष्य पादयोश्च तले शुभे ॥ ९२ ॥
View Verse
तलेन हृदयं स्पृष्ट्वा मुखमङ्गुलिभिस्तथा ।
अङ्गुष्ठानामिकां कृत्वा नेत्रे स्पृष्ट्वा च वारिणा ॥ ९३ ॥
View Verse
तेनैव तर्जनीं कृत्वा तथा द्वे नासिकापुटे ।
कनिष्ठिकां तथा कृत्वा तेनैव श्रवणं स्पृशेत् ॥ ९४ ॥
View Verse
तथैव मध्यमां कृत्वा बाहुदेशावुभौ स्पृशेत् ।
तेनैव नाभिदेशं च सवैर्युक्तैः शिरः स्पृशेत् ॥ ९५ ॥
View Verse
एतदाचमनं प्रोक्तं सर्वकर्मसु सर्वदा ।
सजलं दक्षिणं हस्तं कृत्वा घ्राणाग्रगं मुने ॥ ९६ ॥
View Verse
स्मरन् हृन्मन्त्रमाघ्राय सन्धार्य कवचं लपन् ।
विरेच्य समुदीर्यास्त्रं तोयक्षेपेण वै सह ॥ ९७ ॥
View Verse
ततस्तु हस्तयोर्देहे न्यासं कुर्याद्यथाग मम् ।
हृदा वामकरे तोयमादाय गलितं च तत् ॥ ९८ ॥
View Verse
विबुधानूर्ध्वदेहस्थान् ह्लादयेच्छिखया क्षिपन् ।
स्मरन्नस्त्रं क्षिपेद्भूमौ दुष्टदोषप्रशान्तये ॥ ९९ ॥
View Verse
अन्तरान्तरयोगेन ह्यूर्ध्वान्तं प्रागधस्ततः ।
जलाञ्जलिमथादाय स मन्त्रेण हरिं स्मरन् ॥ १०० ॥
View Verse
सूर्यमण्डलमध्यस्थं तर्पयेत्तेन वारिणा ।
सकुशोर्ध्वकरश्चाथ विनिमीलितदृग्जपन् ॥ १०१ ॥
View Verse
सूर्यं निरीक्षयेन्मन्त्रं यदर्ध्येणार्चितं पुरा ।
ततोपविश्य सन्तर्प्य आ धारासनपूर्वकम् ॥ १०२ ॥
View Verse
साङ्गं सपरिवारं च मन्त्रं तदनु वै क्रमात् ।
इन्द्रादीन् विष्णुपूर्वांश्च वासुदेवादिकानपि ॥ १०३ ॥
View Verse
मूर्तीर्द्वादशशक्तीश्च परमात्मानमेव च ।
पृथिव्यादीनि भूतानि ऋषींश्च पितृभिस्सह ॥ १०४ ॥
View Verse
आदौ नाम द्वितीयान्तं तर्पयामीति चोच्चरन् ।
एष मन्त्रस्तु निर्दिष्टस्तर्पणेषु यथाक्रमम् ॥ १०५ ॥
View Verse
तिलोदकैस्तर्पयित्वा स्वपितॄंश्च पितामहान् ।
प्रपितामहसंज्ञांश्च सदाराननुतर्पयेत् ॥ १०६ ॥
View Verse
तर्पयेत्सर्वपितॄणां दक्षिणाभिमुखेन तु ।
देवानां च तदन्येषां प्राङ्मुखो वाऽप्युदङ्मुखः ॥ १०७ ॥
View Verse
पवित्रकं त्यजेत् पश्चात् पुनराचम्य मन्त्रवित् ।
सायं प्रातर्दिशो वन्द्याद्ध्यात्वा नारायणं प्रभुम् ॥ १०८ ॥
View Verse
करशुद्धिसमोपेतं दिग्बन्धं चावकुण्ठनम् ।
प्राणायामादिकं कुर्याद्भुतशुद्धिसमन्वितम् ॥ १०९ ॥
View Verse
मन्त्रन्यासं ततः कृत्वा मुद्रां बध्वा स्मरेद्धरिम् ।
जलमध्येऽपि यागस्य भोगैश्चैवासनादिकैः ॥ ११० ॥
View Verse
ततो मन्त्री समभ्यर्च्य पत्रपुष्पफलैर्विभुम् ।
संभवे सति पुष्पाणां विहितं तत्र चार्चनम् ॥ १११ ॥
View Verse
औदकेनोपचारेण भावनाभावितेन च ।
तर्पयेदम्भसा प्राग्वद्धोमभावनयाऽखिलम् ॥ ११२ ॥
View Verse
एवं कृत्वा जगन्नाथं समिद्दानं समाचरेत् ।
जुहुयाच्च यथाशक्ति ततस्तिलघृतादि यत् ॥ ११३ ॥
View Verse
न्यूनातिरिक्तशान्त्यर्थं सर्वकर्मसमाप्तये ।
पूर्णाहुत्यवसानान्तं कुर्याद्वै जलतर्पणे ॥ ११४ ॥
View Verse
स्तुत्वा च प्रणमेद्विप्र अष्टाङ्गेनाथ दण्डवत् ।
दूर्वां सिद्धार्थकोपेतां शिखामन्त्राभिमन्त्रिताम् ॥ ११५ ॥
View Verse
चूड्योत्तमाङ्गे शिरसा उपसंहृत्य सासनम् ।
वाच्यं जलात् स्वहृद्व्योम्नि मनसा निष्कलात्मना ॥ ११६ ॥
View Verse
कृत्वाभिगमनं कृत्यं सन्यसेच्च विचक्षणः ।
कुर्याद्भोगार्जनं पश्चान्यायोपायसमार्जितम् ॥ ११७ ॥
View Verse
मूलेन वाऽस्त्रमन्त्रेण पुष्पमूलफलादिकम् ।
अवपन्नं त्वभिमतमनाप्तं भावदूषितम् ॥ ११८ ॥
View Verse
व्यामिश्रहीनसंस्पृष्टं शुक्तं लीढं च वर्जयेत् ।
सम्यक् पूरकयुक्त्या तु धिया वाचकमुच्चरन् ॥ ११९ ॥
View Verse
अपामार्गशमीशाखायुग्मं संभ्राम्य मूर्धनि ।
सव्यापसव्ययोगेन पृष्ठतोऽस्त्रं पठन् क्षिपेत् ॥ १२० ॥
View Verse
स्नानवस्त्रं च निष्पीड्य ततश्चाचम्य वाग्यतः ।
इत्युक्तमौदकं स्नानमथ मान्त्रं निबोध मे ॥ १२१ ॥
View Verse
तोयाभावे च यत्कुर्याद्दुर्गे काले तु शीतले ।
गमने क्षिप्रसिद्धौ वा गुरुकार्येऽस्वतन्त्रताम् ॥ १२२ ॥
View Verse
प्राप्तां वा वीक्ष्य विप्रेन्द्र निशाभागे दिनस्य वा ।
प्रक्षाल्य पादावाचम्य प्रोद्धृतेन च वारिणा ॥ १२३ ॥
View Verse
स्थानं दश दिशः प्राग्वत् संशोध्योपविशेत्ततः ।
प्राणायामगणं कुर्याद्भुतशुद्धिं ततस्तनौ ॥ १२४ ॥
View Verse
मूलमन्त्रादितः कुर्यात् सर्वमन्त्रगणेन तु ।
केवलादुदकस्नानात् संस्कारपरिवर्जितात् ॥ १२५ ॥
View Verse
प्रयागादिषु तीर्थेषु यत्फलं कुरुते द्विज ।
स्नानाच्छतगुणं तस्मान्मन्त्रस्नानस्य सत्तम् ॥ १२६ ॥
View Verse
ध्यानस्नानमथो वक्ष्ये द्वाभ्यामपि परं तु यत् ।
खस्थितं पुण्डरीकाक्षं मन्त्रमूर्तिं प्रभुं स्मरेत् ॥ १२७ ॥
View Verse
तत्पादोदकजां धारां पतमानां हि मूर्धनि ।
चिन्तयेद्ब्रह्मरन्ध्रेण प्रविशन्तीं स्वकां तनुम् ॥ १२८ ॥
View Verse
तया संक्षालयेत् सर्वमन्तर्देहगतं मलम् ।
तत्क्षणाद्विरजा मन्त्रीजायते स्फटिकोपमः ॥ १२९ ॥
View Verse
ध्यानस्नानं परं मन्त्रस्नानाच्छतगुणं स्मृतम् ।
सध्यानस्नानमित्युक्तं दिव्यस्नानादिकं श्रृणु ॥ १३० ॥
View Verse
सहातपेन वर्षेण स्नानं दिव्यमनन्तरम् ।
समिधां दीपितानां च गोमयस्य हुत स्य च ॥ १३१ ॥
View Verse
सितेन भस्मनाऽङ्गेषु ललाटादिषु च क्रमात् ।
यदूर्ध्वपुण्ड्रकरणं मन्त्रोच्चारणपूर्वकम् ॥ १३२ ॥
View Verse
दाहनं तु भवेत्स्नानं शोधनं परमं स्मृतम् ।
गच्छत्सु गोषु वातोत्थै रजोभिर्भूमिसंभवैः ॥ १३३ ॥
View Verse
स्पर्शनं वपुषः स्नानं वायव्यं तदुदाहृतम् ।
प्रशस्ते पर्वताग्रादौ जातया श्वेतमृत्स्नया ॥ १३४ ॥
View Verse
उच्चार्य केशवादीनि नामान्यङ्गे यथाक्रमम् ।
ललाटादौ यद्विधानमूर्ध्वपुण्ड्रस्य तत्स मम् ॥ १३५ ॥
View Verse
पार्थिवस्नानमित्येवं सर्वपापहरं शुभम् ।
तस्मादेकतमं कार्यं स्नानं श्रद्धापरेण तु ॥ १३६ ॥
View Verse
स्नानाचमनशौचेन प्राणायामेन देशिकः ।
अन्तर्बहिः शरीरस्य साधकस्तु विशुध्यति ॥ १३७ ॥
View Verse
स्नानपूर्वाः क्रियाः सर्वाः फलसंसिद्धिहेतवः ।
तस्मात्स्नानं प्रकुर्वीत देवर्षिपितृतर्पणम् ॥ १३८ ॥
View Verse

Chapter 3

। । श्रीः ।
तृतीयोऽध्यायः ।
सास्त्रं दूर्वाङ्कुरं दत्वा पत्रं पुष्पं तिलांस्तु वा ।
सोदकानात्मनो मूर्ध्नि शिखास्थाने च सत्तम ॥ १ ॥
View Verse
ततः कलशपूर्वं तु अम्बुपूर्णं तु भाजनम् ।
समादायाम्बरच्छन्नं पाणिना भगवद्गृहम् ॥ २ ॥
View Verse
एकान्तं निर्जनं यायान्मनोज्ञं दोषवर्जितम् ।
अनुकूलं शुचिं दक्षं संयतं समये स्थितम् ॥ ३ ॥
View Verse
एकायनं वैदिकं वा ब्राह्मणं चार्ध्यवाहकम् ।
हृन्मध्यस्थं स्मरन्मन्त्रं प्रबुद्धानन्दविग्रहम् ॥ ४ ॥
View Verse
दिगन्तरमवीक्षन् वै मौनी संरोधितानिलः ।
प्राप्य स्थानं स्वमन्त्रं तं नासाग्रेण विरेचयेत् ॥ ५ ॥
View Verse
उच्चरन्द्वादशार्णं तु प्रविश्यान्तः प्रदक्षिणम् ।
प्रासादोद्देशमखिलं मार्जयेत् प्रोक्षयेत्ततः ॥ ६ ॥
View Verse
परिचारैस्तु कर्तव्यं बलिपीठान्तमेव हि ।
द्वाराद्बाह्ये यथाशास्त्रं शुद्धेन सलिलेन च ॥ ७ ॥
View Verse
आजानुपादौ प्रक्षल्य हस्तौ चामणिबन्धनात् ।
पूर्वोक्तेन विधानेन समाचम्योर्ध्वुण्ड्रकैः ॥ ८ ॥
View Verse
चन्दनाद्यैः सुगन्धैर्वा धर्मक्षेत्रे विशेषतः ।
पर्वताग्रे नदीतीरे सिन्धुतीरे तथैव च ॥ ९ ॥
View Verse
वल्मीके तुलसीमूले प्रशस्ता मृत्तिका द्विज ।
वश्यार्थी रक्तया श्रीच्छन् पीतया शान्तिकामिकः ॥ १० ॥
View Verse
श्यामया मोक्षकामी च श्वेतया चोर्ध्वपुण्ड्रकम् ।
वर्तिदीपाकृतिं चैव वेणुपत्राकृतिं यथा ॥ ११ ॥
View Verse
पद्मस्य मुकुलाकारमुत्पलं मुकुलाकृति ।
मत्स्यकूर्माकृतिं चैव शङ्खाकारमतः परम् ॥ १२ ॥
View Verse
पुष्टिप्रदेनाङ्गुष्ठेन तर्जन्या मुक्तिसिद्धये ।
वाञ्छितार्थप्रदायिन्या मुनेऽनामिकयाऽथ वा ॥ १३ ॥
View Verse
आयुष्कामी मध्यमया अङ्गुल्या चअथ देवता ।
एताभिरङ्गुलीभिस्तु कारयेन्न नखैः स्पृशेत् ॥ १४ ॥
View Verse
ललाटे वासुदेवं च हृदि संकर्षणं न्यसेत् ।
प्रद्युम्नं दक्षिणे चांसे अनिरुद्धोत्तरांसके ॥ १५ ॥
View Verse
जलनिर्मथितेनैव ह्यूर्ध्वपुण्ड्रचतुष्टयम् ।
ललाटे केशवं विद्यान्नारायणमथोदरे ॥ १६ ॥
View Verse
माधवं हृदये कुर्याद्गोविन्दं कण्ठकूपके ।
उदरे दक्षिणे पार्श्वे विष्णुरित्यभिधीयते ॥ १७ ॥
View Verse
तत्पार्श्वे बाहुमध्ये तु मधुसूदन इष्यते ।
त्रिविक्रमं काण्ठकूपे वामे कुक्षौ तु वामनम् ॥ १८ ॥
View Verse
श्रीधरं वामबाहौ च हृषीकेशं तु कण्ठके ।
अपरे पद्मनाभं तु ककुद्दामोदरं स्मरेत् ॥ १९ ॥
View Verse
एवं द्वादशनामं तु वासुदेवं तु मूर्धनि ।
यज्ञो दानं तपो होमो भोजनं पितृकर्म च ॥ २० ॥
View Verse
तत्सर्वं निष्फलं प्रोक्तमूर्ध्वपुण्ड्रविनाकृतम् ।
तस्मात्सर्वप्रयत्नेन धारयेत्सर्वसिद्धिदम् ॥ २१ ॥
View Verse
चतुरङ्गुलमग्रं तु सदाविष्ण्वधिदैवतम् ।
महाविष्ण्वधिदैवस्तु ग्रन्थिरेकाङ्गुलो भवेत् ॥ २२ ॥
View Verse
विष्ण्व धिदैवं वलयं द्वयमङ्गुलमुच्यते ।
पवित्रं हस्तयुग्मे चानामिकायां नियोजयेत् ॥ २३ ॥
View Verse
दर्भैर्विना तु यत्स्नानं विना नैवेद्यमर्चनम् ।
विनोदकं तु यद्दानं तत्सर्वं निष्फलं भवेत् ॥ २४ ॥
View Verse
अर्चनं जपहोमौ च दानं च पितृतर्पणम् ।
अपवित्रानुपाणिश्चेत् तत्सर्वं च विनश्यति ॥ २५ ॥
View Verse
तस्मात् सर्वप्रयत्नेन सदा धार्यं पवित्रकम् ।
गन्धैः स्रग्भिरलङ्कारै सोत्तरीयैश्च भूषितः ॥ २६ ॥
View Verse
कर्णभूषणहाराद्यैः कटकैरङ्गुलीयकैः ।
अलाभे त्वङ्गुलीयेन अलङ्कृत्य तु साधकः ॥ २७ ॥
View Verse
वदनं नासिकारन्ध्रे स्थगयित्वाऽम्बरेण तु ।
स्वश्वासोपहतं चैव न भवेच्च यथा द्विज ॥ २८ ॥
View Verse
शुक्लवासाः सुवेषश्च शुक्लदन्तः शुचिव्रतः ।
ताम्बूलशुद्धवदनो ललाटे चाक्षतैर्युतः ॥ २९ ॥
View Verse
एवमुक्तगुणैर्युक्तो बोधयेत् पुरुषोत्तमम् ।
शङ्खध्वनिसमोपेतं दुन्दुभीपटहस्वनैः ॥ ३० ॥
View Verse
वन्दिबृन्दोत्थितोच्चाबिर्नानावाग्भिर्महामते ।
महाजयजयारावैः पुनःपुनरुदीरितैः ॥ ३१ ॥
View Verse
प्रवोधलक्षणैः स्तोत्रैरुत्थाप्य शयनात्ततः ।
द्वारमासाद्य तत्रस्थो दशदिग्बन्धपूर्वकम् ॥ ३२ ॥
View Verse
अवकुण्ठ्याथ तर्जन्या मन्त्रं कवचमुच्चरन् ।
स्थिते वा कल्पिते तत्र पूजयेद्बलिमण्डले ॥ ३३ ॥
View Verse
सर्वं खगेशपूर्वं तु परिवारं हि साच्युतम् ।
नमसा प्रणवाद्येन पुष्पमादाय कीर्तयेत् ॥ ३४ ॥
View Verse
समस्तपरिवाराय अच्युताय नमो नमः ।
वास्तुपूरुषमन्यांश्च समभ्यर्च्य यथाक्रमम् ॥ ३५ ॥
View Verse
मूलमन्त्रेण साङ्गेन निरङ्गेनाथवा ततः ।
न्यासं कगृत्वा त्रिराचार्यो हस्ततालं हृदा ततः ॥ ३६ ॥
View Verse
मूलमन्त्रेण चोद्धाट्य कवाटं नेत्रमन्त्रतः ।
नित्यदीपांस्ततोज्ज्वाल्य हस्तौ प्रक्षाल्य वारिणा ॥ ३७ ॥
View Verse
प्रासादादि यदा न स्यात्तदा देशं मनोहरम् ।
आसाद्य कल्पयेन्मान्त्रं गृहं तदधुनोच्यते ॥ ३८ ॥
View Verse
मूलमन्त्रं पुरा ध्यायेद्ब्रह्मवत् सर्वगं ततः ।
विदिक्षु दिक्षु मध्ये च ज्वलन्तं भानुकोटिवत् ॥ ३९ ॥
View Verse
हृन्मन्त्रं च तदन्तस्थमाक्रम्याखिलमात्मना ।
शिरोमन्त्रं च तन्मध्ये ब्रह्मनाडीस्वरूपिणम् ॥ ४० ॥
View Verse
स्तम्भभूतं तु विश्वस्य संचाराध्ववदुज्ज्वलम् ।
शिखामन्त्रं च सर्वस्माद्बहिः प्रकारवत् स्थितम् ॥ ४१ ॥
View Verse
वर्ममन्त्रं तु कर्मात्मा परमात्मानुवेधयेत् ।
गवाक्षद्वारभूतं च नेत्रमन्त्रं च भावयेत् ॥ ४२ ॥
View Verse
स्फुरद्वह्निस्फुलिङ्गोर्मिसहस्रपरिराजितम् ।
सर्वविघ्नप्रशमनं बहिरस्त्रं च भावयेत् ॥ ४३ ॥
View Verse
एवं मान्त्रगृहं ध्यात्वा ततो द्वारं तु चेतसा ।
त्रिभागीकृत्य तन्मध्ये भागमेकं द्विधा पुनः ॥ ४४ ॥
View Verse
विभज्य वामदेशेन दक्षिणेनाङ्घ्रिणा ततः ।
शनैः शनै प्रविश्यान्तः सास्त्रमन्त्रेण तेन वै ॥ ४५ ॥
View Verse
धरणीहननं कृत्वा भगवन्तं प्रणम्य च ।
मनसा गुरुवंशं च तदाज्ञां मानसीमथ ॥ ४६ ॥
View Verse
शिरसा धारयेत् स्वेष्टं फलं संकल्प्य चेतसा ।
देवाय च निवेद्यै तत् यागागारस्य मध्यतः ॥ ४७ ॥
View Verse
प्रासादं विग्रहं क्लृप्त्वा वर्ममन्त्रं सविग्रहम् ।
तज्जीवं भगवन्तं च ध्यात्वा यागगृहं ततः ॥ ४८ ॥
View Verse
सशलाकैस्ततो दर्भैः सहदेवीविमिश्रितैः ।
संमार्ज्य बहुतोयेन प्रक्षाल्याऽलिप्य गोमयैः ॥ ४९ ॥
View Verse
गोमयं च नवं ग्राह्यं भूमिष्ठं धेनुसंभवम् ।
सजलं शिथिलं शुष्कं कीठवच्च विवर्जयेत् ॥ ५० ॥
View Verse
उपलिप्तमथास्त्रेण संविध्य शकलं त्यजेत् ।
पञ्चगव्येन सास्त्रेण वारा वा प्रोक्ष्य चन्दनैः ॥ ५१ ॥
View Verse
कुङ्कुमागरुकर्पूरैः समालिप्य समन्ततः ।
कुशदूर्वाक्षतांश्चैव विकिरेत् स्थानशुद्धये ॥ ५२ ॥
View Verse
प्रासादं शोधयित्वा तु ततो मौनपरो द्विज ।
देवेशस्याग्रतो वाऽपि दक्षिणं भागमाश्रयेत् ॥ ५३ ॥
View Verse
दर्भे चर्मणि वस्त्रे वा फलके यज्ञकाष्ठजे ।
स्वासनं न्यस्यनं वार्भि श्च मूलमन्त्राभिमन्त्रितैः ॥ ५४ ॥
View Verse
प्रोक्ष्य छोटिकयाऽस्त्रेण दद्यात्तच्छुद्धये पुनः ।
तुर्यादीनां तु तत्रैकं भावयेदासनं त्वथ ॥ ५५ ॥
View Verse
तुर्यं नामऽसनं पूर्वं कारणप्रणवा न्वितम् ।
सुषुप्तिर्नाम तद्व्याप्ताव्यक्तपङ्कजसंस्थितिः ॥ ५६ ॥
View Verse
स्वप्नः शेषाहिपूर्वं तु वह्निपर्यन्तमासनम् ।
क्षीरार्णवादितो भावासनान्तं जाग्रदासनम् ॥ ५७ ॥
View Verse
तत्र सुप्तं तुरीयं वा करशुद्धेः पुरा स्मरेत् ।
स्वप्नं मानसयागात्तु पूर्वं तुर्योक्तकालतः ॥ ५८ ॥
View Verse
जाग्रदासनकल्पे तु विशेषो गृह्यतामयम् ।
स्वदेहमन्त्रविन्यासात् पूर्वमब्ध्यादिकं त्रयम् ॥ ५९ ॥
View Verse
न्यसेदस्त्राम्बुना प्रोक्ष्य ताडयित्वाऽस्त्रपुष्पतः ।
तत्रैव भगवद्योगपीठार्चायाः पुरोत्तिरम् ॥ ६० ॥
View Verse
न्यसेदाधारशक्त्यादि भावपीठान्तमासनम् ।
प्रणवेनाथ तद्व्याप्तिं स्मृत्वा स्वार्णेन तेन वै ॥ ६१ ॥
View Verse
अभ्यर्च्य तदुपर्यास्यपद्माद्येकतमान्वितम् ।
यागोपस्करसंभूतौ भगवन्तमनुस्मरन् ॥ ६२ ॥
View Verse
विनीतान् शिष्यपुत्रादीन् स्नातानाज्ञापयेत्तदा ।
पात्रशुद्धिं ततः कुर्याद्यथा तच्छृणु सत्तम ॥ ६३ ॥
View Verse
अम्लकल्केन तोयेन हेमं ताम्रं च शोधयेत् ।
राजतं गृहधूमेन शान्ताङ्गारेण वा पुनः ॥ ६४ ॥
View Verse
भस्ममिश्रेण तोयेन लोहयुक्तं बिशोधयेत् ।
शङ्खशुक्तिमयानां च लवणेव विशोधयेत् ॥ ६५ ॥
View Verse
फलपत्रमयानां च मृद्भिरद्भिश्च शोधयेत् ।
लेपगन्धापनोदेन शुद्धिर्भवति कारयेत् ॥ ६६ ॥
View Verse
द्रव्यशुद्धिर्भवत्येवं यथावद्विधि चोदिता ।
अथार्कोदयकालस्य पूर्वं कर्म समारभेत् ॥ ६७ ॥
View Verse
प्रच्छन्नपटसंयुक्तं पूजाकाले प्रपूजयेत् ।
पापिष्ठानाश्रमभ्रष्टान्नास्तिकान् वै न दर्शयेत् ॥ ६८ ॥
View Verse
आगमार्थं च देवानां गमनार्थं च रक्षसाम् ।
कुर्याद्घण्टारवं तत्र देवताह्वानलाञ्छनम् ॥ ६९ ॥
View Verse
शङ्खादिघोषसंयुक्तं गेयवाद्यसमन्वितम् ।
आवाहने तथाऽभ्यङ्गे स्नानारम्भावसानयोः ॥ ७० ॥
View Verse
तथा तिलकदाने च दीपे मात्रानिवेदने ।
नीराजने त्वाहरणे नैवेद्यस्य महानसात् ॥ ७१ ॥
View Verse
तन्निवेदनकाले तु पूर्णाहुत्यवसानके ।
जलाहरणकाले च यानारोहावरोहयोः ॥ ७२ ॥
View Verse
कवाटयोर्विघटने तथा बन्धे द्विजोत्तम ।
एतेषु नित्यकालेषु शङ्खमापूरयेत् त्रिधा ॥ ७३ ॥
View Verse
प्रवृत्तस्यार्चने विष्णोः कृतमौनस्य तत्वतः ।
तस्याविक्षिप्तबुद्धेर्वै वाग्दानं सुविरोधकृत् ॥ ७४ ॥
View Verse
अतः सव्यभिचारं तु मौनं वर्ज्यं क्रियापरैः ।
शुभमव्यभिचारं यत्तत्कार्यं सर्ववस्तुषु ॥ ७५ ॥
View Verse
यदङ्गसंकेतमयैरव्यक्तैर्नासिकाक्षरैः ।
कृतमोष्ठपुटैर्बद्धैर्मौनं तत्सिद्धिहानिकृत् ॥ ७६ ॥
View Verse
स्वयमेव स्वबुद्ध्या यत्सर्ववस्तुषु वर्तते ।
शब्दैरनुपदिष्टैस्तु तन्मौनं सर्वसिद्धिदम् ॥ ७७ ॥
View Verse
करशुद्धिं ततः कुर्याद्यथाव दवधारय ।
द्वे तले हस्तपृष्ठे द्वे सर्वाश्चाङ्गुलयस्तथा ॥ ७८ ॥
View Verse
अस्त्रमन्त्रेण संशोध्य ध्यानमुद्रान्वितेन तु ।
कृत्वैवं करशुद्धिं च स्थानशुद्धिं समाचरेत् ॥ ७९ ॥
View Verse
ध्यात्वा देवं ज्वलद्रपं सहस्रार्कसमप्रभम् ।
ज्वालाकोटिसमाकीर्णं वमन्तं ज्वलनं मुखात् ॥ ८० ॥
View Verse
तेन संपूरयेत् सर्वमाब्रह्मभवनान्तिमम् ।
दिगोघं प्रज्वलन्तं च भावयेन्मन्त्रतेजसा ॥ ८१ ॥
View Verse
क्ष्मामण्डलमिदं सर्वं स्मरेत् पक्वं च वह्निना ।
मन्त्रजेन द्विजश्रेष्ठ मृण्मयं भाजनं यथा ॥ ८२ ॥
View Verse
स्थानशुद्धिर्भवत्येवं सुधाकल्लोलसेचनात् ।
भावयेदथ दिग्बन्धं कुर्यादास्ये तु पावकम् ॥ ८३ ॥
View Verse
किरन्तमस्त्रमन्त्रं च बाहुभ्यां दक्षिणेन वा ।
दिग्विदिक्षु च सर्वत्र विरेच्य स्वासनाद्बहिः ॥ ८४ ॥
View Verse
शरजालचिताकारं प्राकारं बन्धयेद्बुधः ।
यद्वा तु पूर्ववत् कुर्याद्दिग्बन्धं हृदयादिकैः ॥ ८५ ॥
View Verse
अस्त्रेण वै विदिग्बन्धं नेत्रेण तु अथोर्ध्वतः ।
आदित्यायुतदीप्तेन ज्वलत्कञ्चुकरूपिणा ॥ ८६ ॥
View Verse
कवचेन तु तर्जन्या रक्षार्थमवकुण्ठयेत् ।
एवं कृत्वा तु दिग्बन्धं प्राणायाममथारभेत् ॥ ८७ ॥
View Verse
प्रमाथिनो दृढस्याथ चञ्चलस्य तु चेतसः ।
समाधियोग्यतासिद्ध्यै प्राणादिविजयाय च ॥ ८८ ॥
View Verse
तमोनि र्हरणार्थाश्च कुर्यात् प्राणायतीरथ ।
शरीरे नाडिसंस्थानं तथा प्राणादिसंस्थितम् ॥ ८९ ॥
View Verse
प्राणायामस्वरूपं च ज्ञात्वा यामान् समाचरेत् ।
नाडीचक्रं प्रवक्ष्यामि यथावन्मुनिपुङ्गव ॥ ९० ॥
View Verse
नाडीनां कन्दनाभिः स्यादुत्पत्तिस्थानमुत्तमम् ।
द्विसप्ततिसहस्राणि नाडयोऽन्तर्व्यवस्थिताः ॥ ९१ ॥
View Verse
तिर्यगूर्ध्वमधश्चैव देहं व्याप्य व्यवस्थिताः ।
आग्नेयाः सौम्यरूपाश्च सौम्याग्नेयास्तथैव च ॥ ९२ ॥
View Verse
आग्नेया ऊर्ध्ववदनाः सौम्यसंज्ञा अधोमुखाः ।
तिर्यग्गता नाडयस्तु सौम्याग्नेया उदाहृताः ॥ ९३ ॥
View Verse
नाडीनामपि सर्वासां प्रधाना दश नाडयः ।
इडा च पिङ्गला चैव सुषुम्ना चोर्ध्वगामिनी ॥ ९४ ॥
View Verse
गान्धारी हस्तिजिह्वा च पूषा चैव यशस्विनी ।
अलम्बुसा कुहूश्चैव को शिनी दशमी स्मृता ॥ ९५ ॥
View Verse
सुषुम्नाख्या मध्यनाडी कन्दादूर्ध्वप्रवाहिनी ।
मध्यनाड्याः सुषुम्नाया वामदक्षिणतः स्थिते ॥ ९६ ॥
View Verse
इडपिङ्गलसंज्ञे द्वे ते तु नासापुटावधी ।
पुरतः पृष्ठतस्तस्या गान्धारी हस्तिजिह्वके ॥ ९७ ॥
View Verse
वामेतराक्ष्यवधिके कन्ददेशात् समुत्थिते ।
पूषायशस्विन्याख्ये द्वे सव्यान्यश्रोत्रनिष्ठिते ॥ ९८ ॥
View Verse
कन्दाद्वै पादमूलान्ता संस्थिता स्यादलम्बुसा ।
कुहूर्मेढ्रान्तपर्यन्ता पादाङ्गुष्ठे तु कोशिनी ॥ ९९ ॥
View Verse
शुक्लेडा पिङ्गला रक्ता गान्धारी पीतवर्णका ।
हस्तिजिह्वा कृष्णरूपा पूषा स्यात् कृष्णपीतका ॥ १०० ॥
View Verse
यशस्विनी श्यामवर्णा बभ्रुवर्णा ह्यलम्बुसा ।
कुहूररुणसंकाशा कोशिनी ह्यञ्जनप्रभा ॥ १०१ ॥
View Verse
एवं दशप्रधानास्तु नाडयः परिकीर्तिताः ।
वायवो दश संप्रोक्ताः शरीरे नाडिषु स्थिताः ॥ १०२ ॥
View Verse
प्राणोऽपानः समानश्च उदानो व्यान एव च ।
नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः ॥ १०३ ॥
View Verse
इडाख्या वहति प्राणं गान्धार्याख्या अपानकम् ।
अलम्बुसा समानं तु कुहूर्व्यानं द्विजोत्तम ॥ १०४ ॥
View Verse
उदानं तु सुषुम्नाख्या पिङ्गला नागसंज्ञितम् ।
पूषा वायुं तु कूर्माख्यं कृकरं तु यशस्विनी ॥ १०५ ॥
View Verse
हस्तिजिह्वा देवदत्तं कोशिनी तु धनञ्जयम् ।
विद्रुमाभौ प्राणनागाविन्द्रकोपोपमावुभौ ॥ १०६ ॥
View Verse
कूर्मापानौ खसंकाशौ समानकृकरावुभौ ।
कॢञ्जल्कसदृशौ देवदत्तोदानौ धनंजयः ॥ १०७ ॥
View Verse
व्यानश्च फेनवर्णाभः सर्वशास्त्रेषु निश्चयः ।
अथ प्राणायतिःसा च निश्वासोच्छ्वासयोर्गतेः ॥ १०८ ॥
View Verse
स्तम्भनं तत्र निश्वासो बाह्यवातोपयोगिना ।
घ्राणेनानयनं वायोरन्तः कोष्ठानिलस्य च ॥ १०९ ॥
View Verse
बहिर्निष्कासनं नास्या उच्छ्वासो बुद्धिपूर्वकम् ।
अभ्यन्तरा स्तम्भवृत्तिर्वायोरन्तः प्रपूरणम् ॥ ११० ॥
View Verse
बाह्यं तु तद्वत् प्रथमं प्राणसंरोधनं विदुः ।
अभ्यन्तराद्द्वितीयस्तु स्तम्भवृत्तिस्तृतीयकम् ॥ १११ ॥
View Verse
बाह्या तत्राधमा प्राणधारणा मध्यमा मता ।
अभ्यन्तरा स्तम्भवृत्तिरुत्तमा धारणा मता ॥ ११२ ॥
View Verse
सदा निश्वासरूपा तु बाह्या रेचकमुच्यते ।
अभ्यन्तरा समुच्छ्वासरूपा संपूरकस्तथा ॥ ११३ ॥
View Verse
श्वासोच्छ्वासनिरोधात्मा स्तम्भवृत्तिस्तु कुम्भकः ।
एकद्वित्रिभिरुद्घातैर्मृदुमध्यमतीक्ष्णकाः ॥ ११४ ॥
View Verse
क्रमेणैते भवन्त्यत्र प्राणादेर्नाभिदेशतः ।
उद्गतस्याहतिः पूर्वमुद्घातः स्याद्द्वितीयकम् ॥ ११५ ॥
View Verse
निवृत्तिरुदरादूर्ध्वं तस्य चाथ तृतीयकम् ।
अन्यत्र निग्रहोऽस्येह मृदुः पूर्वोऽथ मध्यमः ॥ ११६ ॥
View Verse
द्वितीयस्तु तृतीयोऽथ तीक्ष्णस्स्वेदादिकारणम् ।
प्राणायामगणं कुर्यात् पूर्वमस्त्रेण रेचकम् ॥ ११७ ॥
View Verse
तत्र द्वादशमात्रस्तु रेचकः पूरकः स्मृतः ।
चतुर्विशतिमात्रस्तु षट्त्रिंशन्मात्रकं विदुः ॥ ११८ ॥
View Verse
कुम्भकं चाथ भूयोऽपि केवलानिलनिःसृतिः ।
या सा प्राणायतिः साऽपि रेचकाख्या विधीयते ॥ ११९ ॥
View Verse
मात्राव्यतिक्रमान्न्यूना विपर्यासे तु साऽस मा ।
तस्मान्मात्राविशेषेण ज्ञातव्या प्राणजिष्णुना ॥ १२० ॥
View Verse
जानुं प्रदक्षिणीकृत्य न द्रुतं न विलम्बितम् ।
कुर्यादङ्गुलिविस्फोटं सा मात्रा परिकीर्तिता ॥ १२१ ॥
View Verse
प्राणायमगणं कुर्यात् पूर्वमस्त्रेण रेचकम् ।
पूरकं हृदयेनाथ नेत्रमन्त्रेण कुम्भकम् ॥ १२२ ॥
View Verse
प्रागुक्तेनाचरेद्भूयो रेचकं द्विजसत्तम ।
वामेतराङ्गुलीभ्यां तु पिदधद्वामनासिकाम् ॥ १२३ ॥
View Verse
नाभिदेशस्थितं ध्यायेन्मूलमन्त्रेण वै हरिम् ।
वासनादोषसंमिश्रान् दशप्राणान् सगर्भकान् ॥ १२४ ॥
View Verse
अगर्भश्च सगर्भश्च प्राणायामो द्विधा मतः ।
जपध्यानं विनाऽगर्भः सगर्भस्तद्युत श्च यः ॥ १२५ ॥
View Verse
अगर्भाद्गर्भसंयुक्तः प्राणायामः शताधिकः ।
आकृष्यास्त्रं समुच्चार्य दक्षिणघ्राणतो बहिः ॥ १२६ ॥
View Verse
रेचयेद्वातचक्रं तु दशनाडीष्ववस्थितम् ।
मात्रयैकैकयाऽन्योन्यं मोचयित्वाऽत्र पूषि काम् ॥ १२७ ॥
View Verse
द्वाभ्यां तु पिङ्गलां द्वाभ्यां बहिर्नाभ्यास्तु रेचयेत् ।
विरेच्यैवं हरिं तावत् संस्थाप्यादाय पावकम् ॥ १२८ ॥
View Verse
वातचक्रस्थितं ध्यायेत्तमेवान्तः प्रवेशयेत् ।
दक्षिणाङ्गुष्ठतो द्वारं पिदधद्वामनासया ॥ १२९ ॥
View Verse
हरिं सवातचक्रं तं मात्राभ्यामिडयोच्चरन् ।
हृन्मन्त्रमन्तः संवेश्य तं ध्यात्वा हृदये स्थितम् ॥ १३० ॥
View Verse
मात्राचतुष्टयेनाथ तेन वातेन पिङ्गलाम् ।
द्वाभ्यां सुषुम्नां गान्धारीं द्विद्विकाभिस्तु पूषिकाम् ॥ १३१ ॥
View Verse
द्वाभ्यां द्वाभ्यां हस्तिजिह्वालम्बुसे च यशस्विनीम् ।
कोशिनीं च कुहूं चैव क्रमात् संपूरयेत् गतीः ॥ १३२ ॥
View Verse
नासापुटादिकादूर्ध्वं नेत्रेणासीत कुम्भवत् ।
षट्त्रिंशद्भिस्तु मात्राभिरथ नाभ्यग्निमिश्रितैः ॥ १३३ ॥
View Verse
परिभ्रमद्भिः सर्वत्र तैर्वातैर्दोषसंहतीः ।
ध्यात्वा निरस्ता नाडीश्च शोधितास्तु शनैः शनैः ॥ १३४ ॥
View Verse
केवलं वातचक्रं तु बहिः प्राग्वद्विरेचयेत् ।
यद्वा षोडशमात्रा स्याद्रेचके द्विगुणः स्मृतः ॥ १३५ ॥
View Verse
पूरकः कुम्भकोऽपि स्यात् सचतुःषष्टिमात्रकः ।
नाडीस्ता मोचयेत् प्राग्वत् षण्मात्राभिस्तु पिङ्गलाम् ॥ १३६ ॥
View Verse
नाडीस्तु दश तन्त्रीभिः पञ्चमात्राभिरर्जयेत् ।
प्राणायाममिदं प्रोक्तमुत्तमादिविभेदतः ॥ १३७ ॥
View Verse
त्रिप्रकारे विधानेऽत्र यथासंभवमाचरेत् ।
प्राणायामत्रयं कृत्वा पञ्च वा सप्त वाऽथवा ॥ १३८ ॥
View Verse
भवेत् प्राणजयः पुंसः प्राणायामः स उच्यते ।
ततस्तु कायशुद्ध्यर्थं वर्णं भौमादि विन्यसेत् ॥ १३९ ॥
View Verse
भूतशुद्धिं श्रृणु मुने यथावदनुपूर्वशः ।
पृथ्व्यप्तेजोनिलाकाशं शरीरं भूतपञ्चकम् ॥ १४० ॥
View Verse
इन्द्रजालोपमं विद्धि ज्ञानाद्यैरुज्ज्ञितं गुणैः ।
मलिनं चास्वतन्त्रं च रेतोरक्तोद्भवं क्षयि ॥ १४१ ॥
View Verse
यावन्न शोधितं सम्यग्धारणाभिर्निरन्तरम् ।
तावदेतदयोग्यं स्यान्मन्त्रन्यासादिवस्तुषु ॥ १४२ ॥
View Verse
पञ्चभिर्धारणाभिर्वा द्वाभ्या वा शोधयेत्तनुम् ।
सुषुम्नादक्षिणद्वारान्निर्गमय्य हरिं बहिः ॥ १४३ ॥
View Verse
सहस्ररविसङ्काशं वृत्तमण्डलमध्यगम् ।
तप्तकाञ्चनवर्णाभमासीनं परमे पदे ॥ १४४ ॥
View Verse
मन्त्रात्मानं तु तं ध्यात्वा ह्युपरि द्वादशाङ्गुले ।
प्रभाचक्रं तु तदधस्तत्वाधिष्ठातृसंयुतम् ॥ १४५ ॥
View Verse
निष्कलं मन्त्रदेहं तु ध्यात्वा तु तदधःक्रमात् ।
तुर्यश्रां पीतलां भूमिं चिन्तयेद्वज्रलाञ्छिताम् ॥ १४६ ॥
View Verse
शब्दाद्यैः पञ्चभिर्युक्तां नगद्रुमसमाकुलाम् ।
पुरप्राकारसुसरिद्द्वीपार्णवपरिष्कृताम् ॥ १४७ ॥
View Verse
संविशन्तीं स्मरेद्बाह्यात् पूरकेण स्वविग्रहे ।
प्रोच्चरंश्चैव तन्मन्त्रं विश्रान्तामथ चिन्तयेत् ॥ १४८ ॥
View Verse
जान्वोः पादतलं यावत्तया व्याप्तं क्रमेण तु ।
कुम्भकेन द्विजश्रेष्ठ मन्त्रमूर्तौ स्वके ततः ॥ १४९ ॥
View Verse
शनैः शनैर्लयं यातां गन्धशक्तौ च मन्त्रराट् ।
गन्धशक्तिं च तां पश्चाद्रेचकेन बहिः क्षिपेत् ॥ १५० ॥
View Verse
तोयाख्ये च महाधारे ततस्तोयं च वैभवम् ।
ससमुद्रसरित्स्रोतोरसषटकं च सौषधिम् ॥ १५१ ॥
View Verse
यान्यन्यान्यम्बुभूतानि भूतानि भुवनान्तरे ।
अर्धचन्द्रसमाकारं कमलध्वजशोभितम् ॥ १५२ ॥
View Verse
वारुणं विभवं बाह्ये ध्यात्वा तेनाथ विग्रहम् ।
संपूर्य पूरकाख्येन करणेन शनैः शनैः ॥ १५३ ॥
View Verse
ऊरुमूलाच्च जान्वन्तं शारीरं मण्डलं स्वकम् ।
तेनाखिलं तु संव्याप्तं कुम्भकेन स्मरेद्द्विज ॥ १५४ ॥
View Verse
तन्मध्ये वारुणं मन्त्रं धारणाख्यं विचिन्त्य च ।
अम्मयं विभवं सर्वं तन्मन्त्रे विलयं गतम् ॥ १५५ ॥
View Verse
ततस्तं रसशक्तौ च सा शक्तिर्वह्निमण्डले ।
रेचकेन विनिक्षिप्य ततो वाह्नं च वैभवम् ॥ १५६ ॥
View Verse
त्रिकोणभुवनाकारं दीप्तिमद्भिर्विभूषितम् ।
विद्युच्चन्द्रार्कनक्षत्रमणिरत्नैश्च धातुभिः ॥ १५७ ॥
View Verse
स्वप्रकाशशरीरैस्तु अशरीरैश्च खेचरैः ।
चिह्नितं स्वस्तिकैर्दीप्तैर्ध्यात्वैवं विभवं महत् ॥ १५८ ॥
View Verse
तैजसं मुनिशार्दूल तन्मन्त्रं चाथ संस्मरेत् ।
तन्मण्डलान्तरस्थं तु प्रोच्चरन् वै तमेव हि ॥ १५९ ॥
View Verse
प्रविष्टं पूर्ववद्ध्यायेत्तेनैव करणेन तु ।
आनाभेः पायुपर्यन्तं व्याप्तं कृत्वाऽवधार्य च ॥ १६० ॥
View Verse
तं विप्र विभवं सर्वं तैजसं परिभावयेत् ।
तन्मन्त्रविग्रहे शान्तं तन्मत्रं चानलात्मकम् ॥ १६१ ॥
View Verse
रूपशक्तौ लयं यातं शक्तिः संविन्मयी च सा ।
तया मन्त्रशरीरं स्वं स्वशक्त्या विलयीकृतम् ॥ १६२ ॥
View Verse
रेचकेन तु तां शक्तिं वाय्वाधारे बहिः क्षिपेत् ।
ततस्तु वायवीयं वै विभवं बाह्यतः स्मरेत् ॥ १६३ ॥
View Verse
वृत्तं राजोपलाभं तु बिम्बैर्युक्तं तु तैजसैः ।
पूर्णं नानाविधैर्गन्धैरनेकैस्तद्गुणैस्तथा ॥ १६४ ॥
View Verse
स्वमन्त्रेण समाक्रान्तं धारणाख्येन संस्मरेत् ।
तथा स्वरूपं तन्मन्त्रं ध्यात्वोच्चार्य समाहरेत् ॥ १६५ ॥
View Verse
पूर्वोक्तकरणेनैवं घ्राणाग्रेण शनैः शनैः ।
आकण्ठं नाभिदेशान्तं तेन व्याप्तं तु भावयेत् ॥ १६६ ॥
View Verse
प्रागुक्तकरणेनैव वायव्यं विभवं तु तम् ।
अधिष्ठातृलयं यातं स्मृत्वा तं च महामते ॥ १६७ ॥
View Verse
स्पर्शाख्यायां महाशक्तौ तां शक्तिमविनश्वरीम् ।
व्याप्तिं नित्यामनित्यां च स्वशक्तिविभावान्विताम् ॥ १६८ ॥
View Verse
शब्दाख्ये तु महाधारे निक्षिपेद्व्योममण्डले ।
ध्यात्वाऽथ विभवं सर्वं व्योमाख्यं विग्रहाद्वहिः ॥ १६९ ॥
View Verse
नानाशब्दसमाकीर्णं नीरूपं चाञ्जनप्रभम् ।
अविग्रहैः शब्दमयैः पूर्णं सिद्धैरसंख्यकैः ॥ १७० ॥
View Verse
तन्मध्ये धारणामन्त्रं व्योमाख्यं संस्मरेद्द्विज ।
धारयन्तं स्वमात्मानं स्वसामार्थ्येन सवदा ॥ १७१ ॥
View Verse
शब्दमात्रमरूपं तु व्यापकं विभवेष्वपि ।
धिया च संपरिच्छिन्नं कृत्वा विन्यस्य विग्रहे ॥ १७२ ॥
View Verse
प्रागुक्तकरणेनैव तेन व्याप्तं च भावयेत् ।
आकण्ठाद्ब्रह्नरन्ध्रान्तं व्योमाख्यविभवेन च ॥ १७३ ॥
View Verse
सन्धार्य कुम्भकेनैव यावत्कालं तु योगिना ।
ध्यायेत् परिणतं पश्चात् स्वमन्त्रे तु महामुने ॥ १७४ ॥
View Verse
व्योमाख्यं धारणामन्त्रं शक्तौ पिरणतं स्मरेत् ।
॥ १७६ ॥
View Verse
तां शक्तिं ब्रह्मरन्ध्रेण प्रयान्तीमनुभावयेत् ।
युक्तां शक्तिचतुष्केण गन्धाद्येनाविनश्वरीम् ॥ १७७ ॥
View Verse
आश्रयेन्निष्कलं मन्त्रं तत्वाधिष्ठातृसंयुतम् ।
समन्त्रं विभवं भौतमेवमस्तं नयेत् क्रमात् ॥ १७८ ॥
View Verse
चैतन्यं जीवभूतं यत् प्रस्फुरत्तारकोपमम् ।
भावनीयं तु विश्रान्तं निःसृतं भूतपञ्जरात् ॥ १७९ ॥
View Verse
निष्प्रपञ्चे परे मन्त्रे पञ्चशक्त्याख्यविग्रहे ।
अनेन क्रमयोगेन जीव आत्मानमात्मना ॥ १८० ॥
View Verse
ईक्षेत तद्धृदाकाशे अचलं सूर्यवर्चसम् ।
स्फुरद्द्युतिभिराकीर्णमीश्वरं व्यापकं परम् ॥ १८१ ॥
View Verse
ततो मन्त्रशरीरस्थः समाधिं चाभ्यसेत् परम् ।
गन्धतन्मात्र पूर्वाभिर्युक्तत्वात् पञ्चशक्तिभिः ॥ १८२ ॥
View Verse
हेयं चेत्थमिदं बुद्ध्वा यदा तत्स्थानबृंहितः ।
अतृप्तोऽकृतकृत्यश्च मन्त्रहृत्पद्मसेवनात् ॥ १८३ ॥
View Verse
षट्पदो ह्यात्मतत्वश्च ज्ञानरज्ज्ववलम्ब्य च ।
हृत्कोटरोर्ध्वान्निर्यान्तं स्वात्मानं स्वात्मना स्मरेत् ॥ १८४ ॥
View Verse
भारूपनाडिमार्गेण मन्त्रवह्नेः शिखा हि सा ।
पद्मसूत्रप्रतिकाशा सुषुम्ना चोर्ध्वगामिनी ॥ १८५ ॥
View Verse
तद्ब्रह्मरन्ध्रगां स्मृत्वा सुपथा तेन सत्तम ।
शनैःशनैःस्वमात्मानं रेचयेज्ज्ञानवायुना ॥ १८६ ॥
View Verse
मान्त्रं करणषट्कं च एवमव्यापकं त्यजेत् ।
प्राप्नुयाच्च तदूर्ध्वात्तु यः परात् प्रभुविग्रहात् ॥ १८७ ॥
View Verse
उदितो द्विजशार्दूल तेजः पुञ्जो ह्यनूपमः ।
तत्प्रभाचक्रनाभिस्थस्वानन्दानन्दनन्दितः ॥ १८८ ॥
View Verse
एवं पदात्पदस्थस्य ह्यात्मतत्वस्य वै ततः ।
तत्वनिर्मुक्तदेहस्य केवलस्य चिदात्मनः ॥ १८९ ॥
View Verse
उदेति महदानन्दः सा शक्तिर्वैष्णवी परा ।
अलुप्तकर्मकर्तारं जीवं कृत्वा तमात्मसात् ॥ १९० ॥
View Verse
यत्रोदिता च तत्रैव पुनरेवावतिष्ठते ।
तच्च संकल्पनिर्मुक्तमवाच्यं विद्धि सत्तम ॥ १९१ ॥
View Verse
एवं स्वस्थानमासाद्य त्यक्त्वा भौतं च विग्रहम् ।
तत्र स्थितो दहेत् पिण्डं शक्तितन्मात्रवर्जितम् ॥ १९२ ॥
View Verse
षाट्कौशिकमसारं च निर्दण्ड तृणरूपिणम् ।
इच्छानिर्मथनोत्थेन मन्त्रजेन तु वह्निना ॥ १९३ ॥
View Verse
तेनाङ्घ्रिदेशादारभ्य तं पिण्डं ज्वलितं स्मरेत् ।
दक्षिणाङ्घ्रेरथाङ्गुष्ठप्रान्तदेशे शिखाक्षरम् ॥ १९४ ॥
View Verse
ध्यात्वा युगान्तहुतभुग्रूपज्वालाशतावृतं ।
तेन स्वविग्रहं ध्यायेत् प्रज्वलन्तं समन्ततः ॥ १९५ ॥
View Verse
नाभिकन्दान्तरोद्देशे नेत्रमन्त्रेण पावकम् ।
ध्यायेज्ज्वालागणोपेतं निनयेत्तेन भस्मसात् ॥ १९६ ॥
View Verse
दहनेन स्वकं देह हृन्मन्त्रं भावयंस्ततः ।
देहजां भावयेज्ज्वालां मन्त्रनाथे लयं गताम् ॥ १९७ ॥
View Verse
भस्मराशिसमप्रख्यं शान्ताग्निं तमनुस्मरेत् ॥
तद्वाचकेन तद्भस्म यातं ध्यात्वा इतस्ततः ॥ १९९ ॥
View Verse
ततः समन्त्रं तद्बिम्बं पूर्णचन्द्रायुतोपमम् ।
ध्यात्वा तन्निःसृतेनैव त्वमृतौघेन चाम्बरात् ॥ २०० ॥
View Verse
प्लावयेद्देहजां भूतिं सर्वं ध्यायेत् सुधात्मकम् ।
तत्राधारमयीं शक्तिं मध्ये विन्यस्य वैष्णवीम् ॥ २०१ ॥
View Verse
बीजभूतां च सर्वस्य तदुत्थं चाम्बुजं स्मरेत् ।
षडध्वं तत्वभूतं च सितं तेजोमयं शुभम् ॥ २०२ ॥
View Verse
मण्डलत्रितयाकीर्णं स्फुरत्किरणभास्वरम् ।
मन्त्रात्मानं च तन्मध्ये ध्यायेन्नारायणं प्रभुम् ॥ २०३ ॥
View Verse
निष्कलं केवलं शुद्धं पञ्चसन्मन्त्रविग्रहम् ।
तन्मन्त्रशक्तिभिर्भूयो भावयेन्मूर्छितं द्विज ॥ २०४ ॥
View Verse
व्योमादिपञ्चभूतीयं मान्त्रमीश्वरपञ्चकम् ।
तेभ्योऽथ प्रसरन्तं च व्योमाद्यं विभवं स्मरेत् ॥ २०५ ॥
View Verse
संयोगजनितं पिण्डं ध्यायेद्विभवपञ्चकात् ।
सहस्रसूर्यसंकाशं शतचन्द्रगभस्तिमत् ॥ २०६ ॥
View Verse
निर्मलस्फटिकप्रख्यं जरामरणवर्जितम् ।
जनित्वैवं स्वपिण्डं तु परमं भोगमोक्षयोः ॥ २०७ ॥
View Verse
साधनं मुनिशार्दूल सहजं सर्वदेहिनाम् ।
तमासाद्य क्रमेणैव सिसृक्षालक्षणेन च ॥ २०८ ॥
View Verse
स्वपदान्निस्तरङ्गाच्च कृत्वा शक्त्या सहोदयम् ।
स्वानन्दं च महानन्दात् स्वानन्दस्याप्यपाश्रयात् ॥ २०९ ॥
View Verse
मारीचं नाभसं चक्रं तस्माद्रूपं स्वकं च यत् ।
सूर्यकोटिकराभासं प्रस्फुरन्तं स्वभाससा ॥ २१० ॥
View Verse
कदम्बगोलका कारं निशाम्बुकणनिर्मलम् ।
एवमात्मानमानीय स्वस्थानात् स्वात्मना द्विज ॥ २११ ॥
View Verse
विशेन्मन्त्रशरीरं स्वं ब्रह्मरन्ध्रेण पूर्ववत् ।
ज्योत्स्नानाडीपथेनैव पुर्यष्टककजान्तरम् ॥ २१२ ॥
View Verse
स्ववाचकं भावयन् वै ध्वनिना निष्कऌएन तु ।
ततस्तु निष्कलान्मन्त्राद्यावद्भौतं च विग्रहम् ॥ २१३ ॥
View Verse
पञ्चकं चाभिमानं तु आसाद्यालोकविग्रहम् ।
स्वमन्त्रादमृतौघेन सेचयेद्विग्रहं स्वकम् ॥ २१४ ॥
View Verse
ततः स्वमन्त्रं तद्बिम्बमाकृष्य हृदि विन्यसेत् ।
निस्तरङ्गा परा शक्तिर्महानन्दमयी च सा ॥ २१५ ॥
View Verse
स्वानन्दाच्च प्रभाचक्रं रूपमात्मीयभास्वरम् ।
सौषुम्नस्तादृशो मार्गः पिण्डमन्त्रश्च निष्कलः ॥ २१६ ॥
View Verse
सत्याद्यो मन्त्रशक्त्योघो धारणेश्वरपञ्चकम् ।
तेषां विभवसङ्घो यः पिण्डस्तत्सामुदायिकः ॥ २१७ ॥
View Verse
स्मरेल्लोलीकृतं सर्वमपृथक् च पृथक् स्थितम् ।
स्थूलसूक्ष्मपराख्येन त्रिविधेन तु सत्तम ॥ २१८ ॥
View Verse
करणेनोदिता सम्यक् शुद्धिरेषा च भौतिकी ।
शोधितैः पञ्चभिर्भूतैः पृथिव्याद्यैः खपश्चिमैः ॥ २१९ ॥
View Verse
घ्राणजिह्वाक्षित्वक्छ्रोत्ररूपज्ञानेन्द्रियाणि च ।
उपस्थपायुपादाख्यपाणिवागात्मकानि च ॥ २२० ॥
View Verse
कर्मेन्द्रियाणि पञ्चैव शोधितानि भवन्ति हि ।
तत्रापि पूरकादीनां काल आयामवत्स्मृतः ॥ २२१ ॥
View Verse
धारणापञ्चकेनैवं मुख्यकल्पे प्रकीर्तिता ।
अनुकल्पे तु तां वक्ष्ये यथावद्विनिबोध मे ॥ २२२ ॥
View Verse
क्ष्माजलानलवाय्वाख्यनाभसीयं महामते ।
धारणापञ्चकं चैव संक्षिप्तं विहितं द्वयम् ॥ २२३ ॥
View Verse
दहनाप्यायनाच्चैव यदा देहात् स्वशुद्धये ।
नाभिक्षेत्रगतं ध्यायेन्मारुतं कवचेन तु ॥ २२४ ॥
View Verse
नयेद्देहगतं तेन शोषभावं रसं द्विज ।
नाभिकन्दान्तरोद्देशे नेत्रमन्त्रेण पावकम् ॥ २२५ ॥
View Verse
ध्यायेज्ज्वालागणोपेतं निनयेत्तेन भस्मसात् ।
दहनेन स्वकं देहं हृन्मन्त्रं भावयंस्ततः ॥ २२६ ॥
View Verse
तिष्ठेद्गगनमाश्रित्य शिरोमन्त्रेण भावयेत् ।
जलं मुक्ताफलस्वच्छं तदुद्भूतमथ स्मरेत् ॥ २२७ ॥
View Verse
शिखामन्त्रेण कमलं वसुधागुणलक्षणम् ।
तदधिष्ठातृभावेन नयेदात्मनि सत्तम ॥ २२८ ॥
View Verse
ध्यायेत्तदुत्थितं कोशं भूततत्वमयं वपुः ।
हृदयादीन् स्मरन् पञ्चतत्वानां कारणात्मनाम् ॥ २२९ ॥
View Verse
ततः समाचरेन्न्यासं तस्मिन् ध्यानोत्थिते पुरे ।
मुख्यानुकल्पभेदेन भूतशुद्धिः प्रक्रीर्तिता ॥ २३० ॥
View Verse

Chapter 4

श्रीः ।
चतुर्थोऽध्यायः ।
संशुद्धविग्रहो मन्त्री मन्त्रन्यासं समाचरेत् ।
येन विन्यस्तमात्रेण देवदेवसमो भवेत् ॥ १ ॥
View Verse
पूजादिसर्वकार्याणामधिकारी च जायते ।
भवेद्वै सर्वसिद्धीनामाविर्भावस्तु येन च ॥ २ ॥
View Verse
यं कृत्वा निर्भयस्तिष्ठेद्देशे दुष्टसमाकुले ।
विजयश्चापमृत्यूनां स्याद्येन विहितेन च ॥ ३ ॥
View Verse
व्यापारो मानसो ह्येष न्यासाख्यो यद्यपि स्मृतः ।
न बध्नाति स्थितिं सम्यक् तथाऽपि क्रियया विना ॥ ४ ॥
View Verse
कराधीना पुनस्सा तु प्राङ्न्यासस्तु तयोः स्थितः ।
अथ हस्तद्वये न्यस्य दीप्तिमद्द्वादशाक्षरम् ॥ ५ ॥
View Verse
मणिबन्धान्नखाग्रान्तं त्वादित्यातपवत्ततः ।
सृष्टिसंस्थितिसंहारन्यासं कुर्याद्यथाविधि ॥ ६ ॥
View Verse
दक्षहस्ततलारम्भो वामान्तः सृष्टिसंज्ञितः ।
दक्षाङ्गुष्ठादिको वामतलान्तः स्थितिसंज्ञितः ॥ ७ ॥
View Verse
वामहस्ततलारम्भो दक्षान्त इतरः स्मृतः ।
सृष्टौ दक्षतले तारं तदङ्गुष्ठादिके क्रमात् ॥ ८ ॥
View Verse
अङ्गुलीनां तु दशके यावद्वामकनिष्ठिका ।
विन्यस्य दशवर्णांस्तु न्यसेद्वामतलेऽन्तिमम् ॥ ९ ॥
View Verse
स्थित्याख्ये दक्षिणाङ्गुष्ठादारभ्याङ्गुलिपञ्चके ।
तत्तलान्तं तु ताराद्यं वर्णषट्कं तु विन्यसेत् ॥ १० ॥
View Verse
वामाङ्गुष्ठात्तत्तलान्तं विन्यसेत् षट्कमुत्तरम् ।
संहाराख्येऽक्षरं न्यस्य वामहस्ततलेऽन्तिमम् ॥ ११ ॥
View Verse
अप्ययाख्यक्रमेणैव दक्षहस्ततलावधि ।
ततो वर्णगणं शेषं न्यसेत् प्रणवपश्चिमम् ॥ १२ ॥
View Verse
तर्जन्या तत्तदङ्गुष्ठे तत्तदङ्गुष्ठकेन च ।
तर्जन्यादिषु शाखासु तत्तन्मध्यमया तले ॥ १३ ॥
View Verse
न्यासं कुर्याद्यथायोगं ततोऽङ्गन्यासमाचरेत् ।
आरभ्य दक्षिणाङ्गुष्ठाच्छाखासु दशसु द्विज ॥ १४ ॥
View Verse
क्रमाद्वामकनिष्ठान्तं दक्षिणादि तलद्वये ।
हृदादिद्वादशाङ्गानि भास्वद्रूपाणि विन्यसेत् ॥ १५ ॥
View Verse
दक्षिणे मध्यतः पझं प्रस्फुरत्किरणोज्ज्वलम् ।
गदां वामतले न्यस्येज्ज्वलन्तीं स्वेन तेजसा ॥ १६ ॥
View Verse
दक्षे महाप्रभं चक्रं शङ्खं वामतले न्यसेत् ।
किरीटं दक्षिणे हस्ते श्रीवत्सं वाममध्मतः ॥ १७ ॥
View Verse
कौस्तुभं दक्षिणतले वनमालां तथाऽपरे ।
श्रियं दक्षिणहस्ते तु पुष्टिं वामतले न्यसेत् ॥ १८ ॥
View Verse
अङ्गुष्ठाद्दक्षिणादादौ वामान्तं मूलदेशतः ।
गारुडं विन्यसेन्मन्त्रं दशस्वङ्गुलिषु क्रमात् ॥ १९ ॥
View Verse
अनेन विधिना पूर्वं हस्तन्यासं समाचरेत् ।
या विभोः परमा शक्तिर्हृत्पझकुहरान्तगा ॥ २० ॥
View Verse
वायव्यं रूपमास्थाय दशधा संव्यवस्थिता ।
इच्छया स्वप्रवाहेण पाणिमार्गेण निर्गता ॥ २१ ॥
View Verse
नाडीदशकमाश्रित्य ता एवाङ्गुलयो मताः ।
अत एव द्विजश्रेष्ठ शक्त्याख्ये प्रभुविग्रहे ॥ २२ ॥
View Verse
पूर्वं मन्त्रगणं न्यस्य ततो भूतमये न्यसेत् ।
विग्रहे मन्त्रसंघातं यथा तदवधारय ॥ २३ ॥
View Verse
आमूर्ध्नश्चरणान्तं च द्वादशार्णं न्यसेत्तनौ ।
व्यापकत्वेन विन्यस्य पादाद्भूयः शिरोऽन्तिमम् ॥ २४ ॥
View Verse
सृष्टिसंस्थितिसंहारन्यासं कुर्यात्ततः परम् ।
मूर्धादिपादपर्यन्तः सृष्टिन्यासः प्रकीर्तितः ॥ २५ ॥
View Verse
पादादिश्च शिरोऽन्तस्तु संहृतिन्यास उच्यते ।
यथाऽभिलषितं कुर्यात् सर्वथा कर्तुरिच्छया ॥ २६ ॥
View Verse
मूर्ध्नि वक्त्रेंऽसयुग्मे च क्रमात् सव्येतरे हृदि ।
पृष्ठे नाभौ तथा कट्यां जानुनोरथ पादयोः ॥ २७ ॥
View Verse
क्रमेण प्रणवाद्यं तु यान्तं द्वादशवर्णकम् ।
विन्यसेदेष सृष्ट्याख्यो न्यासः प्रोक्तो यथार्थतः ॥ २८ ॥
View Verse
प्रणवाद्यान्न्यसेद्वर्णान् स्थानेषु हृदयादिषु ।
अह्गोपाङ्गोक्तमार्गेण स्थितिन्यासः प्रकीर्तितः ॥ २९ ॥
View Verse
पादयोर्जानुनोः कट्यां नाभौ पृष्ठे हृदन्तरे ।
सव्येतरेसयुग्मे च वक्त्रे मूल्धनि च न्यसेत् ॥ ३० ॥
View Verse
यादिवर्णांस्तु तारान्तानेष संहारसंज्ञकः ।
ततो हृदादिस्थानेषु अङ्गोपाह्गानि विन्यसेत् ॥ ३१ ॥
View Verse
न्यसेत्तु हृदये ज्ञानं यतो व्यज्येत तत्र तत् ।
ऐश्वर्यं शिरसोद्देशे यस्मादुपरि तिष्ठति ॥ ३२ ॥
View Verse
प्राकृतं तात्विकं वाऽपि सर्वत्र मुनिसत्तम् ।
हृदग्नेरूर्ध्वगायां तु शिखायां शक्तिमन्त्रराट् ॥ ३३ ॥
View Verse
बलं चाखिलगात्राणां त्वग्गतं वायुना सह ।
मूर्छितं सर्वगात्रैर्यत्तद्वीर्यं हस्तयोर्न्यसेत् ॥ ३४ ॥
View Verse
अन्तर्बोधस्वरूपं यत् प्राकृतध्वान्तशान्तिकृत ।
तेजस्तत्तैजसे स्थाने न्यासकाले समस्यते ॥ ३५ ॥
View Verse
यथोक्तविधिना सोऽयं विधिरूर्ध्वं प्रवक्ष्यते ।
ततः पझगदाचक्रशङ्खान् प्राग्वत्तु विन्यसेत् ॥ ३६ ॥
View Verse
किरीटं मूर्ध्नि विन्यस्य वह्न्यर्कायुतदीधितिम् ।
श्रीवत्सं वक्षसोऽवामे पूर्णेन्दुसदृशद्युतिम् ॥ ३७ ॥
View Verse
कौस्तुभं हृदये न्यस्य चण्डदीधितिलक्षणम् ।
नानाब्जवनपुष्पोत्थां वनमालां च कण्ठतः ॥ ३८ ॥
View Verse
आचांसाद्धक्षिणे भागे न्यस्या श्रीरुत्तरे तथा ।
पुष्टिं गुल्फावसाने च गरुडं चोरुमूलतः ॥ ३९ ॥
View Verse
भास्वद्रूपाणि चाङ्गानि चिदेकविभवानि च ।
किरीटादीनि चान्यानि सर्वाण्याभरणानि च ॥ ४० ॥
View Verse
यथा प्रसिद्धरूपाणि स्वस्वकान्तिधराणि च ।
मन्त्रन्यासं तु कृत्वैवं यथोद्दिष्टकमेण तु ॥ ४१ ॥
View Verse
आमूलमन्त्रात् सर्वासां मुद्राणां बन्धमाचरेत् ।
स्वं स्वं उदीरयन्मन्त्रं परमेश्वरवत्ततः ॥ ४२ ॥
View Verse
संचिन्त्य रूपमात्मीयं साभिमानं महामते ।
मूलमन्त्राभिजप्तं च कुसुमं च शिखावधौ ।
स्वविग्रहे तु शिरसा दद्याद्गन्धाम्बुभावितम् ॥ ४३ ॥
View Verse

Chapter 5

श्रीः ।
पञ्चमोऽध्यायः ।
कृत्वैवं तु ततः पश्चान्मानसं यागमारभेत् ।
पद्मासनादिकं बध्वा नाभौ ब्रह्माञ्चलिं दृढम् ॥ १ ॥
View Verse
मनस्युपरतं कुर्यादक्षग्रामं बहिः स्थितम् ।
चित्तं बुद्धौ विनिक्षिप्य तां बुद्धिं ज्ञानगोचरे ॥ २ ॥
View Verse
ज्ञानभावनया कर्म कुर्याद्वै पारमार्थिकम् ।
चतुश्चक्रे नवद्वारे देहे देवगृहे पुरे ॥ ३ ॥
View Verse
कण्ठकूपधरारूढं हृत्पद्मं यदधोमुखम् ।
तत्कर्णिकावनेर्मध्यदे शमाश्रित्य भावयेत् ॥ ४ ॥
View Verse
नाभिमेढ्रान्तरे ध्यायेच्छक्तिं चाधाररूपिणीम् ।
कालाग्निं च तदुर्ध्वे तु अनन्तं तस्य चोपरि ॥ ५ ॥
View Verse
तदूर्ध्वे वसुधां देवीं चतुर्भिः पूरितं स्मरेत् ।
कन्द नाभ्यवसानं च चतुर्धा भाजितैः पदैः ॥ ६ ॥
View Verse
नाभौ क्षीरार्णवं ध्यात्वा ततः पद्मं समुत्थितम् ।
सहस्रदलसंयुक्तं सहस्रकिरणावृतम् ॥ ७ ॥
View Verse
सहस्ररश्मिसंकाशं तत्पृष्ठे चासनं न्यसेत् ।
धर्मं ज्ञानं च वैराग्यमैश्वर्यं च चतुर्थकम् ॥ ८ ॥
View Verse
अवतार्य स्वमन्त्रेण आग्नोयाद्ये चतुष्टये ।
चतुष्कमेतद्विन्यस्य यावदीशानगोचरम् ॥ ९ ॥
View Verse
तत्पूर्वदिग्विभागादि यावदुत्तरगोचरम् ।
न्यस्याधर्मं तथाऽज्ञानमवैराग्यमनैश्वरम् ॥ १० ॥
View Verse
पुरुषाकृतयस्त्वेते बन्धूककुसुमोज्ज्वलाः ।
प्रागीशानदिगन्ते तु प्रागाग्नेयदिगन्तरे ॥ ११ ॥
View Verse
यातुवारुणमध्ये तु वायव्यवरुणान्तरे ।
ऋग्वेदाद्यं चतुष्कं तु कृताद्यं युगसङ्घकम् ॥ १२ ॥
View Verse
ईशानसोमदिङ्मध्ये अन्तकाग्निदिगन्तरे ।
याम्यराक्षसमध्ये तु सोमसामीरणान्तरे ॥ १३ ॥
View Verse
तन्मूर्ध्नि कालचक्रं तु तन्मध्येऽव्यक्तपङ्कजम् ।
वायव्योद्भूतनालं तु विकाराधारसंस्थितम् ॥ १४ ॥
View Verse
भूतान्याधारशक्तौ तु तन्मात्राः कालपावके ।
वागादिकं तथैवाक्षमनन्तं व्याप्त संस्थितम् ॥ १५ ॥
View Verse
श्रोत्रादिकं धरण्यां च मनः क्षीरार्णवे द्विज ।
अनन्तदलपद्मे तु अहङ्कारः समाश्रितः ॥ १६ ॥
View Verse
द्विरष्टकं च धर्माद्यमधिष्टाय च धी स्थिता ।
तदूर्ध्वपझे प्रकृतिर्गुणसाम्यविभागिनी ॥ १७ ॥
View Verse
धामत्रयाश्रितः कालो भावाख्ये पुरुषस्थितिः ।
आधेयमब्जसंभूत स्वे विकारे स्वरूपिणि ॥ १८ ॥
View Verse
स्वयमाद्यन्तयो रुद्धं सूत्रे मणिगणो यथा ।
प्रागाधारात्मना चैव विश्वाकारतया ततः ॥ १९ ॥
View Verse
नानामन्त्रात्मना ह्यूर्ध्वे निस्तरङ्गो हि तत्वतः ।
अभ्यस्तवासनानां च कर्मिणां कर्मशान्तये ॥ २० ॥
View Verse
तदिच्छाविष्कृतानां च भोगकैवल्यसिद्धये ।
अनाद्यविद्याविद्धानामियत्तैषा ह्यवस्तुनि ॥ २१ ॥
View Verse
नातोर्ध्वे तत्वदृष्टीनां तत्वतो वाऽस्ति पौष्कर ।
न तिर्यक्पृष्ठपूर्वे च न हेयादिविकल्पना ॥ २२ ॥
View Verse
या विशेषविकल्पैस्तु प्रत्यस्तमितलक्षणा ।
शक्तिर्भगवतो विष्णोः साधाराख्याऽभिधीयते ॥ २३ ॥
View Verse
प्राग्वदासनसामर्थ्यं बीजमादाय चेच्छया ।
अव्यक्तव्यक्तरूपा च यथादित्यकदम्बकम् ॥ २४ ॥
View Verse
भाविप्रसरधर्मित्वाद्विश्वबीजचयस्य च ।
सांप्रतं संहृताङ्गस्य कूर्मसंज्ञा विधीयते ॥ २५ ॥
View Verse
यो विश्वं निर्दहत्यन्ते कालवैश्वानरात्मना ।
दैवतं यस्य भगवान् कूर्मात्मा लोकपूजितः ॥ २६ ॥
View Verse
अजहद्भगवच्छक्ति सामर्थ्यं पुनरेव तत् ।
अनन्तं सविकल्पानां यद्विश्वाङ्कुरमव्ययम् ॥ २७ ॥
View Verse
नयत्यूर्ध्वं यथा कूर्मो ग्रीवां स्वात्मनि संवृ ताम् ।
शेषाक्यफणिदैवत्यं तदनन्तं हि गीयते ॥ २८ ॥
View Verse
आश्रयं बीजभूतानां चतुर्णां यन्महामते ।
तद्गन्धविटपस्तस्माद्व्यक्तिमब्येति पूर्ववत् ॥ २९ ॥
View Verse
भूरात्मा भगवान् यस्मिन्नभिमानाख्यदेवता ।
फलं रसात्मकं तस्माद्व्यज्यत्यमृतलक्षणम् ॥ ३० ॥
View Verse
यस्याभिमानिकं रूपं क्षीरार्णवमनश्वरम् ।
तस्मादनन्तरत्नोत्थकान्तिं कमलमब्जज ॥ ३१ ॥
View Verse
व्यक्तं यस्य च वै शक्तिर्नित्या दहनलक्षणा ।
तदनन्तदलं विद्धि दिव्यं विकसितं सितम् ॥ ३२ ॥
View Verse
परपूर्वेण भेदेन एकद्वित्रिगुणात्मना ।
स्थिता बुद्धिर्विकारैस्तु सह चाष्टाभिरब्जज ॥ ३३ ॥
View Verse
यत्राधिदेवतात्वेन वाग्विकारा ऋगादयः ।
तथा कालविकारा ये चत्वारः कृतपूर्वकाः ॥ ३४ ॥
View Verse
तत्र रूपं हि सर्वेषां सत्तामात्रं परं स्मृतम् ।
व्यक्तिकारणधानाभिः साङ्गाभिरपरं तु तत् ॥ ३५ ॥
View Verse
तृतीयमभिमानाक्यदेवतादेहलक्षणम् ।
तस्माद्वै वायुदैवत्यं स्पर्शतन्मात्रमेव च ॥ ३६ ॥
View Verse
जाता यस्य स्फुटा व्यक्तिर्नानाचक्राङ्गलक्षणा ।
तस्मादाकाशदैवत्यं शब्दमुत्पन्नमब्जज ॥ ३७ ॥
View Verse
सर्वाङ्गसंहृता चक्रव्यक्तिर्यस्यामलं वपुः ।
गीयते व्योमवृत्तं तत् प्रधानकमलालयम् ॥ ३८ ॥
View Verse
यस्यान्तस्थानि भूतानि यस्मिन् सर्वं प्रतिष्ठितम् ।
यस्मादुन्मेषपूर्वं हि महत्प्रलयपश्चिमम् ॥ ३९ ॥
View Verse
प्रवर्तते कालतानं भेदकृत् सर्ववस्तुषु ।
वाङ्भात्रेणैव भिन्नस्य अभिन्नस्यैव तत्वतः ॥ ४० ॥
View Verse
ज्ञानादिगुणबृन्दस्य ब्रह्नणश्चतुरात्मनः ।
नित्योदितत्वान्नित्यत्वाद्व्यापकत्वात् परं पदम् ॥ ४१ ॥
View Verse
पूर्णत्वात् षड्गुणत्वाच्च न कालो लब्धगोचरः ।
शब्दादादित्यदैवत्यमहङ्कारं महामते ॥ ४२ ॥
View Verse
मनश्च चन्द्रदैवत्यमहङ्कारादभूत्ततः ।
बुद्धिः प्रकाशदैवत्या व्यक्तानन्दात्मनो विभोः ॥ ४३ ॥
View Verse
दऌआदिकर्णिकान्तायाः सूर्यपूर्वादिकल्पना ।
प्रधानकमलस्यैषा मूर्तिर्गुणमयी स्मृता ॥ ४४ ॥
View Verse
बुद्ध्यादीनां च तत्वानां कारणं यदनश्वरम् ।
अव्यक्ताख्यं महाबुद्धे ह्यभिन्नगुणमूर्तिभृत् ॥ ४५ ॥
View Verse
स्वगुणानधरीकृत्य स्वप्रतिष्ठं प्रवर्तते ।
अद्यात्मलक्षणावृत्तिः सर्वाः संहृत्य वै हृदि ॥ ४६ ॥
View Verse
उत्पद्यन्ते हि चैतस्माद्भावाः सर्वे द्विजोत्तम ।
विपद्यन्तेऽत्र वै भूयस्तस्मात्पझं परं त्विदम् ॥ ४७ ॥
View Verse
चिदादित्यकलाजालं ग्राह्यग्राहकलक्षणम् ।
संक्रान्तं यत्र स्वं धाम स्वसामर्थ्यं च वेत्यपि ॥ ४८ ॥
View Verse
विमलाख्या विमलता ज्ञानशक्ति र्ज्ञताब्जज ।
प्रभ्व्याख्या प्रभुता चैव सत्यसंज्ञा च सत्यता ॥ ४९ ॥
View Verse
नित्याख्या नित्यता चैव प्रकाशाख्या प्रकाशता ।
अनन्तता ह्यनन्ताख्या कला कमलसंभव ॥ ५० ॥
View Verse
सहानुग्रहशक्त्या वै ज्ञेयाऽनुग्रहता परा ।
द्विचतुष्कं कलानां यत् स्वप्रतिष्ठं हि वर्तते ॥ ५१ ॥
View Verse
संवर्तते परं चैव पुनरेव निवर्तते ।
परापरविभागेन कलास्त्वेताश्चिदात्मनः ॥ ५२ ॥
View Verse
प्रोक्ताः कमलसंभूत यासामानन्त्यमुत्तमम् ।
यथाक्रमेण सर्वेषां ध्यानमाकर्णयामलम् ॥ ५३ ॥
View Verse
शानत्मुज्झितचेष्टं च सितमन्तर्मुखं स्थितम् ।
आधेयोल्लिङ्गिताकारमाधाराख्यं स्मरेत् प्रभुम् ॥ ५४ ॥
View Verse
कूर्ममुद्रान्वितं कूर्मवक्त्रं निष्ठप्तरुक्मभम् ।
शह्खपझधरं कूर्मं स्वस्तिकेन स्थितं स्मरेत् ॥ ५५ ॥
View Verse
मुञ्चन्तमनिशं तेजो देहाद्भीषणमुत्कटम् ।
तिर्यगूर्ध्वं च धातारं ज्वालाजालमिवोच्च्वलम् ॥ ५६ ॥
View Verse
अनन्तशशिसंकाशमनन्तमथ संस्मरेत् ।
सहस्रफणमालाढ्यं सहस्रभुजभूषितम् ॥ ५७ ॥
View Verse
स्वपाणिसंपुटेनैव शोभयन् स्वान्तभूस्थलम् ।
सितारविन्दशङ्खाक्षसूत्रचक्रकरान्वितम् ॥ ५८ ॥
View Verse
पतनाशङ्किबुद्धेर्वै वित्रस्तमनसस्तु च ।
मा भैरित्यभयं यच्छन्नाब्रह्नभवनस्य च ॥ ५९ ॥
View Verse
निःशेषरत्नहेमाङ्गां प्राबृट्छ्रियमिवोच्च्वलाम् ।
पझासनेनोपविष्टां ध्यायेत् पझाञ्जलिं धराम् ॥ ६० ॥
View Verse
फुल्लकुन्दावदातं च सितस्निग्धजटाधरम् ।
ध्मायमानं सितं शङ्खं मुक्तादामैरलङ्कृतम् ॥ ६१ ॥
View Verse
विस्तीर्णसर्वावयवं विक्षिप्तोरुद्वयं स्थितम् ।
विक्षिप्तजानुपादं च संस्मर्तव्यं पयोनिधिम् ॥ ६२ ॥
View Verse
सुपव्काम्रफलश्यामपाणिपादतलोज्ज्वलम् ।
रक्ताक्षं च तथा विप्रकीर्णकेशं स्मिताननम् ॥ ६३ ॥
View Verse
पझासनेनोपविष्टमलिमालाशताकुलम् ।
पझमुद्रान्वितं पझं सुदीर्घचरणं स्मरेत् ॥ ६४ ॥
View Verse
तुहिनाच्छोपलस्वच्छमुक्ताफलशशिप्रभाः ।
मृगेन्द्रस्कन्धवदना धर्मज्ञानादयश्चतुः ॥ ६५ ॥
View Verse
पझरागप्रवालाग्निसद्दाडिमफलोज्ज्वलाः ।
अन्तर्दयोपरक्ताश्च राजराजेश्वरोपमाः ॥ ६६ ॥
View Verse
द्विरष्टवर्षवद्विद्धि चत्वारो ऽधर्मपूर्वकाः ।
हेमचम्पकखद्योतहरितालदलोज्ज्वलाः ॥ ६७ ॥
View Verse
वाजिवक्त्राः स्मृता वेदाः संपूर्णनरलक्षणाः ।
एवं वृषेन्द्रवदना युगा ब्रह्नन् कृतादयः ॥ ६८ ॥
View Verse
सुपव्काम्रातसीपुष्पनीलाब्जशुकसन्निभाः ।
सर्वे सद्वस्त्रसत्पुष्पसदलङ्करणान्विताः ॥ ६९ ॥
View Verse
शङ्खपझधराः सर्वे वराभयकरास्तु वै ।
आधेयचक्रविन्यस्तमस्तका स्वात्मसिद्धये ॥ ७० ॥
View Verse
समर्पितान्तःकरणाः परस्मिन् मन्त्रकारणे ।
युगान्तार्काग्निसङ्काशस्वगोमण्डलमध्यगम् ॥ ७१ ॥
View Verse
स्वमुद्रान्वितपाणिं च वल्गन्तं हेतिराट् स्मरेत् ।
चिन्त्यमव्यक्तपझं च हिमहेमाग्निभास्वरम् ॥ ७२ ॥
View Verse
शान्तमष्टभुजं सौम्यं संस्थितं स्वस्तिकेन तु ।
स्फटिकोपलकान्तिं च चिद्धनं ध्रुवमव्ययम् ॥ ७३ ॥
View Verse
सर्वशक्तिनिधिं ध्यायेदमूर्तं चित्प्रभाकरम् ।
सर्वे स्वविभवान्तस्थास्तत्राधारात्मनो विभोः ॥ ७४ ॥
View Verse
स्वसत्ताभासितं सत्वं गुणसत्वाद्विलक्षणम् ।
विभवं विद्धि विप्रेन्द्र ज्वालौघं कच्छपात्मनः ॥ ७५ ॥
View Verse
स्वभोगं नागनाथस्य भूः क्षितेः काञ्चनी तथा ।
आसारमामृतं दिव्यं वीच्योघैस्तु समन्वितम् ॥ ७६ ॥
View Verse
क्षीरोदकीयविभवं परिज्ञेयमनश्वरम् ।
बीजकोशं सकिञ्जल्कं कमलस्य दलान्वितम् ॥ ७७ ॥
View Verse
धर्माद्यस्य चतुष्कस्य सद्विवेकं सुनिर्मलम् ।
द्वि द्विकस्या धर्मादेरविद्याविभवं महत् ॥ ७८ ॥
View Verse
वाक्प्रपञ्चमहेयं यत् तदृगादिगणस्य च ।
विभवं च कृतादीनां महत्कल्पान्तमात्रुटेः ॥ ७९ ॥
View Verse
चक्रस्य विभवं विद्धि भ्रमं मायाश्रयं हि यत् ।
गौणीवृत्तिरमेया या विभवं प्राकृतं हि तम् ॥ ८० ॥
View Verse
विमलादिकलाजालं पौरुषं विभवं स्मृतम् ।
विभोर्मन्त्रात्मनस्चेदमशेषममरार्चितम् ॥ ८१ ॥
View Verse
आमहन्मन्त्रनाथेब्यो नानामन्त्रगणं हि यत् ।
स्वशक्तिनिचयोपेतं तद्विष्णोः परमात्मनः ॥ ८२ ॥
View Verse
विभवं कमलोद्भूत ज्ञात्वैवं संयजेत् सदा ।
शब्दव्यक्तिस्तदूर्ध्वे तु स्थितार्केन्द्वग्निलक्षणा ॥ ८३ ॥
View Verse
त्रिदीप्तिभास्वरा नाडी त्वव्यक्तध्वनिविग्रहा ।
व्यक्तचक्रत्रयस्योर्ध्वे वर्तते या महामते ॥ ८४ ॥
View Verse
निःसृता ब्रह्नरन्ध्रेण गता सूर्यपथात् परम् ।
वायुद्वारेण पातालं भित्वा याता स्वगोचरम् ॥ ८५ ॥
View Verse
सङ्कल्पविषयः सर्वस्तद्बद्धः प्रतितिष्ठति ।
सूत्रे मणिगणो यद्वन्मध्यनाडी ह्यतः स्मृता ॥ ८६ ॥
View Verse
लक्ष्यस्थाने तु पूर्वोक्ते तस्यामभ्यन्तरे तु वै ।
संपुटे शशिसूर्याख्ये निमेषोन्मेषलक्षणे ॥ ८७ ॥
View Verse
तत्राब्जं चार्कमालम्ब्य परा वाग्भ्रमरी स्थिता ।
या सर्वमन्त्रजननी शक्तिः शान्तात्मनो विभोः ॥ ८८ ॥
View Verse
नदन्ती वर्णजं नादं शब्दव्रह्नेति यः स्मृतः ।
अकारपूर्वो हान्तश्च धारा सन्तानरूपधृक् ॥ ८९ ॥
View Verse
नादावसानगगने देवोऽनन्तः सनातनः ।
वरदाभयदेनैव शङ्कचक्राह्कितेन तु ॥ ९० ॥
View Verse
त्रैलोक्यधृतिदक्षेण युक्तः पाणिद्वयेन तु ।
शान्तः संवित्स्वरूपस्तु भक्तानुग्रहकाम्यया ॥ ९१ ॥
View Verse
अनौपम्येन वपुषा ह्यमूर्तो मूर्ततां गतः ।
तस्मादावाहनं कुर्याद्यथा तदवधारय ॥ ९२ ॥
View Verse
स्वशक्त्याधिष्ठितं कृत्वा स्वस्वभावस्वभावया ।
ग्राह्यग्राहकरूपाया एवमव्यक्तपुष्करम् ॥ ९३ ॥
View Verse
समास्ते केवलं शुद्धमीषत्काललवं द्विज ।
सामान्यचिन्मयो भूत्वा सांप्रतं शक्तयः कलाः ॥ ९४ ॥
View Verse
अस्मिता लक्षणं धर्मं स्वकं सम्यङ्निरस्य च ।
मवर्तते तन्निरासात् आनन्दमतुलं द्विज ॥ ९५ ॥
View Verse
स्वप्रकाशमनौपम्यं तमिच्छेन्मन्त्रमव्ययम् ।
परिच्छेद्यां दिगाद्यैस्तु प्रकाशाकाशवर्तिनीम् ॥ ९६ ॥
View Verse
कृत्वाश्रित्य कलामूर्तिं समनन्तरमब्जज ।
विहायोमध्यदेशं च प्रकाशगहनात्ततः ॥ ९७ ॥
View Verse
धृतिशक्त्यासने स्वेऽथ उपविश्य यथासुखम् ।
विद्यादेहेन सूक्ष्मेण भूतदेहानुकारिणा ॥ ९८ ॥
View Verse
अथानन्दकदम्बं तद्यत्स्वरूपंपृथक् स्थितम् ।
रञ्जयेच्छास्त्रदृष्टेन व्यवहारगतेन च ॥ ९९ ॥
View Verse
स्वकेनालम्बनेनैव देवतालक्षणेन च ।
मणिर्यथा विभागेन नीलपीतादिभिर्युतः ॥ १०० ॥
View Verse
रूपभेदमवाप्नोति ध्यानभेदात्तथा विभुः ।
एवं प्रवर्तते सम्यङ्भन्त्ररूपं परात्मकम् ॥ १०१ ॥
View Verse
हृत्पुण्डरीकमध्यस्थं चैतन्यज्योतिरव्ययम् ।
कदम्बगोलकाकारं विश्वरूपं मणिप्रभम् ॥ १०२ ॥
View Verse
रत्नदीपसमाकारमच्छिन्नप्रसरं महत् ।
श्रोत्रपूर्वैः खरन्ध्रैस्तु रश्मयस्तस्य निर्गताः ॥ १०३ ॥
View Verse
छेद्रपूर्णाद्यथा कुम्भान्महादीपयुताद्द्विज ।
याति भासां गणो बाह्ये शरीरादेवमेव हि ॥ १०४ ॥
View Verse
मान्त्रो रश्मिसमूहस्तु नाडीभिः प्रसरेद्वहिः ।
अप्रत्यक्षः सदाक्षाणां मन्त्रात्मा यद्यपि द्विज ॥ १०५ ॥
View Verse
तथाऽप्यनेन न्यायेन प्रत्यक्षमुपलभ्यते ।
बहिः स्थितं यद्भूतानां क्ष्मादीनां गुणपञ्चकम् ॥ १०६ ॥
View Verse
तेन तच्चोपलब्धव्यं प्रत्यक्षेण परोक्षकम् ।
तस्य भौमो गुणस्थैर्यं तद्गुणेन हि सा स्थिरा ॥ १०७ ॥
View Verse
परस्परानुभावेन संवित्तौ तदुपारुहेत् ।
आह्लादो यस्तदीयो हि स तोये चोपलभ्यते ॥ १०८ ॥
View Verse
तौयो गुणस्तु तस्यास्ति कथं स्यादन्यथा मुने ।
स्मृतमात्रेण मन्त्रेण आहलादो मनसो महान् ॥ १०९ ॥
View Verse
रूपात्मना परिणतः स चाग्नौ पारमेश्वरः ।
यो रूपाख्यो गुणश्चाग्नेः स मन्त्रात्मनि तिष्ठति ॥ ११० ॥
View Verse
तेजो विना यतो द्यानं कुत्रचिन्नोपपद्यते ।
स्पर्शधर्मो हि यो वायोः स तदीयो महामुने ॥ १११ ॥
View Verse
यो वायव्यो गुणः सूक्ष्मः स च मन्त्रतनौ स्थितः ।
स चान्तःकरणेनैव संयमे स्यात्तदुत्थितः ॥ ११२ ॥
View Verse
यदाकाशस्य शून्यत्वमस्ति तत् स्यात्तदुद्भवम् ।
स मन्त्रात्मनि संश्लिष्टो गुणो ह्यस्ति महामते ॥ ११३ ॥
View Verse
अग्राह्यत्वाच्च करणैः प्राकृतैर्भावनां विना ।
इत्येवं मन्त्रसामर्थ्यं पुरा ज्ञात्वा यथार्थतः ॥ ११४ ॥
View Verse
सन्निधानं भवेद्येन पूजाकाले ह्युपस्थिते ।
तस्मिन्नङ्गानि विन्यस्य प्राक् संपूर्णगुणानि च ॥ ११५ ॥
View Verse
स्वमन्त्रैरर्चयेदेव स्थानभेदं विना ततः ।
तस्मिन् कदम्बकुसुमसदृशे मन्त्रगोलके ॥ ११६ ॥
View Verse
द्वादशाक्षरमन्त्रेण अभिन्नेन तु सांप्रतम् ।
व्यक्तिमापद्यते तस्माद्ध्येया हृत्पझमध्यगा ॥ ११७ ॥
View Verse
या परा प्रकृतिर्वाणी चिद्रपा निर्मलात्मिका ।
पूरिताध्यक्षभावेन निष्कलेन महात्मना ॥ ११८ ॥
View Verse
शरीरमिव जीवेन स्थूलं सूक्ष्मं द्विलक्षणम् ।
मूलमन्त्रादितः प्राग्वत् सर्वमन्त्रगणस्य च ॥ ११९ ॥
View Verse
करन्यासं विना देहे न्यासं तस्य च संस्मरेत् ।
सृष्टिसंस्थितिसंहारन्यासं चापि तथाऽचरेत् ॥ १२० ॥
View Verse
ततः खाब्जखमध्यात्त्वप्यूर्ध्वस्थात् संस्मरेच्च्युताम् ।
गङ्गां भगवतो मूर्ध्नि तेनामृतजलेन तु ॥ १२१ ॥
View Verse
अर्घ्याद्यखिलभोगानां कार्या वै शुभकल्पना ।
यं यं संकल्पयेद्भोगं तं तं भाव्यसुधामयम् ॥ १२२ ॥
View Verse
पतन्तमम्बराद्वेगादमृतांशुपरिप्लुतम् ।
साक्षादमृतरूपैस्तु तैस्तैरमृतसंभवैः ॥ १२३ ॥
View Verse
बृंहितं मुदितं मग्नं मन्त्रराट् स्मरेत् ।
ततस्तु देवदेवस्य अर्ध्यं दत्वा यथाविधि ॥ १२४ ॥
View Verse
सन्निधिं सन्निरोधं च सांमुख्यं च समाचरेत् ।
हृदयादीनि चाङ्गानि लाञ्छनं कमलादिकम् ॥ १२५ ॥
View Verse
भूषणं च किरीटाद्यं लक्ष्म्याद्याः शक्तयस्तथा ।
गरुडो मूर्तयो वान्या देहे देवस्य याः स्थिताः ॥ १२६ ॥
View Verse
व्यापकस्य तथात्वेन स्वे स्वे स्थाने प्रभात्मकाः ।
तद्देहसंस्थिताः सर्वे पूजनीयाः क्रमेण तु ॥ १२७ ॥
View Verse
परिवारं विना मन्त्रैः स्वैः स्वैरर्घ्यादिभिर्द्विज ।
लययागो ह्ययं विप्र हृदादिष्वनुकीर्तितः ॥ १२८ ॥
View Verse
तस्माद्धत्कर्णिकाधारे मूर्तौ वा यत्र कुत्रचित् ।
मूलमन्त्रशरीरस्थं परिवारं यजेत् सदा ॥ १२९ ॥
View Verse
याग एष लयाख्यस्तु संक्षिप्तः सर्वसिद्धिदः ।
मन्त्रराट् कर्णिकामध्ये लक्ष्म्याद्याः केसरादिषु ॥ १३० ॥
View Verse
साकाराः केवलाः सर्वे यत्र भोगाभिधः स तु ।
केवलेन च यागेन पृथग्भूतेन नारद ॥ १३१ ॥
View Verse
पूजनं कमलादीनामधिकाराभिधः स तु ।
एवं कृत्वा लयाख्यं तु यागं भोगाभिधं तथा ॥ १३२ ॥
View Verse
ततः क्रमाद्यजेद्देवं भोगैरमृतसंभवैः ।
सुसमस्तादिभिः सम्यक्ताम्बूलान्तैर्यथोदितैः ॥ १३३ ॥
View Verse
सर्वं कृत्वा यथायोगं यावदात्मनिवेदनम् ।
मानसान् जयशब्दांश्च कृत्वा विज्ञापयेदिदम् ॥ १३४ ॥
View Verse
स्वागतं तव देवेश सन्निधिं भज मेऽच्युत ।
गृहाण मानसीं पूजा यथार्थपरिभाविताम् ॥ १३५ ॥
View Verse
ज्ञात्वा तु सुप्रसन्नं त प्रसादाभिमुखं प्रभुम् ।
विस्तरेण द्विजश्रेष्ठ मानसं यागमारभेत् ॥ १३६ ॥
View Verse
संकल्पजनितैर्भोगैः पवित्रैरक्षयैः शुभैः ।
सांस्पर्शैरौपचाराख्यैस्तथा चाभ्यवहारिकैः ॥ १३७ ॥
View Verse
महद्रपैः प्रभूतैस्तु सप्तलोकसमुद्भवैः ।
यथोदितैस्तु विधिवदुत्कृष्टतरलक्षणैः ॥ १३८ ॥
View Verse
एवंविधांस्तु तान् भोगान् सद्भक्त्या विनिवेद्य च ।
समुच्चरन् धिया मन्त्रं प्रसन्नेनान्तरात्मना ॥ १३९ ॥
View Verse
गजाश्वधेनुयानानि सुवस्त्रालङ्कतानि च ।
निवेद्यचान्त र्मानानि ग्राहयन्तं स्मरेत्ततः ॥ १४० ॥
View Verse
आत्मानं ससुतान् दारान् सर्वस्वेन समायुतान् ।
निवेद्य प्रणतो मूर्ध्ना आनन्दाश्रुसमन्वितः ॥ १४१ ॥
View Verse
कामधेनुमयीं मुद्रां मनसा मन्त्रसंयुताम् ।
बध्वा संचिन्तयेद्विष्णोः सर्वकामप्रपूरणीम् ॥ १४२ ॥
View Verse
ततो विशेषयजनं कल्पयेदच्युतस्य तु ।
सौवर्णपुष्पसंपूर्णमञ्जलिं संप्रसार्य च ॥ १४३ ॥
View Verse
मूलमन्त्रं समुच्चार्य प्रयत्नैः पूरकादिकैः ।
दीर्घघण्टारवप्रख्यं यावत्तत्संभवावधि ॥ १४४ ॥
View Verse
स्फुरद्रश्मिचयाकीर्णं वह्न्यर्केन्दुशतप्रभम् ।
ध्यात्वा नारायणं देवमञ्जलौ सन्निरोधयेत् ॥ १४५ ॥
View Verse
तमञ्जलिं क्षिपेन्मूर्ध्नि तस्मिन् वै मन्त्रविग्रहे ।
अर्ध्यं निवेदयेद्भूयः पुनः पुष्पाञ्जलिं शुभम् ॥ १४६ ॥
View Verse
मुद्रां सन्दर्श्य मूलाख्यां मानसीं जपमारभेत् ।
संख्याहीनं यथाशक्ति घण्टाख्यकरणेन च ॥ १४७ ॥
View Verse
भोगस्थानगतानां च लक्ष्म्यादीनां क्रमेण तु ।
मनसा दर्शयेन्मुद्रां जपं कुर्यात् सकृत् सकृते ॥ १४८ ॥
View Verse
स्तोत्रमन्त्रैः पवित्रैश्च स्तुत्वा सम्यक् प्रसादयेत् ।
एवं क्रमेण विप्रेन्द्र कृत्वा यागं तु मानसम् ॥ १४९ ॥
View Verse
होमं तथाविधं कुर्यान्मोक्षलक्ष्मीप्रदं शुभम् ।
नाभिचक्रान्तरस्थं तु ध्यायेद्वह्निगृहं मुने ॥ १५० ॥
View Verse
त्रिकोणं त्रिगुणेनैव अव्यक्तेनावृतं परि ।
ध्यानारणिं तु निर्मथ्य चिदग्निमवतार्य च ॥ १५१ ॥
View Verse
सुशुद्धं संस्कृतं दीप्तं सदैवोर्ध्वशिख द्विज ।
वासुदेवात्मकं यस्मात् स वसत्यन्तरात्मसु ॥ १५२ ॥
View Verse
प्रोच्चरेन्मूलमन्त्रं तु यावच्छब्दस्य गोचरः ।
तत्रस्थमाहरेद्दिव्यमाह्लादाज्यामृतं परम् ॥ १५३ ॥
View Verse
ब्रह्नसर्पिस्समुद्राद्यन्निस्तरङ्गात् परिच्युतम् ।
गृहीत्वाऽमृतमार्गेण ब्रह्यरन्ध्रेण संविशेत् ॥ १५४ ॥
View Verse
हृदयान्मध्य मार्गेण चिन्मयेन सदीप्तिना ।
प्रोल्लसन्तं स्मरेन्मन्त्रं व्रह्नशक्त्युपबृंहितम् ॥ १५५ ॥
View Verse
स्वकारणाग्नौ नाभिस्थे य ऊर्ध्वेन्धनवत् स्थितः ।
स्वभावदीप्तब्रह्नाग्नौ परितश्चोदरोज्ज्वलम् ॥ १५६ ॥
View Verse
स्मृत्वा यन्त्रं तु तन्मूर्ध्नि पतमानं द्विजाम्बरात् ।
चिन्तयेदा मृतं त्वाज्यं पुरावच्चाहृतं द्विज ॥ १५७ ॥
View Verse
चिदग्निमेवं सन्तर्प्य नाभौ मन्त्रस्वरूपिणम् ।
ज्वालाग्रावस्थितं चैव भूयो हृत्पङ्कजे स्मरेत् ॥ १५८ ॥
View Verse
प्रोच्चारयंश्च मन्त्रेशं प्लुतं ध्यानसमन्वितम् ।
कृत्वैवमेकसन्धानं स्थानद्वयगतस्य च ॥ १५९ ॥
View Verse
विण्णोर्मन्त्रस्वरूपस्य नानामन्त्रात्मकस्य च ।
सर्वं तु विन्यसेत् पश्चात्तस्मिन् कर्मकृतं च यत् ॥ १६० ॥
View Verse
तोयपुष्पाक्षतैः पूर्णं भावयेद्दक्षिणं करम् ।
तन्मध्ये निष्कलं मन्त्रं संस्मरेत् किरणाकुलम् ॥ १६१ ॥
View Verse
यागोत्थां फलसंपत्तिं लक्ष्मीरूपां विचिन्त्य च ।
मूलमन्त्रं समुच्चार्य पाणिमध्ये तथा स्मरेत् ॥ १६२ ॥
View Verse
भूयश्च निष्कलं मन्त्रं तस्यामुपरि भावयेत् ।
सशीर्षे जानुनी भूमौ कृत्वा विष्णोर्निवेदयेत् ॥ १६३ ॥
View Verse
प्रसादाभिमुखेनाथ तेन तच्चात्मसात्कृतम् ।
भावनीयं द्विजश्रेष्ठ परितुष्टेन चादरात् ॥ १६४ ॥
View Verse
निर्वृत्ते पुरुषार्थे तु हृदये बाह्यतोऽपि वा ।
क्रमान्मन्त्रगणं स्मृत्वा यातं मन्त्रेश्वरे लयम् ॥ १६५ ॥
View Verse
मन्त्रव्यक्तिं स्वसंकल्पशक्तावथ शमं नयेत् ।
सह संकल्पशक्त्या वै विद्यामूर्तिं स्वकां ततः ॥ १६६ ॥
View Verse
स्वकलासु लयीकुर्यात् कलाजातं तथाऽत्मनि ।
प्राग्वदानन्दसन्दोहपरिपूर्णं तु जायते ॥ १६७ ॥
View Verse
बहिर्यजामीति यदा संकल्पं मनसा कृतम् ।
तदा संहृत्य तां व्यक्तिमास्ते मध्याह्नसूर्यवात् ॥ १६८ ॥
View Verse
विसर्जयेन्नतं यावन्न कृता बाह्यतः क्रियाः ।
न्यसनीयो ह्यसौ यस्मान्मण्डलादिषु वस्तु षु ॥ १६९ ॥
View Verse
सृष्टिकमेण संहृत्य आधारं यत् पुरोदितम् ।
ज्ञानिनां विगलत्येष स्वभावात्तत्ववेदिनाम् ॥ १७० ॥
View Verse
निष्कियाणां महाबुद्धे निष्पन्नानां स्वकर्मणा ।
विकासमेति चान्येषां नित्याकाररतात्मनाम् ॥ १७१ ॥
View Verse
मन्त्रक्रियारतानां च नानात्वेना समात्मनाम् ।
धृतमच्युतशक्त्या वै ह्यपरिच्युतसत्तया ॥ १७२ ॥
View Verse
सद्वि कल्पस्वरूपं च विश्वासनमिदं द्विज ।
विधृतं विभुना व्याप्तं स्वसामर्थ्येन यद्यपि ॥ १७३ ॥
View Verse
तत्रापि तच्छरीराणां जीवानां तन्निवासिनाम् ।
स्वशक्त्यानुगृहीतानां तमाक्रम्य महामते ॥ १७४ ॥
View Verse
नानामन्त्रात्मना त्वास्ते तस्मिन्नानाविधात्मनि ।
इत्येवमुक्तमाधारस्वरूपं हि यथा स्थितम् ॥ १७५ ॥
View Verse
जायते यत्परिज्ञानात् कर्मिणां कर्मसंक्षयः ।
अयं यो मानसो यागो ज्वरव्याधिलयापहः ॥ १७६ ॥
View Verse
पापोपसर्गशमनो भवाभावकरो द्विज ।
सतताभ्यासयोगेन देहपातात् प्रमोचयेत् ॥ १७७ ॥
View Verse
यस्त्वेवं परया भक्त्या सकृदाचरते नरः ।
क्रमोदितेन विधिना तस्य तुष्याम्यहं मुने ॥ १७८ ॥
View Verse
याजकानां च सर्वेषां प्रधानत्वेन वर्तते ।
तारयेत् स्वपितॄन् सर्वान् यातानेष्यांश्च साम्प्रतम् ॥ १७९ ॥
View Verse
किं पुनर्नित्ययुक्तो यस्तद्भावगतमानसः ।
मन्त्राराधनमार्गस्थः श्रद्धाभक्तिसमन्वितः ॥ १८० ॥
View Verse
न तस्य पुनरावृत्तिः स याति परमं पदम् ।
ज्ञात्वैवं यत्नतो नित्यं कुर्याद्यागं तु मानसम् ॥ १८१ ॥
View Verse
इदं रहस्यं परमं मयोक्तं तेऽद्य नारद ।
नाशिष्याणां च वक्तव्यं नाभक्तानां कथंचन ॥ १८२ ॥
View Verse
अत्यन्तभवभीतानां भक्तानां भावितात्मनाम् ।
इदं रहस्यं वक्तव्यं सम्यग्भावं परीक्ष्य च ॥ १८३ ॥
View Verse

Chapter 6

श्रीः ।
षष्ठोऽध्यायः ।
पुराऽनेन विधानेन कृत्वा यागं तु मानसम् ।
कर्मणा भक्तियुक्तेन बहिर्वृत्तौ यजेत्ततः ॥ १ ॥
View Verse
सनकः ।
भगवंस्त्वत्प्रसादेन ज्ञातो ह्यज्ञाननाशनः ।
ज्ञानविज्ञानसहितो हृद्यागः सर्वसिद्धिदः ॥ २ ॥
View Verse
किमर्थं बाह्यतः पूजा कार्या वै प्रतिमादिषु ।
एतदाचक्ष्व भगवन्नत्र मे संशयो महान् ॥ ३ ॥
View Verse
शाण्डिल्यः ।
बाह्योत्था वासना विप्र बहुजन्मार्जिता दृढा ।
लोलीकृतोऽनया ह्यात्मा शुद्धोऽशुद्धस्वरूपया ॥ ४ ॥
View Verse
या मन्त्रविषया शुद्धा क्रियाशान्तस्वरूपदा ।
समुत्थानविनाशार्थं तस्याः संपरिकीर्तिता ॥ ५ ॥
View Verse
स बाह्याभ्यन्तराभ्यां च क्रियाभ्यां तन्मयो भवेत् ।
दृढोत्थवासनानां च तानवं स्याच्छनैः शनैः ॥ ६ ॥
View Verse
यन्मयः साधको विप्र देहस्थः सांप्रतं भवेत् ।
तन्मयो देहपातात् स्यादित्येतत् कथितं मया ॥ ७ ॥
View Verse
अथ बाह्योत्थयागस्य विधानमवधारय ।
देवं हृत्कमलाकाशे तेजोरूपतया स्थितम् ॥ ८ ॥
View Verse
तस्मात् स्थानात् समानीय तं कुर्यान्नेत्रमद्यगम् ।
वासुदेवाभिधानं तु प्रागुक्तं च समाश्रयेत् ॥ ९ ॥
View Verse
ततो लोचनयुग्मेन स्तब्धेन द्विजसत्तम ।
जपन् लोचनमन्त्रं तु अवलोक्याखिलं तु तम् ॥ १० ॥
View Verse
स्थापितो य उपार्जित्य संभारो ह्युदकादिकः ।
ध्यायेद्दक्षिणपाणौ तु अस्त्रमादित्यसन्निभम् ॥ ११ ॥
View Verse
द्रव्यदोषगणं तेन दग्ध्वा तन्मन्त्रमुच्चरन् ।
संचिन्त्य भस्मभूतं तु तं सर्वं द्विजसत्तम ॥ १२ ॥
View Verse
दग्धदोषमथाप्याय्य वामहस्त गतेन तु ।
हृदा पूर्णेन्दुतुल्येन अमृतासारवर्षिणा ॥ १३ ॥
View Verse
तन्मन्त्रमुच्चरन् पश्चात् कान्तिमन्तं विचिन्तयेत् ।
दग्धमाप्यायितं सर्वमथ चैवं समाचरेत् ॥ १४ ॥
View Verse
प्रचण्डकिरणव्रातैर्भास्करीयैर्दहेत् पुरा ।
संचिन्त्य भस्मभूतं तं ततः पूर्णेन्दुरश्मिभिः ॥ १५ ॥
View Verse
आप्याय्यामृतकल्लोलधारापातेन सत्तम ।
कान्तिमच्चिन्तयेद्भूयो यद्दग्धं भानुना ततः ॥ १६ ॥
View Verse
बध्द्वा कामदुघां मुद्रां स्रवन्तीं मन्त्रसंयुताम् ।
गोरूपां हिमशैलाभां निराधारपदे स्थिताम् ॥ १७ ॥
View Verse
तया तदमृतीकुर्याद्भोगजालं यथास्थितम् ।
निर्मलो द्रव्यसङ्घश्च यागयोग्यो भवेत्तदा ॥ १८ ॥
View Verse
गालितेनाम्बुना पूर्णं स्वाहृतेनाम्बुना सह ।
स्वोत्तरे वर्मणा स्थाप्य कुम्भं सर्वोपयोगि यत् ॥ १९ ॥
View Verse
उपार्जितं पुरा यद्वै यागोपकरणं महत् ।
तत् सर्वं दक्षिणे कृत्वा मध्ये भद्रासनं न्यसेत् ॥ २० ॥
View Verse
प्रतिमालक्षणाध्याये वक्ष्यते तस्य लक्षणम् ।
यत्किञ्चित् पत्रपुष्पाद्यं परिदृश्येत पीठगम् ॥ २१ ॥
View Verse
पाणिना तत् समाहृत्य शुचिस्थाने निधाय वै ।
गव्यैर्वा चामरैर्वालैः शिखिपक्षैः कुशैरथ ॥ २२ ॥
View Verse
संमार्ज्य भद्रपीठं तु वाससा सुसितेन वा ।
बहुना वस्त्रपूतेन वारिणा तदनन्तरम् ॥ २३ ॥
View Verse
प्रक्षाल्य द्वादशार्णेन प्रणवाद्यन्तगेन तु ।
एवमाराधनाधारं क्षालयित्वा च वारिणा ॥ २४ ॥
View Verse
तत्तावदस्त्रपुष्पेण कुर्याद्विघ्नगणोज्झितम् ।
आराध्योऽयमथारोप्य तत्र मन्त्रमयीं शुभाम् ॥ २५ ॥
View Verse
सर्वोपकरणोपेतां सर्वलक्षणसंयुताम् ।
प्रतिमां धातुपाषाणनिर्मितामात्मसिद्धये ॥ २६ ॥
View Verse
अष्टाङ्गेन नमस्कृत्य दद्यादर्घ्यं तु मूर्धनि ।
अनुलेपनसंयुक्तं ततः पुष्पाञ्जलिं शुभम् ॥ २७ ॥
View Verse
साङ्गं सावरणं भक्त्या पूजयेत् पुरुषोत्तमम् ।
यद्वार्घ्यपाद्याचमनैर्देवमभ्यर्च्य वै ततः ॥ २८ ॥
View Verse
भुक्तमर्घ्यादिकं तस्मादपनीयाभिवाद्य च ।
समर्प्य विष्वक्सेनस्य संशोध्य मृदुना द्विज ॥ २९ ॥
View Verse
उशीरवंशकूर्चेन क्षालयेद्गन्धवारिणा ।
उच्चरन् मूलमन्त्रं वा कुर्यान्मार्गत्रयं विभो ॥ ३० ॥
View Verse
सुधौते देवदेवस्य वाससी परिधापयेत् ।
चित्रस्थाद्भगवद्बिम्बाद्भुक्तपुष्पादिकं हि यत् ॥ ३१ ॥
View Verse
अपनीय तु तत् कुर्याद्वाससा रेणुमार्जनम् ।
यद्वा प्राग्यागभवनप्रवेशानन्तरं द्विज ॥ ३२ ॥
View Verse
न्यस्य भद्रासनाद्यं तदन्यदन्यत् समाचरेत् ।
यद्वा तदातने काले न्यस्य भद्रासनादिकम् ॥ ३३ ॥
View Verse
आद्यं मार्गत्रयं कृत्वा यथोक्तविधिना ततः ।
योगपीठार्चनारम्भे बिम्बोक्तं सर्वमाचरे त् ॥ ३४ ॥
View Verse
अथार्घ्यादीनि पात्राणि प्रक्षाल्यास्त्रेण वारिणा ।
समापूर्य सुगन्धेन जलेन हृदयेन तु ॥ ३५ ॥
View Verse
द्रव्याणि निक्षिपेत्तेषु यथोक्तक्रमयोगतः ।
भद्रासनस्य कोणेषु पुरतो वाससास्तृते ॥ ३६ ॥
View Verse
भूतले वाऽथ पात्राणि आधारोपरि विन्यसेत् ।
स्वपूर्वनियमेनैव उदक्पश्चिमकोणगम् ॥ ३७ ॥
View Verse
अर्घ्याम्बुकलशं न्यस्य ततः प्रागुत्तरान्तरे ।
न्यसेदाचमनीयाख्यमाग्नेये स्नानसंज्ञितम् ॥ ३८ ॥
View Verse
विन्यस्य पाद्यसंज्ञं तु पदे दक्षिणपश्चिमे ।
अग्रतो वापि तन्मद्ये न्यसेदर्घ्यं द्वितीयकम् ॥ ३९ ॥
View Verse
अग्निकोणे त्वर्घ्यपात्रं पाद्यमैशानकोणके ।
आचामं नैऋते भागे स्नानार्थं वायवे तथा ॥ ४० ॥
View Verse
ईश्वरप्राग्वशादर्घ्यमाग्नेयादिषु कोणके ।
मुख्यामुख्यार्घ्यपाद्यादिक्रमाद्द्रव्याणि निक्षिपेत् ॥ ४१ ॥
View Verse
चन्दनं शशिबाह्लीकदूर्वासिद्धार्थकानि च ।
साक्षतानि कुशाग्रणि तण्डुलानि तिलानि च ॥ ४२ ॥
View Verse
काञ्चनं रजतं ताम्रं रत्नानि च फलानि च ।
कदलीफलपूर्वाणि प्रधानेऽर्घ्ये विनिक्षिपेत् ॥ ४३ ॥
View Verse
द्वितीये दधिमध्वाज्यक्षीरबिन्दुचतुष्‍टयम् ।
कुशाग्रेण सबाह्लीकं सपुष्पं तिल तण्डुलम् ॥ ४४ ॥
View Verse
दूर्वां च विष्णुकान्तां च श्यामाकं शङ्खपुष्पकम् ।
पद्मकं कुन्दरेणुं च पाद्यपात्रे विनिक्षिपेत् ॥ ४५ ॥
View Verse
एलालवङ्गतक्कोलैः सहजातिफलानि च ।
चन्दनं च सकर्पूरं क्षिपेदाचमनीयके ॥ ४६ ॥
View Verse
कुष्टं मांसीं हरिद्रे द्वे मुरा शैलेयचम्पकान् ।
वचाकच्चोरमुस्ताश्च स्नानीये तु विनिक्षिपेत् ॥ ४७ ॥
View Verse
पात्रन्यासक्रमेणैव तानि पात्राणि कल्पयेत् ।
तत्तत्कल्पनमन्त्रैस्तु यद्वा प्रागेव तानि तु ॥ ४८ ॥
View Verse
तोयैः संपूर्य निक्षिप्य द्रव्याण्यपि यथाक्रमम् ।
तत्तत्कल्पनमन्त्रैस्तु स्वाधारेषु निवेशयेत् ॥ ४९ ॥
View Verse
यथास्थानं ततः कुर्याद्दहनाप्यायनादिकम् ।
पात्राणां तु तदानीं वा भोगानामपि तत् त्रयम् ॥ ५० ॥
View Verse
दक्षिणेन तु हस्तेन पुष्पमादाय तत्र वै ।
ध्यात्वा निष्कलरूपं तु मूलमन्त्रमनन्यधीः ॥ ५१ ॥
View Verse
तत्प्रोक्षणार्घ्ये निक्षिप्य चतुरावर्त्य तं तथा ।
जपन् पुनस्तदुद्धृत्य तस्मात् स्थानाद्बहिः क्षिपेत् ॥ ५२ ॥
View Verse
ततस्तदम्भसास्त्रेण वेदिं भोगानुपार्जितान् ।
आत्मानं चापि संप्रोक्ष्य ह्यर्घ्यादीनभिमन्त्रयेत् ॥ ५३ ॥
View Verse
सास्त्रेण मूलमन्त्रेण तानभ्यर्च्य प्रसूनकैः ।
साङ्गेन मूलमन्त्रेण ततोऽभ्यर्च्य यथाविधि ॥ ५४ ॥
View Verse
धूपपात्रं च घण्टां च तानि धूपेन पूजयेत् ।
धूपपात्रस्य घण्टायाः पूजनं चावधारय ॥ ५५ ॥
View Verse
धूपपात्रस्य मूले तु क्ष्मातत्वं कमले जलम् ।
चक्रेऽग्निं किङ्किणीजाले वायुं खं कर्णिकोपरि ॥ ५६ ॥
View Verse
एवं ध्यात्वार्च्य तन्मन्त्रैस्तन्मन्त्रेणार्चयेत्तु वा ।
यच्चक्रं तच्च हृदयं पद्मं हृत्कोटरं विदुः ॥ ५७ ॥
View Verse
चक्रे याश्च अराख्यास्ता नाड्यो वै द्वादश स्मृताः ।
किङ्किण्यो याः स्थिता विप्र ज्ञेयास्ताः सूक्ष्मनाडयः ॥ ५८ ॥
View Verse
यासां वै मध्यमा शक्तिर्भुजङ्गकुटिलोपमा ।
धूमधूसरवर्णाभा अण्डं भित्वा विनिर्गता ॥ ५९ ॥
View Verse
कालाग्निहृदयोत्था सा सत्यान्ते तु लयं गता ।
तया संबोधितो ह्यात्मा मन्त्रमूर्तिधरः प्रभुः ॥ ६० ॥
View Verse
सन्निधौ भवति क्षिप्रमव्युच्छिन्नं दहेत्तथा ।
अथ स्वरूपं घण्टाया यथावदवधारय ॥ ६१ ॥
View Verse
व्यक्तं तत्राश्रिता नित्यं मातृकावर्णविग्रहा ।
तत्र चाक्रमराबृन्दं स्वरद्वादशकं स्मृतम् ॥ ६२ ॥
View Verse
तदेव षोडशारे च वर्णैः सह नपुंसकैः ।
वर्णानां त्रिविधं रूपं सर्वेषां द्विजसत्तम ॥ ६३ ॥
View Verse
संस्थितं वैखरीनिष्ठं पस्यन्ती पूर्वकं क्रमात् ।
अराश्रितं द्विषट्कारे वाक्स्वरूपं परं हि यत् ॥ ६४ ॥
View Verse
तदेव षोडशारे च तत्र वैकर्तने षु च ।
मध्यमाख्यस्वरूपेण नित्यमेव हि वर्तते ॥ ६५ ॥
View Verse
अत ऊर्ध्वं चतुर्विंशत्संख्यं वर्णगणं हि यत् ।
दलजालं हि तत् पद्मं परिज्ञेयं महामते ॥ ६६ ॥
View Verse
मकारसंज्ञं यद्वर्णं विद्धि तत् पद्मकर्णिकाम् ।
शङ्खं यकारवर्णं च समुष्टीके सदा गृहे ॥ ६७ ॥
View Verse
रादयः सप्त ये वर्णा हान्ताः पर्वगदात्मकाः ।
क्षार्णं पतत्रिराजाद्यमेवं ध्यात्वा ततो द्विज ॥ ६८ ॥
View Verse
शब्दब्रह्मस्वरूपा च घण्टाविग्रहलक्षणा ।
विज्ञेया भगवच्छक्तिः षाड्गुण्यान्तर्गता हि सा ॥ ६९ ॥
View Verse
तेजोगुणसमोपेता तैजसद्रव्यरूपधृक् ।
घण्टाख्यमेतद्वै विद्धि आध्यक्षीयं गुणद्वयम् ॥ ७० ॥
View Verse
अस्यामाश्रित्य ये वर्णा ज्ञातव्यास्ते सदैव हि ।
नित्यमर्चनकाले तु साधकैः सिद्धिलालसैः ॥ ७१ ॥
View Verse
कालवैश्वानरोपेतमनन्तं शब्दचोदके ।
मुक्ताहाराश्रितं शङ्खं घण्टाया वदने स्थितम् ॥ ७२ ॥
View Verse
संस्थितं च महाबुद्धे तदूर्ध्वे गगनाश्रितम् ।
चक्रं यस्मिन्नरोद्देशे द्वादशात्मा स्थितो रविः ॥ ७३ ॥
View Verse
मासात्मना पुनः सो वैकर्तनेष्ववतिष्ठते ।
षोडशारेऽमृतात्मा वै कलादेहस्तु चन्द्रमाः ॥ ७४ ॥
View Verse
सर्वेषु वृत्तक्षेत्रेषु नभस्वान् स्वयमेव हि ।
तत्वसङ्घं हि चाव्यक्तं पद्मपत्राश्रितं तु वै ॥ ७५ ॥
View Verse
जीवः कमलकिञ्जल्के कर्णिकाश्रित ईश्वरः ।
शङ्खाश्रितश्च प्रणवो विद्यां विद्धि गदाश्रिताम् ॥ ७६ ॥
View Verse
प्राणाधिदैवं गरुडमित्येवं देवतागणम् ।
ध्यात्वार्चयेत् पुरार्घ्याद्यैर्धूपान्तैरथवा द्विज ॥ ७७ ॥
View Verse
अधोमुखं तु ब्रह्माण्डं ध्यायेज्जनरवाकुलम् ।
सनालं च तदुर्ध्वे तु पद्ममष्टदलं स्मरेत् ॥ ७८ ॥
View Verse
प्रकीर्णपत्रं सुसितं केसरालिसुकर्णिकम् ।
तन्मध्ये चिन्तयेद्देवीं वर्गाष्टकभुजान्विताम् ॥ ७९ ॥
View Verse
मुख्ये हस्तचतुष्के तु लाञ्छनं कमलादिकम् ।
स्फाटिकं चाक्षसूत्रं च तथा विज्ञानपुस्तकम् ॥ ८० ॥
View Verse
अभयं वरदं चैव हस्तद्विद्वितये परे ।
पद्मासने चोपविष्टां पद्मपत्रायतेक्षणाम् ॥ ८१ ॥
View Verse
पद्मगर्भप्रतीकाशां पद्ममालाविभूषिताम् ।
सिताभरणसञ्छन्नां पीतवस्त्रविवेष्टिताम् ॥ ८२ ॥
View Verse
मन्त्रौघमुद्गिरन्तीं च मन्त्रज्वालाप्रभान्विताम् ।
देवैः संस्तूयमानां च ब्रह्माद्यैर्ब्रह्मवादिभिः ॥ ८३ ॥
View Verse
ऋषिभिर्मुनिभिः सिद्धैर्लोकानुग्रहकारिभिः ।
नम्यमानां स्मरेत् सम्यक् पूजाकाले सदैव हि ॥ ८४ ॥
View Verse
योऽनया पूजयेन्मन्त्रं तस्य सिद्धिर्नदूरतः ।
एवं ध्यात्वार्चयेत् सम्यगर्घ्याद्यैस्तु ततः स्मरेत् ॥ ८५ ॥
View Verse
शब्दब्रह्ममहो यद्यद्धृदब्जाकाशमध्यगम् ।
नित्योदितमनौपम्यमनभ्यासादगोचरम् ॥ ८६ ॥
View Verse
उपदेष्टुमतोऽन्येषामभक्तानां न युज्यते ।
परस्वरूपमन्त्राणामेतल्लक्षणमब्जज ॥ ८७ ॥
View Verse
दशप्रकारे यच्छब्दे विसर्गान्तेऽक्षरादिके ।
नानामन्त्रस्वरूपेण वर्तते वर्णविग्रहे ॥ ८८ ॥
View Verse
भोगमोक्षप्रदो मन्त्रो य आप्तः सद्गुरोर्मुखात् ।
पञ्चस्थानगतो ज्ञेयो भक्तैर्दिव्यक्रियापरैः ॥ ८९ ॥
View Verse
बहिःस्थप्रतिमादौ तु जिह्वाग्रे हृत्कुशेशये ।
धूपधूमशिखायां च घण्टाशब्दे सुलक्षणे ॥ ९० ॥
View Verse
स्वरूपज्योतिरेवान्तर्भावयेत् संस्थितं हृदि ।
मध्यमेन स्वरूपेण अव्युच्छिन्नं महामते ॥ ९१ ॥
View Verse
धूपधूमाश्रितं विद्धि वैखरीविग्रहं पुनः ।
घण्टायां चाल्यमानायामच्छिन्नमनुभूयते ॥ ९२ ॥
View Verse
एवं स्मृत्वा ततस्तां तु सुमन्त्रन्यस्तविग्रहाम् ।
अर्चितां ध्यानसंयुक्तामर्घ्याद्यैर्धूपसंयुतैः ॥ ९३ ॥
View Verse
सञ्चालयेत्ततः सम्यक् सुशब्दां मन्त्रबोधिनीम् ।
त्रैलोक्यद्राविणीं घण्टां सर्वदुष्टनिबर्हिणीम् ॥ ९४ ॥
View Verse
एषा द्रुतिर्हि मन्त्राणां सुप्तानां च प्रबोधिनी ।
वारणी सर्वविघ्नानां सर्वमन्त्रप्रसादिनी ॥ ९५ ॥
View Verse
प्रणवान्ते ध्वनिर्ह्येषा शब्दशक्तौ लयं गता ।
वर्णदेहाः स्मृता मन्त्रा मन्त्रदेहाश्च देवताः ॥ ९६ ॥
View Verse
घण्टास्तनितमूलास्ते प्रबुद्धाः कर्मसिद्धिदाः ।
परशब्दोत्थिता शक्तिर्घण्टास्तनितरूपिणी ॥ ९७ ॥
View Verse
वर्णत्वं समनुप्राप्ता तैर्वर्णैर्मुनिसत्तम ।
मन्त्राणां कल्पिता देहा नानाकाराः सहस्रशः ॥ ९८ ॥
View Verse
स्वेच्छया त्वनया शक्त्या सामर्थ्यात् स्वात्मनः स्वयम् ।
अनुग्रहार्थं भविनां भक्तानां भावितात्मनाम् ॥ ९९ ॥
View Verse
मननान्मुनिशार्दूल त्राणं कुर्वन्ति वै यतः ।
ददते पदमात्मीयं तस्मान्मन्त्राः प्रकीर्तिताः ॥ १०० ॥
View Verse
अनभिव्यक्तशब्दास्ते निराकारास्तथैव च ।
घण्टायां चाल्यमानायां निर्यान्ति च सहस्रशः ॥ १०१ ॥
View Verse
अत एव मुनिश्रेष्ठ मन्त्रमाता प्रकीर्तिता ।
एषा घण्टाभिधा शक्तिर्वागीशा च सरस्वती ॥ १०२ ॥
View Verse
वाचि मन्त्राः स्थिताः सर्वे वाच्यं मन्त्रे प्रतिष्ठितम् ।
मन्त्ररूपात्मकं विश्वं सबाह्याभ्यन्तरं ततः ॥ १०३ ॥
View Verse
घण्टाशब्दगतं सर्वं तस्मात्तां चालयेत् पुरा ।
स्वेषु चोक्तेषु कालेषुतांस्तु मे गदतः श्रृणु ॥ १०४ ॥
View Verse
गणेशपीठद्वारस्थदेवानामर्चने ततः ।
आहूतिकाले मन्त्राणां धूपदाने विशेषतः ॥ १०५ ॥
View Verse
दीपदानेऽर्घ्यदाने च तथा नैवेद्यजोषणे ।
जपस्तुत्यवसानाभ्यां प्रवृत्ते चाग्नितर्पणे ॥ १०६ ॥
View Verse
पूर्णाहुतिप्रदाने च मन्त्राणां तु विसर्जने ।
विष्वक्सेनार्चने चैव तत्पूजाप्रतिपादने ॥ १०७ ॥
View Verse
बलिप्रदानकाले तु देवतानां विशेषतः ।
नातोऽन्यदा स्याद्विहितं चालनं सिद्धिमिच्छिताम् ॥ १०८ ॥
View Verse
धूपं दत्वाऽथ पात्राणां घण्टाशब्दसमन्वितम् ।
धूपं दद्याद्यथाकालं यद्वार्घ्यादौ सकृत् सकृत् ॥ १०९ ॥
View Verse
अनुकल्पे तु हृन्मन्त्रं कुर्यादावर्तनं बुधः ।
आवाहने सन्निधाने सन्निरोधे तथाऽर्चने ॥ ११० ॥
View Verse
विसर्जनेऽर्घ्यदानं तु प्राक्पात्रान्नित्यमाचरेत् ।
तदम्भसा चार्हणं तु तथैव परिषेचनम् ॥ १११ ॥
View Verse
कुर्यात् प्रणयनादानं प्रीणनं प्रीतिकर्मणि ।
प्रोक्षणं सर्ववस्तूनामन्यस्मादुदकेन तु ॥ ११२ ॥
View Verse
आरम्भे सर्वकार्याणां तत्समाप्तौ सदैवहि ।
न्यूनाधिकानां शान्त्यै तु ज्ञानव्यत्ययशान्तये ॥ ११३ ॥
View Verse
कार्यं तदर्घ्यदानं च नित्यं मन्त्रात्मनो विभोः ।
कुम्भोपकुम्भकुण्डानां मन्त्रास्त्रकलशार्चने ॥ ११४ ॥
View Verse
संपूजने च भोगानां गुर्वादीनां महामते ।
दक्षशिष्यात्मपूजार्थं द्वार्स्थानामर्चनं प्रति ॥ ११५ ॥
View Verse
प्रासादासनदेवानां गुरूणां सन्ततेस्तथा ।
लाञ्छनाङ्गपरीवारशक्तिभूषणरूपिणाम् ॥ ११६ ॥
View Verse
मण्डलावरणस्थानां देवानां चार्चनं तथा ।
मुद्राबन्धे कराभ्युक्षां तदर्चाक्षालनं तथा ॥ ११७ ॥
View Verse
जपकालेऽक्षसूत्रस्य कुर्यात्तत्पूजनं तथा ।
पाद्यदानं तृतीयात्तु नित्यं पात्रात् समाचरेत् ॥ ११८ ॥
View Verse
चतुर्थात्तु यथाकालं दद्यादाचमनं पुनः ।
हस्तप्रक्षालनं चैव गण्डूषं मुखधावनम् ॥ ११९ ॥
View Verse
स्नानीयाच्चाचरेत् स्नानं प्रयोजकविधिस्त्वयम् ।
अर्ध्यपात्रात् द्वितीयात्तु किञ्चिदुद्धृत्य वै जलम् ॥ १२० ॥
View Verse
तेन स्वदेहविन्यस्तान् मन्त्रानिष्ट्वा यथाक्रमम् ।
अनुलेपनपुष्पेण धूपेन च ततो मुने ॥ १२१ ॥
View Verse
मत्पूजार्थं प्रक्लृप्तानि गन्धपुष्पाणि यानि च ।
तानि सर्वाण्यथाचार्यो धारयेन्न कदाचन ॥ १२२ ॥
View Verse
धारयेद्यदि संमोहाल्लोभाद्वा तानि देशिकः ।
गन्धादीन्यर्चनार्थानि सा पूजा निष्फला भवेत् ॥ १२३ ॥
View Verse
तस्मात् सर्वप्रयत्नेन पृथक्कुर्याद्यथाविधि ।
अर्घ्यादिकं समादाय द्वार्स्थदेवान् समर्चयेत् ॥ १२४ ॥
View Verse
निर्गत्य द्वारबाह्ये तु स्थितो वासीन एव वा ।
वास्तुक्षेत्रेशगरुडद्वार्श्रीचण्डप्रचण्डकान् ॥ १२५ ॥
View Verse
अभ्यर्च्यार्द्यादिभिर्देवान् प्रासादस्थांश्च पूजयेत् ।
प्रासादेऽथ चतुर्द्वारे मण्डपे चेतरेषु च ॥ १२६ ॥
View Verse
द्वारत्रयेऽथ धातारं विधातारं जयं तथा ।
विजयं चापि भद्रं च सुभद्रं च गणेश्वरम् ॥ १२७ ॥
View Verse
यदङ्गभावमभ्येति द्वार्स्थाद्यं देवतागणम् ।
विष्वक्सेनावसानं च नराणामल्पमेधसाम् ॥ १२८ ॥
View Verse
जन्तोरेकान्तिनस्तद्वै चित्तखेदकृदर्चनम् ।
विघ्नकृत् प्रकृतस्यापि शिष्याणां तदनर्चनम् ॥ १२९ ॥
View Verse
अतस्तदनुकम्पार्थं देवभृत्यधियाऽर्चनम् ।
भक्तिथद्धोज्झितं चैव विहितं त्वेवमेव हि ॥ १३० ॥
View Verse
ते तत्प्राणिच्युतं प्रह्वा दत्तमप्यवहेलया ।
गृह्णन्ति मनसा श्रेयः परं ध्यात्वा धिया हृदि ॥ १३१ ॥
View Verse
यतः सर्वेऽच्युतमयास्तच्चित्तार्पितमानसाः ।
एतावदर्चनात्तेषां गुरोरेकान्तिनस्तु वै ॥ १३२ ॥
View Verse
स्याद्विरोधनिरासस्तु यतो भृत्यास्तु ते हरेः ।
कृत्वैवं द्वारयागं तु ततः पुष्पं च संमुखम् ॥ १३३ ॥
View Verse
गृहीत्वाङ्गुष्ठपूर्वेण स्वाङ्गुलित्रितयेन तु ।
अभिमन्त्र्य तदस्त्रेण चक्रं तदुपरि स्मरेत् ॥ १३४ ॥
View Verse
निशितारं ज्वलद्रूपं वर्षन्तमनलाशनिम् ।
क्षयकृद्विघ्नजालानां क्षिपेद्यागगृहान्तरे ॥ १३५ ॥
View Verse
ततस्तत्तेजसा विघ्नजालं निष्कासयेन्महत् ।
बहिर्भवनमध्यात्तु ततस्तदनुकम्पया ॥ १३६ ॥
View Verse
स्वदेहादामृतं भागममृतांशुसमं स्मरेत् ।
प्राङ्मन्त्रमात्रविन्यासात् स तेषामनलप्रभः ॥ १३७ ॥
View Verse
प्रतिभाति यतस्तेन मन्त्रपुष्पसमाश्रयात् ।
निर्गच्छन्ति तमाश्रित्य वामभागमतस्तु ते ॥ १३८ ॥
View Verse
दक्षिणां तर्जनीं विप्र कुर्यादूर्ध्वमुखीं ततः ।
शिखामन्त्रेण संयुक्तां विद्युद्विलसितप्रभाम् ॥ १३९ ॥
View Verse
स्मृत्वा स्वां विघ्नशान्त्यर्थं भ्रामयन्नन्तराविशेत् ।
स्वासनं च ततः प्रोक्ष्य अर्घ्यपात्रोदकेन च ॥ १४० ॥
View Verse
सास्त्रेण ताड्य पुष्पेण तत्पृष्ठे क्रमशो द्विज ।
आधारशक्तिपूर्वं तु मन्त्रसङ्घं प्रपूजयेत् ॥ १४१ ॥
View Verse
उपविश्यासने यागमारभेत समाहितः ।
समये वात्र कुर्वीत सर्वभोगनिरीक्षणम् ॥ १४२ ॥
View Verse
न्यस्य भद्रासनं मूलात् प्रोक्षणार्घ्यप्लुतेन तु ।
पाणिनाऽप्यथ कूर्चेन तज्जलेन तु मार्जयेत् ॥ १४३ ॥
View Verse
तत्तावदस्त्रपुष्पेण कुर्याद्विघ्नगणोज्झितम् ।
सर्वलोकमयं तत्र सर्वदेवसमाश्रयम् ॥ १४४ ॥
View Verse
सर्वाधारमयं ध्यायेदन्तर्लीनं तु चक्रराट् ।
प्रणवेन स्वनाम्नाऽथ नमोऽन्तेनार्चयेच्च तम् ॥ १४५ ॥
View Verse
ततस्तु सर्वमन्त्राणां विन्यासं तत्र चेतसा ।
समाचरेद्यथायोगं पुष्पदानपुरस्सरम् ॥ १४६ ॥
View Verse
अर्घ्यालभनधूपैस्तु माल्यैर्नानास्रगुद्भवैः ।
योगपीठार्चनं कुर्याद्यथावदवधारय ॥ १४७ ॥
View Verse
बिम्बेन सहितं पीठं योगपीठमुदाहृतम् ।
अनुसन्धानयागे तु योगपीठं प्रकल्पयेत् ॥ १४८ ॥
View Verse
तन्मन्त्रासनमित्युक्तं मन्त्रन्यासं तु सर्वतः ।
कुर्यात्तत्स्थस्य देवस्य पीठस्याधो निवेशयेत् ॥ १४९ ॥
View Verse
आधारशक्तिं तस्योर्ध्वे कूर्मं कालाग्निसंज्ञिकम् ।
तन्मूर्ध्नि शेषसंज्ञं तु योगपीठपदोपरि ॥ १५० ॥
View Verse
भुवं न्यस्य तदूर्ध्वे तु जङ्घायां क्षीरसागरम् ।
आधारपद्मं कुमुदे तदूर्ध्वे कण्ठमूलतः ॥ १५१ ॥
View Verse
आग्नेय्यादौ तु धर्माद्यमैशान्तं तच्चतुष्टयम् ।
प्रागाशादौ त्वधर्माद्यमुत्तरान्तं न्यसेत् परम् ॥ १५२ ॥
View Verse
ऋग्वेदं कल्पयेदेवं प्रागीशानदिगन्तरे ।
यजुःप्राग्वह्निदिङ्मध्ये सामान्तर्यातुवारुणे ॥ १५३ ॥
View Verse
वारुणानिलदिङ्मध्येऽथर्ववेदं ततःपरम् ।
ईशानसोमदिङ्मध्ये कृतं याम्यानलान्तरे ॥ १५४ ॥
View Verse
त्रेतायुगं यातुयाम्यदिङ्मध्ये द्वापारं युगम् ।
सोमवाय्वन्तरोद्देशे कलिसंज्ञं युगं क्रमात् ॥ १५५ ॥
View Verse
आधारशक्तेरारभ्य अनुसन्धानपूर्वकम् ।
युगावसानं प्राग्दत्वा स्थूलं मन्त्रासनासनम् ॥ १५६ ॥
View Verse
तच्च षोडशकं न्यस्य भूयो भूयो दिगष्टके ।
सूक्ष्मरूपधरं विप्र प्राक्पदादीशगोचरम् ॥ १५७ ॥
View Verse
तत्रोर्ध्वे मध्यदेशे वै प्रागुक्तविधिना न्यसेत् ।
द्विरष्टकं तु धर्माद्यं कान्तिमत् पररूपधृत् ॥ १५८ ॥
View Verse
तन्मूर्ध्नि कालचक्रं तु व्योमवत्पट्टिकागतम् ।
तन्मध्येऽव्यक्तपद्मं तु गुणत्रयसमन्वितम् ॥ १५९ ॥
View Verse
तद्दले सूर्यपरिधिं केसरे सोममण्डलम् ।
कर्णिकायामग्निचक्रं तद्बीजे चित्प्रभाकरम् ॥ १६० ॥
View Verse
स्मरेच्च विमलां शक्तिं तत्समीपे दिगष्टके ।
ज्ञानशक्तिं विभोः शक्तिं सत्यशक्तिमनश्वरीम् ॥ १६१ ॥
View Verse
प्रकाशशक्तिं चानन्तामीशानुग्रहशक्तिके ।
यथोक्तरूपान् ध्यात्वैतान् विभवं च यथाक्रमम् ॥ १६२ ॥
View Verse
स्वस्वतत्वानि विन्यस्य कुर्यादर्घ्यादिनार्चनम् ।
प्रदर्शयेच्च तन्मुद्रां पीठे वै सुस्थिरे सदा ॥ १६३ ॥
View Verse
आधारशक्तेरारभ्य मन्त्रग्रामस्य पौष्कर ।
सुस्थिरे सन्निरोधश्च सर्वेषां विहितः सदा ॥ १६४ ॥
View Verse
यत्र यत्रानुरूपं यत्तत्र तन्न्यासमाचरेत् ।
ईशानुग्रहशक्त्यन्तमाक्षितेः कमलोद्भव ॥ १६५ ॥
View Verse
मन्त्राणां सान्निधिः कार्या चलपीठे तु केवले ।
तात्कालिकस्तु विहितो निरोधस्तत्र सार्चनः ॥ १६६ ॥
View Verse
आहूतोपविशेद्यत्र मन्त्रनाथोऽभिसंमुखः ।
तत्प्रागपेक्षया कुर्याद्धर्मादीनां निवेशनम् ॥ १६७ ॥
View Verse
सांमुख्यं भजते यस्मात् साधकं परमेश्वरः ।
तदासनं हि चिद्रूपं सिद्धमेतस्य वाहनात् ॥ १६८ ॥
View Verse
चलबिम्बेन सह वै एकीभावगतस्य च ।
पीठस्य मन्त्रविन्यासो विहितश्चलपीठवत् ॥ १६९ ॥
View Verse
सुस्थिरस्यैकयोनेर्वै वियोनौ सुस्थिरस्य च ।
मन्त्राणां विहितो न्यासः स्थिरपीठोदितस्तु वै ॥ १७० ॥
View Verse
पीठोपपीठयुक्तानां साङ्गानां केवलात्मनाम् ।
एकादिगात्रपादानां सबिम्बानां यथाक्रमम् ॥ १७१ ॥
View Verse
मण्डलोक्तविधानेन समभ्यूह्य समाचरेत् ।
एवं चास्याचले पीठे शयानस्य विभोस्त्वथ ॥ १७२ ॥
View Verse
सशक्तिकाच्चितो भानोरूर्ध्वेऽनन्तं समर्चयेत् ।
यानारूढे त्वनन्तस्य स्थाने तार्क्ष्यं समर्चयेत् ॥ १७३ ॥
View Verse
लक्ष्म्यादीनां तु देवीनां पीठस्याधः फणीश्वरम् ।
तत्कोणेषु च धर्मादींस्तदूर्ध्वेऽव्यक्तपङ्कजम् ॥ १७४ ॥
View Verse
धामत्रयं ततस्तस्मिन् विन्यसेत् पूर्ववर्त्मना ।
व्योमबाह्ये त्वपीठानामग्निकोणादितो न्यसेत् ॥ १७५ ॥
View Verse
ज्ञान स्वभावमूर्तं च धर्माद्यं यच्चतुष्टयम् ।
तन्निविष्टं तथाभूतं तद्व्यत्ययगणं हि यत् ॥ १७६ ॥
View Verse
सह ऋक्पूर्वसामान्तकालभेदेन चान्वितम् ।
तत्पीठवसुधोद्देशे मण्‍डलादिषु वृत्तिषु ॥ १७७ ॥
View Verse
आत्मनः प्राग्वशाद्वायुकोणादारभ्य पूजनम् ।
कार्यं विघ्नेशपूर्वाणां तत्पदाद्वाग्रभूः पदम् ॥ १७८ ॥
View Verse
स्वोत्तरात् पश्चिमद्वारदेशाद्वायुपदावधि ।
वीथौ सवीथिकानां तु यागानामेतदाचरेत् ॥ १७९ ॥
View Verse
बहिर्वारणरेखाणां तन्मुक्तानां महामते ।
युक्तानां न बहिर्दोषस्तिर्यक्त्वेनार्चने सति ॥ १८० ॥
View Verse
विन्यस्य विष्टरान् दार्भान् कुसुमस्तबकानि च ।
बिन्दून् वा सर्वरोगोत्थान् क्रमात्तदुपरि न्यसेत् ॥ १८१ ॥
View Verse
गणनाथं च वागीशां गुरुं च तदनन्तरम् ।
पूजयेच्च ततो भक्त्या गुरुं परमसंज्ञितम् ॥ १८२ ॥
View Verse
आदिसिद्धसमूहं तु भगवद्ध्यानतत्परम् ।
नित्याधिकारिणश्चाप्तान् भगवत्तत्ववेदिनः ॥ १८३ ॥
View Verse
चत्वारो मनवश्चान्ये ऋषयः सप्तपूर्वकाः ।
एतेषां क्रमशो ध्यानं समाकर्णय सांप्रतम् ॥ १८४ ॥
View Verse
ध्यायेच्चम्पकवर्णाभं बद्धपद्मासनं द्विज ।
स्थूलाङ्गमेकदंष्ट्रं च लम्बक्रोडं गजाननम् ॥ १८५ ॥
View Verse
वरदाभयहस्तं च दक्षिणेऽस्याक्षसूत्रकम् ।
विश्रान्तं चिन्तयेद्वामं चतुर्थं परशूपरि ॥ १८६ ॥
View Verse
वरदाभयहस्ताभ्यामस्य मुद्राद्वयं स्मरेत् ।
तर्जन्यङ्गुष्ठसंघट्टाज्जायते यदयत्नतः ॥ १८७ ॥
View Verse
सितकुन्देन्दुधवलां शङ्खपद्मकरोद्यताम् ।
वरदाभयहस्तां वा विलिखन्तीं च पुस्तकम् ॥ १८८ ॥
View Verse
द्विनेत्रामेकवक्त्रां च हेमकुण्डलभूषिताम् ।
ध्यात्वा भगवती ह्येषा शक्तिः शब्दात्मनो विभोः ॥ १८९ ॥
View Verse
समभ्यस्ता ददात्याशु साधकानामभीप्सितम् ।
गणनाथं विना चान्ये सुस्थिताः शान्तविग्रहाः ॥ १९० ॥
View Verse
गणित्राभयहस्ताश्च सर्वानुग्रहकारकाः ।
सर्वे पद्मासना वाथ जटामण्डलभूषिताः ॥ १९१ ॥
View Verse
एवं ध्यात्वा समभ्यर्च्य मुद्राः संदृश्य तत्क्रमात् ।
अनुज्ञां प्रार्थयेत्तेभ्यो यथानुक्रममेव च ॥ १९२ ॥
View Verse
गृहीत्वा शिरसा तां च तत आवाहयेत् प्रभुम् ।
अभ्यन्तरे विमानस्य गर्भभूमौ तु मध्यतः ॥ १९३ ॥
View Verse
। सन्ध्याजलदसन्दोहसन्देहकरणक्षमम् ।
सरसीरुहमास्थाय सहस्रदलसंकुलम् ॥ १९६ ॥
View Verse
शयानं स्थितमासीनं यानारूढमथापि वा ।
निष्केवलेन सत्त्वेन संपन्नं रुचिरप्रभम् ॥ १९७ ॥
View Verse
वपुषा सुन्दरेणैव दिव्येनाविकृतेन च ।
मुञ्चन्तमनिशं देहादालोकं ज्ञानलक्षणम् ॥ १९८ ॥
View Verse
प्रयत्नेन विनाऽज्ञाननाशकृद्ध्यायिनां महत् ।
स्रग्वस्त्राभरणैर्दिव्यैः स्वानुरूपैरनूपमैः ॥ १९९ ॥
View Verse
चिन्मयैः स्वप्रकाशैश्च अन्योन्यरुचिरञ्जितैः ।
दन्तज्योत्स्नावितानैस्तु प्रकटीकृतदिङ्मुखम् ॥ २०० ॥
View Verse
रेखोत्थितैस्तु कल्हारैः पादपद्मतलेऽङ्कितम् ।
निमग्नजनसन्तापशमनव्यापृताननम् ॥ २०१ ॥
View Verse
करुणापूर्णहृदयं जगदुद्धरणोद्यतम् ।
स्वदेहतेजःसंभूतज्वालामण्डलमध्यगम् ॥ २०२ ॥
View Verse
घनकुञ्चितनीलालिगलिताञ्जनसन्निभैः ।
कर्पूरधूसरैर्दिव्यैः पुष्पसंवलितान्तरैः ॥ २०३ ॥
View Verse
किरीटमकुटाक्रान्तैः शोभितं सुशिरोरुहैः ।
ईषदारक्तगोक्षीरशुद्धनीलाब्जलोचनम् ॥ २०४ ॥
View Verse
शीतलैर्दृष्टिपातैस्तु जगदाप्यायकारिणम् ।
सुभ्रूललाटं सुनसं सुस्मिताधरविद्रुमम् ॥ २०५ ॥
View Verse
सौन्दर्यचन्द्रसंकाशविलसद्गण्डमण्डलम् ।
पूर्वकर्मानलार्तानां ध्यायिनां खेदशान्तये ॥ २०६ ॥
View Verse
स्वदन्तेन्दुचयोत्थेन ह्लादयन् गोगणेन तु ।
मुखसौन्दर्यनिष्यन्दचिबुकस्थलशोभितम् ॥ २०७ ॥
View Verse
सविलासस्मिताधारं बिभ्राणं मुखपङ्कजम् ।
कम्बुग्रीवं महाबाहुं श्रीवत्साङ्कितवक्षसम् ॥ २०८ ॥
View Verse
सिंहस्क्तन्धं विशालाक्षं दीर्घबाहुं महोरसम् ।
शङ्खचक्राङ्कितारक्तकरद्वयविभूषितम् ॥ २०९ ॥
View Verse
दक्षिणं भोगिभोगाभमुपधाय महाभुजम् ।
प्रसारितोत्तरकरं कटिदेशस्य पार्श्वतः ॥ २१० ॥
View Verse
कौस्तुभेनाङ्कितोरस्कं लक्ष्मीश्रीवत्सभूषितम् ।
आब्रह्मस्तम्बपर्यन्तजगद्वासतनूदरम् ॥ २११ ॥
View Verse
ईषत्कुञ्चितवामाङ्घ्रिपङ्कजं पङ्कजेक्षणम् ।
प्रसार्य दक्षिणं पादमीषदुत्तानशायिनम् ॥ २१२ ॥
View Verse
अनेकरत्नरचितकिरीटमकुटोज्ज्वलम् ।
उद्यदादित्यसंकाशैर्विचित्रैर्मणिसंचयैः ॥ २१३ ॥
View Verse
विराजमानया सम्यक्स्फुरच्चूलिकयोज्ज्वलम् ।
रत्नावतंसप्रभया दीप्तश्रवणशेखरम् ॥ २१४ ॥
View Verse
ललाटान्तसमालम्बिबालालङ्कारभूषितम् ।
ललाटतिलकेनैव सुन्दरेण विराजितम् ॥ २१५ ॥
View Verse
अनेकरविसङ्काशलसन्मकरकुण्डलम् ।
प्रभूतमणिमुक्ताढ्यग्रैवेयकविराजितम् ॥ २१६ ॥
View Verse
वज्रवैढूर्यमाणिक्यपद्मरागादिशोभितैः ।
हारैरनेकैर्विविधैरुपशोभितवक्षसम् ॥ २१७ ॥
View Verse
उदयादित्यसंकाशकौस्तुभेन विराजितम् ।
भ्राजयन्त्या जगत् सर्वं स्वतेजोभिर्निरन्तरम् ॥ २१८ ॥
View Verse
मालया वैजयन्त्या च भ्राजमानमहोरसम् ।
नानादामविचित्रेण मुक्तादामविलम्बिना ॥ २१९ ॥
View Verse
स्फुरता ब्रह्मसूत्रेण काञ्चनेन सुशोभितम् ।
द्युतिमद्भिर्महारत्नै राजितेन सुवर्चसा ॥ २२० ॥
View Verse
काञ्चनेनाथ सूत्रेण उदरे कृतबन्धनम् ।
नाभिदेशं तथा पद्मं जगछृङ्खलया स्वया ॥ २२१ ॥
View Verse
नानामाणिक्यविलसत्कटिसूत्रेण भूषितम् ।
अनेकरत्नसन्दर्भरशनादाममण्डितम् ॥ २२२ ॥
View Verse
अनेककोटिमार्ताण्डविलसत्पीतवाससम् ।
अनेकरत्नसंभिन्ननूपुरादिविभूषितम् ॥ २२३ ॥
View Verse
एवमन्यैश्च विविधैः केयूरकटकादिकैः ।
यथार्हभूषणै रम्यैर्ज्वलद्भिः परिभूषितम् ॥ २२४ ॥
View Verse
प्रावृड्जलदसङ्काशं भिन्नाञ्जनगिरिप्रभम् ।
अभिन्नपूर्णषाड्गुण्यविभवेनोपबृंहितम् ॥ २२५ ॥
View Verse
योगिध्येयमजं नित्यं जगज्जन्मादिकारणम् ।
अनादिनिधनं देवं साक्षाल्लक्ष्मीपतिं विभुम् ॥ २२६ ॥
View Verse
अप्राकृततनुं शान्तं वासुदेवं परात्परम् ।
चतुर्भुजमनुध्यायेच्छुद्धस्फटिकनिर्मलम् ॥ २२७ ॥
View Verse
शङ्खचक्रगदापद्मैश्चतुर्भिः कृतलक्षणम् ।
तस्मिन्नावाहनं कुर्यात् कृत्वा हस्तौ सुगन्धिनौ ॥ २२८ ॥
View Verse
गन्धार्घ्यपुष्पैः संपूर्य मूलमन्त्रं समुच्चरन् ।
पीठोपरि हरेरग्रे मूर्ध्नि पुष्पाञ्जलिं क्षिपेत् ॥ २२९ ॥
View Verse
स्वं प्रत्यभिमुखं शान्तं सुप्रबुद्धं स्मरेच्च तम् ।
करन्यासं विना तत्र सृष्टिन्यासादिकं त्रयम् ॥ २३० ॥
View Verse
मूलमन्त्रादितार्क्ष्यान्तमन्त्राणां न्यासमेव च ।
दीपयेद्बिम्बतोऽन्यत्र तस्मिन् पुष्पाञ्जलौ हरिम् ॥ २३१ ॥
View Verse
आगच्छपदयुक्तेन मूलमन्त्रेण हृत्कजात् ।
एवं तेजोमयं देवं नाडीदक्षिणमार्गतः ॥ २३२ ॥
View Verse
तन्नासाग्रेण चावाह्य पीठकुम्भादिषु क्षिपेत् ।
तत्कदम्बप्रसूनाभे तस्मिन् मन्त्रात्मगोलके ॥ २३३ ॥
View Verse
स्थानभेदं विनाङ्गानि न्यस्याभ्यर्च्येह देहतः ।
सकलीकृत्य देवेशं तं ध्यायेद्व्यक्ततां गतम् ॥ २३४ ॥
View Verse
प्राग्वदङ्गादिकांस्तत्र तत्तन्मन्त्रैस्तु निक्षिपेत् ।
एवमाहूय देवेशं दत्वार्घ्यं सन्निधित्सया ॥ २३५ ॥
View Verse
भूयोऽप्यर्घ्यं प्रदायास्मै हृदा मुद्रापुरस्सरम् ।
सन्निधाप्यार्घ्यदानेन मुद्रापूर्वं च वर्मणा ॥ २३६ ॥
View Verse
सन्निरोध्य तु मूलेन तन्मुद्रासहितेन तु ।
संमुखीकृत्य मूलादीन् मन्त्रांस्तत्र समुच्चरन् ॥ २३७ ॥
View Verse
प्रदर्शयंस्तथा मुद्रास्त्वष्टाङ्गेनाभिवादयेत् ।
अनेकमूर्तियागे तु प्रधानावाहनादिकान् ॥ २३८ ॥
View Verse
आहूतदेवश्रान्त्यर्थं गन्धादीनेवमेव च ।
व्यूहानां विभवानां प्राङ्मूलादङ्गगणार्चनम् ॥ २३९ ॥
View Verse
पश्चादन्येषु कुर्वीत क्रमेणावाहनादिकान् ।
स्थितमायतने वाथ साकारं परमेश्वरम् ॥ २४० ॥
View Verse
शङ्खचक्रधरं विष्णुं सुरसिद्धावतारितम् ।
ऋषिभिर्मनुजैर्वाथ भक्तियुक्तैः प्रतिष्ठितम् ॥ २४१ ॥
View Verse
तन्मूर्तौ च स्वमन्त्रेण यजेदावाहनं विना ।
प्रत्यहं कर्मबिम्बानां मूलबिम्बहृदब्जकात् ॥ २४२ ॥
View Verse
कुर्यादावाहनं किञ्चित्तीर्थक्षेत्रादिगामिभिः ।
नरैरा राध्यबिम्बेषु प्रत्यहं स्वहृदब्जतः ॥ २४३ ॥
View Verse
प्राग्वदावाहनं कुर्यादथ तद्विग्रहस्थितान् ।
मन्त्रन्यासादिनाभ्यर्च्य तांस्तद्देहस्फुलिङ्गवत् ॥ २४४ ॥
View Verse
ध्यात्वावतार्य स्थानेषु स्वेषु भोगावनौ क्रमात् ।
सकलीकृत्य चार्घ्याद्यैरर्चयेदत्र तु क्रमः ॥ २४५ ॥
View Verse
द्विषट्स्वब्जदलेष्वत्र मन्त्रेशस्य पुरो दलात् ।
तदाराद्दलपर्यन्तं हृदाद्यङ्गानि निक्षिपेत् ॥ २४६ ॥
View Verse
पीठोपरि दलाद्बाह्ये देवस्याग्नेयकोणके ।
पद्ममैशे गदां कोणे नैरृते चक्रमुज्ज्वलम् ॥ २४७ ॥
View Verse
वायव्ये पाञ्चजन्यं च गदायाश्च समीपतः ।
किरीटं दक्षिणे पार्श्वे वामे श्रीवत्समेव च ॥ २४८ ॥
View Verse
कौस्तुभं पद्मसामीप्ये वनमालां च दक्षिणे ।
देवस्य कर्णिकायां तु श्रियं पुष्टिं ततोऽपरे ॥ २४९ ॥
View Verse
अग्रतः पीठतो बाह्ये न्यसेच्चारात् पतत्रिपम् ।
अङ्गोपाङ्गादिकानां तु सर्वेषां ध्यानमुच्यते ॥ २५० ॥
View Verse
आहूतो मन्त्रनाथस्तु यथा ध्यातः सविग्रहः ।
तद्वदेव हि हृन्मन्त्रं ध्यायेत् कुमुदपाण्डरम् ॥ २५१ ॥
View Verse
पद्मरागाचलाकारमारक्तं च शिरः स्मरेत् ।
अञ्जनाद्रिप्रतीकाशं शिखामन्त्रं तथाकृतिम् ॥ २५२ ॥
View Verse
परितः सूर्यसन्तप्तं यथा कनकपर्वतम् ।
तथा कवचमन्त्रं च ध्यानकाले विचिन्तयेत् ॥ २५३ ॥
View Verse
वृतं ज्वालासहस्रैस्तु अयस्कान्तसमद्युति ।
सर्वास्त्रशक्तिसंपूर्णमस्त्रमन्त्रं प्रकीर्तितम् ॥ २५४ ॥
View Verse
निर्धूमाङ्गारसदृशं भावयेन्नेत्रमन्त्रराट् ।
ध्येयाः स्वरुचिसंयुक्ताः द्विभुजाः पुरुषोपमाः ॥ २५५ ॥
View Verse
एवमेव ह्युपाङ्गानां स्मरेद्ध्यानं सुलक्षणम् ।
वीक्षमाणान् विभोर्वक्त्रं ध्यायेन्मुनिवरोत्तम ॥ २५६ ॥
View Verse
स्थितानामादिमूर्तीनां स्थितान् ध्यायेत् सदैव हि ।
आसीनानामथासीनान् वाहनस्थे सवाहनान् ॥ २५७ ॥
View Verse
शयितानामथासीनानुत्थितान् वा स्मरेद्धिया ।
लाञ्छनाभरणादीनां श्रृणु ध्यानं यथाक्रमम् ॥ २५८ ॥
View Verse
कुन्दावदातं कमलं सौम्यमीषत्स्मिताननम् ।
रवं रवन्तं मधुरं श्रोत्रेन्द्रियसुखावहम् ॥ २५९ ॥
View Verse
गदां हेमाद्रिसंकाशां तन्वीं कुवलयेक्षणाम् ।
द्विरष्टवर्षवत्कान्तां कुमारीं नवयौवनाम् ॥ २६० ॥
View Verse
स्वोत्थेन रश्मिजालेन भासयन्तीं नभःस्थलम् ।
स्वरश्मिमण्डलान्तरःस्थं वल्गन्तं हेतिराट् स्मरेत् ॥ २६१ ॥
View Verse
विभोराज्ञां प्रतीक्षन्तं ह्रस्वाङ्गं रक्तलोचनम् ।
तुहिनाचलसंकाशं शङ्खं कमललोचनम् ॥ २६२ ॥
View Verse
सदागमादिसामान्तमुद्गिरन्तं स्वकैर्मुखैः ।
किरीटः सौम्यवदनः काञ्चनाभो महातनुः ॥ २६३ ॥
View Verse
भाभिराकृतियुक्ताभिर्नानारूपाभिरावृतः ।
स्थितो वैद्याधरीयेण स्थानकेनान्तरिक्षगः ॥ २६४ ॥
View Verse
स्फाटिकाद्रिप्रतीकाशं श्रीवत्समथ भावयेत् ।
बद्धपद्मासनासीनं न्यस्तहस्तं स्वपार्श्वयोः ॥ २६५ ॥
View Verse
वहन्तं कूर्ममुद्रां च मुख्यहस्तद्वयेन च ।
पद्मरागाचलाकारं कौस्तुभं रत्रनायकम् ॥ २६६ ॥
View Verse
दिशो दश द्योतयन्तं संलग्नाङ्घ्रिस्थितं स्मरेत् ।
वहन्तं चोरसो मध्ये स्वहस्तकृतसंपुटम् ॥ २६७ ॥
View Verse
सन्धारयन्तमपरं तथा वै शिरसि स्फुटम् ।
ध्येया भगवती माला चित्रवर्णा मनोरमा ॥ २६८ ॥
View Verse
सर्वगन्धान्विता सौम्या ईषद्विह सितानना ।
ध्येयाः स्वरुचिसंयुक्ता द्विभुजाः पुरुषोपमाः ॥ २६९ ॥
View Verse
सास्त्राः किरीटपूर्वा ये गदामालाङ्गनाकृती ।
एतेऽस्त्रनायकाः सर्वे विभोराज्ञाप्रतीक्षकाः ॥ २७० ॥
View Verse
प्रोत्थिता विचलन्तश्च सुसमैः स्थानकैः स्थिताः ।
श्रोणीतटार्पितकराश्चामरव्यजनोद्यताः ॥ २७१ ॥
View Verse
सपद्मं तु किरीटाद्यं वर्जयित्वा चतुष्टयम् ।
तर्जयन्तं च दुष्टौघमन्येषां दक्षिणं करम् ॥ २७२ ॥
View Verse
स्मरेद्वै ध्यानकाले च सर्वेषामथ मस्तके ।
ध्येयं स्वकं स्वकं चिह्नं सुप्रसिद्धं निराकृति ॥ २७३ ॥
View Verse
रक्तपङ्कजवर्णाभा लक्ष्मीर्नीलाम्बुजेक्षणा ।
दुग्धौघधवला पुष्टिरानन्दाकुलितानना ॥ २७४ ॥
View Verse
भोक्तृशक्तिः स्मृता लक्ष्मीः पुष्टिर्वै कर्तृसंज्ञिता ।
भोगार्थमवतीर्णस्य तस्य लोकानुकम्पया ॥ २७५ ॥
View Verse
उदितं सह तेनैव शक्तिद्वितयमव्ययम् ।
रक्ततुण्डं महाप्राणं भीमभ्रुकुटिलोचनम् ॥ २७६ ॥
View Verse
द्रवच्चामीकराकारं पक्षमण्डलमण्डितम् ।
संस्मरेद्गरुडं विप्र गृध्रवक्त्रं पृथूदरम् ॥ २७७ ॥
View Verse
यथोक्तमूर्तियुक्तांश्च ततो ध्यायेद्यथाक्रमम् ।
अपांपतिर्वै कमलं गदादेवी सरस्वती ॥ २७९ ॥
View Verse
स्वयं शशाङ्कः श्रीवत्सो मालाषण्माधवादयः ।
प्राणं पतत्रिपं विद्यादेवं तत्त्वेषु संस्थितान् ॥ २८० ॥
View Verse
अधिष्टातृ क्रमाच्चैतानर्चयेदर्घ्यपुष्पकैः ।
अष्टपत्राम्बुजे पूर्वदले हृन्मन्त्रपं शिरः ॥ २८१ ॥
View Verse
शिखामाग्नेयपत्रे तु कवचं चास्त्रमन्त्रपम् ।
दक्षिणे पत्रमध्ये तु नैरृते पत्रमध्यतः ॥ २८२ ॥
View Verse
नेत्रं पश्चिमपत्रे तु उदरं पृष्ठमन्त्रपम् ।
वायन्ये बाहुमन्त्रं तु ऊरू जानू तथोत्तरे ॥ २८३ ॥
View Verse
ईशानपत्रमध्ये तु पादमन्त्रं तु विन्यसेत् ।
दलोपदलसंयुक्तेऽप्येवमेवाम्बुजे क्रमः ॥ २८४ ॥
View Verse
अथवा दिग्दलेष्वत्र हृदाद्यं यच्चतुष्टयम् ।
अस्त्रं विदिग्दलेषु स्यान्नेत्रं केसरगं पुनः ॥ २८५ ॥
View Verse
उपाङ्गं स्यादुपदले तद्विधानमतः श्रृणु ।
पूर्वपत्रसमीपस्थतलयोरुदरं न्यसेत् ॥ २८६ ॥
View Verse
पृष्ठमन्त्रं न्यसेत्तद्वद्दलयोः पश्चिमस्थयोः ।
बाहूरू मन्त्रपौ न्यस्यौ दलयोर्दक्षिणस्थयोः ॥ २८७ ॥
View Verse
जानू पादौ तथा न्यस्यौ दलयोरुत्तरस्थयोः ।
मन्त्ररूपे षडङ्गे तु पद्मस्याष्टदलस्य तु ॥ २८८ ॥
View Verse
पूर्वस्मिन् हृदयं वामे कवचं दक्षिणे शिरः ।
पश्चिमे तु शिखां न्यस्येत् परे दलचतुष्टये ॥ २८९ ॥
View Verse
अग्रतोऽस्त्रं कर्णिकायां केसरे च पुरोदले ।
नेत्रं न्यस्यार्चयेत् प्राग्वत् पद्मादिन्यासमाचरेत् ॥ २९० ॥
View Verse
त्रिदलादिषु पद्मेषु दलमूले यथोदितम् ।
बुद्ध्या स्थानं विभज्यात्र पञ्च षड्द्वादशाथवा ॥ २९१ ॥
View Verse
न्यसेदङ्गान्यथादृष्टपृष्ठभागस्य वै विभोः ।
परिवारसमेतस्य त्वङ्गं न्यस्येत्तु दक्षिणे ॥ २९२ ॥
View Verse
भागं कृत्वा प्रकृत्याग्रात् क्रमात् प्रागादि कल्पयेत् ।
आश्रित्य वामभागं तु प्रोक्तमारभ्य चैश्वरीम् ॥ २९३ ॥
View Verse
चान्द्रं वात्यं वारुणं च दिग्विभागं प्रकल्पयेत् ।
तयोः षट्कक्रमात् कुर्याद्द्वादशस्थानकल्पनम् ॥ २९४ ॥
View Verse
धर्मादिदेवता न्यस्य ह्येवं दिग्विदिगाश्रयाः ।
श्रीपुष्ट्योस्तु य दा यागे पृथक् पद्मोपरि स्थितम् ॥ २९५ ॥
View Verse
तदाधिकारयागेऽपि पृथगेवासनादिकम् ।
वाहानां लाञ्छनादीनां विहीने वाथ पार्श्वतः ॥ २९६ ॥
View Verse
कल्पयेदथ तं भोगैर्यजेत सुसमस्तकैः ।
विनिवेद्यासनवरं समाहूतस्य वै विभोः ॥ २९७ ॥
View Verse
पादपीठं तु सामान्यं मृद्वास्तरणभूषितम् ।
घण्टाशब्दसमोपेतं दत्वार्घ्यं मन्त्रमूर्धनि ॥ २९८ ॥
View Verse
पाद्यप्रतिग्रहं हैमं विभोर्दद्यात् सरत्नकम् ।
पाद्यं पादोदकाकर्षशाटकेनानुलेपनम् ॥ २९९ ॥
View Verse
सप्रतिग्रहमाचामं सानुलेपं च मालिकाम् ।
घृतादिकैर्महादीपैरच्छिन्नैरर्चयेद्धरिम् ॥ ३०० ॥
View Verse
सुगन्धैर्मधुरैर्धूपैः प्रभूतैरर्चयेद्विभुम् ।
अर्हणं मधुपर्कं च दर्पणं तदनन्तरम् ॥ ३०१ ॥
View Verse
। ततः स्नानासनादीनां भोगानां सन्निधापनम् ।
कृत्वाभ्यर्च्यापि देवस्य पाणिना दक्षिणं पदम् ॥ ३०२ ॥
View Verse
दक्षिणेनाथ वामेन वामं संगृह्य मन्त्रतः ।
विज्ञाप्य मज्जनार्थं तु कृत्वा मार्गत्रयं ततः ॥ ३०३ ॥
View Verse
स्नानासनं निवेद्याथ देवस्य द्वितयं तु वै ।
स्नानार्थमवतीर्णस्य पादपीठमनन्तरम् ॥ ३०४ ॥
View Verse
भक्तिनम्रेण शिरसा दद्यादर्घ्यं तु मूर्धनि ।
विनिवेद्य ततो हैमं सरत्नं च प्रतिग्रहम् ॥ ३०५ ॥
View Verse
दद्याद्वै पाद्यकलशात् पाद्यं पादाम्बुजद्वये ।
शुभे च पादुके चाथ तदन्ते स्नानशाटकम् ॥ ३०६ ॥
View Verse
सुगन्धशालिसंपूर्णं मात्रार्थं पात्रमुत्तमम् ।
दर्पणं पूर्णचन्द्राभं गन्धतोयमनन्तरम् ॥ ३०७ ॥
View Verse
पाणि प्रक्षालनार्थं तु पादपीठं ततः शुभम् ।
शिरस्पृष्टेन तैलेन किंचिन्नाङ्गमुपस्पृशेत् ।
दन्तकाष्ठं च तदनु कर्मण्यक्षीरवृक्षजम् ॥ ३०८ ॥
View Verse
मुखधावनपात्रं च जिह्वानिर्लेहनं तथा ।
गण्डूषाचामसलिले ताम्बूलं गन्धभावितम् ॥ ३०९ ॥
View Verse
स्नानारम्भानुवृत्तांश्च तैलादीन् संनिधाप्य च ।
तत्पात्राभ्यर्चनं कृत्वा ततस्तैलं समर्चयेत् ॥ ३१० ॥
View Verse
स्कन्धो संछाद्य वस्त्रेण सुकेशान् विकिरेत् प्रभोः ।
मध्ये शिरसि देवस्य सेचयेत्तैलमुत्तमम् ॥ ३११ ॥
View Verse
आवृत्यावृत्य निष्पीड्य तथा कण्डूयनं नखैः ।
बहूपचारसंयुक्तं संमार्ज्यं तैलजं लवम् ॥ ३१२ ॥
View Verse
केतकोत्पलमालाश्च दत्वा केशांश्च बन्धयेत् ।
हस्तौ प्रक्षाल्य तोयेन स्कन्धवस्त्रं विमुच्य च ॥ ३१३ ॥
View Verse
स्पृष्ट्वा तैलं तथाङ्गानि उपाङ्गानि च मर्दयेत् ।
ततो बहुसुगन्धं तु चूर्णं गोधूमशालिजम् ॥ ३१४ ॥
View Verse
रजनीचूर्णसंमिश्रमीषत्पद्मकभावितम् ।
देयमुद्वर्तनार्थं तु माषीं च तदनन्तरम् ॥ ३१५ ॥
View Verse
स्नानार्थं खलिसंयुक्तं तोयमुष्णमनन्तरम् ।
चन्दनं मुखलेपार्थं घृष्टं कर्पूरभावितम् ॥ ३१६ ॥
View Verse
तत आमलकस्नानं लोध्रं कालेयकं तथा ।
वर्णकं केयूरकं च तगरूणि प्रियङ्गवः ॥ ३१७ ॥
View Verse
सुगन्धं चैव सिद्धार्थं सर्वौषधिसरत्नकम् ।
सहस्रधारया विष्णोर्दद्याच्छुद्धोदकं तथा ॥ ३१८ ॥
View Verse
कालेयकं च तदनु लोध्रस्नानं तु वर्णकम् ।
शरीरार्थानि चान्यानि शिरोर्थानि तु सत्तम ॥ ३१९ ॥
View Verse
यद्वा क्षीरादिसंपूर्णकुम्भैः संस्नानपयेद्विभुम् ।
गव्यं प्रभूतं स्नानार्थं क्षीरं दधि घृतं मधु ॥ ३२० ॥
View Verse
ऐक्षवं तु रसं हृद्यमभावाच्छर्करोदकम् ।
धात्रीफलोदकं चैव लोध्रतोयमनन्तरम् ॥ ३२१ ॥
View Verse
रक्तचन्दनतोयं च रजनीनीरमुत्तमम् ।
ग्रन्थिपल्लववार्येव ततस्तु तगरोदकम् ॥ ३२२ ॥
View Verse
प्रियङ्गुवारि तदनु मांसीजलमतः परम् ।
सिद्धार्थकोदकं चाथ सर्वौषधिजलं ततः ॥ ३२३ ॥
View Verse
पत्रपुष्पोदके चैव फलबीजोदके त्वथ ।
गन्धोदकं च तदनु हेमरत्नजले ततः ॥ ३२४ ॥
View Verse
पुण्यतीर्थसरित्तोये केवलं तदनन्तरम् ।
स्नानार्थं कल्पितेनैव तूदकेन विमिश्रितम् ॥ ३२५ ॥
View Verse
योक्तव्यं क्रमशो ह्येतदर्घ्यपुष्पसमन्वितम् ।
अन्तरान्तरयोगेन स्नानानां च महामते ॥ ३२६ ॥
View Verse
क्षालनं चार्घ्यकलशादर्घ्यदानसमन्वितम् ।
ततः स्नानीयशेषेण हेमादिद्रव्यनिर्मितम् ॥ ३२७ ॥
View Verse
संपूर्णमम्भसा कुम्भं हरिद्राशालितण्डुलैः ।
सुपिष्टैरुपरिष्टाच्च लिप्तं युक्तं स्रगादिना ॥ ३२८ ॥
View Verse
पाणौ कृत्वा तमेकस्मिन्नपरस्मिंस्तु मल्लकम् ।
धूमायमानं सिद्धार्थैर्भ्राम्य मूर्ध्नि बहिः क्षिपेत् ॥ ३२९ ॥
View Verse
सुधौतमहतं चाथ शाटकं विनिवेद्य च ।
कचोदकापकर्षार्थमपरं देहवारिहृत् ॥ ३३० ॥
View Verse
अधरोत्तरवस्त्रे द्वे गन्धधूपाधिवासिते ।
स्कन्धप्लोतं निवेद्याथ सुसूक्ष्ममहतं सितम् ॥ ३३१ ॥
View Verse
शिरःश्यानं ततः कुर्याच्छशिधूपसमन्वितम् ।
कर्पूरचूर्णसंमिश्रं कुर्याद्देवस्य मूर्धजम् ॥ ३३२ ॥
View Verse
विभाव्यालङ्कृतं भक्त्या भोगैः स्रक्चन्दनादिभिः ।
एवं हि चित्रपूर्वाणामन्येषां कमलासन ॥ ३३३ ॥
View Verse
सद्रत्नब्रह्मपाषाणवर्जितानां समाचरेत् ।
स्नानाद्यं कर्मबिम्बे तु तत्समीपेऽथ दर्पणे ॥ ३३४ ॥
View Verse
स्नानविज्ञापनं कृत्वा कर्मार्चां तस्य सन्निधौ ।
स्नानासने समारोप्य तस्यां सर्वं समाचरेत् ॥ ३३५ ॥
View Verse
तदभावे दर्पणे तु स्नानभोगानि चार्पयेत् ।
चित्रस्थ एव दद्याच्च भोगानन्यान् यथाक्रमम् ॥ ३३६ ॥
View Verse
तदभावे च तान् सर्वान् पाणिनादाय चेतसा ।
निवेदयेन्मण्डलादिष्वेवं भोगनिवेदनम् ॥ ३३७ ॥
View Verse
प्रोक्षणं यदि वा कुर्यादर्घ्याद्यैरवशिष्टकैः ।
प्रणालभागादपरं स्थानं भद्रासनात्तु वै ॥ ३३८ ॥
View Verse
भूरिनीरघटैः शुद्धं कृत्वा तत्रावतार्य च ।
सपीठं भगवद्बिम्बं तद्विना वार्चितं यदि ॥ ३३९ ॥
View Verse
खप्लुतं भावयेद्देवं निश्शेषं क्षालयेत्ततः ।
भूयो गन्धोदकेनैव पूर्यं कुम्भचतुष्टयम् ॥ ३४० ॥
View Verse
स्नानकुम्भं विनान्येषां प्राग्वत् कार्या च कल्पना ।
हृन्मन्त्रेण चतुर्णां तु कुर्याद्वै द्रव्ययोजनम् ॥ ३४१ ॥
View Verse
सास्त्रेण मूलमन्त्रेण सर्वं तच्चाभिमन्त्र्य तु ।
मार्गत्रयं क्रमात् कृत्वा विनिवेद्यासनं ततः ॥ ३४२ ॥
View Verse
तृतीयं रत्नखचितं तत्रस्थं परमेश्वरम् ।
समभ्यर्च्यार्घ्यपाद्येन पादुकाभ्यामनन्तरम् ॥ ३४३ ॥
View Verse
देयमाचमनं भूयः पादपीठं तथैव च ।
समालभ्य सुगन्धेन भक्तितश्चन्दनादिना ॥ ३४४ ॥
View Verse
संवीज्य व्यजनेनैव मायूरेण तथेन च ।
ततोऽप्यचटनं हैमं राजतं दारुजं तु वा ॥ ३४५ ॥
View Verse
केशप्रसादकृत्कूर्चं पुष्पताम्बूलकर्तरीम् ।
निवेद्यदेवदेवाय दुकूलवसने सिते ॥ ३४६ ॥
View Verse
घृष्टकुङ्कुमकस्तूरीमृगस्नेहानुलेपनम् ।
उपवीतं सोत्तरीयं मकुटाद्यमननन्तरम् ॥ ३४७ ॥
View Verse
पादनूपुरपर्यन्तमलङ्करणमुत्तमम् ।
विचित्रं हि शिरोमाल्यं वेष्टनेन समन्वितम् ॥ ३४८ ॥
View Verse
स्रग्दामसूत्रसंबद्धमाकर्णा च्चरणावधि ।
मुक्तपुष्पं ततो दद्याद्यथाकालसमुद्भवम् ॥ ३४९ ॥
View Verse
रुचिरं कङ्कणं चाद्य दद्यात् प्रतिसरं ततः ।
धातुभिः कुङ्कुमाद्यैर्वा विचित्रं सितसूत्रजम् ॥ ३५० ॥
View Verse
पूरितं मृदुतूलेन ग्रथितं चान्तरान्तरा ।
अञ्जनं सशलाकं च ताम्बूलं गन्धभावितम् ॥ ३५१ ॥
View Verse
ललाटतिलकं हैमं मुखवासं सरोचनम् ।
कर्णावतंसके पुष्पे मण्डनं दर्पणं महत् ॥ ३५२ ॥
View Verse
प्रकिरन् चित्रकुसुमैर्दी प्तरत्नप्रभोज्ज्वलैः ।
प्रदीप्तैस्तु महाज्वालै स्तिलतैलाज्यपूरितैः ॥ ३५३ ॥
View Verse
अभुक्ताहतसुश्वेतरञ्जि तैर्वस्त्र वेष्टितैः ।
गर्भीकृतत्वगेलाद्यैः पूजयेत्तदनन्तरम् ॥ ३५४ ॥
View Verse
कर्पूरचूर्णसंमिश्रं सुगन्धिमधुरं बहु ।
मृष्टधूपसमायुक्तं गुग्गुलुं धूपयेच्छूभम् ॥ ३५५ ॥
View Verse
सहघण्टारवै रम्यैश्चाल्यमानेन बाहुना ।
उपानहौ सितच्छत्रं शिबिकां च रथादि यत् ॥ ३५६ ॥
View Verse
वाहनं गजपर्यन्तं सपताकं खगध्वजम् ।
सितासितौ तु चमरौ मात्रावित्तमनन्तरम् ॥ ३५७ ॥
View Verse
जानुनी भूगते कृत्वा शिरसावनतेन तु ।
आदायोत्तानपाणिभ्यां विनिवेद्य जगत्प्रभोः ॥ ३५८ ॥
View Verse
संपूरणार्थं भोगानां सर्वेषां द्विजसत्तम ।
भेरीमृदङ्गशब्दार्द्यैजयशब्दसमन्वितैः ॥ ३५९ ॥
View Verse
गीतकैर्विविधैर्नृत्तैस्तन्त्रीवाद्यसमन्वितैः ।
वंशैः श्रृङ्गैस्तथा वाद्यैरन्यैः श्राव्यैश्च पूजयेत् ॥ ३६० ॥
View Verse
स्तोत्रमन्त्रजपं कुर्याज्जितन्ताद्यं महामते ।
व्यस्तं चैव समस्तं च वाक्ययुक्तं विशेषतः ॥ ३६१ ॥
View Verse
ततः प्रदक्षिणं कुर्याच्चत्वारि द्विजसत्तम ।
कुसुमक्षेपसंयुक्तं चतुर्दिक्षु समं तु वै ॥ ३६२ ॥
View Verse
सहान्तःकरणेनैव भक्तियुक्तेन चेतसा ।
नतपृष्ठशिरोजानुललाटतटहृत्करः ॥ ३६३ ॥
View Verse
गृहस्थ आचरेन्नित्यं प्रणामं सप्रदक्षिणम् ।
सन्यासी दण्डवत् कुर्यात् प्रणिपातं च सर्वदिक् ॥ ३६४ ॥
View Verse
विहितं स्नातकादीनामन्येषामेवमेव हि ।
स्मरन् सर्वेश्वरं बुद्ध्या सकृत् प्रवितते क्षितौ ॥ ३६५ ॥
View Verse
संकटे सति भूभागे भगवत्यग्रतः स्थितः ।
धिया तु भक्तितः कुर्याद्बध्वा तु करसंपुटम् ॥ ३६६ ॥
View Verse
हृद्देशे मूर्ध्नि कम्पैस्तु स्मरन् सर्वेश्वरं हरिम् ।
अन्तर्गर्भगृहे विष्णोर्गर्भद्वारार्धमण्टपे ॥ ३६७ ॥
View Verse
प्रणिपातगणं कुर्यात् प्रदक्षिणगणं विना ।
चक्रवद्भ्रामयेन्नाङ्गं पृष्ठभागं न दर्शयेत् ॥ ३६८ ॥
View Verse
पश्चाद्भागेन निर्गच्छेद्देवाग्निगुरुसन्निधौ ।
वह्निस्थस्य विभोर्यस्मात् पाणिपृष्ठस्य दर्शनम् ॥ ३६९ ॥
View Verse
बहुष्वपि च भोगेषु प्रधानं प्रापणं तथा ।
पश्चादुत्सवबिम्बं तत्क्रमेणैव तु पूजयेत् ॥ ३७० ॥
View Verse
जानुभ्यां सह पाणिभ्यां पाणिभ्यां वा समाचरेत् ।
जानुप्रदक्षिणं मुक्त्वा अन्तः सन्निकटे विभोः ॥ ३७१ ॥
View Verse
विरुद्धमपरं चैव भक्तानां चरणभ्रमम् ।
एवं प्रदक्षिणीकृत्वा क्षिप्त्वा पुष्पाञ्जलिं ततः ॥ ३७२ ॥
View Verse
सुस्नाना दित्रयं पृच्छेद्भगवन्तं तदापि च ।
सार्घ्याचामे तु वा चार्घ्यगन्धपुष्पप्रधूपकैः ॥ ३७३ ॥
View Verse
इष्ट्वा नीराजयेद्देवं विभोरर्घ्यं समर्पयेत् ।
भोज्यासनं निवेद्याथ मार्गत्रयपुरस्सरम् ॥ ३७४ ॥
View Verse
छन्नं दुकूलतूलोत्थमसूरकवरेण तु ।
अर्घ्यं पाद्याचमे दद्यात् प्रतिग्रहसमन्विते ॥ ३७५ ॥
View Verse
तर्पणं संप्रतिष्ठाप्य वासितं चार्घ्यवारिणा ।
अथार्हणजलं स्वच्छं सुगन्धं पात्रतः कृतम् ॥ ३७६ ॥
View Verse
मधुपर्कं दधिघृतं मधुयुक्तमनन्तरम् ।
समस्तमेवमेकाङ्गं दधि वापि निवेदयेत् ॥ ३७७ ॥
View Verse
शीतलं तर्पणजलं अथ चूर्णं पुरोदितम् ।
देयं निष्पुंसनार्थं च पुनराचमनं विभोः ॥ ३७८ ॥
View Verse
स्वलङ्कतां सुरूपां च स्रग्युक्तां विनिवेद्य गाम् ।
ओषधीः शालिपूर्णाश्च स्रक्फलाढ्यं वनस्पतिम् ॥ ३७९ ॥
View Verse
मूर्तिं निवेदयेत् पूर्वं ततः संस्थाप्य तर्पणम् ।
प्रच्छादनाम्बरं चैव प्रदद्यादर्हणोदकम् ॥ ३८० ॥
View Verse
षड्रसप्रभवैर्दिव्यैर्नैवेद्यैः पावनैः फलैः ।
गुडखण्डचितैर्भर्क्ष्यैबहुर्भिघृतपाचितैः ॥ ३८१ ॥
View Verse
गुडमुद्गपयोमिश्रैर्निशाज्यतिलमिश्रितैः ।
दधिमिश्रैस्सर्वमिश्रैर्मधुस्वादुयुतैः फलैः ॥ ३८२ ॥
View Verse
क्रमादन्नैरष्टविधैरपूपान् विनिवेदयेत् ।
सरसाभी रसालाभिः पयसा सुश्रृतेन च ॥ ३८३ ॥
View Verse
पवित्रैः शीतलैः स्वादुरसगन्धैश्च पानकैः ।
भक्ष्यैर्भोज्यैस्तथा लेह्यैः पेयैरन्यैरनेकशः ॥ ३८४ ॥
View Verse
श्रद्धापूतेन मनसा यष्टव्य मजमव्ययम् ।
एकैकस्मिंस्तु वै भोगे प्रोक्षयेदर्घ्यवारिणा ॥ ३८५ ॥
View Verse
छोटिकां मन्त्रसंयुक्तां कृत्वा पाणिद्वयेन तु ।
धारणाद्वितयेनैव अर्कसोममयेन तु ॥ ३८६ ॥
View Verse
सम्यक् सर्वं तु संस्कुर्याद्यथा तदवधारय ।
प्रचण्डकिरणव्रातैर्भास्करीयैर्दहेत् पुरा ॥ ३८७ ॥
View Verse
संचिन्त्य भस्मभूताहं ततः पूर्णेन्दुरश्मिभिः ।
आप्याय्यामृतकल्लोलधारापातेन नारद ॥ ३८८ ॥
View Verse
कान्तिमच्चिन्तयेद्भूयो यद्दग्धं भानुना तु वै ।
वध्वा कामदुघां मुद्रां स्रवन्तीं मन्त्रसंयुताम् ॥ ३८९ ॥
View Verse
गोरूपां हिमशैलाभां निराधारपथे स्थिताम् ।
दत्वा पुष्पार्घ्यमुपरि संस्पृशेद्विष्णुपाणिना ॥ ३९० ॥
View Verse
सव्येन पाणिना स्पृश्य प्रकोष्ठं दक्षिणस्य तु ।
तेन दक्षिणहस्तेन अग्रसंकुचितेन तु ॥ ३९१ ॥
View Verse
निवेदयेत्ततो विप्र शिरसाऽवनतेन तत् ।
पावनैः पानकैः स्वच्छैः शीतलेर्मधुरादिकैः ॥ ३९२ ॥
View Verse
त्वगेलाद्यन्वितैर्मृष्टधूपकर्पूरवासितैः ।
नालिकेरोदकोपेतैस्तर्पणीयमनन्तरम् ॥ ३९३ ॥
View Verse
मसूरमाषचूर्णेन रजनीशालिजेन च ।
समुद्वर्त्य च संक्षाल्य शीतलैर्बहुवारिभिः ॥ ३९४ ॥
View Verse
नैवेद्याचमनार्थं तु गन्धोदकमनुत्तमम् ।
वाससा निर्मलं कृत्वा चन्दनेन सितेन च ॥ ३९५ ॥
View Verse
समालभ्य सुघृष्टेन कर्पूरसहितेन च ।
तिलान्यथ स रत्नानि सौवर्णे वाथ राजते ॥ ३९६ ॥
View Verse
पात्रे कृत्वाथ मात्रार्थं देवाय विनिवेदयेत् ।
लवङ्गतक्कोलैलात्वक्कर्पूरपरिभावितम् ॥ ३९७ ॥
View Verse
जातिपूगफलोपेतं ससुगन्धच्छदं बहु ।
कर्पूरचूर्णसंमिश्रं मुक्ताचूर्णसमन्वितम् ॥ ३९८ ॥
View Verse
मातुलुङ्गफलोपेतं नालिकेरफलान्वितम् ।
प्रदद्यात् प्रणतश्चान्ते ताम्बूलं जगतःपतेः ॥ ३९९ ॥
View Verse
प्रक्षाल्य गन्धतोयेन अर्घ्यपात्रोद्धृतेन वै ।
पाणियुग्मं यथा वै स्यात् स्वच्छमत्यन्तनिर्मलम् ॥ ४०० ॥
View Verse
नैवेद्यधूपपात्राद्यैः पात्रैश्चानिर्मलीकृतम् ।
कृत्वा तु गन्धदिग्धौ तौ अर्घ्येणार्च्य परस्परम् ॥ ४०१ ॥
View Verse
मुद्रामूलादिमन्त्राणां दर्शयित्वा यथाक्रमम् ।
भूयोऽर्घ्यगन्धपुष्पेण धूपान्तेन समर्च्य च ॥ ४०२ ॥
View Verse
जपयज्ञविधानेन देवं सन्तर्पयेत्ततः ।
स्फाटिकेनाक्षसूत्रेण स्वकैर्वा करपर्वभिः ॥ ४०३ ॥
View Verse
पात्रं संस्थापयेत् पश्चादर्घ्यपात्राच्च वारिणा ।
विलिप्य चन्दनाद्यैस्तु स्थापयेद्भाजने शुभे ॥ ४०४ ॥
View Verse
संपूज्य पुष्पधूपाद्यैर्मन्त्रं तत्र च विन्यसेत् ।
साधारमासनं चैव शक्तिपूर्वैः समावृतम् ॥ ४०५ ॥
View Verse
चतुर्भुजं तु विरजो नारायणमिवापरम् ।
वरदाभयहस्तं च बद्धाञ्जलिधरं स्मरेत् ॥ ४०६ ॥
View Verse
ब्रह्मस्थानस्थितं तं च सूत्रं ध्यायेच्छिखोपमम् ।
सन्निधौ भव देवेश संनिरुद्धो भवाच्युत ॥ ४०७ ॥
View Verse
सूत्राख्यमणिजालेऽस्मिन् यावच्चन्द्रार्कतारकम् ।
एवं मुने प्रतिष्ठाप्य मन्त्रं सूत्रेऽक्षसंज्ञिके ॥ ४०८ ॥
View Verse
प्रतिष्ठितस्य वै पश्चान्मुद्रां स्वां च प्रदर्शयेत् ।
यथाशक्ति जपं कुर्याच्छतमष्टाधिकं तु वा ॥ ४०९ ॥
View Verse
तन्निवेद्य विभोः पश्चाद्वाक्कर्ममनसान्वितम् ।
पुण्डरीकाक्ष विश्वात्मन् मन्त्रमूर्ते जनार्दन ॥ ४१० ॥
View Verse
गृहाणेदं जपं नाथ मम दीनस्य शाश्वत ।
इत्युक्त्वार्घ्योदकं पश्चात् पुष्पं दक्षिणपाणिगम् ॥ ४११ ॥
View Verse
अग्रतो निक्षिंपेद्विष्णोर्मूलमन्त्रेण नारद ।
भावयेच्च ततस्सम्यक्स्फुरन्तीं तारकावलिम् ॥ ४१२ ॥
View Verse
प्रविष्टां भगवद्वक्त्रे वक्त्रात्तां हृद्गतां पुनः ।
हृदयाद्द्विजशार्दूल संहाराख्यक्रमेण तु ॥ ४१३ ॥
View Verse
पूर्ववद्ब्रह्मरन्ध्रेण परेण सह योजयेत् ।
एकैकं हृदयादीनां सर्वेषां विहितं त्वथ ॥ ४१४ ॥
View Verse
क्रियाङ्गत्वान्न दोषोऽस्ति अन्यथा तज्ज्पं विना ।
धूपं दत्वा प्रणम्याथ स्तु त्वा मन्त्रेश्वरं ततः ॥ ४१५ ॥
View Verse
द्विधा प्रदक्षिणं कुर्यात् प्रणामं च तथाविधम् ।
नैकत्रिपञ्चसप्ताख्यगणनाविषमं च यत् ॥ ४१६ ॥
View Verse
यतः समो हि भगवान् देवः सर्वस्य वै हरिः ।
संपूज्य गन्धधूपैश्च ततस्तु भगवन्मयान् ॥ ४१७ ॥
View Verse
यथाक्रमं समभ्यर्च्य नैवेद्यं प्रतिपाद्य च ।
तेषां मात्रावसानं च आसनाद्यं निवेदयेत् ॥ ४१८ ॥
View Verse
यद्वैभ्यो देव यज्ञान्ते तन्मात्रान्तं प्रदाय तु ।
अस्मिन् कालेऽर्हणाद्यं तु ताम्बूलान्तं समर्पयेत् ।
शय्यासनं ततो दद्यादग्नौ सन्तर्पयेत्ततः ॥ ४१९ ॥
View Verse

Chapter 7

श्रीः ।
सप्तमोऽध्यायः ।
न्यस्त्वास्त्रमासने यायादनलालयमर्घ्यभृत् ।
पूर्ववद्द्वारयागं तु कृत्वा संप्रविशेत्ततः ॥ १ ॥
View Verse
तत्र पूर्वोक्तविधिना उपविश्य समाहितः ।
नाकुण्डहवनं यस्मात् सिद्धिकृन्मन्त्रयाजिनाम् ॥ २ ॥
View Verse
तस्मात् कुण्डं सदा कार्यं सौत्रं वा जङ्गमं स्थिरम् ।
भगवद्वह्निशक्तेर्वै ज्वालाद्या प्रकृतिः परा ॥ ३ ॥
View Verse
अपरा प्रकृतिर्धिष्ण्या नानाकारा यथानलाः ।
अत एताग्निरूपा वै कुण्डा हवनकर्मणि ॥ ४ ॥
View Verse
चतुरश्रादिभेदोत्थाः काम्यानां कर्मणां द्विज ।
सद्रत्नमालाश्रीवत्समकुटाङ्गदलक्षणाः ॥ ५ ॥
View Verse
शङ्खचक्रगदापद्मशार्ङ्गनानाशरोपमाः ।
परश्वथं तथा सीरसदृशाः सर्वसिद्धिदाः ॥ ६ ॥
View Verse
वज्राद्यस्त्रचयाकारा भृङ्गारकरकोपमाः ।
सर्वे सपीठा विहिताश्चतुस्त्रिद्व्येकमेखलाः ॥ ७ ॥
View Verse
चक्रपद्मगदाशङ्खसमस्तव्यस्तलाञ्छिताः ।
ततोष्ठयोनिनिर्वाहैः स्वैरङ्गै रुचिरैर्युताः ॥ ८ ॥
View Verse
आद्वादशाङ्गुलात् कुण्डाः करान्ता ये त्रयोदश ।
सर्वाकृतिधराश्चैव जङ्गमा मेखलोज्झिताः ॥ ९ ॥
View Verse
अनुकल्पे तु विहिता भक्तानां मन्त्रतर्पणे ।
एक द्विहस्तपर्यन्ता यथालक्षणलक्षिताः ॥ १० ॥
View Verse
भूमावुल्लिख्य संपूर्य धान्यैर्बीजैर्मृदा तु वा ।
सामग्रीविरहाच्चापि शश्वत्कर्मसमाप्तये ॥ ११ ॥
View Verse
अनुकल्पानुकल्पे तु नित्यमेवाविरोधकृत् ।
प्राजापत्ये दैशिकीये शैष्येऽर्धकरसम्मिते ॥ १२ ॥
View Verse
क्षेत्रे क्रमान्नयेद्वृद्धिं तावदेकैकमङ्गुलम् ।
यावदष्टकरं क्षेत्रं धिष्ण्यार्थमुपजायते ॥ १३ ॥
View Verse
एवं स्यान्मानभेदेन एकाशीत्यधिकं शतम् ।
एवं कृते शुभे कुण्डे अग्निकार्यं समाचरेत् ॥ १४ ॥
View Verse
चुल्ल्यां वा मल्लके वापि होमं कुर्याद्यथाविधि ।
शतार्धसंख्या होमे च कुण्डं स्याद्द्वादशाङ्गुलम् ॥ १५ ॥
View Verse
होमे साष्टशते चैव मुष्ट्यरत्निसमं भवेत् ।
होमे सार्धशते चैव सारत्निः सकनिष्ठिका ॥ १६ ॥
View Verse
हस्तं सहस्रहोमे तु अयुताख्ये द्विहस्तकम् ।
लक्षहोमे चतुर्हस्तं कोटिहोमेऽष्टहस्तकम् ॥ १७ ॥
View Verse
एवं सुलक्षणं कुण्‍डं विभवानुगुणं शुभम् ।
सुधाद्यैर्वर्णकैः शुद्धैर्भूषयित्वोपलिप्य च ॥ १८ ॥
View Verse
सुगन्धैश्चन्दनाद्यैश्च पञ्चगव्यपुरस्सरैः ।
कुण्डस्यारम्भकाले तु संस्कारा न कृता यदि ॥ १९ ॥
View Verse
निष्पन्नस्य च ते सर्वे विधेयाश्च क्रमेण तु ।
ताडयेदस्त्रमन्त्रेण पुष्पैर्दक्षिणपाणिना ॥ २० ॥
View Verse
खननं तीक्ष्णशस्त्रेण देशिकश्चास्त्रविद्यया ।
गृहीत्वा चैकदेशात्तु कुण्डमध्यात्तु मृत्कणम् ॥ २१ ॥
View Verse
अङ्गुष्ठानामिकाम्यां तु हृदयेन समुद्धरेत् ।
अस्त्रेणैव समीकृत्य न स्यान्निम्नोन्नतं यथा ॥ २२ ॥
View Verse
सेचयेत् कवचेनैव कुट्टयेत्तदनन्तरम् ।
लेपयेद्गन्धतोयेन अस्त्रेण परिशोधयेत् ॥ २३ ॥
View Verse
अस्त्रजप्तैः कुशाकाण्डैस्तीक्ष्णलाङ्गलवर्जितैः ।
अस्त्राभिमन्त्रितेनैव दर्भकाण्डद्वयेन तु ॥ २४ ॥
View Verse
तन्मध्ये च कुशाग्रेण प्राग्भागमवलम्ब्य च ।
आरभ्य दक्षिणाशाया लिखेद्रेखामुदग्गताम् ॥ २५ ॥
View Verse
विलिख्यार्गलरेखां प्राक् काष्ठा वैषुवती च सा ।
तस्यामुपरि संलिख्य रेखाणां त्रितयं स्फुटम् ॥ २६ ॥
View Verse
प्रागग्रं दक्षिणाशादि ह्युदीच्यन्तं च सान्तरम् ।
उत्तराशावधिर्यावद्दद्याद्रेखात्रयं तु वा ॥ २७ ॥
View Verse
प्रत्यग्भागात् समारभ्य नयेत् पूर्वमुखं तु तत् ।
तन्मध्ये त्रितयं चाऽन्य द्रेखाणामुत्तरामुखम् ॥ २८ ॥
View Verse
प्रत्यग्भागात् समारभ्य मद्यैका पिङ्गलाभिधा ।
दक्षिणोत्तरयोर्द्वे तु सुषुम्नोडाधिदैवते ॥ २९ ॥
View Verse
नीत्वा शुद्धिमथास्त्रेण क्षालयेच्छिरसाम्बुना ।
संशोष्य कवचेनैव नेत्रेणाथावलोक्य च ॥ ३० ॥
View Verse
विलिप्योद्धृष्य चास्त्रेण प्रपूज्य हृदयेन तु ।
दर्भकाण्डद्वयेनाथ मद्ये मद्येऽन्तरीकृते ॥ ३१ ॥
View Verse
वर्मणा क्षालनाद्येन चतुप्पथधिया पुनः ।
नीत्वा व्यक्तिं यथावच्च हृन्मन्त्रेण महामते ॥ ३२ ॥
View Verse
मृदुदर्भसमूहं च नीरसं चाश्मकुट्टितम् ।
शुष्कगोमयचूर्णेन युक्तं गन्धाश्मना सह ॥ ३३ ॥
View Verse
कुण्डे द्रोणांशमात्रं तु समारोप्य प्रसार्य च ।
अच्छिन्नाग्रैस्ततो दर्भैरस्त्रमन्त्राभिमन्त्रितैः ॥ ३४ ॥
View Verse
कुण्डभित्तिगणं सर्वं प्रोत्थितैः परिभूषयेत् ।
वर्मणा चाक्षवाटं तु संकल्प्य तदनन्तरम् ॥ ३५ ॥
View Verse
समब्यर्च्यार्घ्यपुष्पाद्यैः मध्यतः प्रणवेन तु ।
तेनैव विधिना नाभिं पूजयेच्चन्द्रसन्निभाम् ॥ ३६ ॥
View Verse
ततः पवित्रकं दार्भं शिखामन्त्राभिमन्त्रितम् ।
प्राक् समालभनोपेतं चतुष्पथपदे न्यसेत् ॥ ३७ ॥
View Verse
हृन्मन्त्रेण च विन्यस्य तत्रोपर्यथ पूजयेत् ।
आधारशक्तिपूर्वं तु आसनं वैष्णवं च यत् ॥ ३८ ॥
View Verse
अथवा पूजयेच्छक्तिं केवलाधारसंज्ञिताम् ।
तत्र नारायणाख्यां वै शक्तिं विद्योतलक्षणाम् ॥ ३९ ॥
View Verse
लक्ष्म्याकृतिपदं प्राप्ताममृतामृतरूपिणीम् ।
सर्वातिशायिरूपां च सर्वशक्तिसमन्विताम् ॥ ४० ॥
View Verse
सौकुमार्येण रूपेण सर्ववस्त्वन्तरस्थिताम् ।
शाश्वतीं सृष्टिमार्गेण अवतार्य हृदम्बुजे ॥ ४१ ॥
View Verse
पुनर्ध्यानक्रमेणैव हृन्मन्त्रेण हृदम्बुजात् ।
स्वनामपदयुक्तेन सनमःप्रणवादिना ॥ ४२ ॥
View Verse
रेचकेन विनिक्षिप्य कुण्डे हृत्पझमध्यतः ।
संपूज्य गन्धपुष्पाद्यैः पझमुद्रां प्रदर्श्य च ॥ ४३ ॥
View Verse
ताम्रपात्रेऽथवान्यस्मिन् समादाय हुताशनम् ।
आरण्यं लौकिकं वाऽथ मणिजं दर्पणोद्भवम् ॥ ४४ ॥
View Verse
निधाय कुण्डस्यैशान्यां संस्कारार्थं च साम्प्रतम् ।
सन्ताड्च चास्त्रमन्त्रेण प्रोक्षयेच्छिखया च तम् ॥ ४५ ॥
View Verse
हृदाभ्यर्च्यामृतध्यानं दत्त्वाच्छाद्याथ वर्मणा ।
मूलं स्मृत्वा समानीय पूरकेण हृदन्तरे ॥ ४६ ॥
View Verse
मन्त्रानिलकराकृष्टं कृत्वा तस्माद्विनिर्गतम् ।
व्यस्तो गुणगणात् षष्ठस्तेजोनाम गुणो हि यः ॥ ४७ ॥
View Verse
परस्य ब्रह्नणः सोऽयं सामान्यं सर्वतेजसाम् ।
विरेच्य विन्यसेत्तस्मिन् वन्हिपात्रे पुरार्चिते ॥ ४८ ॥
View Verse
ततोऽग्निपात्रमादाय निर्धूममतिदीप्तिमत् ।
दक्षिणेन करेणैव पाणिभ्यामथवा द्विज ॥ ४९ ॥
View Verse
भ्रामयित्वा चतुर्धा वै ततः कुण्डान्तरे क्षिपेत् ।
ध्यायेदेकत्वमापन्नं ततो मन्त्रार्चिषा सह ॥ ५० ॥
View Verse
याज्ञीयैरिन्धनैः शुष्कैः प्रज्वाल्यास्त्राभिमन्त्रितैः ।
हृदा दक्षिणहस्तेन कुर्यात् परिसमूहनम् ॥ ५१ ॥
View Verse
प्रदक्षिणक्रमेणैव ह्यार्द्रपाणितलेन तु ।
तिर्यक् चाधोमुखस्थेन नखपृष्ठमदर्शयन् ॥ ५२ ॥
View Verse
अस्त्राभिमन्त्रितेनैव प्रोक्षयेदर्घ्यवारिणा ।
ततस्त्वभग्नमूलाग्रैः समैर्दद्यात् कुशैंस्तरम् ॥ ५३ ॥
View Verse
दिशि दिश्युत्तराशान्तं याम्याशादौ तु सान्तरम् ।
चतुर्गुणैश्चतुर्धा वाप्यग्रच्छन्नैः परस्परम् ॥ ५४ ॥
View Verse
प्राक्प्रान्तैः पूर्वभागाच्च यावदुत्तरगोचरम् ।
चतुर्भिरस्त्रजप्तैर्वा चतुर्दिक्षु त्रिधा त्रिधा ॥ ५५ ॥
View Verse
चतुर्भिश्च चतुर्भिर्वा प्राक्प्रतीच्योरुदङ्मुखैः ।
दक्षिणोत्तरयोश्चैव तत्संख्यैः प्राङ्मुखैर्द्विज ॥ ५६ ॥
View Verse
अवतार्य तदूर्ध्वे तु दक्षिणस्यां तथात्मनः ।
द्वन्द्वद्वयप्रयोगेण द्रव्यस्थापनमाचरेत् ॥ ५७ ॥
View Verse
परिधींश्चोध्मनिचयं मुक्तदर्भैस्तरण्डिकाम् ।
स्रुक्स्रुवौ च चतुष्कं यदेकत्र विनिवेश्य च ॥ ५८ ॥
View Verse
स्रक्धूपमधुपर्कं च बीजान्येकत्र वै ततः ।
कौशेयं धूतकेशं च विष्टरं च घृतं चरुम् ॥ ५९ ॥
View Verse
आज्यस्थालीचतुष्कं च निधाय तदनन्तरम् ।
प्रणीतं पात्रयुगलं करकं चार्घ्यभाजनम् ॥ ६० ॥
View Verse
चतुष्कमेतदपरं अग्रतो विनिवेश्य च ।
प्रादेशमात्राः समिधः प्रभूतं शुष्कमिन्धनम् ॥ ६१ ॥
View Verse
पक्ष्मकं स्वेदहृद्वस्त्रं वामभागे निधाय च ।
अर्घ्योदकेन सास्त्रेण कृत्स्नं पावनतां नयेत् ॥ ६२ ॥
View Verse
सुसमं कुण्डबाह्ये तु प्राग्भागे मेखलाश्रितम् ।
पवित्रकाष्टकं कृत्वा तेषु चाष्टविधान् न्यसेत् ॥ ६३ ॥
View Verse
क्ष्मादिकां प्रकृतिं देवीमहङ्कारावसानिकाम् ।
प्रभवाप्ययभेदेन विभुना चतुरात्मना ॥ ६४ ॥
View Verse
अधिष्ठितां महाबुद्धे तामभ्यर्च्य महात्मना ।
स्वनामपदयुक्तेन नतिना प्रणवेन च ॥ ६५ ॥
View Verse
ऊर्ध्वाधोमेखलानां तु चतुर्णां दिक्चतुष्टये ।
कौशेयविष्टरस्थांश्च वासुदेवादिकान् यजेत् ॥ ६६ ॥
View Verse
विदिक्ष्वप्यययोगेन ऊर्ध्वान्तमधरात्तु वै ।
तद्वदेवार्घ्यपुष्पाद्यैः पूजनीयाः क्रमेण तु ॥ ६७ ॥
View Verse
ततस्तन्मूलदेशस्था ब्रह्नवृक्षादिकोत्थिताः ।
सपर्णाः सत्वचः स्पष्टा अधोनेमेस्तु चाधिकाः ॥ ६८ ॥
View Verse
प्राक्प्रत्यगुत्तराग्रौ च प्रागग्रौ दक्षिणोत्तरौ ।
चतस्रो वै परिधयः शिखामन्त्रेण पूजयेत् ॥ ६९ ॥
View Verse
विष्टराणि ततो दद्यात्तेषु पृष्ठे हृदा मुने ।
तत्पृष्ठे पूजयेन्नित्यं लोकपालान् स्वदिक्स्थितान् ॥ ७० ॥
View Verse
दर्भान् प्रसव्यमावेष्ट्य मूलात् प्रादेशसंमितान् ।
परतो द्व्यङ्गुलं पाशं कृत्वावेष्ट्य त्रिरग्रतः ॥ ७१ ॥
View Verse
पाशे निवेश्य द्वि त्रि गुणं गुणेष्वायम्य मूलतः ।
समीकृत्यातिरिक्ताग्राण्यनखं विनिकृन्तयेत् ॥ ७२ ॥
View Verse
कृत्वा वेदोपयामं तं वामाङ्गुष्ठान्तरार्पयेत् ।
स्रुक्स्रुवाभ्यां च संस्कारमुपयामाग्रगैः कुशैः ॥ ७३ ॥
View Verse
स्रुचं द्वादशधा शोध्य सास्त्रेणोष्णेन वारिणा ।
तथैव द्विजशार्दूल स्रुवं शोध्य द्विधैव तु ॥ ७४ ॥
View Verse
तथैव स्रुक्स्रुवौ ह्येव शिखामन्त्रेण वै ततः ।
प्रताप्यास्त्रेण सन्ताड्य सार्घ्यपुष्पासनान्वितैः ॥ ७५ ॥
View Verse
तदा प्रमेयं तु स्रुचो ज्ञातव्यं कर्मसिद्धये ।
शतपत्रात्मनानन्तो मुष्टिस्थोऽनन्तवक्त्रधृक् ॥ ७६ ॥
View Verse
अन्तर्बीजात्मभावेन स्थित्वा चोर्ध्वमुखं पनः ।
सप्तस्कन्धं यदध्यात्मभूतप्राणमरुन्महत् ॥ ७७ ॥
View Verse
प्रेरितं ब्रह्नरन्ध्रेण तत्तदिच्छावशात् पुनः ।
सप्तपातालनागं च अगमत् क्ष्माम्बुजात्मना ॥ ७८ ॥
View Verse
यदाश्रित्य स्ववाहे तु अमृतात्मा जलस्थितः ।
सचक्ररचनाजाले स्थितस्तेजस्त्रिमूर्तिधृक् ॥ ७९ ॥
View Verse
शङ्खविग्रहधृग्वायुराज्यकोशं च खं ततः ।
निर्बींजमजमक्षोभ्यमाद्यं स्यादधिदैवतम् ॥ ८० ॥
View Verse
अपरस्मिन् स्रुवे ज्ञेयं यथा ज्ञायेत तच्छृणु ।
साक्षादमृतमूर्तिर्वै वरुणः कलशात्मना ॥ ८१ ॥
View Verse
नालात्मना तदस्त्रं च संस्थितं विघ्नधीतिकृत् ।
जगदाप्यायकृच्चन्द्रः पझत्वेनाग्रदेशतः ॥ ८२ ॥
View Verse
आनन्दारव्यं हि सामर्थ्यं ज्ञेयं तत् पारमेश्वरम् ।
सत्यभूतममेयं च प्रमेयमिदमाच्युतम् ॥ ८३ ॥
View Verse
संस्कारकाले त्वारोप्य नित्यं सन्मन्त्रतर्पणे ।
स्वसंज्ञा प्रणवोपेता नमस्कारपदान्विता ॥ ८४ ॥
View Verse
सर्वेषामर्चने विप्र आराध्य हृदयेन वा ।
पूजयित्वार्घ्यगन्धाद्यैर्न्यस्तमन्त्रगणं ततः ॥ ८५ ॥
View Verse
अम्बुपूतेऽथ पात्रे द्वे हेमादिद्रव्यनिर्मिते ।
पूरयित्वाम्भसा ताभ्यां विष्टरद्वितयं न्यसेत् ॥ ८६ ॥
View Verse
एकस्मिन् मूलमन्त्रं तु सासनं संप्रपूज्य च ।
तदस्त्रमपरस्मिन् वै तेन प्रागादितस्तरम् ॥ ८७ ॥
View Verse
प्रदक्षिणक्रमेणैव स्रुचा सिच्य निधाय च ।
पूरयित्वाऽम्भसा भूयो द्वितीयेन सहोत्तरे ॥ ८८ ॥
View Verse
विनिधाय च दिग्भागे अर्चयित्वा प्रणम्य च ।
आज्यौघं च तदस्त्रेण प्रोक्षयेत्ताडयेद्द्विज ॥ ८९ ॥
View Verse
भाण्डस्थस्य यदाज्यस्य दर्भैः प्रज्वलितैः पुरा ।
स्पर्शनं विद्धि संस्कारमधिश्रयणसंज्ञकम् ॥ ९० ॥
View Verse
उपाधिश्रयणं नाम यत्तद्द्रावणमुच्यते ।
परिवर्तनमन्यस्मिन् भाण्‍डे दोषापनुत्तये ॥ ९१ ॥
View Verse
प्रसादीकरणं ह्येतदुच्चस्थेन करेण तु ।
पुनरादाय कृत्वाग्रे आधारोपरि यत्नतः ॥ ९२ ॥
View Verse
परावर्त्य स्रुवेणादौ चतुस्त्रिद्व्येकसंख्यया ।
दर्भकाण्डचतुष्कं तु द्वादशाङ्गुलसंमितम् ॥ ९३ ॥
View Verse
तिर्यगुत्तानपाणिभ्यामवष्टभ्य च सान्तरम् ।
अनामाङ्गुष्ठयुग्मेन यथा मध्यं नतं भवेत् ॥ ९४ ॥
View Verse
तैराज्यं चतुरो वारानानयेच्चतुरो नयेत् ।
अन्तरान्तरयोगेन ह्यात्मनोऽग्नेस्तु संमुखम् ॥ ९५ ॥
View Verse
प्रणवेनोक्तसंख्येन कुण्डमध्ये विनिक्षिपेत् ।
यद्वा हृदा द्विदर्भेण निनयेदानयेत् त्रिधा ॥ ९६ ॥
View Verse
संप्लवोत्प्लवने कृत्वा ततो दार्भं पवित्रकम् ।
विनिक्षिपेच्च तन्मध्ये पवित्रीकरणं च तत् ॥ ९७ ॥
View Verse
नीराजीकृत्य नेत्रेण कुशाग्रैरर्चिषान्वितैः ।
हृदा संयोजनं कुर्यादुपयामस्य तत्र च ॥ ९८ ॥
View Verse
तेजसा हृदयस्थेन दृग्गतेनावलोकनम् ।
निरीक्षणमिदं विप्र नेत्रेण हृदयेन वा ॥ ९९ ॥
View Verse
निरीक्ष्यैवं तु तत्पश्चात् कवचोदरगं स्मरेत् ।
अवगुण्ठनमेतद्धि स्थितं तत्रोपरि स्मरेत् ॥ १०० ॥
View Verse
चन्द्रमण्डलमध्यस्थं धेनुमुद्रासमन्वितम् ।
मन्त्रं वै सौरभीयं च स्फुरदिन्दुशतप्रभम् ॥ १०१ ॥
View Verse
तदन्तरस्थं मन्त्रेशं हिमाचलनिभं स्मरेत् ।
तत्स्रुतैरमृतौघैश्च शशिजैर्धेनुजैरपि ॥ १०२ ॥
View Verse
कवचेनामृतीकृत्य निदध्यादुत्तरे घृतम् ।
अमृतीकरणं नाम इदं ते संप्रकाशितम् ॥ १०३ ॥
View Verse
सामान्याज्यस्य संस्कारान् कृत्वा पञ्चदश द्विज ।
अथाज्यप्रोक्षणं कुर्याद्योग्यं तदखिलं तु वै ॥ १०४ ॥
View Verse
समित्कुसुमपूर्वं तु विष्टरेण स्रुवेण वा ।
हृदाज्यसिक्तैः कुसुमैः सर्पिषा वा धिया द्विज ॥ १०५ ॥
View Verse
गर्भाधानादिसंस्कारान् कुर्याद्दारावसानकान् ।
श्रीकुक्षिकुहरे यद्वै बहिष्ठस्य प्रवेशनम् ॥ १०६ ॥
View Verse
गर्भाधानं तु तद्विद्धि संस्कारं प्रथमं मुने ।
प्राणयोगाच्च या शक्तिर्वाह्नी श्रीजठरे स्थिता ॥ १०७ ॥
View Verse
जडरूपाक्षया सूक्ष्मा तस्याश्चित्प्रसरो हि यः ।
भगवच्छक्तिचैतन्यसामर्थ्याच्च शनैः शनैः ॥ १०८ ॥
View Verse
स्मृत्वैवं जुहुयादाज्यं हृन्मन्त्रेणोदितेन च ।
भवेत् पुंसवनं चाग्नोश्चिच्छक्तिनयनात्तु वै ॥ १०९ ॥
View Verse
सीमन्ताख्यं तु संस्कारमग्नेः कुर्यादनन्तरम् ।
अव्यक्ताश्च तदन्तस्थाः शिरः पाण्यादयोऽखिलाः ॥ ११० ॥
View Verse
स्वां स्वां वै कर्मसीमानं प्रबुद्धाः संश्रयन्ति ये ।
विभागकल्पनं तेषां सीमन्तं तदुदाहृतम् ॥ १११ ॥
View Verse
अग्नेर्वै जातकर्मार्थं पूर्ववद्धोमयेत् सकृत् ।
निस्सृतस्य च वै गर्भात् स्नातस्य प्राशनं द्विज ॥ ११२ ॥
View Verse
हिरण्यमधुसर्पिर्ब्यां जातकर्म भवेत्तु तत् ।
होमयेन्नामकर्मार्थं घृतपूर्णस्वुवेण च ॥ ११३ ॥
View Verse
जातस्याग्नेः प्रयत्नेन वासुदेवादिना द्विज ।
अङ्कयेत् सुप्रसिद्धेन नामकर्म भवेदिदम् ॥ ११४ ॥
View Verse
अन्नप्राशनकर्मार्थं पूर्ववद्धोममाचरेत् ।
एवं संस्कारशुद्धस्य वैष्णवाग्नेः प्रयत्नतः ॥ ११५ ॥
View Verse
मन्त्रान्नदानपूर्वं यत्तदन्नप्राशन भवेत् ।
शिखाबन्धं यदग्नेस्तु तच्चौलमिति चोच्यते ॥ ११६ ॥
View Verse
यदग्नेर्होमयोग्यत्वं तच्चोपनयनं स्मृतम् ।
वेदव्रतं च गोदानं समावर्तविवाहकौ ॥ ११७ ॥
View Verse
कृत्वानलस्य जिह्वानां भावयेत् सप्तकं पुनः ।
नवखण्डे समिद्धाग्नौ कुण्डेऽग्नावर्चिषोद्धते ॥ ११८ ॥
View Verse
ईशप्रागनलाख्यानां पदानां भावयेत् त्रयम् ।
यातुधाने तु वारुण्ये वायन्ये तु पदत्रये ॥ ११९ ॥
View Verse
जिह्वात्रयं तु बोद्धव्यं मध्यतो दक्षिणोत्तरे ।
एका चैव परिज्ञेया ताः कमेण निबोध तु ॥ १२० ॥
View Verse
हव्या कव्या च धूम्रा वै तिस्रः प्राच्यां दिशि स्थताः ।
काली मनोजवा चेति कराली चेति पश्चिमे ॥ १२१ ॥
View Verse
एकां वै लेलिहाख्यां च विद्धि शेषपदत्रये ।
रक्तं श्वेतं तथा नीलं कृष्णं पीतं तथारुणम् ॥ १२२ ॥
View Verse
सौदामिनीनिभं ध्यायेज्जिह्वानां सप्तकं क्रमात् ।
स्वस्वबीजैः स्वसंज्ञैर्वा सबीजैर्वा स्वनामभिः ॥ १२३ ॥
View Verse
एतैर्मन्त्रैर्द्विजश्रेष्ठ भावयेच्च यथाक्रमम् ।
प्रभादीप्तिः प्रकाशा च मरीचिस्तापनी तथा ॥ १२४ ॥
View Verse
कराला लेलिहा चैव कुण्डं व्याप्य व्यवस्थिताः ।
ईशपूर्वाग्निदिग्भागे प्रभाद्यं त्रितयं स्मृतम् ॥ १२५ ॥
View Verse
रक्षोवारुणवायव्ये मरीच्याद्यं त्रयं तु तत् ।
उदग्दिङ्भध्यतो याम्ये स्थितैका लेलिहाभिधा ॥ १२६ ॥
View Verse
विभागमेवं ज्ञात्वा वै जिह्वानामग्निकर्मणि ।
आधेयोल्लिङ्किताकारं ध्यात्वा कुण्डगतानलम् ॥ १२७ ॥
View Verse
तज्जनित्रीं ततः कुण्डाज्ज्वालामार्गेण चोद्गताम् ।
परानन्दप्रकाशाभां नासिक्या द्वादशावधि ॥ १२८ ॥
View Verse
ततोऽवतारयोगेन प्रविष्टां भावयेद्धदि ।
हृन्मन्त्रेणआर्चयित्वाग्निं सार्घ्यपुष्पैश्च निर्मलैः ॥ १२९ ॥
View Verse
धूपैर्दीपेन दध्नाच तिलैरक्षतमिश्रितैः ।
अन्नैर्भक्ष्यफलोपेतैराज्येन क्रमशो द्विज ॥ १३० ॥
View Verse
संपूज्यैवं विधाने स्वमन्त्रेणाथवा ततः ।
तर्पयेत यथाशक्ति तिलाज्याद्यैरनुक्रमात् ॥ १३१ ॥
View Verse
आज्येन वा केवलेन सहस्रशतसंख्यया ।
दद्यात् पूर्णाहुतिं पश्चात् पूजितां कुसुमादिकैः ॥ १३२ ॥
View Verse
स्रुक्स्रुवेणोपयामेन ह्यूर्ध्वाधः संस्थितेन च ।
स्रुवा संपुटयोगेन वह्नेर्वदनमद्यगम् ॥ १३३ ॥
View Verse
प्रादक्षिण्येन चामध्याद्धारापातं समाचरेत् ।
नयेन्मद्यपदे निष्ठामाज्यधारां तथा पुनः ॥ १३४ ॥
View Verse
प्रदर्श्य हार्दयीं मुद्रामग्निमुद्रा तु वा द्विज ।
नारायणात्मकं वह्नि प्राग्वदभ्यर्चयेत्ततः ॥ १३५ ॥
View Verse
पूर्ववच्च स्मरेद्वह्निं साकारं निष्कलप्रभम् ।
स्वयोगबलवीर्येण व्यापकं सर्वदिग्गतम् ॥ १३६ ॥
View Verse
कदम्बकुसुमाकारं स्वप्रभाभिर्विराजितम् ।
कुण्डमापूरयन् सर्वं सर्वाकृत्या तु सर्वतः ॥ १३७ ॥
View Verse
एवं हि विततो व्यापी निराकारः सुदीप्तिमान् ।
अथ ज्वालाजटाधारे वह्नौ वै कुण्डमध्यतः ॥ १३८ ॥
View Verse
अनुसन्धीयते बुद्ध्या विष्टरं तु यथोदितम् ।
तदर्चनमथो कुर्यात् पुष्पैर्धूपैः सचन्दनैः ॥ १३९ ॥
View Verse
मुद्राबन्धं ततः कुर्यात् पीठामरगणस्य च ।
ततोऽवतार्य तन्मद्ये हृदयात् परमेश्वरम् ॥ १४० ॥
View Verse
नीरौदकात् स्वमन्त्रेण दद्यात् पुष्पाञ्जलिं विभोः ।
साङ्गं सलाञ्छनं ध्यायेत् सकलं परमेश्वरम् ॥ १४१ ॥
View Verse
सांमुख्यं सन्निधानं च सन्निरोधनमाचरेत् ।
अर्घ्यप्रदानपूर्वं तु सर्वं कुर्यात्तु पूर्ववत् ॥ १४२ ॥
View Verse
मूलबिम्बे यथा ध्यानमग्निमध्ये तथा भवेत् ।
यानगे यानगं ध्यायेदग्नौ स्थाने यथास्थितम् ॥ १४३ ॥
View Verse
आसीने त्वथ चासीनं शयाने च तथाविधम् ।
पझरागारुणरुचिं स्मर्तव्यमनलास्पदे ॥ १४४ ॥
View Verse
मूलादिसर्वमन्त्राणां तत्तन्मुद्रां प्रदर्श्य च ।
अर्ध्यगन्धादिना पस्चात् पूजयेत् सकलं प्रभुम् ॥ १४५ ॥
View Verse
लयभोगात्मना सम्यकू पूर्वोक्तविधिनाऽथवा ।
समिद्गणं तु पात्रस्थं कृत्वाभ्यर्च्य हृदा मुने ॥ १४६ ॥
View Verse
शिरसावनतेनैव विनिवेद्य ततः प्रभोः ।
इध्मानामष्टकं चापि चतुष्कं द्वयमेव वा ॥ १४७ ॥
View Verse
आज्येन सर्वतः सिक्तं ब्रह्नक्षीरद्रुमोद्भवम् ।
समादाय द्विधा कृत्वा मूलेन द्विजसत्तम ॥ १४८ ॥
View Verse
निधाय दक्षिणस्यां च मध्ये आग्नेयदिग्गतम् ।
विश्रान्तं नैरृतपदे उत्तरस्यां तथापरम् ॥ १४९ ॥
View Verse
वाय्वीशपदसंरुद्धमाघाराज्यं ततः क्षिपेत् ।
इध्ममूलादथाग्रान्तमिध्मेध्मोपरि संस्थितम् ॥ १५० ॥
View Verse
स्रुवमाज्येन संपूर्य सूर्यबीजेन चिन्तयेत् ।
सहस्रांशुं च तन्मध्ये दद्यात् कुण्डस्य दक्षिणे ॥ १५१ ॥
View Verse
अपरस्मिन् स्रुचि ध्यात्वा सोमाख्येनाक्षरेण तु ।
पूर्णं शशाङ्कबिम्बं च प्रदद्यात्तु तदुत्तरे ॥ १५२ ॥
View Verse
संख्यानुगुणमिध्मानां घृतं च जुहुयात्तु वै ।
सूर्यसोमात्मकं चाग्नेर्विद्धि तल्लोचनद्वयम् ॥ १५३ ॥
View Verse
एतयोरन्तरं यद्वै तदग्नैर्वदनं स्मृतम् ।
तत्रैव जुहुयात् पूर्वं समिधां सप्तकं क्रमात् ॥ १५४ ॥
View Verse
घृतसिक्तां चतुस्संख्यामेकैकां हि सुपुष्कलाम् ।
प्राक्कुह्कुमादिना लिप्तां काष्ठसंज्ञां तु होमयेत् ॥ १५५ ॥
View Verse
स्रग्धूपमधुपर्कं च बीजान्नाज्यं यथाक्रमम् ।
तत्रान्नसमिदाधाने विशेषोऽयं विधीयते ॥ १५६ ॥
View Verse
साधितं संस्कृतेऽग्नौ प्राक् तन्निधायाग्रतश्चरुम् ।
समुद्धाट्यावलोक्यादौ संप्रोक्ष्यार्घ्याम्बुना ततः ॥ १५७ ॥
View Verse
दर्भकाण्डचतुष्केन सानग्निना तदनु स्पृशेत् ।
तन्मध्ये स्रुक्चतुष्कं तु मन्त्रेणाज्यस्य निक्षिपेत् ॥ १५८ ॥
View Verse
अथादाय स्रुचं तत्र तद्वद्दद्याच्चतुष्टयम् ।
चतुरङ्गुलमानेन अन्नग्रासमथाहरेत् ॥ १५९ ॥
View Verse
तन्निधाय स्रुवा गर्भे तद्र्ध्वे पूर्ववद्धृतम् ।
दद्यादग्नौ चतुष्कं तु क्षिपेदन्नाहुतिं ततः ॥ १६० ॥
View Verse
भूयोऽग्नौ स्रुक्चतुष्कं तु ह्याज्यस्यापाद्य यत्नतः ।
ततोऽन्यमाज्यसंसिक्तं प्राग्वत् कृत्वाहुतं पुनः ॥ १६१ ॥
View Verse
दद्यात् पूर्वप्रयोगेण त्वेवमेव चतुष्टयम् ।
हुत्वाप्यन्नाहुतीनां तु ह्याज्याख्यां जुहुयात्ततः ॥ १६२ ॥
View Verse
यादृङ्निवेद्यते बिम्बे होतव्यश्चापि तादृशः ।
स्रुवमध्येन स्रुग्गर्भे एकैकं वा घृतस्य तु ॥ १६३ ॥
View Verse
प्रत्येकमन्नसमिधः क्षिपेदाद्यन्तयोस्तथा ।
तिलैर्घृतसमायुक्तरैरष्टोत्तरसहस्रकम् ॥ १६४ ॥
View Verse
शतं शतार्धं पादं वा यथाशक्ति समाचरेत् ।
आज्याक्तैरक्षतैस्तद्वत्तिलैश्च जुहुयात्ततः ॥ १६५ ॥
View Verse
अर्धमर्धांशसंयुक्तमधिकं चाग्रवर्तिनाम् ।
जपकाले तथा होमे कर्तव्यं सिद्धिमिच्छता ॥ १६६ ॥
View Verse
स्विष्टकृद्धवनं कुर्यादन्नग्रासेन वै सकृत् ।
काम्यैरवश्यफलदैर्देशकालसमुद्भवैः ॥ १६७ ॥
View Verse
तिलैर्घुतेन पयसा दध्ना वा पायसेन तु ।
सिद्धान्नैः साधितैर्भक्ष्यैर्बीजैर्लाजैश्च तण्डुलैः ॥ १६८ ॥
View Verse
मूलैः फलैः पल्लवैश्च सुप्रशस्तैश्च कोमलैः ।
सुगन्धैः स्थलपझाद्यैः पुष्पैर्द्विज सितादिकैः ॥ १६९ ॥
View Verse
गुग्गुलेनाज्यमिश्रेण सज्जश्रीवेष्टकेन वा ।
धात्रीफलैश्च सरसैरुत्पलैश्च शुभैस्तथा ॥ १७० ॥
View Verse
सुसितैः सितरक्तैश्च पझैर्बिल्वैः सुशोभनैः ।
दूर्वाकाण्डैरभग्नार्ग्रैदन्तिसद्दन्तनिर्मलैः ॥ १७१ ॥
View Verse
एधोभिर्ब्रह्नवृक्षोत्थैः क्षीरद्रममयेस्तथा ।
अमृताक्षीरसंयुक्ता औदुम्बर्यो मधुप्लुताः ॥ १७२ ॥
View Verse
अच्छिन्नाग्रा ह्यभग्नास्च कण्टकैः परिवर्जिताः ।
सर्वास्त्रिमधुयुक्ताश्च घृतयुक्तास्तु वा पुनः ॥ १७३ ॥
View Verse
योक्तव्यान्यग्निमध्ये तु समिद्भिः सह सर्वदा ।
सर्वाण्यन्नविशेषाणि चन्दनादीनि यान्यपि ॥ १७४ ॥
View Verse
सदन्तकाष्ठताम्बूलमुत्कटक्षारवर्जितम् ।
दाप्यानि लक्षहोमे तु आसनादीनि यानि च ॥ १७५ ॥
View Verse
मधुलवणपानाम्बुकटुतैलोज्झितानि च ।
आज्ययुक्तैस्तिलैः शान्तिः सिद्धयः सकलास्तथा ॥ १७६ ॥
View Verse
धृतेन पयसा दध्ना होमस्तृप्तिं प्रयच्छति ।
पायसेन तु सिद्धान्नैर्भक्ष्यैः पुष्टिः सदा भवेत् ॥ १७७ ॥
View Verse
बीजैर्धान्यैस्तण्डुलैश्च तर्पितो मन्त्रराड्द्विज ।
प्रयच्छति सदा श्रेयः प्रसन्नः परमेश्वरः ॥ १७८ ॥
View Verse
पल्लवैः फलमूलैश्च होमस्तुष्टिं प्रयच्छति ।
जहाति चापमृत्युं च रोगांश्चोपशमं नयेत् ॥ १७९ ॥
View Verse
तर्पितः स्थलपझाद्यैः पुष्पैश्चान्यैः सितादिकैः ।
सौभाग्यमतुलं विप्र अचिरात् संप्रयच्छति ॥ १८० ॥
View Verse
गुग्गुल्वाज्यैर्द्विजारोग्यं शुभैर्धात्रीफलैस्तथा ।
शर्करैर्बिल्वफलकैः पञ्चगव्यसमुक्षितैः ॥ १८१ ॥
View Verse
आज्याक्तैः पझबीजैश्च लक्ष्मीं शीघ्रं प्रयच्छति ।
उत्पलैर्वश्यकामस्तु भोगकामश्च होमयेत् ॥ १८२ ॥
View Verse
दूर्वाङ्कुरैस्च होमेन आयुषो वृद्धिमाप्नुयात् ।
एधोभिश्च शुभैर्होमो माषैः शान्तिप्रदः प्रभुः ॥ १८३ ॥
View Verse
तिलानां शस्यते होमो हरिणाननमुद्रया ।
घृतस्य कार्षिको होमः क्षीरस्य च विशेषतः ॥ १८४ ॥
View Verse
शुक्तिमात्राहुतिर्दध्नः प्रसृतिः पायसस्य च ।
ग्रासार्धमानमन्नानां भक्ष्याणां स्वप्रमाणतः ॥ १८५ ॥
View Verse
तृतीयं मूलकन्दानां पुष्पाणां स्वप्रमाणतः ।
सर्वेषामेव बीजानां मुष्टिना होममाचरेत् ॥ १८६ ॥
View Verse
अग्राङ्गलिस्तु लाजानां शालीनां पञ्चकं हुनेत् ।
फलानां स्वप्रमाणं च पल्लवानां तथैव च ॥ १८७ ॥
View Verse
कर्कन्धुमात्रा गुलिका होतव्या गुग्गुलोः सदा ।
धात्रीफलप्रमाणं वा संभवे सति होमयेत् ॥ १८८ ॥
View Verse
दूर्वाकाण्डानि विप्रेन्द चतुरष्टाङ्गुलानि वा ।
समित्प्रादेशमानेन समच्छेदास्त्वगन्विताः ॥ १८९ ॥
View Verse
अग्नेर्वर्णाश्च गन्धाश्च शब्दाश्चाकृतयस्तथा ।
विकारा विशिखाश्चैव संवेद्याः कर्मसिद्धये ॥ १९० ॥
View Verse
पद्मरागद्युतिश्रेष्ठो लाक्षालक्तकसन्निभः ।
बार्लाकवर्णो हुतभुग्जयार्थं शस्यते द्विज ॥ १९१ ॥
View Verse
इन्द्रगोपकसंकाशः शोणाभो वाथ पावकः ।
शक्रचापनिभः श्रेष्ठः कुङ्कुमाभस्तथैव च ॥ १९२ ॥
View Verse
रक्तानां पुष्पजातीनां वर्णेनाग्निरिहेष्यते ।
सुगन्धद्रव्यगन्धोऽग्निर्घृतगन्धश्च शोभनः ॥ १९३ ॥
View Verse
आयुर्दः पद्मगन्ध स्याद्बिल्वगन्धश्च सुव्रत ।
उग्रगन्धोऽभिचारे तु विहितः सर्वदानलः ॥ १९४ ॥
View Verse
जीमूतवल्लकीशङ्खमृदङ्गध्वनितुल्यकः ।
शब्दोऽग्नेः सिद्धये हेतुरतोऽन्यः स्यादसिद्धिदः ॥ १९५ ॥
View Verse
छत्राकारो भवेच्छ्रेष्ठो ध्वजचामररूपकः ।
विमानादिवितानानां प्रासादानां वृषस्य च ॥ १९६ ॥
View Verse
आकारेणाथ हंसानां मयूराणां च सिद्धिदः ।
रक्ताभस्तु यदा वह्निः क्षीणार्चिः परिदृश्यते ॥ १९७ ॥
View Verse
भग्नराजोपलाभश्च स्फटिकाभस्तथा शुभः ।
यद्रपं कथितं पूर्वं यदि तस्य प्रदक्षिणम् ॥ १९८ ॥
View Verse
अन्योन्यत्वं प्रपद्येत तथा सिद्धिकरोऽनलः ।
गर्हितेन तु वर्णेन यदि कापोतकादिना ॥ १९९ ॥
View Verse
परिवर्तं करोत्यग्निस्तदा विप्रविपर्ययः ।
होमान्ते तन्निमित्तं वै होमं कुर्याच्छताधिकम् ॥ २०० ॥
View Verse
विषमाश्च शिखावन्हेस्त्र्यादयश्च शुभावहाः ।
ह्रस्वा ह्रस्वोन्नता दीर्घा ज्वाला सिद्धिप्रदा स्मृता ॥ २०१ ॥
View Verse
स्निग्धः प्रदक्षिणावर्तः श्रुतिप्रच्छादितध्वनिः ।
स नित्यमेव शुभकृद्यदन्यैर्वर्जितो गुणैः ॥ २०२ ॥
View Verse
प्रदीप्तेलोलिहानेऽग्नौ निर्धूमे सगुणे तथा ।
हृद्ये तुष्टिप्रदे चैव होतव्यं श्रुतिमिच्छता ॥ २०३ ॥
View Verse
अल्पतेजोऽल्परूपश्च विस्फुलिङ्गसमन्वितः ।
ज्वालाभ्रमविहीनश्च कृशानुर्नैव सिद्धिदः ॥ २०४ ॥
View Verse
अप्रबुद्धे सधूमे च जुहुयाद्यो हुताशने ।
कर्महानिर्भवेत्तस्य त्वाभिचारार्थमश्रुते ॥ २०५ ॥
View Verse
दुर्गन्धः पीतवर्णश्च अवलीढश्च योऽशुभः ।
प्रभामूर्तिगतो मन्त्रस्तर्पितो यदि सत्तम ॥ २०६ ॥
View Verse
विद्यां प्रयच्छत्यचिराद्दीप्तिस्थो भूप्रदः प्रभुः ।
तापयत्याशु शत्रूणां प्रकाशोपर्यवस्थया ॥ २०७ ॥
View Verse
शत्रुक्षयं ददात्याशु मरीच्यामूर्ध्वगो विभुः ।
तापिन्यामूर्ध्वगो मन्त्रः सर्वतापोपशान्तिदः ॥ २०८ ॥
View Verse
विपक्षोच्चाटनं कुर्यात् करालासंस्थितो हुतः ।
लेलिहावस्थितो मन्त्रो यदि सन्तर्प्यते मुने ॥ २०९ ॥
View Verse
ददात्यभीप्सितं चैव देहान्ते परमं पदम् ।
स्वाहाकारं सदा होमे पूर्णायां वौषडेव च ॥ २१० ॥
View Verse
तमेव शान्तिके कुर्याद्वषडाप्यायने तथा ।
स्वधां पितृक्रियायां च फट्कारं क्षयकर्मणि ॥ २११ ॥
View Verse
विद्वेषे हुं वशे ह्रीं च नमो मोक्षप्रसिद्धये ।
कर्महोमावसाने च घृतेनापूर्य च स्रुचम् ॥ २१२ ॥
View Verse
अभावाच्च प्रभूतेन होमद्रव्येण पूरयेत् ।
तत्रोपरि घृतं दद्यात्ततोऽर्घ्यकुसुमादिभिः ॥ २१३ ॥
View Verse
मूलदेशात् समारभ्य स्रुक् संपूज्या स्रुवान्विता ।
घृतयुक्तं तु तद्द्रव्यं स्रुचः पुष्करकुक्षिगम् ॥ २१४ ॥
View Verse
द्रवच्चन्द्रोपमं ध्यायेत्ततः पूर्णां समुद्धरेत् ।
स्रुग्दण्डे देहनाभौ तु मूले संरुध्य संस्मरेत् ॥ २१५ ॥
View Verse
निष्कलं मन्त्रनाथं तु पूर्णशीतांशुविग्रहम् ।
आमूलाच्च मरुच्छक्त्या प्रोद्धरेच्च स्वविग्रहात् ॥ २१६ ॥
View Verse
विधाय चेश्वराधारे तस्माद्धारामृतं महत् ।
नासिकासन्धिमार्गेण स्रुक्पझे पतितं स्मरेत् ॥ २१७ ॥
View Verse
सामृतामाज्यधारां च वसुधारामिव क्षिपेत् ।
मुखमध्ये तु मन्त्रत्य तद्व्रह्नविवरेऽथवा ॥ २१८ ॥
View Verse
हृत्पझान्तर्गतां सम्यक् प्रविष्टामनुभावयेत् ।
तया वै बृह्नितं मन्त्रं भावयेद्ब्रह्नधारया ॥ २१९ ॥
View Verse
तृप्तं हृष्टं च पुष्टं च तुष्टं वै साधकोपरि ।
मन्त्रोच्चारसमेता वै शरीरकरणान्विता ॥ २२० ॥
View Verse
ध्यानोपेता द्विजश्रेष्ठ पूर्णेयं परिपातिता ।
सर्वसिद्धिकरी शश्वन्मोक्षलक्ष्मीविवर्धनी ॥ २२१ ॥
View Verse
बहु शुष्केन्धनेऽग्नौ च होतव्या कर्मसिद्धये ।
एका अनेकप्रयोगाणां न तु कर्मणि कर्मणि ॥ २२२ ॥
View Verse
ततोऽर्घ्यगन्धपुष्पाद्यैर्मन्त्रनाथं समचयेत् ।
मुद्रं प्रदर्शयेत् सर्वा मूलमन्त्रादितः क्रमात् ॥ २२३ ॥
View Verse
चतुर्थांशेन चाह्गानां कुर्यान्मूलस्य र्तपणम् ।
लाञ्छनाभरणानां च लक्ष्म्यादीनां तदर्थतः ॥ २२४ ॥
View Verse
अथवा हृदयादीनामतोऽर्धेनाखिलासु च ।
परमेश्वरकान्तासु तदर्धेन द्विजोत्तम ॥ २२५ ॥
View Verse
लाञ्छनाभरणादिनि सर्वाणि जुहुयात् क्रमात् ।
हृदादिसर्वमन्त्राणाभेकैकं जुहुयात्तु वा ॥ २२६ ॥
View Verse
विसर्जनं ततः कुर्याद्दत्त्वार्घ्यं धूपसंयुतम् ।
भोगस्थानगता मन्त्राः पूजिता ये यथाक्रमम् ॥ २२७ ॥
View Verse
मुख्यमन्त्रशरीरं च संप्रविष्टांश्च संस्मरेत् ।
ज्वालाज्वालान्तरे यद्वत् समुद्रस्येव निम्नगाः ॥ २२८ ॥
View Verse
तन्मन्त्रविग्रहं स्थूलं सर्वमन्त्रास्पदं द्विज ।
प्रविष्टं भावयेत् सूक्ष्मे अध्यक्षे हृदयात्मके ॥ २२९ ॥
View Verse
परे प्रागुक्तरूपे तु तं सूक्ष्ममुभयात्मकम् ।
तं परं प्रस्फुरद्रूपं निराधारपदाश्रितम् ॥ २३० ॥
View Verse
सन्धिमार्गेण हृत्पझे संप्रविष्टं तु भावयेत् ।
मन्त्रमुद्रासमेतेन पूरकेण तु सत्तम ॥ २३१ ॥
View Verse
बासितं भावयेद्देहं तेनापादाच्छिरोवधि ।
प्रविष्टेन तु मन्त्रेण प्रयत्नेन विना द्विज ॥ २३२ ॥
View Verse
विग्रहः कम्पते यस्य मन्त्रस्तस्य प्रसीदति ।
एवं विसृज्य मन्त्रेशं मुद्राबन्धेन वै सह ॥ २३३ ॥
View Verse
साधारासनमन्त्राणां गणेशस्य गिरः सदा ।
गुर्वादीनां तु विहितमर्धं लाञ्छनतर्पणात् ॥ २३४ ॥
View Verse
एतेषां च लयं विप्र कुर्यात् सृष्टिकमेण तु ।
द्वार्स्थत्रिलोकपालानां वप्रस्थहरिसेविनाम् ॥ २३५ ॥
View Verse
गुरुपूर्वक्रमादित्थमर्धमर्धं यथाक्रमम् ।
सकृत् सकृत् स्वशक्त्या वा पूर्णां सर्वेर्ष्वधः क्षिपेत् ॥ २३६ ॥
View Verse
विष्वक्सेनस्ततो भक्त्या तर्पणीयस्तिलाक्षतैः ।
वौषडन्तेन मन्त्रेण दद्यात् पूर्णाहुतिं द्विज ॥ २३७ ॥
View Verse
पूजयित्वा यथान्यायं कुर्यात्तस्य विसर्जनम् ।
अनलं पूजयित्वा तु शक्तितस्तर्पयेत्ततः ॥ २३९ ॥
View Verse
कुण्डे पुष्पाञ्जलिं क्षिप्त्वा वह्निमन्त्रमनुस्मरन् ।
जलनिर्मथितेनैव हयूर्ध्वपुण्‍ड्रचतुष्टयम् ॥ २४० ॥
View Verse
शिरस्तनुत्रहृन्मन्त्रैर्ललाटे चांसयोर्हृदि ।
कुण्डस्थभस्मना चैव कुर्याद्दीपशिखाकृतिम् ॥ २४१ ॥
View Verse
ज्वालया हृदयं स्पृश्य नेत्रे चास्त्रेण वै पुरा ।
क्षान्त्वा चैव नमस्कृत्य यथाविधि विसृज्य तत् ॥ २४२ ॥
View Verse
समाघ्राय न्यसेत् कोष्ठे ह्यवतारक्रमेण तु ।
प्रतिष्ठिताग्नेः संस्कारं पर्यग्निकरणादितः ॥ २४३ ॥
View Verse
विसर्जनं तु कुर्याद्वै धूमच्छेदे न तत्र च ।
संमार्ज्य स्रुकूस्रुवेऽग्नौ तु स्रुचं निक्षिप्य चाम्भसा ॥ २४४ ॥
View Verse
अर्ध्यपात्रात्तु चापूर्य कुण्डबाह्ये प्रदक्षिणम् ।
कुर्यादीशानकोणाद्वै अच्छिद्रोदकधारया ॥ २४५ ॥
View Verse
पवित्रकेणाथ ऊर्ध्वे विनिक्षिप्य करेण तु ।
दद्याच्छिरसि वै शेषं स्रुगधोवदनां न्यसेत् ॥ २४६ ॥
View Verse
आत्मनो वामभागे तु विष्टरस्रुवसंयुतात् ।
अपवास्य जलं तस्माद्द्वितयस्मात्तदर्चितम् ॥ २४७ ॥
View Verse
उपसंहृत्य वै यायादर्चनालयमर्घ्यभृत् ।
नमस्कुर्याज्जगन्नाथमष्टाङ्गपतनेन तु ॥ २४८ ॥
View Verse
आपूर्य पाणियुगलं पुष्पैस्तत्रोपरि स्थितम् ।
संस्मरेन्निष्कलं मन्द्रममृतेनोपबृह्नितम् ॥ २४९ ॥
View Verse
प्रभूतदीप्तच्छुरितं निक्षिपेन्मन्त्रमूर्धनि ।
तर्पितोऽसि विभो भक्त्या होमेनानलमध्यगः ॥ २५० ॥
View Verse
होमद्रव्येषु यद्वीर्यं तदिदं चात्मसात्कुरु ।
विनिवेद्य विभोर्होमं पूजां कृत्वा यथाविधि ॥ २५१ ॥
View Verse
गृहीतं भावयेत्तेन प्रसन्नेनान्तरात्मना ।
इदमुक्तं समासेन मन्त्रसन्तर्पणं द्विज ॥ २५२ ॥
View Verse
वाच्यं नादीक्षितानां च नाभक्तानां कदाचन ।
नानय्दर्शनसंक्थानां नापहासरतात्मनाम् ॥ २५३ ॥
View Verse
सद्भावज्ञे तु वक्तव्यं समयज्ञे सपुत्रके ।
साधके तु गुरौ वापि भक्ते स्निग्धे विमत्सरे ॥ २५४ ॥
View Verse
सत्यधर्मव्रतपरे साचारे शासनस्थिते ।
एवं समाप्य होम तमर्घ्यगन्धादिभिर्विभुम् ॥ २५५ ॥
View Verse
समभ्यर्च्य पितॄणां च संविभागमथाचरेत् ।
पौष्कराख्ये विशेषेण देवदेवेन विस्तृतम् ॥ २५६ ॥
View Verse
विधानमेतद् विप्रेन्द्र प्रोक्तं पुष्करजन्मने ।
सात्त्वतोक्तविधानेन तद्विधानं वदामि ते ॥ २५७ ॥
View Verse
आराध्यस्याग्रतो विप्र प्रत्यहं क्रियते तु यत् ।
विज्ञेयं संविभागं तदुत्तमं सर्वकर्मणाम् ॥ २५८ ॥
View Verse
संविभागात् पितॄणां च भवत्यनृणवान्नरः ।
प्रयान्ति तृप्तिमतुलां तेन कर्मवशादपि ॥ २५९ ॥
View Verse
निमन्त्रितं वा संप्राप्तं नित्यमङ्गीकृतं तथा ।
द्विजेन्द्रं पञ्चकालज्ञं षट्कर्मनिरतं तु वा ॥ २६० ॥
View Verse
स्नानादीनि पुरा कृत्वा प्रयतः संविशेत् पुनः ।
स्वयमर्ध्याम्बुना विप्र पवित्रीकृत्य पाणिना ॥ २६१ ॥
View Verse
सन्ताड्य कुसुमास्त्रेण मन्त्रास्त्राधिष्ठितेन च ।
समुच्चरन्नेत्रमन्त्रमवलोक्याखिलं ततः ॥ २६२ ॥
View Verse
निवेश्य भगवत्यग्रे प्रणवाधिष्ठितासने ।
पूजिते वितते पूते संमुखं वोत्तराननम् ॥ २६३ ॥
View Verse
उदग्दिग्वीक्षणाणं च विनिवेश्य तथा च तम् ।
यथा मन्त्रेशदृग्रश्मिप्रसरेणाभिविध्यते ॥ २६४ ॥
View Verse
मन्त्रेणाराध्य तं ध्यात्वा भ्रूयात् संयतवाग्भव ।
तैश्चापि मौननिष्ठैश्च भवितव्यं सुयन्त्रितैः ॥ २६५ ॥
View Verse
समाधाय जगन्नाथं हृत्पझगगनेऽर्कवत् ।
सत्पात्रस्याथ पात्राभ्यां पात्राणामब्जसंभव ॥ २६६ ॥
View Verse
एवं कृत्वा प्रतिष्ठानं प्राग्यत्नेनात्र कर्मणि ।
समुद्दिश्य पितॄन् दद्याद्दानमन्तरवेदिकम् ॥ २६७ ॥
View Verse
निवेशितद्विजेन्द्रं यद्व्यक्किस्थमपि मन्त्रराट् ।
अन्तर्वेदी तु सा ज्ञेया त्वाब्यामभ्यन्तरं तु यत् ॥ २६८ ॥
View Verse
संप्रदानं पितॄणां यत् कुर्यात् सत्पात्रपिव्डकम् ।
तद्दिव्यममलं यस्माच्चैतन्यमवलम्ब्य वै ॥ २६९ ॥
View Verse
तत्कालसंविभज्याश्च तिष्ठन्ति कमलोद्भव ।
प्रदातृसंकल्पवशादतः पुष्करसंभव ॥ २७० ॥
View Verse
एकस्य वा बहूनां वा प्रदद्यादासनोपरि ।
पुनरेवासनं दार्भमग्रन्थि बहुभिः कुशैः ॥ २७१ ॥
View Verse
विभोर्यज्ञाङ्गदेहस्य लोमानि तु कुशाः स्मृताः ।
ता एव नाडयः सर्वास्तस्य भूतशरीरगाः ॥ २७२ ॥
View Verse
रश्मयो भूतदेहे तु चिन्मूर्तेः शक्तयोऽखिलाः ।
अत एव हि विप्रेन्द्र पितॄणां तु कुशासनम् ॥ २७३ ॥
View Verse
श्राद्धकाले तु विहितमाहूतानां तदूर्ध्वतः ।
यत्किञ्चिद्दीयते भक्त्या ब्रह्मभूतं तु तद्भवेत् ॥ २७४ ॥
View Verse
पुरा वै हेतुमानेन नृणामविदितात्मनाम् ।
कर्मण्यत्र कुशाजालं विहितं कमलोद्भव ॥ २७५ ॥
View Verse
येषां सर्वगतं ब्रह्म मन्त्ररूपीश्वरोऽच्युतः ।
भावस्थस्तत्वतस्ताभिस्तेषां नैव प्रयोजनम् ॥ २७६ ॥
View Verse
न्यसेत्तस्मादभग्नाग्रानुदङ्मूलान् कुशान् द्विजः ।
यस्माद्दिव्यमुदग्भागं पित्र्यं दक्षिणसंज्ञकम् ॥ २७७ ॥
View Verse
स्वकेनामृतवीर्येण नित्यं संवर्धयन्ति च ।
दर्भमार्गच्छलेनैव पितॄणां तेऽमरा द्विज ॥ २७८ ॥
View Verse
वसत्यतः पितृगणो भागमाश्रित्य दक्षिणम् ।
चित्कलांशस्वरूपेण नृणामेवं हि चोत्तरे ॥ २७९ ॥
View Verse
कृतास्पदा अमला नित्या त्वमृताख्याक्षया कला ।
अत एव हि यत् किञ्चिदाब्रह्मविदितैर्द्विज ॥ २८० ॥
View Verse
प्रदीयते पितॄणां च तत् सव्येन तु पाणिना ।
चेऽधिकृत्य जगद्योनिं मन्त्रात्मानमजं हरिम् ॥ २८१ ॥
View Verse
प्रयछन्ति पितॄणां च तोयतर्पणपूर्वकम् ।
तेषां तदाश्रयत्वाच्च यदुक्तं तन्न कारणम् ॥ २८२ ॥
View Verse
कर्तव्यस्य च पारम्यं प्रकृतस्य महामते ।
स्फुरत्यन्तर्गतं येषां मन्त्राराधनपूर्वकम् ॥ २८३ ॥
View Verse
तत् स्वोत्तरवशात्तेषां मन्त्रसामुख्यदिग्वशात् ।
चेतसा निर्विकल्पेन कृतं भवति चाक्षयम् ॥ २८४ ॥
View Verse
किंतु पुष्करसंभूत दुर्लभा भुवि ते नराः ।
इति चेतसि वै येषां निश्चयीकृत्य वर्तते ॥ २८५ ॥
View Verse
कुण्‍डस्य योनिदिग्भागे भद्रपीठोर्ध्वतोऽथवा ।
समीपे पुरतस्तस्य भूभागे चार्घ्यवारिणा ॥ २८६ ॥
View Verse
प्रोक्षिते चास्त्रमन्त्रेण दक्षिणाग्रान् कुशांस्तरेत् ।
तदूर्ध्वे पितृतीर्थेन सतिलानक्षतोदकान् ॥ २८७ ॥
View Verse
विकिरेदस्त्रजप्तांश्च दर्भाग्रैः प्रणवेन तु ।
कौशस्तराग्रपर्यन्तं यस्मादेतद्द्वयं द्विज ॥ २८८ ॥
View Verse
सर्वस्य भोगजालस्य जनकं भुवनत्रये ।
विशेषात् पितृदेयस्य श्रद्धापूतस्य वस्तुनः ॥ २८९ ॥
View Verse
अग्नीषोमस्वरूपेण क्रोडात्मा भगवान् स्वयम् ।
व्यक्तः कर्मात्मतत्वानां मूर्तत्वेनात्मसिद्धये ॥ २९० ॥
View Verse
तत्तेजस्तिलभावेन ह्लादो वर्तत्यबात्मना ।
अत एवाप्रबुद्धानां प्रबुद्धानामपि द्विज ॥ २९१ ॥
View Verse
तिलोदकेऽङ्गभांव तु गछतः श्राद्धकर्मणि ।
श्राद्धस्य च परा रक्षा ते द्वे नित्यप्रमन्त्रिणाम् ॥ २९२ ॥
View Verse
तत्स्वरूपविदां चेव विशेषान्मन्त्रवेदिनाम् ।
एवं तिलोदके बुद्ध्वा प्रकाशाह्लादलक्षणे ॥ २९३ ॥
View Verse
स्तरोर्ध्वे स्वस्वसंज्ञाभिरग्रान्तं तु यथाक्रमम् ।
भावयेत् पुरुषादीनां सारूप्यं समुपागतान् ॥ २९४ ॥
View Verse
पितॄन् पितामहांश्चैव तथैव प्रपितामहान् ।
तप्तितॄंश्चाथ शंसन्तः सन्तानं स्वविभागतः ॥ २९५ ॥
View Verse
देवान्नोच्छेषसंयुकं पाकाग्रं पात्रसंभृतम् ।
मधुयुक्तेन हविषा दर्भकाण्डैस्तिलैः सह ॥ २९६ ॥
View Verse
भावितं वह्निना कृत्वा हृदा दर्भाग्रगेण तु ।
निर्दोषं ज्ञस्वभावं च धामत्रयसमप्रभम् ॥ २९७ ॥
View Verse
ध्यायेद्द्रव्यगतं दोषं निर्दहन्तं समन्ततः ।
देवतानां पितॄणां यत् तृप्तयेऽन्नं महामते ॥ २९८ ॥
View Verse
तत् साधनं च विहितं संस्कृतेन पुराग्निना ।
तमालकदलीपूर्वदलेषु क्षालितेषु च ॥ २९९ ॥
View Verse
संविभज्य चतुर्धान्नं निधाय प्रणवेन तु ।
प्रोक्षितान्यन्नपात्राणि चत्वारि कबलानि वा ॥ ३०० ॥
View Verse
तृप्तये त्वथ सर्वेषां देवाय विनिवेद्य च ।
पितॄणां तर्पयेत्तेन पिण्डाद्यन्नेन सादरम् ॥ ३०१ ॥
View Verse
क्रमेण प्रागदृष्टानां हृदा संज्ञापदेन तु ।
एवं दृष्टस्वरूपाणां ज्ञात्वा तेषां स्थितिं पुरा ॥ ३०२ ॥
View Verse
प्राग्वत् स्वधावसानाद्यैर्मन्त्रैरोह्कारपूर्वकैः ।
हृन्मन्त्रालिङ्गितैर्विप्र तथा संज्ञापदान्वितैः ॥ ३०३ ॥
View Verse
पिण्‍डं प्रकल्पयामी ति ततः पूर्ववदाचरेत् ।
प्रणवैर्दक्षिणाग्राणि सेचितानि तिलाम्बुना ॥ ३०४ ॥
View Verse
नाडीरूपाणि दर्भाणि पिण्डानामूर्ध्वतो न्यसेत् ।
प्रविष्टान् भावयेत्तेषु नाडीमार्गैरनुक्रमात् ॥ ३०५ ॥
View Verse
पितॄनावाहयामी ति स्तरोर्ध्वे प्राक्स्थितांस्ततः ।
क्रमेण चातुरात्मीयैर्मन्त्रैरप्यययोगतः ॥ ३०६ ॥
View Verse
समर्चयेद्यथान्यायमर्ध्यगन्धादिभिश्च तान् ।
ततस्तु नाम्ना गोत्रेण मन्त्रपूर्वं तिलोदकम् ॥ ३०७ ॥
View Verse
सर्वेषामर्घ्यकलशात् प्रदद्याच्च यथाक्रमम् ।
शिरसावनतेनाथ जानुयुग्मे क्षितौ कृते ॥ ३०८ ॥
View Verse
पाणियुग्मे ललाटस्थे एकचित्तः पठेदिदम् ।
ॐ नमो वः पितरः नमो वः पुरुषोत्तमाः ॥ ३०९ ॥
View Verse
नमो विष्णुपदस्थेभ्यः स्वधा वः पितरो नमः ।
हरये पितृनाथाय ह्यग्नीषोमात्मने नमः ॥ ३१० ॥
View Verse
सत्सोमपात्मने विष्णो नमो बर्हिषदात्मने ।
आसंसारं हि जनका अग्निष्वात्ता अथाच्युत ॥ ३११ ॥
View Verse
पितामहाः सोमपास्त्वं त्वमन्ये प्रपितामहाः ।
तुभ्यं नमो भगवते पितृमूर्ते ऽच्युताय च ॥ ३१२ ॥
View Verse
नारायणाय हंसाय विष्णो त्रिपुरुषात्मने ।
मुक्त्वा त्वामेव भगवन् न नमाम्यर्चयामि च ॥ ३१३ ॥
View Verse
न तर्पयामि सर्वेश नान्यमावाहयाम्यहम् ।
स्तुत्वैवं हि पितृव्यूहं भक्त्या परमया युतम् ॥ ३१४ ॥
View Verse
संभवे सति संमानं पिण्डमूर्तेः समाचरेत् ।
तदग्रतोपविष्टस्य क्रमाद्द्विजगणस्य च ॥ ३१५ ॥
View Verse
अनुसन्धाय वै द्वाभ्यामेकस्मिन् वा द्विजोत्तम ।
देवभावस्थितं ध्यात्वा पित्र्यं प्रागगणं क्रमात् ॥ ३१६ ॥
View Verse
प्रणवेन खरूपं तु समुत्थाय ततः स्वयम् ।
मध्ये तिर्यक्स्थितौ स्थित्वा ह्यदूरेऽन्योन्यदृक्स्थिते ॥ ३१७ ॥
View Verse
उत्तराभिमुखश्चैव दक्षिणास्योऽथवा द्विज ।
तदुत्तराननवशाद्धृन्मन्त्रं हृदयान्न्यसेत् ॥ ३१८ ॥
View Verse
नमोऽन्तं प्रणवाद्यं तु मरुदम्बरविग्रहम् ।
पिण्डाग्रे ह्युपविष्टस्य प्राणशक्तिं द्विजस्य वा ॥ ३१९ ॥
View Verse
बहूनां वा प्रयत्नेन स्वातन्त्र्यान्निर्गतां बहिः ।
ध्यात्वा तया सह क्षिप्रमेकीभूतत्वमागतम् ॥ ३२० ॥
View Verse
आत्मशक्तौ लयं नीत्वा याति ह्यूष्माख्यलक्षणम् ।
कृत्वैवं प्राणसञ्चारं पितॄणां विप्रविग्रहे ॥ ३२१ ॥
View Verse
प्राग्वदानन्दसंरुद्धे भोजयेत् पितृरूपिणः ।
तादर्थ्येनाथ चतुरो विनिवेश्यासनेषु च ॥ ३२२ ॥
View Verse
लब्धलक्ष्यान् परे तत्त्वे ब्राह्यणान् पाञ्चरात्रिकान् ।
प्राङ्मुखं द्वितयं चैव द्वितयं चाप्युदङ्मुखम् ॥ ३२३ ॥
View Verse
संपत्यभावे ह्येकं वा विनिवेश्योत्तराननम् ।
पादयोरपि पाद्यार्थं कं क्षिपेद्दक्षिणादितः ॥ ३२४ ॥
View Verse
अथ तेषां क्रमात् कुर्यादर्चनं चातुरात्म्यवत् ।
अर्ध्यानुलेपनाद्यैस्तु भोगैर्मात्रावसानिकैः ॥ ३२५ ॥
View Verse
तत्तत्कालोचितैः सर्वैरनुपादेयवर्जितैः ।
तैश्चापि मौननिष्ठैस्तु भवितव्यं सुयन्त्रितैः ॥ ३२६ ॥
View Verse
अथास्त्रपरिजप्तेन भूतिना वाथ शङ्कुना ।
मसृणेनाश्मचूर्णेन परिघां स्वधयाथवा ॥ ३२७ ॥
View Verse
बहिस्तदासने कुर्यात्त्वग्रे दैर्घ्याच्छमाधिकाम् ।
वैपुल्याच्छममानं तु प्राग्वत् पावनतां नयेत् ॥ ३२८ ॥
View Verse
न्यसेत् तत्राप्यभग्नाग्रानुदङ्मूलान् कुशान् द्विज ।
तत्रापि च विशेषेण तिलतोये समुत्किरेत् ॥ ३२९ ॥
View Verse
न्यस्तास्त्राण्यस्त्रजप्तानि तत्र पात्राणि विन्यसेत् ।
सर्वाणि चक्रवृत्तानि हेमाद्युत्थानि संभवे ॥ ३३० ॥
View Verse
पात्राणि कदलीपझतमालच्छदनान्यथ ।
दर्भाण्यस्त्राम्बुयुक्तानि शुभपर्णमयानि वा ॥ ३३१ ॥
View Verse
निदध्यात्तेषु चान्नानि भोज्यानि मधुराण्यपि ।
भक्ष्याणि फलमूलानि दधिक्षीरादिकान्यपि ॥ ३३२ ॥
View Verse
पानकानि रसालानि सपानीयानि सत्तम ।
कर्मण्यानि तथान्यानि तत्तत्कालोद्भवानि च ॥ ३३३ ॥
View Verse
पुरोपस्तरणार्थं च पात्राणां दक्षपाणिषु ।
निपातव्याऽमृती धारा वारिणाप्युद्धतेन च ॥ ३३४ ॥
View Verse
वाग्यता लब्धलक्षास्तु ह्यन्नमूर्तौ जनार्दने ।
येऽश्र्नन्ति पितरस्तेन तृप्तिमायान्ति शाश्वतीम् ॥ ३३५ ॥
View Verse
अतः सव्यभिचारं तु मौनं वर्ज्यं क्रियापरैः ।
शुभमव्यभिचारं यत् तत् कार्यं सर्ववस्तुषु ॥ ३३६ ॥
View Verse
यदङ्गसङ्केतमयैरव्यक्तैर्नासिकाक्षरैः ।
कृतमोष्ठपुटैर्वद्धैर्मौनं तत् सिद्धिहानिकृत् ॥ ३३७ ॥
View Verse
स्वयमेव स्वबुद्ध्या यत् सर्ववस्तुषु वर्तते ।
शब्दैरनुपदिष्टैस्तु तन्मौनं सर्वसिद्धिदम् ॥ ३३८ ॥
View Verse
तस्माद्वै श्राद्धभोक्तॄणां दिव्ये वा पितृकर्मणि ।
दद्यान्नैवेद्यवत् सर्वं मर्यादाभ्यन्तरेऽग्रतः ॥ ३३९ ॥
View Verse
येनाचमनपर्यन्तं कालं तिष्ठन्ति वाग्यताः ।
सर्वेवामेकमाप्तं तु तृप्तये यदि योजितम् ॥ ३४० ॥
View Verse
ओमाद्यमस्मच्छब्दं तु पितृभ्यस्तदनन्तरम् ।
इदमर्ध्यमिदं पाद्यं तदन्ते संस्मरेत् स्वधाम् ॥ ३४१ ॥
View Verse
सर्वस्मिन्नुपचारान्ते ह्येवं वा संस्मरेन्नमः ।
नमः स्वधाऽथवा ब्रूयान्नमोन्ता त्वथवा स्वधा ॥ ३४२ ॥
View Verse
एवमेव हि यः कुर्यात् कर्तव्यत्वेन सत्तम ।
तुल्यानां च स्वकुल्यानां नमस्तत्र च केवलम् ॥ ३४३ ॥
View Verse
सत्युक्ते व्यत्ययं नित्यं बिहितं च स्वधा द्विज ।
स्वयमेव हि सन्यासी ददाति च फलार्थिनाम् ॥ ३४४ ॥
View Verse
कार्यस्तेन नमस्कारः स्वधान्तो नित्यमेव हि ।
ददाति फलकामस्तु यो नित्यमफलार्थिनाम् ॥ ३४५ ॥
View Verse
स्वधाकारावसाने तु विहितं तत् सदा नमः ।
एवमिच्छावशेनैव संविभज्य पितॄन् द्विज ॥ ३४६ ॥
View Verse
पृष्ट्वा पात्रमुखेनैव संतृप्तिं च पुनः पुनः ।
ततोऽम्भश्चुलकं पाणौ हृन्मन्त्रेणामृतोपमम् ॥ ३४७ ॥
View Verse
दद्यात् पूर्णेन्दुतुल्यं तद्ध्यातव्यं तत्कलाः पठन् ।
सानुस्वारमकाराद्यैर्भिन्नं षोडशभिः स्वरेः ॥ ३४८ ॥
View Verse
सकारं नतिनिष्ठं च तत्र प्राक्स्थं सतारकम् ।
इत्युक्तं सकलस्येन्दोर्वाचकं मन्त्रमब्जज ॥ ३४९ ॥
View Verse
पाणिप्रक्षालनात् पूर्वं पातव्यं तेन पूर्ववत् ।
येनामृतपुटान्तस्थमन्नवीर्यमनश्वरम् ॥ ३५० ॥
View Verse
भवत्याप्यायकृद्व्रह्यन् पितृदेवगणस्य च ।
माषचूर्णादिना पाणिं प्रक्षाल्यामणिबन्धनात् ॥ ३५१ ॥
View Verse
समाचम्योपसंहृत्य ह्युच्छिष्टं च यथाविधि ।
पवित्रीकृत्य वसुधां पाणौ कृत्वा तिलोदकम् ॥ ३५२ ॥
View Verse
प्रीणनं भगवत्यग्रे समुत्थायाचरेत् ततः ।
ममास्तु भगवान् पूर्वं प्रीतः पितृगणस्तथा ॥ ३५३ ॥
View Verse
शारीरो देवताव्यूह आपादाद्यो व्यवस्थितः ।
नयन्त्वमृततामन्नमिदं विष्णुपुरस्सराः ॥ ३५४ ॥
View Verse
देवा नद्यस्तथा गावः सूर्यः सोमो बृहस्पतिः ।
माधवो भगवान् मन्त्रमूर्तिर्मधुमयो महान् ॥ ३५५ ॥
View Verse
मधुभावेन चान्नेऽस्मिन् स्थित्वा तृप्तिं करोतु वै ।
अनुलिप्यासनं कुर्यात् पितॄणां प्रीणनं द्विज ॥ ३५६ ॥
View Verse
तस्मिन्नेव हि भूभागे यस्यां तत्पिण्डचित्क्षितौ ।
स्थितिः सर्वपितॄणां च साम्प्रतं कमलासन ॥ ३५७ ॥
View Verse
यावत् प्राणावियुक्तानां पिण्डातां नोपसंहृतिः ।
स्वोद्दिष्टानां कृता सम्यक् तदन्ते संव्रजन्ति ते ॥ ३५८ ॥
View Verse
स्वस्थानमाशिषं दत्वा श्राद्धकर्तुर्धिया मुमे ।
सामृतं सोदकं सान्नं सतिलं मन्त्रतेजसा ॥ ३५९ ॥
View Verse
विविक्तं वः कृतं मार्गं पुनरागमनाय च ।
नारायणाख्यसन्मन्त्रकर्मब्रह्नजवीकृते ॥ ३६० ॥
View Verse
स्वे स्वेन्द्रियरथे कृत्वा तृप्ता याताच्युतास्पदम् ।
एवं सुवितते कुर्यात् कर्म त्वाराधनालये ॥ ३६१ ॥
View Verse
संकटे पुनरन्यत्र यायादभ्यर्थ्य मन्त्रराट् ।
स्थानं संस्कारसंशुद्धं कृत्वा प्राक् ताडनादिना ॥ ३६२ ॥
View Verse
व्याप्तिशक्त्याश्रितं भूयस्तोयाधारगतं स्मरेत् ।
मन्त्रमर्चनपूर्वं तु तदग्रे सर्वमाचरेत् ॥ ३६३ ॥
View Verse
देवान् पितॄन् समुद्दिश्य भोजनं भगवद्गृहे ।
अविरुद्धं द्विजेन्द्राणामन्यथा तद्विरोधकृत् ॥ ३६४ ॥
View Verse
विधिनानेन वै नित्यमथ यज्ञे तु वैष्णवे ।
संविभागः पितॄणां च कार्यः सद्रविर्णैनैरः ॥ ३६५ ॥
View Verse
कृत्वा तिलोदकान्तं वा फलमूलैः स्वशक्तितः ।
तदर्धं ग्रासमात्रं तु दद्याद्गोष्वथ भैक्षुके ॥ ३६६ ॥
View Verse
यस्माद्दिव्यैर्महामन्त्रैर्दत्तं यत् पूजितेऽच्युते ।
पित्रर्थमल्पं वा भूरि तत्तेषामक्षयं भवेत् ॥ ३६७ ॥
View Verse
सम्यगर्च्यार्घ्यगन्धाद्यैर्मूलमूर्तिगतं विभुम् ।
प्राङ्कणेषु च सर्वेषु प्रासादेष्वाश्रयेषु च ॥ ३६८ ॥
View Verse
प्रतिष्ठितेषु शोभार्थं विभवव्यूहमूर्तिषु ।
तथैव गोपुरद्वारदिङ्मूर्तिषु च मण्डपे ॥ ३६९ ॥
View Verse
सान्निध्यं चैव यातासु शक्त्या नित्यं समर्चनम् ।
षोडशैरुपचारैर्वा द्वात्रिंशद्भिस्ततोऽधिकैः ॥ ३७० ॥
View Verse
कुर्यात्रन्मूर्तिमन्त्रैश्च तथा नैमित्तिकेष्वपि ।
जपान्तं हवनान्तं वा स्नानाद्यं साधकस्ततः ॥ ३७१ ॥
View Verse
तत्तन्मूर्त्यग्रदेशस्थे कुण्डे होमं समाचरेत् ।
न कर्मार्चादिकं तत्र स्नपने चोत्सवादिकम् ॥ ३७२ ॥
View Verse
बलिदानं च सर्वत्र पवित्रारोहणादिकम् ।
नाचर्तव्यं विशेषेण परतन्त्रासु मूर्तिषु ॥ ३७३ ॥
View Verse
नित्याभिषेकमात्रं तु तासु तत्र समाचरेत् ।
सितादिवर्णयुक्तासु प्रोक्षणं वा निवेदनम् ॥ ३७४ ॥
View Verse
मूलालयार्चया सार्धं परतन्त्रासु देशिकैः ।
पवित्रारोहणं कार्यमङ्गत्वेनाधिवासितैः ॥ ३७५ ॥
View Verse
पूरकेषु च सर्वेषु तथैवाग्रयणादिके ।
खगेशविष्वक्सेनादिपरिवारगणेष्वपि ॥ ३७६ ॥
View Verse
प्रतिष्ठितेषु गेहेषु पूज्यमाश्रयमूर्तिवत् ।
अमूर्तस्य खगेशस्य विष्वक्सेनादिकस्य च ॥ ३७७ ॥
View Verse
कुमुदादिगणेशानां द्वारावरणवासिनाम् ।
अन्येषां परिवाराणां महापीठनिवासिनाम् ॥ ३७८ ॥
View Verse
अग्रे नित्योत्सवार्चाया दद्यात् कालत्रये बलिम् ।
साकारो वा निराकारो विष्वक्सेनो गणैः सह ॥ ३७९ ॥
View Verse
यद्वा समर्चनीयश्च बल्यन्ते शिष्टवस्तुभिः ।
नित्योत्सवं ततः कुर्यात् सर्वालंकारसंयुतम् ॥ ३८० ॥
View Verse
प्राङ्कणद्वारदेवानां बलिदानपुरस्सरम् ।
सनकः ।
त्वया नित्योत्सवार्चायाः पुरस्ताद्भगवन् मम ॥ ३८१ ॥
View Verse
द्वारावरणदेवानां बलिदानमुदाहृतम् ।
तद्विभागं विशेषेण वद मे सर्वसिद्धिदम् ॥ ३८२ ॥
View Verse
शाण्डिल्यः ।
विस्तृतं तव वक्ष्यामि श्रृणु नित्योत्सवादिकम् ।
कृतेन येन भक्तानामभीष्टं जायते फलम् ॥ ३८३ ॥
View Verse
नित्योत्सवार्थबिम्बं तु सौवर्णं राजतं तु वा ।
ताम्रजं पैत्तलं वाथ नात्युच्चं तच्चतुर्भुजम् ॥ ३८४ ॥
View Verse
मूलबेरानुरूपं च स्थापितं पूजितं पुरा ।
वस्त्राभरणमाल्यैश्च यथाशोभमलङ्कृतम् ॥ ३८५ ॥
View Verse
मूलबिम्बगतां शक्तिं तस्मिन्नारोप्य मन्त्रतः ।
समभ्यर्च्यार्घ्यपुष्पाद्यैर्भोगैर्धूपान्तिमैस्तथा ॥ ३८६ ॥
View Verse
आप्तैराराधिते देवे स्वयंव्यक्तालयादिषु ।
साधकं वरयेदन्यं बलिदानादिकर्मणि ॥ ३८७ ॥
View Verse
पुरा गर्भगृहद्वारि तथा चैवाग्रमण्डपे ।
घण्टानादसमेतेन दीपेन ज्वलितेन तु ॥ ३८८ ॥
View Verse
द्वार्स्थानर्घ्यादिधूपान्तैः समभ्यर्च्यार्घ्यवारिणा ।
दत्वार्हणं ततश्चान्नं तर्पणाम्भस्ततः परम् ॥ ३८९ ॥
View Verse
ताम्बूलं च क्रमाद्दत्वा तत्तन्मन्त्रैरनुक्रमात् ।
स्वर्णादिनिर्मितं यानं पुरस्तात् प्रथमाङ्कणे ॥ ३९० ॥
View Verse
सुगन्धपुष्पप्रभया क्षौमैर्माल्यैः सितादिभिः ।
यथाशोभमलंकृत्य तस्मिन् बल्यर्थकौतुकम् ॥ ३९१ ॥
View Verse
प्राचीमुखं समारोप्य प्राङ्कणेषु प्रदक्षिणम् ।
आतपत्रैः सिताद्यैश्च मायूरैः केतुयष्टिभिः ॥ ३९२ ॥
View Verse
पताकाभिश्चामरैश्च तालवृन्तैश्च शोभनैः ।
गणिकादेवदासीभिर्गायकैर्वाद्यसञ्चयैः ॥ ३९३ ॥
View Verse
भेरीपटहघोषैश्च श्रुतिघोषसमन्वितैः ।
एवमाद्यैरलङ्कारैर्गोमयेनोपलेपिते ॥ ३९४ ॥
View Verse
मण्डले हस्तमात्रे तु बलिदानपुरस्सरम् ।
द्वारावरणदेवानां ध्यातानां वा स्वदिक्षु च ॥ ३९५ ॥
View Verse
वक्ष्यमाणविधानेन नियतोत्सवामाचरेत् ।
पीठोर्ध्वे विष्णुभूतानां सगणानामथार्चनम् ॥ ३९६ ॥
View Verse
कृत्वा समुत्किरेच्छेषं तृप्त्यर्थं सोदकं बलिम् ।
पीठं प्रदक्षिणं नीत्वा चतुर्धा वा द्विधा तथा ॥ ३९७ ॥
View Verse
सन्तोष्य नृत्तगीताद्यैर्देवमन्तः प्रेवशयेत् ।
प्राङ्कणेषु विशालेषु बहिष्ठेषु च सादरम् ॥ ३९८ ॥
View Verse
मण्डितं रथमारोप्य परिभ्रमणमाचरेत् ।
यानादेरवरोप्याथ पादुके विनिवेद्य च ॥ ३९९ ॥
View Verse
अग्रमण्डपभूमिष्ठे भद्रपीठे निवेश्य च ।
पाद्यार्घ्याचमनाम्भोभिः चन्दनाद्यनुलेपनैः ॥ ४०० ॥
View Verse
माल्यैर्नानाविधैश्चापि धूपैस्ताम्बूलपश्चिमैः ।
अभ्यर्च्य श्रमशान्त्यर्थं स्वस्थाने सन्निवेशयेत् ॥ ४०१ ॥
View Verse
आदौ निवेशितां शक्तिं तस्मिन् मूले नियोज्य च ।
तमभ्यर्च्यार्घ्यगन्धाद्यैः प्रणमेत् स्तुतिपूर्वकम् ॥ ४०२ ॥
View Verse
त्रिकालं यत्र विधिवत् क्रियते नियतोत्सवः ।
तत्र सर्वसमृद्धिः स्याद्राज्ञो राष्ट्रस्य चानिशम् ॥ ४०३ ॥
View Verse
अभावे बलिबिम्बस्य हेतुनाऽसन्निधीकृते ।
कूर्चेन वान्नमूर्त्या वा कुर्यान्नित्योत्सवं ततः ॥ ४०४ ॥
View Verse
निश्शेषस्योपसंहारं कृत्वा चार्घ्यादिकस्य च ।
नत्वा स्तुत्वा च देवेशं ततः पाद्यप्रतिग्रहात् ॥ ४०५ ॥
View Verse
पादोदकं समादाया विग्रहं सेचयेत् स्वक्म् ।
भुक्तानि पत्रपुष्पाणि निदद्यान्मूर्धनि स्वके ॥ ४०६ ॥
View Verse
पुष्पार्घ्यगन्धपूर्वाणां देवयज्ञे कृते सति ।
विनयादाहृतानां च भक्तानां मन्त्रसेविनाम् ॥ ४०७ ॥
View Verse
मूर्ध्नि सन्धारणाच्छश्वद्दौर्भाग्यं क्षयमेति च ।
कीर्तिं कान्तिं श्रियारोग्यं सिद्धिं समुपयाति च ॥ ४०८ ॥
View Verse
पश्चाच्छरीरयात्रार्थमब्यर्थ्य परमेश्वरम् ।
लब्धानुज्ञस्तु वै कुर्यादनुयागं यथाविधि ॥ ४०९ ॥
View Verse
प्रविश्य भोजनस्थानं विविक्तं दोषवर्जितम् ।
घृतपूरितपात्रस्थं दीपमारोप्य वै ततः ॥ ४१० ॥
View Verse
गोमयेनोपलिप्याथ तुर्यश्रं तत्र मण्डलम् ।
प्रणवेन प्रतिष्ठाप्य तन्मध्ये फलकादिकम् ॥ ४११ ॥
View Verse
प्रक्षालिताङ्घ्रिः स्वाचान्तस्तन्मद्ये चोपविश्य च ।
भोज्यं नैवेद्यपूर्वं तु सर्वमादाय पात्रगम् ॥ ४१२ ॥
View Verse
विनिवेद्य च देवाय पवित्रीकृत्य चाम्भसा ।
सत्यरूपा ह्यलक्ष्या चाप्यन्नदोषक्षयङ्करी ॥ ४१३ ॥
View Verse
चेतसा चातुरात्मीया भावनीया च भावना ।
रसात्माध्यक्षसंज्ञोऽन्ने स्वादुभावे व्यवस्थितः ॥ ४१४ ॥
View Verse
प्रद्युम्नो भगवान् रूपे त्वेतद्वीर्ये तु लाङ्गली ।
भोक्ताहमात्मा भगवान् वासुदेवः स्वयं त्वजः ॥ ४१५ ॥
View Verse
इदं तदमृतं ब्रह्न इदमायुरनश्वरम् ।
इदं ज्ञानमिदं वीर्यमिदं तेजस्तु वैष्णवम् ॥ ४१६ ॥
View Verse
इदमिन्दुरखण्डश्च स्थितं चान्नात्मना स्वयम् ।
पर्जन्यात्मा स भगवान् व्यञ्जनस्थितिसिद्धये ॥ ४१७ ॥
View Verse
हार्दानलात्मना भुङ्क्ते ह्यद्यक्षः परमेश्वरः ।
तच्छक्त्यानुगृहीतत्वात् सोऽहं प्राकृतिकः पुमान् ॥ ४१८ ॥
View Verse
एवमन्नदमन्नादं ज्ञेयमन्नं पुरः स्थितम् ।
बाह्यतस्चाज्यदानेन संबोधमुपयाति च ॥ ४१९ ॥
View Verse
यथा तथा म्बुनाभ्येति देहस्थो हुतभुक् प्रभुः ।
कारणं रसमन्नस्य षड्गुणं षड्रसस्य च ॥ ४२० ॥
View Verse
आत्मा ब्रह्नाऽदनात्मा स्यादीषत्तत्करणात्मना ।
साम्मुक्यमात्मनो नीत्वा ततोऽन्नं जुहुयाच्छनैः ॥ ४२१ ॥
View Verse
चतुः प्रणवसञ्जप्तं ततोम्भश्चुलकं पिबेत् ।
वक्त्रकुण्डेऽथ तेनैवाप्यन्नाहुतिचतुष्टयम् ॥ ४२२ ॥
View Verse
प्रान्तपर्वैश्चतुर्धा प्राक् चातुरात्म्यव्यपेक्षया ।
त्रियपेक्षावशेनैव जुहुयादाहुतित्रयम् ॥ ४२३ ॥
View Verse
सहृदा मूलमन्त्रेण भुञ्जीयात् कबलैस्ततः ।
प्रयतास्यकरश्चान्ते पिबेन्मन्त्राभिमन्त्रितम् ॥ ४२४ ॥
View Verse
तोयं तद्ध्यानपादाब्जपरिस्रुतमथापि वा ।
प्रतिष्ठितस्य वा पूर्वं तदा कृतिधरस्य च ॥ ४२५ ॥
View Verse
यतस्तत् सर्वपापघ्नं सर्वदोषक्षयङ्करम् ।
सर्वोपतापशमनं सर्वसौख्यप्रदं सदा ॥ ४२६ ॥
View Verse
पावनं सर्वतीर्थेभ्यो मन्त्रेभ्यो मुनिसत्तम ।
अतस्तु भोजनान्ते वै हार्धाग्नेस्तर्पणं पुरा ॥ ४२७ ॥
View Verse
भावभक्तिपरो नित्यं कं पिबेदाज्यदो भवेत् ।
ब्रह्नतीर्थेन च शनैद्बिर्वा त्रिर्वा चतुः क्रमात् ॥ ४२८ ॥
View Verse
समाचम्य पुनर्यायात् प्रयतो भगवद्गृहम् ।
मनोबुध्यभिमानेन सह न्यस्य धरातले ॥ ४२९ ॥
View Verse
कूर्मवच्चतुरः पादान् शिरस्तत्रैव पञ्चमम् ।
प्रदक्षिणसमेतेन त्वेवं रूपेण सर्वदा ॥ ४३० ॥
View Verse
अष्टाह्गेन नमस्कुर्याद्द्वादशार्णं समुच्चरन् ।
यत्र द्वादशकालेज्या कर्तव्या भूतिविस्तरात् ॥ ४३१ ॥
View Verse
तत्र प्राभातिकीं कुर्यात् पूजामष्टाङ्गसंयुताम् ।
अह्गद्वयं तु पास्चात्यं विना वा तां समाष्य च ॥ ४३२ ॥
View Verse
पितॄणां संविभागं च अनुयागं यथोदितम् ।
देशिकः स्वेच्छया कुर्यान्नित्यं मध्यन्दिनार्चने ॥ ४३३ ॥
View Verse
त्रिकालेष्वेकमष्टाङ्गं षडङ्गं चाचरेद्द्वयम् ।
योगार्थिनां च स्वाध्यायं योगमध्यात्मसंज्ञितम् ॥ ४३४ ॥
View Verse
तत्तत्कालेषु कुर्वीत स्वाध्यायमधुनोच्यते ।
अष्टाङ्गेन नमस्कृत्य ह्युपविश्याग्रतो विभोः ॥ ४३५ ॥
View Verse
आगमाध्ययनं कुर्यात्तद्वाक्यार्थविचारणम् ।
प्राप्तेऽथ सन्ध्यासमये स्नात्वा वा जघनावधि ॥ ४३६ ॥
View Verse
क्षालयित्वा ततः कुर्याद्वाससां परिवर्तनम् ।
सायन्तनार्चनं कुर्यात् षडङ्गं बलिपश्चिमम् ॥ ४३७ ॥
View Verse
जपं कृत्वा यथाशक्ति स्वासाद्य शयनं ततः ।
समाधाय बहिर्देवं निरालम्बपदे स्थितम् ॥ ४३८ ॥
View Verse
अप्रयत्रेन वै तावदनिरुद्धेन चेतसा ।
सह तेनैव ते निद्रा यावदभ्येति साम्प्रतम् ॥ ४३९ ॥
View Verse
समुत्थायार्धरात्रेऽथ जितनिद्रो जितश्रमः ।
कमण्डलुस्थिनेनैव समाचम्य तु वारिणा ॥ ४४० ॥
View Verse
अथ योगविभूत्यर्थं योगं युञ्जीत वैष्णवम् ।
सुगुप्ते विजने देशे निर्द्वन्द्वे शुभलक्षणे ॥ ४४१ ॥
View Verse
जितदर्पां मतिं कृत्वा सर्वभूतहिते स्थितः ।
देवाग्निगुरुभक्तश्च सच्छास्त्राभिरतः सदा ॥ ४४२ ॥
View Verse
भूतद्रोहपरित्यागी अस्तेयः संयतेन्द्रियः ।
आसने चोपविष्टस्तु सुशुभे लक्षणान्विते ॥ ४४३ ॥
View Verse
शुभदारुसमुत्थे तु चतुर्विशाङ्गुलायते ।
द्वादशाङ्गुलकोत्सेधे सुधौतेनापि वाससा ॥ ४४४ ॥
View Verse
कुशैश्च मृदुभिश्छन्ने पवित्रेणाथ चर्मणा ।
तत्रोपविष्टः सततं योगाङ्गानि समभ्यसेत् ॥ ४४५ ॥
View Verse
रेचकादिचतुर्भिस्तु मात्राभेदकृतैस्तु यः ।
कनीयान् मध्यमो ज्येष्ठः प्राणायामः प्रकीर्तितः ॥ ४४६ ॥
View Verse
प्रत्याहारं प्रकुर्वीत चित्तसंयमनं तु यत् ।
बुद्धिर्मनस्त्वहङ्कारस्त्रिभिश्चित्तं प्रकीर्तितम् ॥ ४४७ ॥
View Verse
तथापि मनसः कुर्यात् प्रत्याहारं प्रयत्नतः ।
मनश्चतुर्विधं प्रोक्तं प्रत्याहारेण निर्जितम् ॥ ४४८ ॥
View Verse
तिष्ठते लक्ष्यमार्गे तु नान्यथा तु कदाचन ।
ध्यानं लक्ष्यस्य निष्पत्तिश्चिन्तनं तत् प्रकीर्तितम् ॥ ४४९ ॥
View Verse
धारणापि ततो धार्या तदा पापापनुत्तये ।
पञ्चधा पूर्ववत् सा तु प्रतिमन्त्रव्यवस्थया ॥ ४५० ॥
View Verse
जपं निमीलिताक्षेण कुर्यान्मन्त्रस्य वाचकम् ।
वाच्यस्य प्रतिपत्यर्थं बीजपिण्डपदात्मकम् ॥ ४५१ ॥
View Verse
त्रिविधं वै समुद्दिष्टं प्रागुक्तविधिभावितम् ।
योगोऽपि त्रिविधः प्रोक्तस्तं च कार्त्स्न्येन मे श्रृणृ ॥ ४५२ ॥
View Verse
प्राकृतं पौरुषं चैव ऐश्वरं च तृतीयकम् ।
ऊहस्तु कीर्त्यते तर्कः तं च विद्धि विचारकम् ॥ ४५३ ॥
View Verse
समाधिस्त्वात्मलाभस्तु भानन्दः परिकीर्तितः ।
स तु लक्ष्यं परित्यज्य मन्त्रोच्चारणवर्जितः ॥ ४५४ ॥
View Verse
यदा विभज्यते ब्रह्नकलांशो विधिवर्जिंतः ।
समाधौ परिनिष्पन्ने परमाप्नोति पूरुषम् ॥ ४५५ ॥
View Verse
प्राणायामादितो यावत् समाध्यन्तं प्रकीर्तितम् ।
द्गिगुणं त्रिगुणं चैव मात्राभेदेन संस्थितम् ॥ ४५६ ॥
View Verse
योगासनस्थः कुर्वीत विधिमेवं यथोदितम् ।
योगासनानि चत्वारि योगपट्टेन बन्धयेत् ॥ ४५७ ॥
View Verse
पर्यङ्कं कमलं वापि भद्रं वा स्वस्तिकं दृढम् ।
तेषामेकतमे स्थित्वा ऋजुकायोर्ध्वतः क्रमात् ॥ ४५८ ॥
View Verse
स्रस्ताह्गसन्धिः कुर्वीत विस्तीर्णोरुः सुकन्धरः ।
बाहू उपरि समौ कृत्वा किञ्चिदाकुञ्चयेच्छिरः ॥ ४५९ ॥
View Verse
नाभौ जघनमद्ये तु हस्तौ कच्छपवत् स्थितौ ।
सव्यस्य चोपरिस्थं तु वामे सव्यं तथापि वा ॥ ४६० ॥
View Verse
उत्तानौ तु करौ कृत्वा कच्छपी तान्नियोजयेत् ।
ग्रीवां तु हृदयाद्यन्तां नातिस्तब्धां न कुञ्चिताम् ॥ ४६१ ॥
View Verse
किञ्चिन्निमीलयेन्नेत्रे नासाग्रमवलोकयन् ।
समुद्नवत् पिधायास्यं दन्तैर्दन्तानसंस्पृशन् ॥ ४६२ ॥
View Verse
सगर्भं योगमातिष्ठेन्निर्गर्भं बा सुयन्त्रितः ।
ततः प्रमथयेद्वायुं प्राणाख्यं चित्तसंयुतम् ॥ ४६३ ॥
View Verse
रेचकादिचतुर्भेदैः प्राणायामः प्रकीर्तितः ।
चित्तं जयेत् सदा यत्नाता दुर्जयं देवदानवैः ॥ ४६४ ॥
View Verse
यद्यप्यभ्यासवैराग्यैः चित्तं संयम्यते बलात् ।
तथापि यत्नमातिष्ठेदुपाधीनां तु वर्जने ॥ ४६५ ॥
View Verse
द्विविधास्ते तु विज्ञेयाः सन्निकृष्टा मनोगताः ।
सन्निकृष्ठाः स्थानकृताश्चित्तोत्था वासनाकृताः ॥ ४६६ ॥
View Verse
न दंशमशकाकीर्णे निश्शब्दे गन्धवर्जिते ।
निमीलिताक्षः सन्तिष्ठेत् सर्वेन्द्रियविवर्जितः ॥ ४६७ ॥
View Verse
एवं परित्यजेत् सर्वानुपाधीन् सन्निकर्षजान् ।
वासनोत्थांश्च विविधान् सम्यक् लक्ष्यं समास्थिः ॥ ४६८ ॥
View Verse
प्रत्याहरेत् सदा चित्तं विक्षिप्तं सर्ववस्तुषु ।
तामसं तत्तु बोद्धव्यं चित्तं सर्वगतं तदा ॥ ४६९ ॥
View Verse
गतं रागादितो ज्ञेयमभ्यासाद्राजसं तु तत् ।
तत् साधु कथ्यते चित्तं संश्लिष्टं लक्ष्यगोचरे ॥ ४७० ॥
View Verse
सुलीनं च ततो ज्ञेयं गुणातीतं तपोधन ।
ध्यानमेवंविधं कुर्यात् सगर्भं प्राणनिग्रहे ॥ ४७१ ॥
View Verse
उच्यते च ततो भूयस्त्रिविधा योगिनां गतिः ।
सकलं निष्कलं विष्णुं तृतीयं पररूपि च ॥ ४७२ ॥
View Verse
अन्यत्तत् त्रिविधं ज्ञेयं शब्दं व्योमसविग्रह्णम् ।
विग्रहं देवदेवस्य लक्ष्यरूपं विचिन्तयेत् ॥ ४७३ ॥
View Verse
ध्यानमेवं समुद्दिष्टं यावद्व्योमान्तिकं भवेत् ।
तावच्च भावयेल्लक्ष्यं यावल्लक्ष्यं न भावयेत् ॥ ४७४ ॥
View Verse
भावे ह्यभावमापन्ने सस्वभावः परः स्मृतः ।
स्थूलं पूर्वं समब्यस्य ततः सूक्ष्मं ततः परम् ॥ ४७५ ॥
View Verse
एवं विलीयते चित्तं लक्ष्यं चोपाधिभिः सह ।
विग्रंह देवदेवस्य ध्यायेद्धृत्पझगोचरे ॥ ४७६ ॥
View Verse
ततोऽन्यं चिन्तयेल्लक्ष्यं स्थूलं सूक्ष्मं ततः परम् ।
एवमभ्यस्यमानस्य गुणोत्कर्षः प्रजायते ॥ ४७७ ॥
View Verse
योगोऽयं मुनिशार्ढूल सामान्यः समुदाहृतः ।
परात्पराद्वासुदेवात् प्रकाशानन्दलक्षणात् ॥ ४७८ ॥
View Verse
अतीन्द्रियादनौपम्यात् सच्चिद्रूपात् सदोदितात् ।
द्विभुजादेकमूर्तेश्च वरदाभयपाणिकात् ॥ ४७९ ॥
View Verse
स्वास्तेः षाड्गुण्यसंसिद्धाच्चातुरात्म्यस्वभाविनः ।
संशान्तपरमानन्दस्वरूपाद्ब्रह्नणः सतः ॥ ४८० ॥
View Verse
अनुग्रहार्थं भक्तानामवतीर्णस्य चेच्छया ।
परव्यूहादिरूपस्य दीपाद्दीपवदुज्ज्वलात् ॥ ४८१ ॥
View Verse
एकाद्यनेकरूपस्य विग्रहोऽयं प्रकाशितः ।
तत्र चित्तं समाधाय योगी विज्ञानभावनाम् ॥ ४८२ ॥
View Verse
तत्तन्मन्त्रपदेनैव योगाभ्यासं समाचरेत् ।
एवं यः कुरुते याति स कालेन परात्परम् ॥ ४८३ ॥
View Verse
प्राप्तुमिच्छति यः शीघ्रं तस्य योगः समुच्यते ।
नित्योदितं परं ब्र्हन यत् पुरा ते प्रकाशितम् ॥ ४८४ ॥
View Verse
वाच्यं तद्द्वादशार्णस्य ध्यात्वा युञ्जीत बुद्धिमान् ।
नासाग्रे भुवि सद्ब्रह्न ध्यायन् कुर्याज्जपं द्विधा ॥ ४८५ ॥
View Verse
जिह्वाग्रे तु चतुर्धाप्सु तालुन्यग्नौ तथा च षट् ।
जिह्वामध्ये तथा वायावष्टधावर्तयेन्मनुम् ॥ ४८६ ॥
View Verse
जिह्वामूले तथा व्योम्नि दशधा द्वादशाक्षरम् ।
कण्ठकूपे तु मनसि ध्यात्वा षोडशधा जपेत् ॥ ४८७ ॥
View Verse
उरोदेशे बुद्धितत्वे चतुर्विंशतिधा जपेत् ।
उरोन्तेऽहङ्कतौ द्यायञ्जपेच्चाशीतिधा पुनः ॥ ४८८ ॥
View Verse
शतं कर्मणि कालेऽब्जज अर्धयुक्तं शतं जपेत् ।
ततः पुष्करनाड्यां वै शतद्वयमनाकुलः ॥ ४८९ ॥
View Verse
अध्यक्षाद्वासुदेवान्तं हृद्याकाशे चतुःशतम् ।
हृदि नादावसानोर्ध्वं गगने योजयेत्तु वा ॥ ४९० ॥
View Verse
एवं वा प्रणवेनाड्यां प्रणवार्णेन वाचरेत् ।
एवं मन्त्रविशेषेण बहुधा योग ईरितः ॥ ४९१ ॥
View Verse
इति यः कुरुते योगं नित्ययुक्तः समाहितः ।
प्राप्नोति परमं स्थानं नित्योदितमनामयम् ॥ ४९२ ॥
View Verse
समाधायात्मनाऽत्मानमेवं जप्त्वा जपक्रियाम् ।
ज्ञातृज्ञेयाविभागेन यावत्तन्मयतां व्रजेत् ॥ ४९३ ॥
View Verse
यथा संवेद्यनिर्मुक्ते समाधौ लभते स्थितिम् ।
अब्यासाद्भववद्योगी ब्रह्न सम्पद्यते तदा ॥ ४९४ ॥
View Verse
ततः श्रमजयं कुर्यात् त्यक्त्वा ध्यानासनक्रमान् ।
शय्यासनं निवेद्याथ मूलमूर्तेरनन्तरम् ॥ ४९५ ॥
View Verse
लक्ष्म्यादिशक्तियुक्तस्य यागमूर्तिगतस्य च ।
तस्मिन्नारोपयेद्देवं सर्वाङ्गपरिशोभिते ॥ ४९६ ॥
View Verse
अर्घ्यं पाद्यं तथाचामं प्रतिग्रहसमन्वितम् ।
दत्वा समालभेत् पश्चाच्चन्दनाद्यनुलेपनैः ॥ ४९७ ॥
View Verse
सुगन्धपुष्पमाल्यादि दीपधूपे निवेद्य च ।
भक्ष्याण्यपूपपूर्वाणि सक्षीराणि फलानि च ॥ ४९८ ॥
View Verse
तर्पणाम्भश्च ताम्बूलं साङ्गं सद्गन्धभावितम् ।
निवेद्य देवदेवाय विभवानुगुणं ततः ॥ ४९९ ॥
View Verse
सर्वं तु विन्यसेत् पश्चात्तस्मिन् कर्मकृतं च यत् ।
तुष्टं गृहीतं तत् पूर्णं भावयेद्दक्षिणं करम् ॥ ५०० ॥
View Verse
तन्मध्ये निष्कलं मन्त्रं सर्वं यत् किरणाकुलम् ।
योगोत्थां फलसम्पत्तिं लक्ष्मीरूपां विचिन्त्य च ॥ ५०१ ॥
View Verse
मूलमन्त्रं समुच्चार्य पाणिमध्ये तथा स्मरेत् ।
भूयश्च निष्कलं मन्त्रं तस्मादुपरि भावयेत् ॥ ५०२ ॥
View Verse
सशीर्षे जानुनी भूमौ कृत्वा विष्णोर्निवेदयेत् ।
प्रसादाभिमुखेनाथ तेन तच्चात्मसात् कतम् ॥ ५०३ ॥
View Verse
भावनीयं द्विजश्रेष्ठ परितुष्टेन चादरात् ।
सन्यासं सञ्चयं वाथ कृत्वा सम्यक्कृतस्य च ॥ ५०४ ॥
View Verse
मन्त्ररूपानुकारिण्या मुद्रणीयं च मुद्रया ।
फलार्थं प्रसवं येन नैति सन्यासकारिणा ॥ ५०५ ॥
View Verse
फलपर्यावसाने च कालमागमचोदितम् ।
भर्तुर्नो युज्यते येन सिद्धार्थैस्तु फलार्थिनाम् ॥ ५०६ ॥
View Verse
नित्यं प्रतिष्ठितं बिम्बं विना स्थलजलादिकान् ।
विसर्जनं ततः कुर्याद्दत्वार्घ्यं धूपसंयुतम् ॥ ५०७ ॥
View Verse
भोगस्थानगता मन्त्राः पूजिता ये यथाक्रमम् ।
मुख्यमन्त्रशरीरं तु संप्रविष्टांश्च संस्मरेत् ॥ ५०८ ॥
View Verse
ज्वालाज्वालान्तरे यद्वत् समुद्रेष्विव निम्नगाः ।
तन्मन्त्रविग्रहं स्थूलं सर्वमन्त्रास्पदं द्विज ॥ ५०९ ॥
View Verse
प्रविष्टं भावयेत् सूक्ष्मे ह्यध्यक्षे ह्युभयात्मके ।
परे प्रागुक्तरूपे तु तं सूक्ष्ममुभयात्मकम् ॥ ५१० ॥
View Verse
तस्मात् परं स्फुरद्रूपं निराधारपदाश्रितम् ।
दर्पणं दर्शयित्वा तु निर्मलं तस्य चाग्रतः ॥ ५११ ॥
View Verse
सन्धिमार्गेण हृत्पझे संप्रविष्टं तु भावयेत् ।
स्मृत्वा परात्मना तं च स्वसंविद्गगने हृदि ॥ ५१२ ॥
View Verse
विश्रान्तं भावयेद्देवं स्वभावेन समन्वितम् ।
कर्मार्चादिषु बिम्बेषु षट्सु नित्यादिसिद्धये ॥ ५१३ ॥
View Verse
प्रतिष्ठितेषु विधिवन्नित्यं प्राभातिकेऽर्चने ।
तच्छक्त्या योजितां शक्तिं मूलबिम्बाद्यथापुरा ॥ ५१४ ॥
View Verse
समभ्यर्च्यार्घ्यपुष्पाद्यैस्ताम्बूलान्तैः पुरोदितैः ।
पुनरारोपयेन्मूले तत्र तत्र नियोजिताम् ॥ ५१५ ॥
View Verse
पूजार्थं कर्मबिम्बादौ नित्यनैमित्तिकादिषु ।
प्राप्तेषु तत्तत्कर्मादौ मूलादावाह्य मन्त्रवित् ॥ ५१६ ॥
View Verse
समाप्य तेषु तत्कर्माण्रारब्धानि यथार्थतः ।
समर्प्य मूलबिम्बे तु तेभ्यस्तत्र विसर्जयेत् ॥ ५१७ ॥
View Verse
मन्त्रानर्घ्यादिपात्रस्थान् विसृज्य प्राक् प्रयोगतः ।
शेषमर्घ्यादिकं सर्वं भुक्तपूर्वेण वै सह ॥ ५१८ ॥
View Verse
पाणिना तोयपूतेन विष्वक्सेनाय चार्प्य च ।
न्यासद्वयं च संहृत्य मनसा च स्वविग्रहात् ॥ ५१९ ॥
View Verse
निश्शेषस्योपसंहारं कुर्यादर्घ्यादिकस्य च ।
यागोद्देशात्तथा कुण्डात्स्तराद्यस्याखिलस्य च ॥ ५२० ॥
View Verse
सहोपलेपनेनैव सर्वमंभसि निक्षिपेत् ।
धर्तव्यं न चिरं चाग्रे यत् पुरा विनिवेदितम् ॥ ५२१ ॥
View Verse
नैवेद्यं मन्त्रमूर्तीनां किञ्चित् पुष्पफलादृते ।
कवाटबन्धनं कुर्यान्मन्त्रं कवचमुच्चरन् ॥ ५२२ ॥
View Verse
नियोज्य तत्र रक्षार्थं चक्रं च विहगेश्वरम् ।
स्वपेच्छय्यागतो मन्त्री प्रातरुत्थाय पूर्ववत् ॥ ५२३ ॥
View Verse
यथोक्तं सकलं कुर्यात् प्रबोधयजनादिकम् ।
सकृत् त्रयहं च सप्ताहं पक्षं मासमथापि वा ॥ ५२४ ॥
View Verse
योयजेद्विधिनानेन भक्तिश्रद्धासमन्वितः ।
सोऽपि यायात् परं स्थानं किंपुनर्योऽत्र संस्थितः ॥ ५२५ ॥
View Verse

Chapter 8

श्रीः ।
अष्टमोऽध्यायः ।
सनकः ।
भगवन् मुनिशार्दूल सर्वज्ञ वदतां वर ।
गरुडप्रमुखानां यदर्चनं प्रागुदीरितम् ॥ १ ॥
View Verse
तदिदानीं विशेषेण विस्तरेण प्रकाशय ।
शाण्‍डिल्यः ।
श्रृणु वक्ष्यामि ते सम्यग्गरुडस्यार्चनं पुरा ॥ २ ॥
View Verse
येन विज्ञातमात्रेण वाञ्छितं साधकोऽश्नुते ।
विष्णोःसङ्कर्षणाख्यस्य विज्ञानबलशालिनः ॥ ३ ॥
View Verse
मूर्तिर्ज्ञानबलाख्या या सर्वाधारस्वरूंपिणी ।
महिमेति जगद्धातुर्विज्ञोयो विहगेश्वरः ॥ ४ ॥
View Verse
सर्वरोगभयघ्नश्च क्षेपकः सर्वविद्विषाम् ।
ततस्तमर्चयेन्नित्यं प्रासादे स्थाप्य मन्त्रवित् ॥ ५ ॥
View Verse
प्राङ्कणे प्रथमे वाऽथ द्वितीये मूलमन्दिरात् ।
अग्रदेशे प्रकुर्वीत प्रासादं मण्टपाकृतिम् ॥ ६ ॥
View Verse
चतुर्द्वारसमोपेतं वर्गत्रयसमन्वितम् ।
वर्गषट्कान्वितं वाथ सर्वालङ्कारशोभितम् ॥ ७ ॥
View Verse
मूलगेहात्रिभागोच्चमर्धोच्चं वा सुविस्तरम् ।
तस्मिन् ब्राह्नेऽथ दिव्ये वा दिव्ययुक्तेऽथ मानुषे ॥ ८ ॥
View Verse
संस्थाप्य लोहजां वाथ शैलीमर्चां यथोदिताम् ।
त्रिकालमर्चयेन्नित्यं मुख्यमूर्त्यर्चनान्तिमे ॥ ९ ॥
View Verse
तद्विधानं विशेषेण मन्त्रपूर्वं श्रृणु क्रमात् ।
प्रणवं पूर्वमुद्धृत्य पक्षिशब्दमनन्तरम् ॥ १० ॥
View Verse
पञ्चाक्षरो महामन्त्रः स्वाहान्तः संप्रकीर्तितः ।
मन्त्रार्णानि सबिन्दूनि प्रागोङ्कारान्वितानि च ॥ ११ ॥
View Verse
समुच्चार्याथ तुर्यान्तैर्ज्ञानाद्यैश्च हृदादिभिः ।
अनेत्रैरस्त्रपर्यन्तैरङ्गानीत्यवधारय ॥ १२ ॥
View Verse
प्राङ्मूलमन्त्रमद्याद्यव्यत्ययाद्विषहा भवेत् ।
सोऽयं मन्त्रः समाख्यातस्त्रिदशैरपि दुर्लभः ॥ १३ ॥
View Verse
पञ्चाक्षर इति ख्यातो गारुढो मुनिसत्तम ।
पञ्चाङ्गानि यथापूर्वमक्षरैः स्युः सबिन्दुकैः ॥ १४ ॥
View Verse
साङ्गेनानेन मन्त्रेण स्थापनीयो विधानतः ।
मूलालयगते बिम्बे सुस्थिते वाथ यानगे ॥ १५ ॥
View Verse
स्थितैव गारुडी मूर्तिर्याने वा गमनोन्मुखी ।
शयने चासने चैव त्वासीना वाथ सुस्थिता ॥ १६ ॥
View Verse
द्वारावरणदेवानां ध्यानाध्याये विशेषतः ।
ध्वजारोहेऽपि सुव्यक्तं लक्षणं चास्य वक्ष्यते ॥ १७ ॥
View Verse
एवं ज्ञात्वा यथाकालं तन्मन्त्रनिरतो द्विज ।
स्नात्वा तदीयमन्त्रेण कृतपादावनेजनः ॥ १८ ॥
View Verse
उपस्पृश्य यथान्यायं प्रासादं संप्रविश्य च ।
स्वासने सुखमासीनः प्राड्मुखो वाप्युदड्मुखः ॥ १९ ॥
View Verse
करशुद्धिं च दिग्बन्धं प्राणायामं समाप्य च ।
भूतशुद्धिं च विधिवन्मन्त्रविन्यस्तविग्रहः ॥ २० ॥
View Verse
पक्षीशमुद्रां बद्ध्वाथ हृदयाम्भोरुहोदरे ।
स्वानन्दधामनिष्ठस्य देवस्य चतुरात्मनः ॥ २१ ॥
View Verse
संकर्षणांशात् संपूर्णविज्ञानबलसंकुलात् ।
अवतार्यामृनैर्भोगैर्जपान्तं प्राग्वदर्च्य च ॥ २२ ॥
View Verse
ततो मूर्तैर्यजेद्बाह्यैः प्रागुक्तैर्भोगसंचयैः ।
पात्रशिष्टैश्च देवान्नैः साधितैः पृथगेव वा ॥ २३ ॥
View Verse
तदर्थं कल्पयेत् प्राग्वदर्घ्याद्यं पात्रपञ्चकम् ।
द्वितयं चाथवैकस्मिन् पाद्यं स्नानीयवारि च ॥ २४ ॥
View Verse
अर्घ्याचामे तदन्यस्मिन्नेकस्मिन् सकलं तु वा ।
प्राग्वत् स्वदेहविन्यस्तान् मन्त्रानभ्यर्च्य मन्त्रवित् ॥ २५ ॥
View Verse
अर्घ्याद्यैर्धूपपर्यन्तैस्ततो द्वारचतुष्टये ।
वास्त्वीशं क्षेत्तनाथं च द्वारलक्ष्मीं स्वमन्त्रतः ॥ २६ ॥
View Verse
चण्डाद्यं च गणं प्राग्वदासनं कल्पयेत् ततः ।
शेषपूर्वं च धर्माद्यमष्टकं वा द्विरष्टकम् ॥ २७ ॥
View Verse
कालचक्रं तदूर्ध्वे तु सरोजाद्यं चतुष्टयम् ।
समब्यर्च्य च गन्धाद्यैर्गणनाथादिकानपि ॥ २८ ॥
View Verse
हृत्पजकर्णिकामध्ये मानसैरर्चितं पुरा ।
स्वविद्यया समावाह्य स्वस्थानाद्बिम्बहृत्कजे ॥ २९ ॥
View Verse
सकलीकृत्य विधिवदङ्गलाञ्छनभूषणैः ।
सत्याख्यया दक्षिणतो बलशक्त्या स्वरूपया ॥ ३० ॥
View Verse
गणित्रकं च मन्दारकुसुमस्तबकं तथा ।
कलशं चामृताधारं फणीन्द्रं दक्षिणादितः ॥ ३१ ॥
View Verse
विन्यसेल्लाञ्छनान्येवं किरीटं वनमालिकाम् ।
अनन्तादीनि नागानि न्यस्यानि तदनन्तरम् ॥ ३२ ॥
View Verse
शक्तिः प्रागुदिता तस्य बलधर्मस्वरूपिणी ।
पक्षीशमुद्रां सन्दर्श्य लययागं समाचरेत् ॥ ३३ ॥
View Verse
भोगयागश्च कर्तव्यः पझपीठतलोपरि ।
प्रागादिपझपत्रेषु हृदयादीनि पूर्वत् ॥ ३४ ॥
View Verse
विदिक्पत्रेषु चैवास्त्रमेषां वर्णानि पूर्ववत् ।
रूपलावण्यभूषाद्यैर्मूलमन्त्रशरीरवत् ॥ ३५ ॥
View Verse
अग्नीशरक्षोवायव्यकोणेषु विहगेशितुः ।
चतुष्टयं गणित्राद्यं किरीटं वनमालिकाम् ॥ ३६ ॥
View Verse
पुरस्तात् पृष्ठतो न्यस्य दक्षिणोत्तरयोस्तथा ।
चतुष्टयं क्रमेणैव शेषाद्याः पन्नगेश्वराः ॥ ३७ ॥
View Verse
दक्षिणे विहगेशस्य सत्याख्या कर्णिकोपरि ।
प्राणापानसमानोदानव्यान प्राणरूपिणः ॥ ३८ ॥
View Verse
मध्यस्थस्य खगेशस्य बहिः प्रागादितः क्रमात् ।
सत्यः सुपर्णो गरुडस्तार्क्ष्यश्च विहगेश्वरः ॥ ३९ ॥
View Verse
पञ्चात्मकस्य प्राणस्य विकारस्त्वेष पञ्चधा ।
सत्याद्या दिक्षु चत्वारः कोणेषु विहगेश्वरः ॥ ४० ॥
View Verse
द्यानमेषां विशेषेण समाकर्णय साम्प्रतम् ।
आचाङ्घ्रिगोचरात् सर्वो यस्य देहस्तु पौरुषः ॥ ४१ ॥
View Verse
द्विभुजस्तुहिनाभस्तु स सत्यः प्राणदैवतम् ।
सुपर्णः पझरागाभो निर्मलः स्वर्णलोचनः ॥ ४२ ॥
View Verse
गरुडः काञ्चनाभस्तु कुटिलभ्रवरुणेक्षणः ।
केकराक्षस्तु तार्क्ष्यो वै प्राबृड्जलदसन्निभः ॥ ४३ ॥
View Verse
द्रवत्कनकनेत्रस्तु शबलाभस्तु पञ्चमः ।
चतुर्भुजाः सुपर्णाद्याः सौम्यरूपा ह्यनाकुलाः ॥ ४४ ॥
View Verse
पतत्रिचरणाः सर्वे पक्षमण्डलमण्डिताः ।
लम्बोदराः सुपीनाङ्गाः कुण्डलाद्यैर्विभूषिताः ॥ ४५ ॥
View Verse
कुटिलभ्रूसुवृत्ताक्षा वक्र तुण्डाः सिताननाः ।
अपानादिसमीराणामाधिपत्येन संस्थिताः ॥ ४६ ॥
View Verse
महाबला महाकाया रक्ततुण्‍डोऽत्र पञ्चमः ।
स्वस्वाङ्गुष्ठद्वयप्रोतगणित्रोभयपाणिना ॥ ४७ ॥
View Verse
पुष्पाञ्जलिधराः सर्वे मुख्येन विहगोत्तमाः ।
सुपर्णः पश्चिमाभ्यां तु पाणिभ्यां दक्षिणादितः ॥ ४८ ॥
View Verse
मन्दारपुष्पस्तबकं दधद्विस्मयमुद्रिकाम् ।
तथाविधाभ्यां गरुडस्ते धत्ते व्यत्ययेन तु ॥ ४९ ॥
View Verse
तार्क्ष्यः पश्चिमयोर्नित्यं धत्ते दक्षिणवामयोः ।
कद्रूं तथाऽमृतं कुम्भं पञ्चमो विहगेश्वरः ॥ ५० ॥
View Verse
दक्षिणेन सुधाकुम्भं वामेन तु फणीश्वरम् ।
नित्योदितस्य व्यूहस्य तथा शान्तोदितस्य च ॥ ५१ ॥
View Verse
प्राणापानादिवायूनां पञ्चानामपि नामभाक् ।
गरुडः परिवारत्वे ध्वजत्वेपि विशेषतः ॥ ५२ ॥
View Verse
योजनीयस्तथान्येषु सषुप्त्यादिपदेषु तु ।
वासुदेवादिमूर्तीनां चतुर्णां क्रमशस्त्वमी ॥ ५३ ॥
View Verse
सत्याद्यास्तार्क्ष्यपर्यन्तास्तत्तन्मूर्त्यन्तरेषु तु ।
त्रिषु त्रिषु समादेयाः सत्याद्याः केशवादिषु ॥ ५४ ॥
View Verse
पझनाभादिमूर्तीनां पञ्चमो विहगेश्वरः ।
परात्परपरव्यूह व्यूहान्तरतनोर्विभोः ॥ ५५ ॥
View Verse
प्रादुर्भावतनोश्चापि जगद्रक्षणकाङ्क्षिणः ।
खगानां कारणत्वाच्च प्रागुक्तो वा खगेश्वरः ॥ ५६ ॥
View Verse
इति ते गारुडव्यूहप्रभावः संप्रकीर्तितः ।
कुमुदाद्यास्ततो बाह्ये शक्राद्यास्तद्बहिः क्रमात् ॥ ५७ ॥
View Verse
तर्द्बहिः कुमुदादीनां भूतेशाश्चोत्कटादयः ।
गणशः पूजनीया वा तदग्रे बलिण्डले ॥ ५८ ॥
View Verse
महापीठेऽथवा पूज्या गरुडस्यानुयायिनः ।
पालयन्तश्च तद्भक्तान् दिव्यान्यायतनान्यपि ॥ ५९ ॥
View Verse
ध्यात्वैवमर्चनं कुर्यादासनाद्यैर्यथोदितैः ।
चतुष्षष्ट्युपचारैर्वा द्वात्रिंशद्भिस्तु वेतरैः ॥ ६० ॥
View Verse
षोडशैरुपचारैर्वा मुख्यमद्याधमक्रमात् ।
तन्निवेदितमन्नाद्यं नराणां रोगिणां सदा ॥ ६१ ॥
View Verse
वन्ध्यानां वनितानां च जयेच्छूनां च भूभुजाम् ।
विषोपहतवेषाणां प्रदद्यात् संविभज्य च ॥ ६२ ॥
View Verse
आर्द्रायां प्रतिमासं तं विशेषेणैवमर्चयेत् ।
उत्सवेषु विशेषेण भ्रामयेदुत्सवार्चया ॥ ६३ ॥
View Verse
इति सम्यक् समाख्यातं गरुडस्यार्चनं परम् ।
इतः परं यच्छ्रोतव्यं तद्वदस्व मुनेऽधुना ॥ ६४ ॥
View Verse
सनकः ।
मुने सकलधर्मज्ञ भगवन् भक्तवत्सल ।
विष्वर्क्सेनस्य विघ्नारेः पूजनं विहितं पुरा ॥ ६५ ॥
View Verse
तद्विधानं विशेषेण वद सानुग्रहो यदि ।
शाण्डिल्यः ।
पौष्काराख्ये महाशास्त्रे पुरा पुष्करजन्मनः ॥ ६६ ॥
View Verse
विष्वक्सेनार्चनं प्रोक्तं यथावच्छृणु तन्मुने ।
पौष्कर उवाच ।
किमर्थमाह भगवन् विघ्नोच्छेदकरं प्रभुम् ॥ ६७ ॥
View Verse
समस्तविघ्ननाथानां परमं कारणं च यः ।
विष्वक्सेनस्तु यष्टव्यो भोगभूमिगतेऽच्युते ॥ ६८ ॥
View Verse
कैर्द्रव्यैः केनविधिना किं करोत्यभिपूजितः ।
श्रीभगवानुंवाच ।
भविनां भाविनो विग्नाः सद्धर्मविनिवारकाः ॥ ६९ ॥
View Verse
न यागयज्ञधर्माद्यैर्मन्ये संसारिणां शुभम् ।
तत्प्रवृत्तौ तु ये विग्नाः प्रोत्साहविनिवारकाः ॥ ७० ॥
View Verse
व्यपयान्ति च ते सर्वे चक्रज्वालाभयार्दिताः ।
प्रागार्जितेन केनापि कर्मणा द्विज साम्प्रतम् ॥ ७१ ॥
View Verse
अनुभुङ्क्ते फलं यागाद्द्विविधं चाग्रतःस्थितम् ।
तस्य संरक्षणार्थं तु विष्वक्सेनः सदैव हि ॥ ७२ ॥
View Verse
काले यागावसानाख्ये द्वितीयेऽवसरेऽथवा ।
कृत्वा निर्व्याकुलं चित्तं यष्टव्यः फलसिद्धये ॥ ७३ ॥
View Verse
यागनिर्वर्तनाच्छेषैरम्लानैरर्घ्यपूर्वकैः ।
उपचारमयैर्भोगैः सर्वैराभरणादिकैः ॥ ७४ ॥
View Verse
नैवेद्यैर्मधुपर्काद्यैर्मुख्यमूर्तेर्निवेदितैः ।
द्विजप्रदानशिष्टैस्तु स्वयं प्राशनवर्जितैः ॥ ७५ ॥
View Verse
तथा चर्वन्तरस्थैश्च ह्यपरेभ्योऽनिवेदितैः ।
संस्कृतैरूष्मणोपेतैर्मधुराज्यपरिप्लुतैः ॥ ७६ ॥
View Verse
पैष्कर उवाच ।
क एषोऽतुलवीर्यो हि यस्य दूराद्द्रवन्ति च ।
विघ्ना निमेषमात्रेण त्रैलोक्योन्मूलनक्षमाः ॥ ७७ ॥
View Verse
श्रीभगवानुवाच ।
कालवैश्वानराख्या या मूर्तिस्तुर्यात्मनो विभोः ।
स एव द्विजदेवास्यो विष्वक्सेनः प्रकीर्तितः ॥ ७८ ॥
View Verse
स्थित आहवनीयादिभेदेन मखयाजिनाम् ।
ऋक्पूतं हुतमादाय तर्पयत्यखिलं जगत् ॥ ७९ ॥
View Verse
एवं मन्त्रमयाद्यागात् सात्विकाद्ब्रह्नभावितात् ।
संप्राप्य गुरुमूर्तेर्बै प्रापणं मन्त्रसंस्कृतम् ॥ ८० ॥
View Verse
अनाहुतामराणां च सर्वलोकनिवासिनाम् ।
स्वयं संविभजत्याशु तदनुग्रहकाम्यया ॥ ८१ ॥
View Verse
ज्ञात्वैवं तस्य माहात्म्यं व्यक्तिस्थं फलसिद्धये ।
त्रिसन्ध्यं नित्यपूजायां बल्यन्ते तं समर्चयेत् ॥ ८२ ॥
View Verse
वत्सरोत्सवपूर्वेषु तथा वैशेषिकेष्वपि ।
व्यक्त्याद्याधारभूतेषु क्रमात् कृत्वा पुरार्चनम् ॥ ८३ ॥
View Verse
केवलं वाथ होमान्तं स्वशक्त्या विभवेन वा ।
विस्तरेणाथवा शश्वत्ततः कमलसंभव ॥ ८४ ॥
View Verse
कृत्वा पर्णपुटे तोयं पात्रे वा कलशेऽव्रणे ।
तमात्मनोत्तरे भागे ह्यर्चयित्वा निवेद्य च ॥ ८५ ॥
View Verse
अथापरस्मिन् बाण्डे तु तदस्त्रपरिमन्त्रिते ।
नैवेद्याद्भागमादाय तथा चर्वन्तरस्थितात् ॥ ८६ ॥
View Verse
ओदनादंशमुद्धृत्य दध्याज्यव्यञ्जनैः सह ।
समालभनपुष्पार्ध्यकुशाम्बुपरिभावितम् ॥ ८७ ॥
View Verse
तद्धृन्मन्त्रेण बहुशो ह्यभिमन्त्र्याब्जसंभव ।
तन्मूलमन्त्रमुच्चार्य ध्यानभावनयान्वितम् ॥ ८८ ॥
View Verse
प्राक्सन्निवेशिते भाण्डे समुत्कीर्य पिधाय तत् ।
प्रणवाष्टकजप्तं वा तन्नाम्ना सह पौष्कर ॥ ८९ ॥
View Verse
एकं वै सोदकं पात्रं सनैवेद्यं जलाप्लुतम् ।
सर्वत्र सर्वदा यागे कुर्यात् प्राग्विधिना विना ॥ ९० ॥
View Verse
तच्चापि क्ष्मातले कूपे तटाकादौ तु चोत्किरेत् ।
नोपभोगं यथा याति काकादिष्वब्जसंभव ॥ ९१ ॥
View Verse
यस्मात् सन्मन्त्रपूतं तत् प्राधान्येनाभिवर्धते ।
अतो निषिद्धः पापानामपापानां विशेषतः ॥ ९२ ॥
View Verse
ज्ञात्वैवं यत्रतो मन्त्री तन्मन्त्रेण समर्चयते ।
सार्ङ्गं मन्त्रमतो वक्ष्ये यथावदवधारय ॥ ९३ ॥
View Verse
आक्रान्तमनलेनैव प्राणाख्यं बीजनायकम् ।
त्रैलोक्त्यैश्वर्यदोपेतमूर्जोपरि गतं तु तत् ॥ ९४ ॥
View Verse
ततो वाराहमादाय भूधरव्योम भूषितम् ।
विष्वक्सेनाय तदनु सनमस्कं पदं न्यसेत् ॥ ९५ ॥
View Verse
प्रणवाद्यो ह्ययं मन्त्रो विष्वक्सेनस्य कीर्तितः ।
पूर्वबीजं हि यच्चास्य ऊकारस्वरवर्जितम् ॥ ९६ ॥
View Verse
आकाराद्यैश्च षड्दीर्घैर्भिन्नमङ्गगणं नयेत् ।
प्रणवेन स्वनाम्नाथ जातिभिष्षड्भिरन्वितम् ॥ ९७ ॥
View Verse
नमस्स्वाहादिभिश्चायं विष्वक्सेनस्य अङ्गकः ।
साङ्गेनानेन मन्त्रेण प्रतिष्ठाप्यो विधानतः ॥ ९८ ॥
View Verse
प्रथमावरणे वाथ द्वितीयावरणेऽथवा ।
ईशानसोमदिङ्मध्ये प्रासादे दक्षिणामुखे ॥ ९९ ॥
View Verse
मूलालयोच्चान्नीचे तु कल्पिते गर्भमन्दिरे ।
ब्रह्नस्थानेऽथवा दिव्ये मूलबेरांशमानतः ॥ १०० ॥
View Verse
कल्पितस्य शिलादारुलीहपूर्वैस्तु वस्तुभिः ।
पूजनं मुख्यकल्पं स्यादनुकल्पेऽग्रमण्टपे ॥ १०१ ॥
View Verse
प्रागुक्तकोणभूभागे मेखलात्रयनिर्मिते ।
पीठेऽवतार्य गगनादमूर्तं मूर्तमेव वा ॥ १०२ ॥
View Verse
केबलं बलिदानेन तर्पयेदुदकेन च ।
चतुस्स्थानावतीर्णस्य मण्डलादिषु वृत्तिषु ॥ १०३ ॥
View Verse
परव्यूहादिरूपस्य देवस्य यजनावधौ ।
प्रासादान्तर्गतस्यापि स्वस्थानस्थस्य मण्टपे ॥ १०४ ॥
View Verse
पूजनं विधिवत् कार्यमारम्भदिवसादितः ।
सर्वकर्मावसाने तु मण्डलादिगते विभौ ॥ १०५ ॥
View Verse
स्वे स्वे धाम्नि विसृष्टे तु ध्यात्वा मण्डलमध्यतः ।
पूजयेद्विधिवन्मन्त्री द्वितीये वासरेऽपि च ॥ १०६ ॥
View Verse
भगवद्यजनार्थं तु प्रासादस्थं विशेषतः ।
यथाविधि समब्यर्च्य नैवेद्यैस्तन्निवेदितैः ॥ १०७ ॥
View Verse
अर्घ्याद्यैरखिलैरन्यैस्ताम्बूलाद्यैश्च नित्यशः ।
जलस्थलादिनिलयांस्तद्भूतांश्चाथ तर्पयेत् ॥ १०८ ॥
View Verse
प्रासादस्थस्य तस्याथ देहमानानुसारतः ।
कृत्वा हेमादिभिर्द्रव्यैर्विशेषार्यां विधानतः ॥ १०९ ॥
View Verse
उग्रां वा शान्तरूपां वा विघ्नविध्वंसनक्षमाम् ।
चतुर्भुजां वा द्विभुजामासीनां वा समुत्थिताम् ॥ ११० ॥
View Verse
द्विभुजस्य चतुर्हस्तामन्यथा वा प्रकल्पिताम् ।
वैशेषिकेषु प्राप्तेषु पूजयेदुत्सवार्चया ॥ १११ ॥
View Verse
मृगयाद्युत्सवे प्राप्ते यत्र यत्र व्रजेत् प्रभुः ।
तत्र तत्र नयेदेनं निर्विध्नफलसिद्धये ॥ ११२ ॥
View Verse
ध्यानमस्य प्रवक्ष्यामि यथावच्छृणु सत्तम ।
नवदूर्वाङ्कुराभं च त्वीषत्पित्तलकान्तिभृत् ॥ ११३ ॥
View Verse
चतुर्दंष्ट्रं चतुर्बाहुं चतुष्किष्कुं चतुर्गतिम् ।
पूर्णाङ्गं केसरिस्कन्धं पृथूरस्थलराजितम् ॥ ११४ ॥
View Verse
दक्षिणावर्तनिम्नेन नाभिरन्ध्रेण शोभितम् ।
आजानुबाहुं श्रीमन्तं पिर्ङ्गलार्जिर्जटाधरम् ॥ ११५ ॥
View Verse
द्रवत्कनकपिङ्गाक्षं चिपिटं पृथुनासिकम् ।
सितदीर्घनखश्रेणीशोभितं कुटिलभ्रुवम् ॥ ११६ ॥
View Verse
विस्तीर्णगण्डवदनं बालेन्दुकुटिलोपमैः ।
नवकिंश्वरुणाकारैर्लोमैः संपूर्णविग्रहम् ॥ ११७ ॥
View Verse
शोभनेन प्रलम्बेन पृथुना प्रोन्नतेन च ।
माणिक्यकुण्डलाढ्येन युक्तं श्रोत्रद्वयेन तु ॥ ११८ ॥
View Verse
मकुटेनोन्नतेनैव हाराद्यैरुपशोभितम् ।
चित्रकौशेयवसनं विचित्रस्रग्विमण्डितम् ॥ ११९ ॥
View Verse
प्रलयद्वादशादित्यसहस्रगुणदीधितिम् ।
ईषदूर्घ्वे तथादिर्यग्विनिपातितलोचनम् ॥ १२० ॥
View Verse
कुन्देन्दुकान्तिदशनं किञ्चिद्विहसिताननम् ।
स्वभावसौम्यममलं मायाक्रोधोपरञ्जितम् ॥ १२१ ॥
View Verse
सविलासचलत्पादन्यासस्थानकसंस्थितम् ।
स्वेनान्तः करणेनैव भावयन्तं परं पदम् ॥ १२२ ॥
View Verse
अङ्गुष्ठादि कनिष्ठान्तं वामपाणौ लतात्रयम् ।
नामयत्युन्नता चैका घ्राणाग्रे विनियोजिता ॥ १२३ ॥
View Verse
सद्विघ्नभीतिप्रदया त्वनया मुद्रयान्वितम् ।
रथाङ्गशङ्खहस्तं च लम्बमानगदाधरम् ॥ १२४ ॥
View Verse
श्रोणीतटनिबिष्टेन सावहेलेन पाणिना ।
इत्थंरूपधरं देवमनेकाद्भुतविक्रमम् ॥ १२५ ॥
View Verse
उग्ररूपमिति ध्यायेदाग्नेयमनलप्रभम् ।
दंष्ट्रातर्जननिर्मुक्तं साभयं शान्तलक्षणम् ॥ १२६ ॥
View Verse
मुख्यदक्षिणहस्तेन भक्तानामभयप्रदम् ।
तथाविधेन वामेन लम्बमानगदाधरम् ॥ १२७ ॥
View Verse
पृष्ठदक्षिणवामाभ्यां चक्रशर्ङ्खधरं क्रमात् ।
एवं चतुर्भुजस्योक्तं द्विभुजस्यावधारय ॥ १२८ ॥
View Verse
उक्ताभ्यामुग्रशान्ताभ्यां शर्ङ्खचक्रद्वयं विना ।
प्रागुक्तद्वितयं वाथ द्वितीयं चिन्तितं तु वा ॥ १२९ ॥
View Verse
गदाविरहितं वाथ वामकट्यवलम्बितम् ।
स्थानके वाऽसने वाममूरुदेशे निवेशितम् ॥ १३० ॥
View Verse
गोपनीमुद्रया वाथ कटकाकारमुद्रया ।
उभाभ्यामपि पाणिभ्यां विश्रान्तं पीठपृष्ठतः ॥ १३१ ॥
View Verse
अवष्टभ्य गदामूर्ध्वे मातङ्गमुसलाकृतिम् ।
प्राक्पढदलमाक्रम्य पादाब्यां कर्णिकासनम् ॥ १३२ ॥
View Verse
सुस्थितं कर्णिकायां वा प्राग्वदन्यैरलंकृतम् ।
एवं ध्यानविशेषेषु त्वेकं स्थाप्य विधानतः ॥ १३३ ॥
View Verse
समर्चयीत कालेषु प्रागुक्तेषु स्वमन्त्रतः ।
चतुस्स्थानार्चनार्थं तु ण्डलानां तु मध्यतः ॥ १३४ ॥
View Verse
पूजितेष्वथ मन्त्रेषु नियुक्तेषु स्वधामनि ।
ईशानसोमदिङ्मध्ये चतुरश्रे पुरेऽथवा ॥ १३५ ॥
View Verse
द्वारशोभाश्रनिर्मुक्ते रेखात्रितयभूषिते ।
तदन्तरेऽर्धचन्द्रस्थे कमलेऽष्टदलान्विते ॥ १३६ ॥
View Verse
साम्राज्येन नियुक्तेऽस्मिन् विग्नानामच्युतेन तु ।
पूजिते विधिना शश्वदभीष्टं साधकोऽश्नुते ॥ १३७ ॥
View Verse
तस्मान्मन्त्रैस्तदीयैस्तु स्नात्वा पूर्वविधानतः ।
प्रक्षाल्य पाणिपादौ वा त्वाचम्य न्यासमाचरेत् ॥ १३८ ॥
View Verse
तदधिष्ठातृकत्वेन धारणाभिः स्वविग्रहम् ।
शोधयित्वा पुनर्न्यस्य षडङ्गं तत्करादितः ॥ १३९ ॥
View Verse
प्राग्वदानन्दधामाच्च ह्यवतार्य तथा प्रभुम् ।
इष्ट्वा हृत्पुण्डरीके तु स्वापेक्षानिप्कलात्मकम् ॥ १४० ॥
View Verse
तमेव सकलत्वेन यातं ध्यात्वा यजेद्वहिः ।
प्राग्वदर्ध्यादिपात्राणि प्रतिष्ठाप्य स्वविग्रहे ॥ १४१ ॥
View Verse
विन्यस्तमन्त्रानभ्यर्च्य द्वारेदक्षिणसौम्ययोः ।
चण्डप्रचण्डसदृशौ बलप्रबलसंज्ञितौ ॥ १४२ ॥
View Verse
वायुवेगं महाप्राणं द्वाराग्रे गरुडोपमम् ।
समभ्यर्च्य यथापूर्वं प्राग्दत्वा कमलासनम् ॥ १४३ ॥
View Verse
धर्माद्यनन्तपर्यन्तं पञ्चकं नवकं तु वा ।
सत्वेनाच्छादितं पश्चात् केवलेनाम्बुजं स्मरेत् ॥ १४४ ॥
View Verse
तस्मिन्नावाह्य तं देवं हृदये ध्यानचोदितम् ।
सन्निधानादिकं कृत्वा मुद्राबन्धपुरस्सरम् ॥ १४५ ॥
View Verse
समभ्यर्च्यार्घ्यपुष्पाद्यैर्लययागविधानतः ।
कर्णिकामध्यगं तस्य हृदाद्यं मुख्यमन्त्रवत् ॥ १४६ ॥
View Verse
पझच्छदान्तरस्थाश्च तदाकारद्युतिं विना ।
किन्त्वङ्गानां च सर्वत्र घ्यानमुक्तं सितादिकम् ॥ १४७ ॥
View Verse
क्रियाख्यां तैजसीं शक्तिं स्वाहापर्यायरूपिणीम् ।
लक्ष्मीरूपधरां पीतां सर्वालङ्कारमण्डिताम् ॥ १४८ ॥
View Verse
प्रियानुरूपां सततं स्वासीनां वाथ सुस्थिताम् ।
दक्षिणोत्तरयोगेन चामरोभयधारिणीम् ॥ १४९ ॥
View Verse
ह्रीं क्रियायै स्वाहान्तो मन्त्रोऽयं संप्रकीर्तितः ।
अनेन स्वामिनो देहात्तैजसाद्विघ्नसूदनात् ॥ १५० ॥
View Verse
वामपार्श्वेऽवतार्यास्य भोगयागावसानतः ।
गजाननो जयत्सेनो हरिवक्त्रो महाबलः ॥ १५१ ॥
View Verse
कालप्रकृतिसंज्ञश्च चतुर्थः कमलोद्भव ।
गणराजेश्वरा ह्येते चत्वारश्चण्डविग्रहाः ॥ १५२ ॥
View Verse
आज्ञाप्रतीक्षकाश्चास्य सुश्वेतचमरोद्यताः ।
विनायकादयश्चैव विघ्नेशाः प्रवरास्तु ये ॥ १५३ ॥
View Verse
अमीषां गणनाथानां नित्यमाज्ञानुपालिनः ।
ईशानादिषु कोणेषु पर्द्मबाह्ये स्थितान् न्यसेत् ॥ १५४ ॥
View Verse
वीक्षमाणा विभोर्वक्त्रं तत्तुल्यस्थानकैः स्थिताः ।
तद्वत्करार्ङ्किताः सर्वे किन्तु मुद्राविवर्जिताः ॥ १५५ ॥
View Verse
ध्यानमेषां पृथग्भूतं शारीरमवधारय ।
भीमद्विपेन्द्रवदनं चतुरदंष्ट्रं त्रिलोचनम् ॥ १५६ ॥
View Verse
कम्बुग्रीवं चतुर्बाहुं पूर्णचन्द्रायुतद्युतिम् ।
हारनूपुरकेयूरमेखलादाममण्‍डितम् ॥ १५७ ॥
View Verse
नानास्रग्गन्धवस्त्राढ्यमनौपम्यपराक्रमम् ।
ध्यायेद्गजाननमतो जयत्सेनं च संस्मरेत् ॥ १५८ ॥
View Verse
महत्तुरङ्गवदनं पझरागाचलप्रभम् ।
द्रवच्चामीकराक्षं च त्वनेकाद्भुतविग्रहम् ॥ १५९ ॥
View Verse
हरिवक्त्रमतो ध्यायेत् सटाच्छुरितमस्तकम् ।
निष्टप्तकनकप्रख्यं द्योरघर्घरनिस्वनम् ॥ १६० ॥
View Verse
मृगरार्ड्वदनं विप्र कल्पान्तनिलवेगिनम् ।
कालप्रकृतिनामानं भावयेदञ्जनद्रिवत् ॥ १६१ ॥
View Verse
दंष्ट्राकरालवदनं पिर्ङ्गलश्मश्रुलोचनम् ।
झषकुण्डलभृद्रौद्रं मीनवन्निम्ननासिकम् ॥ १६२ ॥
View Verse
गणराजेश्वराः ह्येते महापुरुषलक्षणैः ।
संयुक्ताश्चाखिलैर्विप्र आपादात् कन्धरावधि ॥ १६३ ॥
View Verse
यत्किञ्चिन्मण्डनं वस्तु तदाद्योक्तं स्मरेत्त्रिषु ।
एतेषामर्चनं कुर्यात् स्वनाम्ना प्रणवादिना ॥ १६४ ॥
View Verse
नमोन्तेनाब्जसंभूत नानासिद्धिफलाप्तये ।
अष्टाष्टकैस्तदर्धैर्वातस्यार्धैर्वा यथारुचि ॥ १६५ ॥
View Verse
क्षिप्रकर्मप्रसिध्द्यर्थमष्टभिर्वा समर्चयेत् ।
तन्निवेदितमन्नाद्यमर्घ्यस्रक्चन्दनादिकम् ॥ १६६ ॥
View Verse
न देयं कस्याचित् प्राज्ञैरैहिकामुष्मिकाप्तये ।
स्वाश्रितानामनुज्ञातं भूतानां चैव तेन तत् ॥ १६७ ॥
View Verse
नित्यं तदूर्ध्वतस्तेषामाशास्थगितचारिणी ।
अत एव हि भोक्तॄणामर्थहानिं ददन्ति ते ॥ १६८ ॥
View Verse
नूनमाशागणं सर्वं ध्वंसयन्ति सदैव हि ।
तस्माद्ददाति योऽन्येषां स्वयमश्नाति वाऽधमेः ॥ १६९ ॥
View Verse
मोहादुपेक्षते वापि स याति नरकेऽधमः ।
अतः श्रेयोर्थिना कार्यः परिहारः सदैव हि ॥ १७० ॥
View Verse
तच्चापि क्ष्मातले कूषे तटाकादौ तु चोत्क्षिपेत् ।
नोपभोगं यथा याति काकादिष्वब्जसंभव ॥ १७१ ॥
View Verse
य स्मात् सन्मन्त्रपूतं तत् प्राधान्येनापि वर्धते ।
अतो निषिद्धः पापानामपापानां विशेषतः ॥ १७२ ॥
View Verse
इति सम्यक् समाख्यातं विष्वक्सेनार्चनं तव ।
अतः परं यद्वक्तव्यमस्ति चेत्तद्वदस्व भे ॥ १७३ ॥
View Verse
सनकः ।
कुमुदाद्यावृतीशानां द्वारावरणवासिनाम् ।
शिलालोहादिभिः क्लृप्ता या या मूर्तिः प्रतिष्ठिता ॥ १७४ ॥
View Verse
तत्र तत्र च किं कार्यमर्चने तद्वदस्व मे ।
शाण्डिल्यः ।
द्वारावरणदेवानां सुस्थितानां स्वसझसु ॥ १७५ ॥
View Verse
चलानां वाथ हेमाद्यैर्निर्मितानां यथाविधि ।
त्रिकालं वा द्विकालं वा संकटे त्वेककालिकम् ॥ १७६ ॥
View Verse
तत्तन्मन्त्रेण कुर्वीत पूजामष्टोपचारतः ।
परव्यूहादिरूपस्य विष्णोर्दिव्यालयादिषु ॥ १७७ ॥
View Verse
प्रासादबेरप्राकारगोपुरद्वारमण्टपान् ।
पचनालयपानीयशालापुष्पादिमण्टपान् ॥ १७८ ॥
View Verse
धनधान्याम्बरावासमालिकाबलिविष्टरान् ।
तथार्ङ्गाश्रयसर्द्मानि गोशालावाहनास्पदान् ॥ १७९ ॥
View Verse
अपूर्वानथवा जीर्णान् नष्टांश्चैबोद्धरन्ति ये ।
ग्रामादिरथ्यावरणानुत्सवभ्रमणाय च ॥ १८० ॥
View Verse
फलपुष्पद्रुमाढ्यानि वापीकूपान्वितानि च ।
विश्राममण्डपोपेतनिपानालह्कृतानि च ॥ १८१ ॥
View Verse
उद्यानानि प्रकुर्वन्ति ये भक्त्या तु जगत्प्रभोः ।
केदारापणपूर्वाणि साधनानि ददन्ति ये ॥ १८२ ॥
View Verse
समाराधकपूर्वाणां तदैव परिचारिणाम् ।
दासीदासकुटुम्बानां देवालायनिवासिनाम् ॥ १८३ ॥
View Verse
पोषं कुर्वन्ति ये वृत्या नित्यया प्रीतये विभोः ।
देवस्याङ्गाङ्गिरूपस्य परिवारगणस्य च ॥ १८४ ॥
View Verse
नू पुरादिकिरीटान्तैर्विग्रहं भूषयन्ति ये ।
प्रासादगोपुरादीनि चामीकरमयानि च ॥ १८५ ॥
View Verse
शयनासनयानानि रथानि विविधानि च ।
महान्ति हेमसद्रत्नरचितानि समन्ततः ॥ १८६ ॥
View Verse
द्विरदांश्च वराश्वांश्च यागोपकरणानि च ।
पाद्यार्घ्यपात्रपूर्वाणि पादोदादिप्रतिग्रहान् ॥ १८७ ॥
View Verse
भद्रपीठं तथा दीपधूपयोर्लक्षणान्वितम् ।
पात्रयुग्मं च वै घण्टामक्षसूत्रादिकान्यपि ॥ १८८ ॥
View Verse
छत्राणि चामरादीनि सितानि विविधानि च ।
उपानत्पादुकादीनि पादपीठान्यनेकशः ॥ १८९ ॥
View Verse
हविःस्थालीश्च विविधाः साधाराश्च सलक्षणाः ।
हेमराजतताम्रोत्थास्ताम्बूलाधारसंयुताः ॥ १९० ॥
View Verse
स्रुक् स्रुवादीनि भाण्डानि यान्यन्यानि समर्चने ।
उपयोग्यानि सर्वाणि येऽर्पयन्ति जगद्विभोः ॥ १९१ ॥
View Verse
देवद्रव्याणि रक्षन्ति देवस्वं च भयान्विताः ।
सदागमादिसिद्धान्तनिश्चयार्थप्रशंसकाः ॥ १९२ ॥
View Verse
दीक्षापयन्ति सद्भक्तान् ये वेदान्तार्थसूचकाः ।
भाषाभिः स्वस्वकीयाभिर्ये तदर्थप्रबन्धकाः ॥ १९३ ॥
View Verse
भक्तोत्तमास्ते विज्ञेयास्तान् दिव्यायतनादिषु ।
चलस्थिरविभागेन लोहैर्वा शिलयाथवा ॥ १९४ ॥
View Verse
स्वस्ववर्णाश्रमाचारसदृशाकृतिचेष्टितान् ।
बद्धाञ्जलिपुटान् वाथ प्रमाणेनोपलक्षितान् ॥ १९५ ॥
View Verse
लाञ्छितान्श्चक्रशर्ङ्खाभ्यां भुजयोर्दक्षिणादितः ।
पझविष्टरमध्ये तु स्वासीनान् वाथ सुस्थितान् ॥ १९६ ॥
View Verse
ऋजुस्थित्या यथाशोभं वैशाखस्थानकेन वा ।
निर्माय च विधानेन प्राङ्कमे मण्टपेऽथवा ॥ १९७ ॥
View Verse
प्रासादेष्वनुरूपेषु कल्पितेष्वग्रतो विभोः ।
यथावकाशं वामे वा दक्षिणे वाथ पश्चिमे ॥ १९८ ॥
View Verse
स्वस्वमन्त्रैः प्रतिष्ठाप्य विधिवच्छ्रद्धयार्चयेत् ।
श्रृणु मन्त्रांस्तदीयांस्तु स्थापनादिषु कर्मसु ॥ १९९ ॥
View Verse
प्रधानपुरुषेशात्मतारकब्रह्नणाऽथवा ।
अहं स तारकेणैव सविसर्गेण चान्तिमे ॥ २०० ॥
View Verse
आद्येन वा द्वितीयेन युक्तया त्रितयेन वा ।
संज्ञया योजनीयास्ते साङ्गयागानतः श्रृणु ॥ २०१ ॥
View Verse
ताराद्ययोर्द्वयोरेकं षोढा कृत्वा तदन्तिमे ।
ज्ञानादिहृदयादीनि चतुर्थ्यन्तान्युदीरयेत् ॥ २०२ ॥
View Verse
प्रणवाधारयुक्तानि प्रागेवाङ्गान्यमूनि वै ।
विन्यस्य संयजेन्नित्यं भक्तान् परमधर्मिणः ॥ २०३ ॥
View Verse
पारतन्त्र्ये विधिरयं भक्तानां संप्रकीर्तितः ।
स्वातन्त्र्ये चाग्रहारादौ विपिने वा नदीतटे ॥ २०४ ॥
View Verse
सप्राकारं विमानं तु यथेष्टतलशोभितम् ।
कल्पयित्वा प्रयत्नेन रथ्याभिश्च परिष्कृतम् ॥ २०५ ॥
View Verse
देशान्तरगतानां वा भगवल्लोकवासिनाम् ।
दृश्यरूपमदृश्यं वा देवसारूप्यतां गतम् ॥ २०६ ॥
View Verse
स्थापयित्वा विधानेन प्रासादे मानुषे पदे ।
दिव्यमानुषयोर्वाथ दिव्ये वा मानुषाश्रिते ॥ २०७ ॥
View Verse
विष्णोर्मन्त्रासनाव्यक्तपझमध्यस्थचेतनात् ।
भक्तबिम्बहृदम्भोजे चैतन्यमवतार्य च ॥ २०८ ॥
View Verse
सकलीकृत्य मन्त्रेण साङ्गेनाभ्यर्चयेत् सदा ।
आवाहने विशेषोऽयं जीवतां वाप्यजीवताम् ॥ २०९ ॥
View Verse
सर्वत्राव्यक्तपझाद्यैरष्टभिर्वा द्विरष्टभिः ।
भोगैः प्रागुदितैः स्फीतैस्ताम्बूलान्तैरनुक्रमात् ॥ २१० ॥
View Verse
तत्तज्जन्मदिने कार्यं तेषां वैशेषिकार्चनम् ।
कृत्वा पझध्वजारोहं कार्यस्तत्र महोत्सवः ॥ २११ ॥
View Verse
देवेन सह कर्तव्यः परतन्त्रोत्सवे ध्वजः ।
भक्तप्रणीता गाधाश्च श्रुत्यन्तार्थोपबृह्निताः ॥ २१२ ॥
View Verse
श्रावयेद्विधिवद्देवं भक्त्या गीतिपुरस्सरम् ।
तन्निवेदितमन्नाद्यं गायकेब्यः प्रदापयेत् ॥ २१३ ॥
View Verse
इति ते वैनतेयादिपरिवारगणस्य च ।
पूजनं सर्बमाख्यातं नानासिद्धिफलप्रदम् ॥ २१४ ॥
View Verse
गोपनीयं प्रयत्नेन नास्तिकानांविशेषतः ।
प्रकाशयस्व भक्तानां नित्यकर्मरतात्मनाम् ॥ २१५ ॥
View Verse

Chapter 9

श्रीः ।
नवमोऽध्यायः ।
शाण्डिल्यः ।
एवं कालत्रये कुर्यात् पूजनं मन्त्रवित्तमः ।
न च कालत्रयान्न्यूनं पूजनं विहितं सदा ॥ १ ॥
View Verse
प्रासादेषु स्वयंव्यक्तपूर्वेषु द्विजसत्तम ।
कालत्रयं प्रधानं स्यात्तदूर्ध्वं कर्तुरिच्छया ॥ २ ॥
View Verse
विभवापेक्षया चैव वर्धयेत यथाक्रमम् ।
यावर्द्द्वादशमः कालस्तावद्वै मुनिपुर्ङ्गव ॥ ३ ॥
View Verse
श्रेष्ठः प्रबातकालः स्यात् त्रिषु कालेषु वै पुनः ।
यथावन्मन्त्रविन्यासमात्मनः करदेहयोः ॥ ४ ॥
View Verse
हृद्यागं स्थानसंशुद्धिं सायामां भौतिकीं ततः ।
नित्यं प्राभातिके कुर्यादन्यत्रेच्छानुरूपतः ॥ ५ ॥
View Verse
स्नपनं बलिदानं च कुर्यात् कालत्रये सदा ।
मूर्तेरासनपूजा तु कार्या कालचतुष्टये ॥ ६ ॥
View Verse
पञ्चकाले भवेन्न्यासः षट्काले हवनक्रिया ।
अत ऊर्ध्वेषु कालेषु जपान्तं पूजनं भवेत् ॥ ७ ॥
View Verse
अलङ्कारासनाद्यं च पूर्ववत् क्रमयोगतः ।
विनोक्तेन प्रकारेण ह्यन्यथा न समाचरेत् ॥ ८ ॥
View Verse
मुख्यकल्पे तु होमान्ता नित्यनैमित्तिकात्मकाः ।
पूजाः क्रमेण वै कुर्यात् तत्तद्धोमावसानिकाः ॥ ९ ॥
View Verse
अनुकल्पे तु जप्यान्तं यागानन्तरितेषु वै ।
यागेषु हवनान्तेषु नित्यनैमित्तिकादिषु ॥ १० ॥
View Verse
तत्तद्यागं जपान्तं च क्रमात् कृत्वा ततः परम् ।
तत्तद्धोमान् मुनिश्रेष्ठ क्रमात् कुर्याद्यथाविधि ॥ ११ ॥
View Verse
अनुकल्पेषु यागेषु ह्युपकालोदितेषु वै ।
आसनार्घ्ये ततऋ पाद्यमाचामं सप्रतिग्रहम् ॥ १२ ॥
View Verse
गन्धं माल्यं तथा दीपं धूपं मात्रां क्रमेण तु ।
दत्वा भोज्यावसानं तु क्रमाद्दद्याद्विधानतः ॥ १३ ॥
View Verse
अथ द्वादशकालादि यावत् कालत्रयं द्विज ।
नाडिकानां विभागं तु क्रमेणैवावधारय ॥ १४ ॥
View Verse
ब्राह्नान्मुहूर्तादारभ्य सपादं घटिकाद्वयम् ।
निर्वर्त्य नित्यकर्म प्राक् स्नानपूर्वं यथाविधि ॥ १५ ॥
View Verse
सपादैकोत्तरा नाड्यो दश प्राभातिकेऽर्चने ।
ततो नाडीचतुष्कं तु भवेद्यागद्वयस्य तु ॥ १६ ॥
View Verse
ततस्त्वर्धोत्तरा नाड्यस्तिस्रः स्युस्स्वान्हिकस्य तु ।
पश्चादर्धोत्तराः सप्त नाड्यो मध्यन्दिनार्चने ॥ १७ ॥
View Verse
भूयस्तु घटिकायुग्मं यागस्य द्विजसत्तम ।
ततोऽपराह्णयागस्य भवेत्तु घटिकात्रयम् ॥ १८ ॥
View Verse
स्वाध्यायस्य भवेत् कालस्ततस्तु घटिकाद्वयम् ।
अर्धोत्तरा भवेन्नाडी स्वस्य सायन्तनी क्रिया ॥ १९ ॥
View Verse
ततः प्रदोषयागस्य सार्धाः सप्त च नाडिकाः ।
ततो यागद्वयं कुर्याद्धटिकानां चतुष्टये ॥ २० ॥
View Verse
पश्चान्निशीथयागस्य भवेद्वै नाडिकात्रयम् ।
भूयस्तु पूजनं विप्र कुर्याद्वै घटिकाद्वये ॥ २१ ॥
View Verse
ततस्तु प्रत्युषो यागः सार्धं स्यान्नाडिकाद्वयम् ।
योगपूर्वं तु विश्रामश्चतस्रो नाडिकास्ततः ॥ २२ ॥
View Verse
यत्र द्वादशकालेज्या तत्रायं कालनिर्णयः ।
यत्रैकादशकालेज्या तत्रायं क्रम उच्यते ॥ २३ ॥
View Verse
निशीथयजनादूर्ध्वं प्रत्युषः पूजनं भवेत् ।
यद्वा प्रादोषिकादूर्ध्वं कालमेकं विलोपयेत् ॥ २४ ॥
View Verse
विश्रामस्य भवेत् कालो नाडीनां षट्कमेव च ।
यदा तु दशकालेषु पूजनं विहितं तदा ॥ २५ ॥
View Verse
मध्याह्नपूजनादूर्ध्वमपराह्णार्चनं भवेत् ।
तथा मध्याह्णपूजायाः सार्धास्तु नव नाडिकाः ॥ २६ ॥
View Verse
यत्र कालेषु नवसु पूजनं विहितं तदा ।
निशीथपूजनात् पूर्वमेकं यागं तु लोपयेत् ॥ २७ ॥
View Verse
दश नाड्योऽर्धहीनाः स्युस्तदा प्रादोषिकेऽर्चने ।
यत्र कालाष्टके यागा विहिता द्विजसत्तम ॥ २८ ॥
View Verse
तदा प्राभादिकादूर्ध्वमेकं यागं विलोपयेत् ।
तदा प्राभातिके यागे सांशा नाड्यस्त्रयोदश ॥ २९ ॥
View Verse
यजनं सप्तकालेषु यदा स्याद्द्विजसत्तम ।
प्रदोषश्च निशीथस्च प्रत्यूषश्च तथा निशि ॥ ३० ॥
View Verse
निशीथस्य भवेत् कालश्चतस्रो नाडिकास्तदा ।
अर्धहीनाश्चतस्रस्तु घटिकाश्चरमस्य तु ॥ ३१ ॥
View Verse
यत्र वै कालषट्के तु पूजनं विहितं तदा ।
पूर्वमध्यापराह्णास्तु दिवाकालास्त्रयः स्मृताः ॥ ३२ ॥
View Verse
स्वस्य प्राभातकृत्यस्य सांशं नाडीत्रयं तदा ।
सार्धाश्चतस्रो नाड्यस्तु स्वस्य मध्यन्दिनस्य तु ॥ ३३ ॥
View Verse
प्रातराद्या निशीथान्ताः पञ्चकाला उदाहृताः ।
तदा शिष्टास्तु घटिका योगविश्रामयोः स्मृताः ॥ ३४ ॥
View Verse
एतेऽपराह्णरहिताश्चतुष्कालाः प्रकीर्तिंताः ।
पञ्चकं घटिकानां तु स्वाध्यायस्य भवेत्तदा ॥ ३५ ॥
View Verse
प्रातर्मध्यन्दिनं सायं त्रयः काला यथाक्रमम् ।
तदानीमवशिष्टास्तु घटिकाः स्वस्य कर्मणः ॥ ३६ ॥
View Verse
अनुकल्पे तु कालः स्यादेको माध्यन्दिनोऽथवा ।
माध्यन्दिनश्च नैशश्च द्वौ कालौ शक्तितो द्विज ॥ ३७ ॥
View Verse
यत्रावरणबाहुल्यं तथा च बलिविस्तरः ।
भगवद्यागविस्तारो महता विभवेन तु ॥ ३८ ॥
View Verse
अनेका मूर्तयो यत्र पूज्यन्ते विस्तरेण तु ।
तत्र तत्र समभ्यूह्य स्वबुद्ध्या तु समाचरेत् ॥ ३९ ॥
View Verse
वृद्धिं प्रधानकाले तु नाडिकानां महामते ।
संक्षेपमुपसन्ध्यासु तत्तत्कर्मानुगुण्यतः ॥ ४० ॥
View Verse
एवमुक्तेषु कालेषु यः पूजयति सर्वदा ।
स पूजाफलमाप्नोति साकल्येन महामते ॥ ४१ ॥
View Verse
यथा कालात्ययो न स्यात्तथा कुर्यात् प्रयत्नतः ।
उक्तेऽस्मिन् समतिक्रान्ते काले दोषो भवेन्महान् ॥ ४२ ॥
View Verse
मनुजैः कल्पिते स्थाने इत्युक्ता नाडिकास्थितिः ।
स्वयं व्यक्तादिकेऽप्येवं स्थानानामार्षपश्चिमे ॥ ४३ ॥
View Verse
चतुष्टये भवेद्विप्र कालानां तु विनिर्णयः ।
विशेषः श्रूयतामत्र नियतेष्वपि कर्मसु ॥ ४४ ॥
View Verse
वत्सरोत्सवपूर्वेषु नानानैमित्तिकेषु च ।
पवित्रारोहणान्तेषु काम्येषु विविधेषु च ॥ ४५ ॥
View Verse
तथा च प्रायश्चित्तेषु राष्ट्रभङ्गादिदोषतः ।
यद्वा यजनविस्तारादसामर्थ्यादिकेन वा ॥ ४६ ॥
View Verse
तत्तत्कर्मोदिते काले समतीते क्षणादिके ।
न दोषो विद्यते विप्र तत्तत्स्थानप्रभावतः ॥ ४७ ॥
View Verse
सदागमपरैर्विप्रैः पश्चकालपरायणैः ।
चातुरात्म्यैकनिष्ठैस्तु अनन्यैरधिकारिभिः ॥ ४८ ॥
View Verse
प्रागुक्तैर्व्यापकैर्मन्द्नैर्द्वादशाक्षरपूर्वकैः ।
अङ्गोपाङ्गादिसंयुक्तैर्दिव्यशास्त्रोक्तमार्गतः ॥ ४९ ॥
View Verse
यजनं क्रियते यत्र तत्रापि च विशेषतः ।
कालातिक्रमदोषस्तु विद्यते न कदाचन ॥ ५० ॥
View Verse
तथापि कालातिक्रान्तौ विशेषमवधारय ।
व्यामिश्रयाजिभिर्वर्णैर्निर्मितायतनास्तु ये ॥ ५१ ॥
View Verse
तेषु कर्मणि नित्येऽपि काम्ये नैमित्तिकेऽपि वा ।
विविधेऽपि तथा विप्र प्रायश्चित्ताख्यकर्मणि ॥ ५२ ॥
View Verse
तत्तदुक्तस्य कालस्य मुहूर्तस्याप्यतिक्रमे ।
कर्तुर्गुरोश्च स्थानस्य तस्य दोषो महान् भवेत् ॥ ५३ ॥
View Verse
अनन्यशरणैर्वर्णैः स्थाने तु परिकल्पिते ।
आरम्भः प्रातरिज्याया अपि यामाष्टमांशकम् ॥ ५४ ॥
View Verse
नातिक्रामेन्न मध्याह्नः साष्टांशं प्रहरद्वयम् ।
न च सायन्तनारम्भो रात्रौ यामाष्टमांशकम् ॥ ५५ ॥
View Verse
निशीथपूजानारम्भो न च नाडीस्त्रयोदश ।
प्रत्युषः पूजनारम्भः न च ह्येकोनविंशतिम् ॥ ५६ ॥
View Verse
अतिक्रमेच्चेद्दोषः स्यात् कर्त्रादित्रितयस्य च ।
नैमित्तिकादिके प्राग्वद्भवेद्दोषस्य निर्णयः ॥ ५७ ॥
View Verse
सच्छूद्रैः कल्पिते विप्र स्थाने तु विनिबोध मे ।
अहनि प्रातरारम्भो यामांशं न व्यतिक्रमेत् ॥ ५८ ॥
View Verse
न च माध्यन्दिनारम्भः सपादं प्रहरद्वयम् ।
रात्रौ सायन्तनारम्भो यामांशं न व्यतिक्रमेत् ॥ ५९ ॥
View Verse
निशीथयजनारम्भो न च नाडीद्विसप्तकम् ।
नातिक्रामेत् प्रत्युषस्तु विंशतिं यद्यतिक्रमेत् ॥ ६० ॥
View Verse
सबन्धुकस्य वै कर्तुः स्थानस्य च गुरोर्भवेत् ।
भयं नैमित्तिकादीनां प्राग्वत्तत्तदतिक्रमे ॥ ६१ ॥
View Verse
सद्वैश्यैः कल्पिते स्थाने विभागमवधारय ।
प्रागिज्योपक्रमे नाडीद्वितयं ह्युदयात् परम् ॥ ६२ ॥
View Verse
नातिक्रमेन्न माध्याह्नो ह्यष्टाविंशतिनाडिकाः ।
रात्रौ सायन्तनारम्भक्त्रितयं न व्यतिक्रमेत् ॥ ६३ ॥
View Verse
निशीथयजनारम्भो यामौ द्वौ न ह्यतिक्रमेत् ।
प्रत्युषः पूजनारम्भो न च नाड्येकविंशतिम् ॥ ६४ ॥
View Verse
नैमित्तिकाद्यं त्रितयं न च कालमतिक्रमेत् ।
प्रागुक्तं यद्यतिक्रामेत् कर्तुर्वै देशिकस्य च ॥ ६५ ॥
View Verse
सबन्धुकस्य जायेत महाव्याध्यादिपीडनम् ।
स्थानस्य धान्यनाशः स्यान्महाभूतैरुपप्लवः ॥ ६६ ॥
View Verse
सदागमज्ञैः क्षत्रैस्तु क्लृप्ते वक्ष्याम्यतः परम् ।
प्रातरिज्यासमारम्भो यामार्धं न ह्यतिक्रमेत् ॥ ६७ ॥
View Verse
न च माध्यन्दिनारम्भः सार्धं यामद्वयं द्विज ।
न च सायन्तनारम्भो यामार्धं न ह्यतिकमेत् ॥ ६८ ॥
View Verse
निशीथयजनारम्भो नाडीषोडशकं न च ।
यामत्रयं तदन्यस्तु न च नैमित्तिकादिकम् ॥ ६९ ॥
View Verse
उक्तं कालमतिक्रामेत् प्रमादाद्यद्यतिक्रमेत् ।
देशक्षोभादिदोषः स्यात् पूर्वोक्तत्रितयस्य च ॥ ७० ॥
View Verse
पञ्चकालपरैर्विप्रैः कल्पितेऽपि निबोध मे ।
प्रागिज्योपक्रमो नाडीपञ्चकं न व्यतिक्रमेत् ॥ ७१ ॥
View Verse
न च माध्यन्दिनारभ्भो नाडिकानां तु विंशतिम् ।
न च सायन्तनारम्भो नाडीष्ट्कमतिक्रमेत् ॥ ७२ ॥
View Verse
नातिक्रमेन्निशीथेज्या नाड्यः सप्तोत्तरा दश ।
चतुर्विंशतिमन्तेज्या नाडीनां न ह्यतिक्रमेत् ॥ ७३ ॥
View Verse
न च नैमित्तिकाद्यस्य प्राप्तकालव्यतिक्रमः ।
एवमुक्तं तु नियमं येन केनाप्यतिक्रमेत् ॥ ७४ ॥
View Verse
स्थानभ्रंशादिदोषः स्याद्देशिकादित्रयस्य च ।
ऋषिभिः कल्पिते स्थाने विशेषमवधारय ॥ ७५ ॥
View Verse
नातिक्रमेत् प्रागिज्याया नाडीषट्कमुपक्रमः ।
माध्यन्दिनसमारम्भो न च नाड्येकविंशतिम् ॥ ७६ ॥
View Verse
सायमिज्यासमारम्भो नाडीनां न च सप्तकम् ।
नातिक्रामेन्निशीथेज्या नाड्यष्टादशकं द्विज ॥ ७७ ॥
View Verse
नातिक्रामेत् पश्विमेज्या नाडिकापञ्चपञ्चकम् ।
अतिक्रमेच्चेत् कर्तुः स्यात् क्षयव्याधिप्रपीडनम् ॥ ७८ ॥
View Verse
तद्देशे स्यादनावृष्टिः स्थानस्य च महद्भयम् ।
कल्पिते मन्त्रसिद्धैस्तु स्थाने समवधारय ॥ ७९ ॥
View Verse
आरम्भः प्रातरिज्यायाः प्रहरं न ह्यतिक्रमेत् ।
एकविंशतिकं सार्धं मद्याह्नो न व्यतिक्रमेत् ॥ ८० ॥
View Verse
नातिक्रमेत्तु प्रहरं सायं याग उपक्रमः ।
निशीथयागो नाडीनां न च त्वेकोनविंशतिम् ॥ ८१ ॥
View Verse
षड्विंशतिमतिक्रामेन्न च पश्चिमपूजनम् ।
अतिक्रमेच्चेद्वे कर्तुः पुत्रहानिर्भविष्यति ॥ ८२ ॥
View Verse
स्थाने द्रव्यविनाशः स्याद्राष्ट्रस्य व्याधिपीडनम् ।
दिव्यस्थानेऽथ वक्ष्यामि प्रागिज्याया उपक्रमः ॥ ८३ ॥
View Verse
अष्टकं न त्वतिक्रामेन्नाडीनां द्विजसत्तम ।
द्वाविंशतिं न मध्याह्नो न च सायन्तनोऽष्टकम् ॥ ८४ ॥
View Verse
विंशतिं न निशीथेज्या सप्तविंशतिमन्तिमः ।
नातिक्रामेन्मुनिश्रेष्ठ प्रमादाद्यद्यतिक्रमेत् ॥ ८५ ॥
View Verse
देशाधिपस्य पीडा स्याज्ज्वरादिव्याधिभिः सदा ।
स्थाने धान्यादिनाशः स्यात्तत्तद्देशनिवासिनाम् ॥ ८६ ॥
View Verse
अथ स्थाने स्वयं व्यक्ते श्रृणु कालविधिं द्विज ।
प्रथमेज्यासमारम्भो घटिकादशकं न च ॥ ८७ ॥
View Verse
अतिक्रामेन्न मध्याह्नो नाडीनां पञ्चविंशतिम् ।
सायमिज्यासमारम्भो दशकं न ह्यतिक्रमेत् ॥ ८८ ॥
View Verse
द्वाविंशतिं निशीथेज्या नातिक्रामेत पश्चिमः ।
आदित्योदयवेलां तु नातिक्रामेत् कदाचन ॥ ८९ ॥
View Verse
प्रमादाद्बुद्धिपूर्वाद्वा अतिक्रामेद्यदि द्विज ।
अरातिभिः परिभवो महाव्याध्यादिपीडनम् ॥ ९० ॥
View Verse
सदा देशाधिपस्य स्यात् प्रजानां व्याधिपीडनम् ।
तत्स्थानस्य न सम्पत्तिस्तद्देशे वृष्टिवर्जनम् ॥ ९१ ॥
View Verse
नित्यनैमित्तिकं कर्म नक्षत्रादिनिमित्तकम् ।
तत्तत्कर्मोदितं कालं नातिक्रामेत्तु मानुषे ॥ ९२ ॥
View Verse
आर्षादिंके तु त्रितये पूर्वभागोदितं तु यत् ।
तत् कुर्यात्तदतिक्रान्तौ भागे तु तदनन्तरे ॥ ९३ ॥
View Verse
तत्कालातिक्रमे दोषो नित्यातिक्रान्तिवद्भवेत् ।
अपरांशोदितं कर्म तत्रैव तु समाचरेत् ॥ ९४ ॥
View Verse
पूर्वाह्णे विहितं कर्म मध्याह्ने तु समाचरेत् ।
मद्याह्ने विहितं यत्तदपराह्ने समाचरेत् ॥ ९५ ॥
View Verse
पूर्वरात्रोदितं कर्म मध्यरात्रे समाचरेत् ।
मध्यरात्रोदितं यत्तत् कुर्यादपररात्रिके ॥ ९६ ॥
View Verse
स्वयं व्यक्ते तु पूर्वांशविहितं स्यात्तु मध्यमे ।
पश्चिमे वापि तत्रोक्तं पूर्वे वा मध्यमेऽपि वा ॥ ९७ ॥
View Verse
आचरेदनुकल्पे तु पूर्वाह्नविहितं तु यत् ।
तत् कुर्यादथ मध्याह्ने अपराह्णेऽथवा द्विज ॥ ९८ ॥
View Verse
पूर्वरात्रोदितं कुर्यान्मध्ये वा पश्चिमेऽपि वा ।
ऋक्षाणां पूर्वभागे तु ऋक्षकर्म समाचरेत् ॥ ९९ ॥
View Verse
तिथीनां पश्चिमे भागे तिथिकर्म समाचरेत् ।
नक्षत्रभेदे चाधिक्ये तिथिभेदे तदन्तिमे ॥ १०० ॥
View Verse
तत्रापि चेदमावास्या सङ्गवात् परतो भवेत् ।
तस्मिन् कुर्यात्तु तत् कर्म तत् स्यात् पूर्वेद्युरन्यथा ॥ १०१ ॥
View Verse
अतीते भगवद्यागमाचरेदुत्तरायणे ।
पश्चात् षोडशनाडीनामन्तरे होमपश्चिमम् ॥ १०२ ॥
View Verse
स्नपनाद्यं मुनिश्रेष्ठ चैत्रे च विषुवे तथा ।
प्रागेव भगवद्यागमाचरेद्दक्षिणायने ॥ १०३ ॥
View Verse
स्नपनाद्यं तु होमान्तं नाडीषोडशकान्तरे ।
अनुकल्पे तु तत् कुर्यात् पश्चात् षोडशकान्तरे ॥ १०४ ॥
View Verse
एवमाश्वयुजे मासि विषुवेऽपि समाचरेत् ।
उत्तरायणवत् कुर्यात् तत्सङ्क्रान्तिचतुष्टये ॥ १०५ ॥
View Verse
यल्लग्नहेतुकं कर्म यन्मुहूर्तनिमित्तकम् ।
तत् सशेषं समापाद्य प्रायेण विभवेन तु ॥ १०६ ॥
View Verse
तस्मिन् प्राप्ते शुभे काले शश्वच्छेषं समापयेत् ।
अर्घ्याद्यैर्देवमिष्ट्वा तु अग्नौ पूर्णाहुनिं ददेत् ॥ १०७ ॥
View Verse
नैमित्तिकं दिवोक्तं तु दिवैव तु समापयेत् ।
नैमित्तिकं निशोक्तं तु निश्येव तु समापयेत् ॥ १०८ ॥
View Verse
यस्मिन् यस्मिन्नहोरात्रे विहितं कर्म यद्द्विज ।
समापयेत् तत्तस्मिन् यत्नतोऽवश्यमेव हि ॥ १०९ ॥
View Verse
महोत्सवः सदाकालं विहितं न त्वतिक्रमेत् ।
नि शोत्सवस्य कालः स्यात्तपनस्योदयावधि ॥ ११० ॥
View Verse
कालः स्यात्तीर्थयात्रायां विंशन्नाड्चन्तरे दिवा ।
मनुष्यनिर्मिते स्थाने मुख्यकल्पे द्विजोत्तम ॥ १११ ॥
View Verse
अनुकल्पे तु तत्कालो यावदस्तमयावधि ।
स्वयं व्याक्तादिके स्थाने दिवा स्यान्मुख्यकल्पके ॥ ११२ ॥
View Verse
अनुकल्पे निशायां तु पूर्वार्धावधिको भवेत् ।
मुख्यकल्पेऽपि रात्रौ वा ह्ययनादेस्तु संभवे ॥ ११३ ॥
View Verse
मर्त्यप्रतिष्ठिते स्थाने पवित्रारोहणस्य तु ।
कालः स्यादह्नि विप्रेन्द्र नाडीविंशतिकान्तरे ॥ ११४ ॥
View Verse
स्वयं व्यक्तादिके स्थाने यावदस्तमयावधि ।
रात्रौ तु भूषणारोपं न कदाचित् समाचरेत् ॥ ११५ ॥
View Verse
चन्द्रसूर्योपरागे च तत्कालात् पूर्वमेव तु ।
चतुस्स्थानस्थितस्यापि स्थानद्वयगतस्य वा ॥ ११६ ॥
View Verse
देवस्य यजनं कृत्वा होमान्तं स्नपनादिकम् ।
औपचारिकसांस्पर्शैः प्रभूतैर्हृदयङ्गमैः ॥ ११७ ॥
View Verse
पयोघृतादिभिः सम्यक् सविशेषैर्महामते ।
ततोऽक्षसूत्रमादाय तावत् कुर्याज्जपं सुधीः ॥ ११८ ॥
View Verse
यावद्राहुविमुक्तस्य चन्द्रादेर्दर्शनं भवेत् ।
पूजाहोमजपादीनां फलानन्त्यमवाप्नुयात् ॥ ११९ ॥
View Verse
अन्यथा विफलं कर्म कर्तुर्व्याध्यादिपीडनम् ।
अतोऽप्यन्यदनित्यं यन्नैमित्तिकमुदाहृतम् ॥ १२० ॥
View Verse
पुण्यकालवशेनैव तत्राप्येवं समाचरेत् ।
काम्यानि सर्वकर्माणि तत्तत्काले समाचरेत् ॥ १२१ ॥
View Verse
अन्यथा तानि कर्माणि न सिध्यन्त्यचिरेण तु ।
स्वयंव्यक्तादिके तानि सर्वदैव समाचरेत् ॥ १२२ ॥
View Verse
प्रायश्चित्तं तु वै कुर्यात् सञ्जाते तन्निमित्तके ।
तदैव वाथ कर्मान्ते त्रिदिनाभ्यन्तरे तु वा ॥ १२३ ॥
View Verse
तद्गुरुत्वानुगुण्येन पञ्चसप्तदिनान्तरे ।
तदारम्भः समाप्तिर्वा ह्यन्यथा द्विगुणं चरेत् ॥ १२४ ॥
View Verse
प्रायश्चित्तं तु वै कुर्यात् स्वयंव्यक्तादिके स्थले ।
स्वयंव्यक्तादिके स्थानचतुष्केऽपि महामते ॥ १२५ ॥
View Verse
प्राकारगोपुरादीनामारम्भं स्थापनं तथा ।
तथा च कर्मबिम्बानां स्थापनं च विशेषतः ॥ १२६ ॥
View Verse
जीर्णोद्धारविधानं च पुनः संस्थापनं तथा ।
अङ्कुरारोपणं चैव ध्वजारोहावरोहणे ॥ १२७ ॥
View Verse
सुमुदूर्ते सुनक्षत्रे सुलग्नेऽपि समाचरेत् ।
दोषः स्यात्तदतिक्रान्तौ तच्छान्तिं च समाचरेत् ॥ १२८ ॥
View Verse
द्वादशी तु कलामात्रा त्रयोदश्यां समाचरेत् ।
कर्मावसाने शयनं प्रबोधं पुनरेव हि ॥ १२९ ॥
View Verse
पवित्रारोहणाद्येषु विविधेषु तु कर्मसु ।
मुहूर्तातिक्रमे दोषो न भवेत्तु कदाचन ॥ १३० ॥
View Verse
यत्र तु व्यापकैर्मन्त्रैरनन्यैरधिकारिभिः ।
दिव्यशास्त्रोक्तमार्गेण पूजनं क्रियते विभोः ॥ १३१ ॥
View Verse
तत्र स्यात् कालनियमो दिव्यस्थानोक्तमार्गतः ।
एतेषां द्वितयं यत्र तत्र कालस्तु सैद्धवत् ॥ १३२ ॥
View Verse
यत्र त्रयाणामेकं स्यात् तत्रार्षस्थानवद्भवेत् ।
पुरोदितेषु स्थानेषु सर्वेष्वपि यथाक्रमम् ॥ १३३ ॥
View Verse
य उक्तः कालनियमो नियताद्येषु कर्मसु ।
मुख्यानुकल्पभेदेन द्विविधस्तदतिक्रमे ॥ १३४ ॥
View Verse
तद्दोषशान्तिं वै कृत्वा तानि कुर्यादनन्तरे ।
काले यथा क्रर्महानिर्न कदाचित्तु जायते ॥ १३५ ॥
View Verse
तथा क्रमेण वै कुर्यात्तानि कर्माणि सर्वदा ।
नित्यनैमित्तिके प्राप्ते ह्येकस्मिन् समये तदा ॥ १३६ ॥
View Verse
पूर्वं नैमित्तिकं कृत्वा पश्चान्नित्यं समाचरेत् ।
नैमित्तिके ह्यनित्ये च नित्ये च युगपद्गते ॥ १३७ ॥
View Verse
प्रागनित्यं ततः पश्चान्नित्यनैमित्तिकं चरेत् ।
नैमित्तिके च काम्ये च प्राप्ते काम्यं तु पूर्वतः ॥ १३८ ॥
View Verse
एतेष्वपि च सर्वेषु प्रायश्चित्ताख्यकर्मणि ।
एककाले तु संप्राप्ते प्रायश्चित्तं तु पूर्वतः ॥ १३९ ॥
View Verse
समाप्य पश्चाद्वै कुर्यात् तानि कर्माणि सर्वदा ।
यदा नैमित्तिकाद्यं तु विभवाद्यैस्तु विस्तृतम् ॥ १४० ॥
View Verse
तदा तात्कालिकं नित्यं तत्कालात् प्राक् समाचरेत् ।
कालातिक्रमदोषस्तु तत्र न स्यात् कदाचन ॥ १४१ ॥
View Verse
देशिका बहवो यत्र बहवः परिचारकाः ।
तत्तत्कर्मोर्थबिम्बानि संभवन्ति बहूनि च ॥ १४२ ॥
View Verse
तत्र सर्वाणि कर्माणि ह्येकदैव समाचरेत् ।
कालातिक्रमदोषस्तु विद्यते तत्र पूर्ववत् ॥ १४३ ॥
View Verse
वक्ष्यन्ते देशिका ऊर्धं स्वयंव्यक्तादिषु द्विज ।
इदानीं मूर्तिभेदेषु लक्ष्यन्ते देशिकाः श्रृणु ॥ १४४ ॥
View Verse
परात्परस्वरूपस्य परस्य च विभोः सदा ।
आचार्यान् शास्त्रविहितांश्चतुरः परिकल्पयेत् ॥ १४५ ॥
View Verse
अष्टौ द्वादश वा कल्प्या व्यूहे मूर्त्यन्तरेऽपि च ।
वैभवेष्वपि मूर्तेषु देशिकेन्द्रास्तथैव हि ॥ १४६ ॥
View Verse
साधकाश्चैवमेव स्युः सदा षोडश वा द्विज ।
विभवेषु स्वतन्त्रेषु साधका द्वादशैव वा ॥ १४७ ॥
View Verse
अवतारेषु दशसु स्वतन्त्रेषु महामते ।
प्रासादे स्थापितेष्वेषु कल्प्या वाराधका दश ॥ १४८ ॥
View Verse
यथोक्ताचारसंयुक्तास्तथाप्यधिकसंख्यकाः ।
तत्रैतत् कल्पनं श्रेष्ठमन्यत्र तदन्रथकम् ॥ १४९ ॥
View Verse
न तु केवल एवैते दशकल्प्यः कदाचन ।
परात्परादिषु सदा दश संख्यां न कल्पयेत् ॥ १५० ॥
View Verse
अस्वतन्त्रेऽवतारेऽपि दशसंख्यां न कल्पयेत् ।
परिचारकसंख्यां तु वक्ष्याम्युपरि विस्तरात् ॥ १५१ ॥
View Verse
इति स्वार्थाविरोधेन परार्थाधिकृतस्य तु ।
एकायनस्य विदुषः प्रोक्ताः कालाः क्रमेण तु ॥ १५२ ॥
View Verse
तथा वै दीक्षितस्यापि सिद्धान्तरतचेतसः ।
इदानीं कर्मणि स्वार्थे तयोर्निरतयोः सदा ॥ १५३ ॥
View Verse
नित्यानां कालभेदं तु समाकर्णय साम्प्रतम् ।
अथाभिगमनाद्यास्तु पञ्चकालाः प्रकीर्तिताः ॥ १५४ ॥
View Verse
पूर्वोऽभिगमनाख्यः स्यादुपादानाभिसंज्ञितः ।
कालानां प्रविभागं तु पृष्टः पुष्करजन्मना ॥ १५५ ॥
View Verse
स्वाध्ययाख्यश्चतुर्थः स्यात् पञ्चमो योगसंज्ञितः ।
कालानां प्रविभागं तु पृष्टः पुष्करजन्मना ॥ १५६ ॥
View Verse
नारदेनापि भेदेन प्रोवाच भगवान् स्वयम् ।
स एव क्रमशो विप्र प्रोच्यतेऽत्र पृथग्द्विज ॥ १५७ ॥
View Verse
पौष्कर ।
ज्ञातुमिच्छामि भगवन् कालभेदेन वै सह ।
स्वरूपं मन्त्रसिद्धान्ताद्यागमानां यथास्थितम् ॥ १५८ ॥
View Verse
श्रीभगवानुवाच ।
कालमेकं द्विजश्रेष्ठ तद्व्यापारवशात् पुनः ।
भिन्नमाभाति कर्तॄणां भगवद्भाविनां तु वै ॥ १५९ ॥
View Verse
नाडिकाकलितं यद्वै अहोरात्रं तु संस्मृतम् ।
पञ्चधा विषमांशैस्तदाप्रभाताद्विभज्य च ॥ १६० ॥
View Verse
ब्राह्नं मुहूर्तमासाद्य मन्त्रज्ञः प्रयतः शुचिः ।
शोधयित्वा स्वकं देहमायामाद्यैर्यथोदितैः ॥ १६१ ॥
View Verse
मन्त्रविन्यस्तदेहोऽथ कुर्यान्मन्त्रार्चनं ततः ।
जपस्तोत्रावसानं च यावदादित्यदर्शनम् ॥ १६२ ॥
View Verse
कुर्याद्भोगार्चनं पश्चात् पुष्पमूलफलादिकम् ।
गते दिनाष्टमे भागे स्नानपूर्वं समाचरेत् ॥ १६३ ॥
View Verse
प्राग्वदाराधनं मान्त्रं तृतीयप्रहरावधि ।
ततश्चतुर्थे प्रहरे शास्त्राध्ययनमाचरेत् ॥ १६४ ॥
View Verse
चिन्तनं श्रवणोपेतं व्याख्यानं स्वधियेच्छया ।
अस्तं गते दिनकरे आसाद्याराधनालयम् ॥ १६५ ॥
View Verse
कुर्यान्मन्त्रार्चनं सम्यग्जपध्यानसमन्वितम् ।
आसाद्य शयनं पश्चात् स्मरेन्मन्त्रेश्वरं हृदि ॥ १६६ ॥
View Verse
क्षपयित्वा निशांशं तु उत्थाय शयनात्ततः ।
योगं युञ्जीत वै मान्तनं प्राग्वद्धृत्कमलोदरे ॥ १६७ ॥
View Verse
तल्पमासाद्य वै भूयः प्रबुद्धः कमलोद्भव ।
उत्थायं शयनं त्यकत्वा ततः पूर्वोक्तमाचरेत् ॥ १६८ ॥
View Verse
कालभेदमिमं विद्धि सप्रपञ्चं पुरोदितम् ।
नारदः ।
एको हि श्रूयते देव कालो लोके न चापरः ॥ १६९ ॥
View Verse
पञ्चकालास्त्वयोद्दिष्टाः किमेतन्मेऽत्र संशयः ।
श्रीभगवानुवाच ।
एकस्यैव हि कालस्य भेदशून्यस्य नारद ॥ १७० ॥
View Verse
आप्रभातान्निशान्तं वै पञ्चधा परिकल्पना ।
पृथक्कर्मवशात् कार्या न काला बहवः स्मृताः ॥ १७१ ॥
View Verse
नारदः ।
एककालाश्रितानां च कर्मणां लक्षणं वद ।
परिज्ञातैस्तु यैः सम्यक् कृतकृत्यो भवाम्यहम् ॥ १७२ ॥
View Verse
श्रीभगवानुवाच ।
ब्राह्नान्मुर्तादारभ्य प्रागंशं विप्र वासरे ।
जपध्यानार्चनस्तोत्रैः कर्मवाक्चित्तसंयुतैः ॥ १७३ ॥
View Verse
अभिगच्छेज्जगद्योनिं तच्चाभिगमनं स्मृतम् ।
ततः पुष्पफलादीनामुत्थायार्जनमाचरेत् ॥ १७४ ॥
View Verse
भगवद्यागनिष्पत्तिकारणं प्रहरं परम् ।
तदुपादानसंज्ञं वै कर्मकालपदाश्रितम् ॥ १७५ ॥
View Verse
ततोऽष्टाङ्गेन योगेन पूजयेत् परमेश्वरम् ।
साधकः प्रहरं विप्र इज्याकालस्तु स स्मृतः ॥ १७६ ॥
View Verse
श्रवणं चिन्तनं व्याख्या ततः पाठसमन्वितः ।
स्वाध्यायसंज्ञं तं विद्धि कालांशं मुनिसत्तम ॥ १७७ ॥
View Verse
दिनावसाने संप्राप्ते पूजां कृत्वा समब्यसेत् ।
योगं निशावसाने च विश्रमैरन्तरीकृतम् ॥ १७८ ॥
View Verse
पञ्चमो योगसंज्ञोऽसौ कालांशो ब्रह्नसिद्धिदः ।
नारदः ।
श्रुतो मयाखिलः पूर्वं भगवद्याग उत्तमः ॥ १७९ ॥
View Verse
तस्याङ्गानि विभागेन ज्ञातुमिच्छाम्यहं पुनः ।
श्रीभगवानुवाच ।
अन्तःकरणयागादि यावदात्मनिवेदनम् ॥ १८० ॥
View Verse
तदाद्यमङ्गं यागस्य नाम्नाभिगमनं महत् ।
पूजनं चार्घ्यपुष्पाद्यैर्भोगैर्यदखिलं मुने ॥ १८१ ॥
View Verse
बाह्योपचारैस्तद्विद्धि भोगसंज्ञं तु नारद ।
मध्वाज्याक्तेन दध्ना च पूजा च पशुना च या ॥ १८२ ॥
View Verse
तत् तृतीयं हि यागाङ्गं तुर्यमन्नेन पूजनम् ।
निवेदितस्य यद्दानं पूर्वोक्तविधिना मुने ॥ १८३ ॥
View Verse
सम्प्रदानं तु तन्नाम यागाङ्गं पञ्चमं स्मृतम् ।
वह्निसन्तर्पणं षष्ठं पितृयागस्तु सप्तमः ॥ १८४ ॥
View Verse
प्राणाग्निहवनं नाम्ना त्वनुयागस्तदष्टमम् ।
इत्येतत् कथितं सर्वं यत् त्वया परिचोदितम् ॥ १८५ ॥
View Verse
प्रदद्यादचिराद्यद्वै तन्निष्ठानां स्वकं पदम् ।
इति प्रोक्तं क्रमेणैव कर्मभेदेन वै सह ॥ १८६ ॥
View Verse
पञ्चकालविभागं तु द्वयोरप्यधिकारिणोः ।
तत्रायं हि विशेषः स्यात् सत्यसंकल्पयाजिनः ॥ १८७ ॥
View Verse
चातुरात्म्यैकनिष्ठस्य मूलधर्मैकचेतसः ।
आयामन्यासपूर्वं तु विघ्नजिद्यजनान्तिमम् ॥ १८८ ॥
View Verse
इहोदितं यत् तत् सर्वं वर्जनीयं प्रयत्नतः ।
आत्मनोऽभीष्टसिध्द्यर्थं सात्त्वताद्युक्तमार्गतः ॥ १८९ ॥
View Verse
पूजने दीक्षितस्यापि शिष्यस्याधिकृतेऽपि च ।
तस्यापि विहितं सर्वमायामाद्यं पुरोदितम् ॥ १९० ॥
View Verse
इति सम्यक् समाख्यातः कालभेदो मया तव ।
यज्ज्ञानात् सकलं कर्म कर्तुं युज्येत सत्तमः ॥ १९१ ॥
View Verse

Chapter 10

श्रीः ।
दशमोऽध्यायः ।
सनकः ।
पूर्वं तु भगवद्यागवेलायामुक्तमर्चनम् ।
प्रासादावयवस्थानां लोकादीनां समासतः ॥ १ ॥
View Verse
तेषां स्वरूपं नामानि स्थानान्यपि विशेषतः ।
विस्तराच्छ्रोतुयिच्छामि प्रबूहि वदतां वर ॥ २ ॥
View Verse
शाण्डिल्यः ।
अनेकभेदभिन्नेषु प्रासादेषु महामते ।
विस्तरेण समस्तेषु वृतायतपुरस्सरम् ॥ ३ ॥
View Verse
वक्ष्ये लोकाध्वतत्वानां देवतानां च संस्थितिम् ।
सन्निरोघ्य च भूलोकं पादक्षितितलेऽखिलम् ॥ ४ ॥
View Verse
एवं प्रासादपीठेषु भुवर्लोकं यथास्थितम् ।
स्मरेज्जङ्घावधिर्यावत् स्वर्लोकं तत्तदूर्ध्वगम् ॥ ५ ॥
View Verse
आरभ्य प्रस्तरोद्देशात् महच्छिखरभूमिगम् ।
जनोलोकं च तद्वेद्यां तपःसंज्ञ तदण्डकम् ॥ ६ ॥
View Verse
सत्यसंज्ञं च यल्लोकं तच्छिखायां तु संस्मरेत् ।
भावयेच्च पुरा व्याप्तिमेवं वै साप्तलौकिकीम् ॥ ७ ॥
View Verse
ततश्चाध्वमयीं व्याप्तिं भावयेत्तु यथाक्रमम् ।
कुम्भाधारोपलान्तस्थमध्वषट्कं स्मरन् यजेत् ॥ ८ ॥
View Verse
बीजभूतं तदन्तस्थामध्वव्याप्तिमनुस्मरेत् ।
बीजतश्चाङ्कुरीभूता परस्ताद्व्यक्तिमेति सा ॥ ९ ॥
View Verse
प्रासादपीठपर्यन्तं कुम्भाधारोपलात्तु वै ।
भुवनाध्वा यथावस्थो भावनीयस्तु सर्वतः ॥ १० ॥
View Verse
गर्भोच्छ्रायावधिर्यावत् पदाध्वानं विलोकयेत् ।
मन्त्राध्वा शुकनासान्तं तत्त्वाद्व्य वेदिकावधि ॥ ११ ॥
View Verse
कलाद्वा तु गलान्तं च वर्णाध्वा च तदूर्ध्वतः ।
एवं कृत्वाध्वकीं व्याप्तिं ततस्तत्वानि विन्यसेत् ॥ १२ ॥
View Verse
संयोज्य पार्थिवं तत्वं पादक्षितितले द्विज ।
तोयतत्वं न्यसेत् पीठे जङ्घायां तैजसं स्मरेत् ॥ १३ ॥
View Verse
ग्रीवोद्देशावधिर्यावद्वायुतत्वं तदूर्ध्वतः ।
आकाशं शिखरस्थं स्यात्तदुद्देशात् क्रमेण तु ॥ १४ ॥
View Verse
न्यसेच्छब्दादितन्मात्रं यावत् पादतलान्तिमम् ।
पार्श्वतो नासिके श्रोत्रे त्वक् सुधा समुदाहृता ॥ १५ ॥
View Verse
गवाक्षे चक्षुषी स्यातां जिह्वा भद्राख्यवेदिका ।
घ्राणस्तु शुकनासा स्यादास्यं द्वारमुदाहृतम् ॥ १६ ॥
View Verse
विज्ञेयाः पाणयः स्तम्भाः पादाः पादशिला घटाः ।
पायुः स्याज्जलनिर्याणमुपस्थं तु तदन्तरम् ॥ १७ ॥
View Verse
मनोऽन्तर्व्योमविज्ञेयं गर्वो ब्रह्नशिलागतः ।
बुद्धिस्तु पिण्डिका ज्ञेया प्रकृतिः स्यात्तदन्तरम् ॥ १८ ॥
View Verse
पञ्चविंशतमो ज्ञेयः प्रतिमा पुरुषः परः ।
एवं न्यस्तेषु तत्वेषु न्यस्तव्या देवताः क्रमात् ॥ १९ ॥
View Verse
घटाधारोपलस्याधस्त्वनन्तो नाम नागराट् ।
सहस्रसंख्यासंख्यातफणामण्डलमण्डितः ॥ २० ॥
View Verse
तदूर्ध्वे संस्थितं चक्रं सहस्रारोपशोभितम् ।
या शिला कलशाधारसंज्ञा तां विद्धि सर्वगा ॥ २१ ॥
View Verse
सामर्थ्यशक्तिः सामान्या निष्कला पारमेश्वरी ।
तदूर्ध्वसंस्थिताः कुम्भा नव संख्यास्तु ये द्विज ॥ २२ ॥
View Verse
तेषां विदिकस्थितानां च चतुर्णां मध्यतो न्यसेत् ।
पझासनगतां लक्ष्मीं निधिभिः परिवारिताम् ॥ २३ ॥
View Verse
चतुर्णामपि चान्येषां रत्नराट् कौस्तुभाभिधः ।
स्वमन्त्रेण स्वनाम्ना च निधिनाथैः समन्वितः ॥ २४ ॥
View Verse
भगवान् सर्वशक्त्यात्मा एकस्मिन् परिचिन्तयेत् ।
षडक्षरेण मन्त्रेण निष्कलं शब्दविग्रहम् ॥ २५ ॥
View Verse
तत्र मध्यमकुम्भस्य पिधाने मध्यतो न्यसेत् ।
शक्तिर्वै या परा देधी विश्वसन्धारणक्षमा ॥ २६ ॥
View Verse
प्रभा सर्वेश्वरी दिक्षु ज्ञानशक्तिः स्मृता च सा ।
विदिग्व्यक्तिसमूहे च स्मरेदानन्दलक्षणा ॥ २७ ॥
View Verse
क्रियाख्या याऽच्युती शक्तिः शुद्धवर्गस्य जन्मदा ।
पिधाननवके त्वस्मिन्नामद्यादीशगोचरम् ॥ २८ ॥
View Verse
स्मर्तव्याः सर्वतो व्याप्ताः क्रमेणैव महामते ।
ज्ञानभासा निवसती तथाऽनन्तबला प्रभा ॥ २९ ॥
View Verse
सर्वगा ब्रह्नवदना द्योतकी सत्यविक्रमा ।
संपूर्णा चेति कथिताः शक्तयो विश्वधारिकाः ॥ ३० ॥
View Verse
शक्त्यष्टकं तु न्यस्तव्यं तद्बहिर्दिग्विदिक्षु च ।
प्रागादीशानदिङ्निष्ठं क्रमेणैव शिलाष्टके ॥ ३१ ॥
View Verse
बलवीर्यवती नित्या अनन्ताख्या स्थिरा ध्त्रुवा ।
स्त्याख्या धृतिसंज्ञा च स्थितिर्नाम्ना द्विजाष्टमी ॥ ३२ ॥
View Verse
शिलानामन्तरे भूमौ षट्कं क्रमेण तु ।
न्यस्तव्यं पूर्ववर्णाच्च वर्णानां सावसानकम् ॥ ३३ ॥
View Verse
क्षार्णेन चिन्तयेद्व्याप्तिं तद्वहिश्चाङ्गुलीयकम् ।
ततो मसूरकाधारे धर्माद्यं यद्द्विरष्टकम् ॥ ३४ ॥
View Verse
तदूर्ध्वं कोणदेशेषु यदा पझचतुष्टयम् ।
कल्पितं तु तदा विप्र कमलोपरि संस्थिताः ॥ ३५ ॥
View Verse
मूर्तयो वासुदेवाद्याः पावकादीशपश्चिमम् ।
अथोपानतलोद्देशे चक्रं कालानलप्रभम् ॥ ३६ ॥
View Verse
अधिष्ठानप्रदेशे तु पझं धामत्रयाश्रितम् ।
सर्वाभिः शक्तिभिर्युक्तस्तन्मद्ये चिन्मयः पुमान् ॥ ३७ ॥
View Verse
पीठस्य दिक्चतुष्के तु पूर्वाद्युत्तरपश्चिमम् ।
अनन्तविहगाम्भोजचक्राक्याः क्रमशः स्थिताः ॥ ३८ ॥
View Verse
ततश्चरणपझे तु प्रागादौ दिक्चतुष्टये ।
वासुदेवादयः स्थाप्याः पुरुषाद्यास्तु वा क्रमात् ॥ ३९ ॥
View Verse
सर्वाधारमयं चक्रं शाखामूलं समाश्रितम् ।
ज्ञानक्रियात्मके तत्वे शाखयोर्युगले स्थिते ॥ ४० ॥
View Verse
परभेश्वर आद्यस्तु द्वारस्योर्ध्व उदुम्बरे ।
संस्थितः सर्वतो व्यापी तत्पृष्टे मध्यदेशतः ॥ ४१ ॥
View Verse
चतुष्पात् सकलो धर्मः स्थितः सत्ववतां वरः ।
यदा कवाटौ द्वारस्य कल्पितौ द्विजसत्तम ॥ ४२ ॥
View Verse
कालबैश्वानरो देवो ह्यपां पतिरुभाविमौ ।
दक्षिणोत्तरयोगेन कवाटपरिसंस्थितौ ॥ ४३ ॥
View Verse
कल्पितौ शुकनासौ वा यदा साङ्गौ महामते ।
इच्छाप्राणौ तयोः स्थाप्यावग्नीषोमौ गवाक्षयोः ॥ ४४ ॥
View Verse
ततो जङ्घाद्विषट्के तु तथैवान्तरभूमिषु ।
कालो वियन्नियन्ता च शास्त्रं नानाह्गलक्षणम् ॥ ४५ ॥
View Verse
विद्याधिपतयश्चैव सरुद्रः सगणः शिवः ।
प्रजापतिसमूहस्तु इन्द्रः सपरिवारकः ॥ ४६ ॥
View Verse
मुनयः सप्तपूर्वेऽन्ये ग्रहास्तारादिकैर्वृताः ।
जीमूताश्चाखिला नागा अप्सरोण उत्तमः ॥ ४७ ॥
View Verse
ओषध्यश्चैव पशवो यज्ञाः साङ्गाखिलास्तु ये ।
विद्याश्चैवापरा विद्या पावकश्चैवमारुतः ॥ ४८ ॥
View Verse
चन्द्रार्कौ वारिवसुधे इत्येते देवतागणाः ।
चतुर्विंशतिसंख्याता घ्यातव्यास्तु यथाक्रमम् ॥ ४९ ॥
View Verse
मूर्तयः केशवाद्यास्तु जङ्घाग्रपरिसंस्थिताः ।
पार्श्वयोः शुकनासाया भित्तिमूलसमाश्रितम् ॥ ५० ॥
View Verse
गणेशं योगनिद्रां च न्यसेद्वा दक्षिणादितः ।
तदूर्ध्वं प्रस्तरोद्देशकपोततलसंस्थितम् ॥ ५१ ॥
View Verse
नासिकानवकं यच्च यास्तदन्तरभूमयः ।
तस्मिंस्तासु च सर्वासु ह्येते स्थाप्याः क्रमेण तु ॥ ५२ ॥
View Verse
चक्रशह्खौ गदापझे लाङ्गलं मुसलं शराः ।
शार्ङ्गं च खङ्गखेटौ तु दण्डः परशुरीतिहा ॥ ५३ ॥
View Verse
पाशाङ्कुशौ मुद्गरं च वज्रं शक्तिसमन्वितम् ।
प्रासादे चतुरश्रे च चतुरश्रायतेऽपि च ॥ ५४ ॥
View Verse
गरुडं प्रस्तरस्योर्ध्वे न्यसेत् कोणचतुष्टये ।
तदूर्ध्वं वेदिकायां तु भावनीया महामते ॥ ५५ ॥
View Verse
एते पूर्वादियोगेन एकश्रृङ्गतनुस्ततः ।
देवो वामनदेहस्तु सर्वव्यापी त्रिविक्रमः ॥ ५६ ॥
View Verse
नरो नारायणश्चैव हरिः कृष्णस्तथैव च ।
ज्वलत्परशुधृग्रामो रामश्चान्यो धनुर्धरः ॥ ५७ ॥
View Verse
वेदविद्भगवान् कल्की पातालशयनः प्रबुः ।
ततो ग्रीवातले घ्येयः कूर्मः पातालधारकः ॥ ५८ ॥
View Verse
वराहो नारसिंहश्चाप्यमृताहरणस्तु वै ।
श्रीपतिर्दिव्यदेहोऽथ कान्तात्माऽमृतधारकः ॥ ५९ ॥
View Verse
राहुजित् कालनेमिघ्नः पारिजातहरो महान् ।
लोकनाथस्तु शान्तात्मा दत्तात्रेयो महाप्रभुः ॥ ६० ॥
View Verse
न्यग्रोधशायी भगवानित्येते द्विजसत्तम ।
ततस्तु शिखरोद्देशं त्रिधाकृत्य यथासमम् ॥ ६१ ॥
View Verse
यावत्तु कलशाधारवेदिका द्विजसत्तम ।
अधोभागे क्रमाद्घ्येयाः शिष्टा देवास्तु वैभवाः ॥ ६२ ॥
View Verse
अनन्तो भगवान् देवः शक्त्यात्मा मधुसूदनः ।
विद्याधिदेवः कपिलो विश्वरूपो विहङगमः ॥ ६३ ॥
View Verse
क्रोडात्मा बडबावक्त्रो धर्मो वागीश्वरस्तथा ।
देव एकार्णवशय इति ये द्वादश स्मृताः ॥ ६४ ॥
View Verse
ध्रुवस्तु सर्वतो व्यापी तदूर्ध्वपदसंस्थितः ।
पझनाभस्तदूर्ध्वे तु व्यापकः परितिष्ठति ॥ ६५ ॥
View Verse
शुकनासामुखे देवः पूजनीयः परः पुमान् ।
भगवान् जगदाधारो जगदीशः सनातनः ॥ ६६ ॥
View Verse
वासुदेवः परं ब्रह्न जगत्कारणमच्युतः ।
लोकानध्वगणं नित्यं तत्वाद्यमपि देवताः ॥ ६७ ॥
View Verse
प्रासादोपरि विन्यस्ताः समाक्रम्य च संस्थिताः ।
यत्र प्रासाददेहे तु शुकनासा न कल्पिता ॥ ६८ ॥
View Verse
तत्राग्रतो नासिकायां वासुदेवं तु संस्मरेत् ।
नासिकात्रितये शिष्टे अच्युताद्यास्त्रयः स्थिताः ॥ ६९ ॥
View Verse
अथवा पुरुषाद्यास्तु नराद्या वा द्विजोत्तम ।
वराहाद्यास्तु वा यद्वा धर्ममूर्त्यादयः क्रमात् ॥ ७० ॥
View Verse
यद्वा परशुरामाद्याः स्मर्तव्याः क्रमयोगतः ।
एते तु शक्तिभिः सर्वे युक्ता वा केवलास्तु वा ॥ ७१ ॥
View Verse
द्रुमैः पत्रलतायुक्तैर्भूषिते वेदिकातले ।
विन्यसेत् षडरं चक्रं तेजोज्वालासहस्रधृक् ॥ ७२ ॥
View Verse
ततः सामलसारेषु वासुदेवादिकान् स्मरेत् ।
तदग्रदेशे चक्राणि घ्यातव्यानि यथाक्रमम् ॥ ७३ ॥
View Verse
अमलं शान्तसंज्ञं तु तथा शान्तोदितोदितम् ।
नराद्यं कृष्णपर्यन्तं शुकनासाघटे तु वै ॥ ७४ ॥
View Verse
अन्तर्मण्डलकोणेषु वन्ह्यादीशानपश्चिमम् ।
वराहरूपी भगवान् शेषमूर्तिधरः प्रभुः ॥ ७५ ॥
View Verse
नृसिंहरूपी पुरुषस्तथा नारायणो विभुः ।
प्रासादाङ्गेषु विप्रेन्द्र क्रमान्निगदितेषु च ॥ ७६ ॥
View Verse
देवताधारभूतेषु यद्यदङ्गं न कल्पितम् ।
यत्र वा तत्तदधिकं यत्रापि च समाचरेत् ॥ ७७ ॥
View Verse
तत्तत्स्थाने स्वबुध्द्या तु देवतान्यासमूहतः ।
यद्वा ह्यनवक्लप्ताङ्गे देवतेष्टिं तु वर्जयेत् ॥ ७८ ॥
View Verse
लोकाः सप्त तथाद्वानस्तत्वसङ्घाश्च देवताः ।
ध्यातव्यास्तु निराकाराः साधकैर्द्विजसत्तम ॥ ७९ ॥
View Verse
विमानेऽपि तथा सिद्धविबुधैश्च प्रतिष्ठिते ।
किन्तु तत्र विप्रानाङ्गमूर्तिनां लाञ्छनादिकम् ॥ ८० ॥
View Verse
तासां स्थानानि विप्रेन्द्र कल्पितानि यथाविधि ।
विमानावयवांश्चापि संपरीक्ष्यैव यत्नतः ॥ ८१ ॥
View Verse
पूजयेत् सावधानेन चेतसा ध्यानपूर्वकम् ।
लाञ्छनाद्येषु मूर्तीनां प्रासादावयवेष्वपि ॥ ८२ ॥
View Verse
अनभिव्यक्तरूपेषु लक्षणादेः परीक्षणात् ।
स्वप्नादेश्चापि विप्रेन्द्र देशिकेन्द्रोपदेशतः ॥ ८३ ॥
View Verse
यथावत् संपरीक्षेत् प्रयत्नेन द्विजोत्तम ।
लक्षणादिषु हीनेषु विपर्यस्तेष्वपि द्विज ॥ ८४ ॥
View Verse
न लक्षणादिकं कुर्यादन्यथा द्विजसत्तम ।
लक्षणं न परीक्षेत् ह्यन्यथाकरणेञ्छया ॥ ८५ ॥
View Verse
अन्यथाकरणार्थं तु लक्षणाद्ये परीक्षिते ।
क्षयत्यायुः कृते तस्मिन् लक्षणैर्नरकं व्रजेत् ॥ ८६ ॥
View Verse
तस्मात् सर्वप्रयत्नेन स्वयंव्यक्तादिकेऽपि च ।
विमाने संस्थितानां तु मूर्तीनां लक्षणादिकम् ॥ ८७ ॥
View Verse
स्थानान्यपि च तासां वै विमानावयवानपि ।
यथास्थितं परीक्ष्यैव कृत्वा मूर्तिविनिर्णयम् ॥ ८८ ॥
View Verse
स्वेन स्वेन विशेषेण लाञ्छनाद्येन वै स्फुटम् ।
स्वेन स्वेन तु मन्त्रेण पूजनं च समाचरेत् ॥ ८९ ॥
View Verse
प्रासादेषु स्वयंव्यक्तं श्रेष्ठं सर्वेषु सत्तम ।
तद्रूपी भगवान् देवः स्वग्रमेवावतिष्ठते ॥ ९० ॥
View Verse
तत्र सन्निहितः साक्षाद्भगवान् भक्तवत्सलः ।
जाते जीर्णादिदोषेऽपि न त्यजन्ति कदाचन ॥ ९१ ॥
View Verse
स्वं स्वं प्रदेशमेतास्तु मन्त्राणां शक्तयः पराः ।
प्रासादान्तः स्थिताश्चापि स्वयंव्यक्तपुरस्सराः ॥ ९२ ॥
View Verse
आकारास्तु विभोः सम्यग्ज्ञेयाः पूर्वोक्तयोगतः ।
नास्त्रैर्मन्त्रैर्ध्वजैर्येषां व्यक्तिर्व्यक्ता जगत्त्रये ॥ ९३ ॥
View Verse
तेऽपि लाञ्छनबृन्दं तु धारयन्त्यङ्घ्रिगोचरे ।
लालाटे चांसपट्टे तु पृष्ठे पाणितलद्वये ॥ ९४ ॥
View Verse
तनूरुहचये मूर्ध्नि कर्मिणां प्रतिपत्तये ।
तत्तल्लाञ्छनबृन्दं तु परीक्ष्यैवं विशेषतः ॥ ९५ ॥
View Verse
तत्तदाकारनियतैर्वाचकैः संप्रपूजयेत् ।
येषां लाञ्छनबृन्दं तु न व्यक्तं चरणादिषु ॥ ९६ ॥
View Verse
तानर्चयेद् द्विषट्कार्णपुरोगाणां महामते ।
व्यापकानां तु मन्त्राणामेकेनाबिमतेन तु ॥ ९७ ॥
View Verse
इति ज्ञात्वा यथावच्च यः पूजयति मन्त्रवित् ।
स पूजाफलमाप्नोति ह्यन्यथा विपरीतभाक् ॥ ९८ ॥
View Verse
एतान्युक्तानि सर्वाणि लोकादीनि क्रमेण तु ।
समाराधनकालेषु देवस्यामिततेजसः ॥ ९९ ॥
View Verse
द्वार्स्थदेवार्चनं कृत्वा पूजयेत्तदनन्तरम् ।
नमस्कारपदान्तेन स्वानाम्ना प्रणवादिना ॥ १०० ॥
View Verse
अर्घ्यालभनमाल्यैश्च धूपेन द्विजसत्तम ।
अग्रतो देवदेवस्य द्वारदेशस्य बाह्यतः ॥ १०१ ॥
View Verse
अन्तर्मण्डलदेशे तु गत्वा वा पूजयेत् क्रमात् ।
एवं प्रासादभेदे तु यस्मिन् साधकसत्तमैः ॥ १०२ ॥
View Verse
एककालं द्विकालं वा त्रिकालं वार्चनं द्विज ।
नित्यशः क्रियते तत्र सदा संन्निहितो विभुः ॥ १०३ ॥
View Verse
अत एव द्विजश्रेष्ठ तदर्चनपुरस्सरम् ।
कुर्यादाराधन विष्णोः साधकः सिद्धिलालसः ॥ १०४ ॥
View Verse
य एवं कुरुते भक्त्या ह्ननन्यपरया सदा ।
सोऽचिराल्लभते कामानिह लोके परत्र च ॥ १०५ ॥
View Verse
मोक्षार्थी कुरुते यस्तु स याति परमं पदम् ।
सनकः ।
प्रासादानां स्वयंव्यक्तपूर्वाणां तु विशेषतः ॥ १०६ ॥
View Verse
प्रासादं तु स्वयंव्यक्तमत्यर्थं त्वं प्रशंससि ।
कीदृशं तत्स्वरूपं स्यादन्येषां वापि कीदृशम् ॥ १०७ ॥
View Verse
कीदृशी च महत्तास्य ज्ञातुमिच्छामि सांप्रतम् ।
शाण्डिल्यः ।
यदिदं दृश्यते विष्णोर्मायया निर्मितं जगत् ॥ १०८ ॥
View Verse
कालादिबहुभिर्भेदैर्भिन्नं नानास्वरूपकैः ।
तदीये प्रभवो ह्यह्नि प्रलयश्च निशागमे ॥ १०९ ॥
View Verse
दिव्यं युगसहस्रं हि तदीयं विद्धि वासरम् ।
रात्रिश्च तावती ज्ञेया एवं रात्रिक्षये सति ॥ ११० ॥
View Verse
प्रवर्तमाने त्वहनि काले सन्ध्याख्यलक्षणे ।
स्वकारणमनुज्झित्य कार्यार्थं मुनिपुङ्गव ॥ १११ ॥
View Verse
ज्ञानयोगप्रभावेन अमेयमहिमावृतम् ।
प्रेरितं नाभिरन्ध्रेण तेन हार्दं कुशेशयम् ॥ ११२ ॥
View Verse
विज्ञप्तिमात्ररूपं तु स्वस्यान्तःकरणे स्थितम् ।
सहस्रार्कप्रतीकाशं सहस्रशशिकेसरम् ॥ ११३ ॥
View Verse
सहस्रवह्निगर्भं च हेमनालं महाप्रभम् ।
तन्मध्ये मानसो ब्रह्या तेन सृष्टश्चतुर्मुखः ॥ ११४ ॥
View Verse
जगद्विभवकृद्विप्र विद्यादेहः सनातनः ।
सर्वसंस्कारसंपूर्णो वेदवेदाङ्गपारगः ॥ ११५ ॥
View Verse
अणिमाद्यष्टकोपेतः सिसृक्षाशक्तिभिर्युतः ।
न तस्य विदितश्चासौ यदा यातः सगर्वताम् ॥ ११६ ॥
View Verse
अस्मीति प्रत्ययं लब्ध्वा रजसा कलुषीकृतः ।
तस्मिंश्चान्तर्हिते तस्य पौष्करस्य मतिस्तदा ॥ ११७ ॥
View Verse
विपर्यस्ता ततः सृष्टौ प्रवृत्तिर्नाभवदद्विज ।
कार्याकार्यविशेषज्ञो नाभूदुद्विग्नचेतनः ॥ ११८ ॥
View Verse
ततः प्रसन्नचेतास्तु तपस्तेपे सुदुश्चरम् ।
अचिरात् पुण्डरीकाक्षं द्रष्टुकामः प्रजापतिः ॥ ११९ ॥
View Verse
ततस्तु तप्यमानस्य ब्रह्नणो द्विजसत्तम ।
हरेः स्तोत्रार्थमुद्भूता बुद्धिर्बुद्धिमतांवर ॥ १२० ॥
View Verse
ततो जगौ परं जप्यं साञ्जलिप्रग्रहो विभुः ।
ब्रह्ना ।
नमस्ते ब्रह्नहृदय नमस्ते ब्रह्नपूर्वज ॥ १२१ ॥
View Verse
योगार्धनयनश्रेष्ठ सांख्ययोगनिधे विभो ।
व्यक्ताव्यक्तकराचिन्त्य क्षेमं पन्थानमास्थित ॥ १२२ ॥
View Verse
विश्वभुक् सर्वभूतानामन्तरात्मन्नयोनिज ।
अहं प्रसादजस्तुभ्यं लोकधाम्ने स्वयम्भुवे ॥ १२३ ॥
View Verse
त्वत्तो मे मानसं जन्म प्रथमं द्विजपूजितम् ।
चाक्षुषं यद्द्वितीयं मे जन्मेहासीत् पुरातनम् ॥ १२४ ॥
View Verse
त्वत्प्रसादाच्च मे जन्म तृतीयं वाचिकं महत् ।
तत्वतः श्रावणं चापि चतुर्थं जन्म मे विभो ॥ १२५ ॥
View Verse
नासिक्यं वापि मे जन्म त्वत्तः पञ्चममुच्यते ।
अण्डजं चापि मेजन्म त्वत्तः षष्ठं विनिर्मितम् ॥ १२६ ॥
View Verse
इदं च सप्तमं जन्म पझजं त्वमितप्रभ ।
सर्गे सर्गे ह्यहं पुत्रस्तृतीयगुणवर्जित ॥ १२७ ॥
View Verse
प्रथमः पुण्डरीकाक्षः प्रधानगुणकल्पितः ।
त्वमीश्वर प्रभावश्च भूतानां च प्रभावनः ॥ १२८ ॥
View Verse
त्वं पञ्चकालकर्तॄणां गतिस्त्वं पाञ्चरात्रिक ।
त्वया हि निर्मितोऽहं वै वेदचक्षुर्वचोऽतिग ॥ १२९ ॥
View Verse
स्रष्टुं जगदिदं सर्वं चेतनाचेतनात्मककम् ।
का शक्तिर्मम देवेश जगत् स्रष्टं जगत्प्रभो ॥ १३० ॥
View Verse
एवं स्तुतः स भगवान् पुरुषः सर्वतोमुखः ।
स्वरूपं दर्शयामास तस्मै दिव्यमनुत्तमम् ॥ १३१ ॥
View Verse
तं दृष्ट्वा महता युक्तो हर्षेण कमलासनः ।
आनन्दाश्रुसमाविष्टः प्रणम्य प्राञ्जलिः स्थितः ॥ १३२ ॥
View Verse
ततस्तु पुण्डरीकाक्षस्तमुवाच जगत्पतिः ।
सृज प्रजाः पुत्र सर्वा मुखतः पादतस्तथा ॥ १३३ ॥
View Verse
क्षेयस्तव विधास्यामि बलं तेजश्च सुव्रत ।
वेदं च मत्तो गृह्णीष्व सात्वतं नाम नामतः ॥ १३४ ॥
View Verse
तेन सर्वं कृतयुगं स्थापयस्व यथाविधि ।
प्रजानामपि सर्वासां संवृत्ते सर्गकर्मणि ॥ १३५ ॥
View Verse
दिव्यस्य महतो धाम्नः साक्षाद्व्यक्तस्य चान्तरे ।
स्वयंव्यक्तेन दिव्येन ह्याकारेणामलेन च ॥ १३६ ॥
View Verse
अनन्तभोगिशयने शयानः पङ्कजेक्षणः ।
प्रकाशयिष्यति पुरो वासुदेवः परात्परः ॥ १३७ ॥
View Verse
तमाराधय देवेशं विमानाभ्यन्तरस्थितम् ।
सर्वेषामपि लोकानां सृष्टिस्थित्यन्तकारणम् ॥ १३८ ॥
View Verse
वासुदेवं तुपरमं पुमांसं भक्तवत्सलम् ।
द्वादशाक्षरमन्त्रेण भोगैः सांस्पर्शिकादिकैः ॥ १३९ ॥
View Verse
हृदयङ्गमसंज्ञैश्च विविधैरोपचारिकैः ।
स्वाधिकारप्रवृत्यर्थं लोकानां हितकाम्यया ॥ १४० ॥
View Verse
महोपनिषदाख्येन शास्त्रेणोक्तप्रकारतः ।
यत्पौष्कराक्यया लोके प्रथिमानं प्रयास्यति ॥ १४१ ॥
View Verse
पौष्करस्य तवोक्तत्वात् प्रथित तु तथा भवेत् ।
महाविभूतिरिति च तद्वक्ष्याम्यपरे युगे ॥ १४२ ॥
View Verse
अस्मिन्नादौ कृतयुगे समतीते तु मानुषे ।
ततो ब्रह्ना नमस्चक्रे देवाय हरिमेधसे ॥ १४३ ॥
View Verse
व्रह्ना चाग्र्यं स जग्राह सनिषत्संहितान्वितम् ।
कर्मारम्भादिभिर्मन्त्रैर्द्विषट्कार्णसमन्वितैः ॥ १४४ ॥
View Verse
दिव्यैः समन्वितं विप्र द्वादशाध्यात्मसंयुत्म् ।
अनिच्छातोऽधिकारीणां तत्प्राप्त्येकफलप्रदम् ॥ १४५ ॥
View Verse
चातुरात्म्यैकनिष्ठं च वासुदेवमुख्रोद्गतम् ।
एवं स भगवान् देव आद्यं वेदं सनातनम् ॥ १४६ ॥
View Verse
उपदिश्य ततो विप्र ब्रह्नणेऽमिततेजसे ।
दत्वा श्रेयो बलं तेजः सृष्टिकर्मप्रवर्तकम् ॥ १४७ ॥
View Verse
जगाम तमसःपारं यत्राव्यक्तं व्यवस्थितम् ।
ततोऽथ वरदो देवो ब्रह्ना लोकपितामहः ॥ १४८ ॥
View Verse
असृजत् स तदा लोकान् कृत्स्नान् स्थावरजङ्गमान् ।
एवं सृष्ट्वा जगत् सर्वं भूयश्च कमलासनः ॥ १४९ ॥
View Verse
कदा द्रक्ष्याम्यहं देवं लोकानां हितकारिणम् ।
वा सुदेवं विमानान्तःशयानं पीतवाससम् ॥ १५० ॥
View Verse
इति चिन्तासमाविष्टस्तपस्तेपे सुदुश्चरम् ।
प्रादुरासीत् ततो दिव्यं विमानं परमाद्भुतम् ॥ १५१ ॥
View Verse
प्रकाशयद्दिशः सर्वाः प्रकाशेनामलेन च ।
उपानजगतीयुक्तं पीठाङ्घ्रिप्रस्तरादिकैः ॥ १५२ ॥
View Verse
ग्रीवाशिखरतत्संस्थवेदीघटशिखान्तिमैः ।
दिव्यैरवयवैर्युक्तं दिव्यालङ्कारशोभितम् ॥ १५३ ॥
View Verse
वृत्तायतं तु परितः शुकनासापरिष्कृतम् ।
तं दृष्ट्वा महदार्श्चयमानन्दाश्रुपरिप्लुतः ॥ १५४ ॥
View Verse
पुलकाचितसर्वाङ्गः प्रीतिविस्फारितेक्षणः ।
ससम्भ्रमं समुत्थाय प्रणम्य प्राञ्जलिः स्थितः ॥ १५५ ॥
View Verse
पीठाद्येषु शिखान्तेषु विमानावयवेषु च ।
भूराद्यं सत्यपर्यन्तं लोकानां सप्तकं क्रमात् ॥ १५६ ॥
View Verse
अध्वनां भुवनाध्वादिषट्कं वर्णाध्वपश्चिमम् ।
धरादिपुरुषान्तं च तत्वबृन्दं द्विजोत्तम ॥ १५७ ॥
View Verse
सत्तास्वरूपमास्थाय संस्थितं सन्ददर्श ह ।
ततस्तु देवताबृन्दं क्रमेण समलोकयत् ॥ १५८ ॥
View Verse
पीठस्याधारभागे तु ह्यनन्तो नाम नागराट् ।
चक्रं सामर्थ्यशक्त्यादिशक्तिसङ्घं तथैव च ॥ १५९ ॥
View Verse
ज्ञानभासादिकानां तु शक्तीनामष्टकं तथा ।
बलवीर्यवती पूर्वमष्टकं स्थितिपश्चिमम् ॥ १६० ॥
View Verse
अकारादि क्षकारान्त वर्णचक्रं द्विजोत्तम ।
ततः पीठप्रदेशाच्च धर्माद्यं च द्विरष्टकम् ॥ १६१ ॥
View Verse
चक्रं कालानलज्योतिः पझं धामत्रयाश्रितम् ।
चिन्मयः पुरुषो मध्ये सर्वाभिः शक्तिभिर्युतः ॥ १६२ ॥
View Verse
दिक्चतुष्के ह्यनन्ताद्यं ततश्चरणवर्गके ।
वासुदेवादिकं दिक्षु शाखामूले सुदर्शनम् ॥ १६३ ॥
View Verse
ज्ञानक्रियात्मके तत्वे शाखयोः परमेश्वरम् ।
आद्यं तूदुम्बरे ह्यूर्ध्वे तत्पृष्ठे धर्म एव च ॥ १६४ ॥
View Verse
कवाटयोस्तु कालाग्निं वरुणं तु ततो द्विज ।
स्तम्भयोः शुकनासाया इच्छाप्राणौ गवाक्षयोः ॥ १६५ ॥
View Verse
अग्नीषोमौ ततो जङ्घा द्विषट्केऽन्तरभूमिषु ।
कालादिवसुधान्तं च जङ्घाग्रे केशवादिकम् ॥ १६६ ॥
View Verse
नासिकानां तु नवके कपोतस्थेऽन्तरेऽपि च ।
चक्राद्यायुधसंघातं सत्तारूपेण संस्थितम् ॥ १६७ ॥
View Verse
शुकनासामुखे देवं वासुदेवं जगत्पतिम् ।
नासिकात्रितये शिष्टे ह्यच्युताद्यं क्रमात् स्थितम् ॥ १६८ ॥
View Verse
सशक्तिकं तु पत्राद्यैर्भूषिते वेदिकातले ।
सुदर्शनं तु षडरं घटानां तु चतुष्टये ॥ १६९ ॥
View Verse
वासुदेवादिकान् विप्र रथाङ्गानां तदग्रतः ।
अमलाद्यं चतुष्कं तु क्रमेणोदितपश्चिमम् ॥ १७० ॥
View Verse
अध्यक्षाद्यादिमूर्त्यन्तं शुकनासाघटेषु वै ।
सर्वलोकमयं विप्र सकलाध्वमयं तथा ॥ १७१ ॥
View Verse
सर्वतत्वमयं चैव सर्वदेवमयं तथा ।
इति क्रमेण सन्दृश्य विमानं हृष्टचेतनः ॥ १७२ ॥
View Verse
ततः प्रदक्षिणीकृत्य चतुर्धा प्रणिपत्य च ।
सर्वाङ्गैर्दण्डबद्भूमौ भक्त्या तु पुरुषोत्तमम् ॥ १७३ ॥
View Verse
ततः कृतार्थमात्मानं मन्यमानः प्रविश्य च ।
अभ्यन्तरं विमानस्य गर्भभूमौ तु मध्यतः ॥ १७४ ॥
View Verse
आत्मप्रमाणरचिते मृदुस्पर्शे मनोहरे ।
शुद्धस्फटिकसंकाशे दीप्यमानेऽतिभास्वरे ॥ १७५ ॥
View Verse
फणामण्डलमध्यस्थैर्मणिभिर्दीपिते तथा ।
अनन्तभोगशयने शयानं पीतवाससम् ॥ १७६ ॥
View Verse
निष्केवलेन सत्वेन संपन्नं रुचिरप्रभम् ।
वपुषा सुन्दरेणैव दिव्येनाविकृतेन च ॥ १७७ ॥
View Verse
मुञ्चन्तमनिशं देहादालोकं ज्ञानलक्षणम् ।
प्रयत्नेन विनाऽज्ञाननाशकृद्ध्यायिनां महत् ॥ १७८ ॥
View Verse
स्रग्वस्त्राभरणैर्युक्तं स्वानुरूपैरनूपमैः ।
चिन्मयैः स्वप्रकाशैश्च अन्योन्यरुचिरञ्जितैः ॥ १७९ ॥
View Verse
दन्तज्योत्स्नावितानैस्तु प्रकटीकृतदिङ्मुखम् ।
रेखोत्थितैश्च कल्हारैः पादपझतलेऽङ्कितम् ॥ १८० ॥
View Verse
निमग्नजनसन्तापशमनव्यापृताननम् ।
करुणापूर्णहृदयं जगदुद्धरणोद्यतम् ॥ १८१ ॥
View Verse
स्वदेहतेजःसंभूतज्वालामण्डलमध्यगम् ।
घनकुञ्चितनीलालि गलिताञ्जनसन्निभैः ॥ १८२ ॥
View Verse
कर्पूरधूसरैर्दिव्यैः पुष्पसंवलितान्तरैः ।
किरीटमकुटाक्रान्तैः शोभितं सुशिरोरुहैः ॥ १८३ ॥
View Verse
ईषदारक्तगोक्षीरशुद्धनीलाब्जलोचनम् ।
शीतलैर्दृष्टिपातैस्तु जगदाप्यायकारणम् ॥ १८४ ॥
View Verse
सुभ्रूललाटं सुनसं सुस्मिताधरविद्रुमम् ।
सौन्दर्यचन्द्रसंकाशविलसद्गण्डमण्डलम् ॥ १८५ ॥
View Verse
पूर्वकर्मानलार्तानां ध्यायिनां खेदशान्तये ।
स्वदन्तेन्दुचयोत्थेन ह्लादयन् गोगणेन तु ॥ १८६ ॥
View Verse
मुखसौन्दर्यनिष्यन्दचिबुकस्थलशोभितम् ।
सविलासस्मिताधारं बिब्राणं मुखपङ्कजम् ॥ १८७ ॥
View Verse
कम्बुग्रीवं महाबाहुं श्रीवत्साङ्कितवक्षसम् ।
सिंहस्कन्धं विशालाक्षं दीर्घबाहुं महोरसम् ॥ १८८ ॥
View Verse
शङ्खचक्राङ्कितारक्तकरद्वयविभूषितम् ।
दक्षिणं भोगिभोगाभमुपधाय महाभुजम् ॥ १८९ ॥
View Verse
प्रसारितोतरकरं कटिदेशस्य पार्श्वतः ।
कौस्तुभेनाङ्कितोरस्कं लक्ष्मीभूषितवक्षसम् ॥ १९० ॥
View Verse
आब्रह्नस्तम्बपर्यन्तजगद्वासतनूदरम् ।
ईषत्कुञ्चितवामाङ्घ्रिपङ्कजं पङ्कजेक्षणम् ॥ १९१ ॥
View Verse
प्रसार्य दक्षिणं पादमीषदुत्तानशायिनम् ।
अनेकरत्नखचितकिरीटमकुटोज्ज्वलम् ॥ १९२ ॥
View Verse
उद्यदादित्यसंकाशैर्विचित्रैर्मणिसंचयैः ।
विराजमानया सम्यक् स्फुरच्चूलिकयोज्ज्वलम् ॥ १९३ ॥
View Verse
रत्नावतंसप्रभया दीप्तश्रवणशेखरम् ।
ललाटान्तसमालम्बि बालालङ्कारभूषितम् ॥ १९४ ॥
View Verse
ललाटतिलकेनैव सुन्दरेण विराजितम् ।
अनेकरविसङ्काशलसन्मकरकुण्डलम् ॥ १९५ ॥
View Verse
प्रभूतमणिमुक्ताढ्चग्रैवेयकविराजितम् ।
वज्रवैडूर्यमाणिक्यपझरागादिशोभितैः ॥ १९६ ॥
View Verse
हारैरनेकैर्विविधैरुपशोभितवक्षसम् ।
उद्यदादित्यसंकाशकौस्तुभेन विराजितम् ॥ १९७ ॥
View Verse
भ्राजयन्त्या जगत् सर्वं स्वतेजोभिर्निरन्तरम् ।
मालया वैजयन्त्या च भ्राजमानमहोरसम् ॥ १९८ ॥
View Verse
नानारत्नविचित्नेण मुक्तादामविलम्बिना ।
स्फुरता ब्रह्नसूत्रेण काञ्चनेन सुशोभितम् ॥ १९९ ॥
View Verse
द्युतिमद्भिर्महारत्नै राचितेन सुवर्चसा ।
काञ्चनेनाथसूत्रेण उदरे कृतबन्धनम् ॥ २०० ॥
View Verse
नानामाणिक्यविलसत्कटिसूत्रेण शोभितम् ।
अनेकरत्नसन्दर्भरशनादाममण्डितम् ॥ २०१ ॥
View Verse
अनेककोटिमार्ताण्डविलसत्पीतवाससम् ।
अनेकरत्नसंभिन्ननू पुरादि विभूषितम् ॥ २०२ ॥
View Verse
एवमन्यैश्च विविधैः केयूरकटकादिकैः ।
यथार्हैर्भूषणै रम्यैर्ज्वलद्भिः परिभूषितम् ॥ २०३ ॥
View Verse
प्रावृड्जलदसंकाशं भिन्नाञ्जनचयप्रभम् ।
अभिन्नपूर्णषाड्गुण्यविभवेनोपबृंहितम् ॥ २०४ ॥
View Verse
योगिध्येयमजं नित्यं जगञ्जन्मादिकारणम् ।
अनादिनिधनं देवं साक्षाल्लक्ष्मीपतिं प्रभुम् ॥ २०५ ॥
View Verse
अप्राकृततनुं शान्तं वासुदेवं परात् परम् ।
जनलोकगतैःसिद्धैः सनकाद्यैरभिष्टुतम् ॥ २०६ ॥
View Verse
नेत्राभ्यामनिमेषाभ्यां तृषिताभ्यां पिबन्निव ।
उदैक्षत प्रहृष्टात्मा प्रणिपत्य मुहुर्मुहुः ॥ २०७ ॥
View Verse
स्तुत्वा च विविधैस्स्तोत्रैर्हर्षगद्गदया गिरा ।
तदादाय महद्दिव्यं विमानं शिरसा ततः ॥ २०८ ॥
View Verse
जगाम भवनं विप्र स्वकीयं कमलासनः ।
तत्र संपूजयामास द्विषट्कब्रह्मविद्यया ॥ २०९ ॥
View Verse
महता विभवेनैव ब्रह्मा लोकपितामहः ।
अत्रान्तरे तु विप्रेन्द्र पौष्करस्य महात्मनः ॥ २१० ॥
View Verse
जिज्ञासायां तु जातायां शास्त्रे पौष्करसंज्ञके ।
प्रादुर्भूतस्तदा विप्र वासुदेवो जगत्पतिः ॥ २११ ॥
View Verse
महोपनिषदं शास्त्रं ग्राहयामास पद्मजम् ।
योमूलवेदो विख्यातस्तादृक् तस्मात् परिस्रुतम् ॥ २१२ ॥
View Verse
सिद्धिमोक्षप्रदं विप्र सर्वशास्त्रार्थगर्भितम् ।
नानाव्यूहसमोपेतं मूर्त्यन्तरसमन्वितम् ॥ २१३ ॥
View Verse
नानाविभवसंयुक्तं प्रादुर्भावान्तरान्वितम् ।
लक्ष्म्यादिशङ्खचक्राख्यगारुत्म सदिगीश्वरैः ॥ २१४ ॥
View Verse
सगणैरस्त्रनिष्ठैस्तु संपूर्णं द्विजसत्तम ।
बीजैः पिण्डात्मकैश्चैव पदैःसंज्ञामयैर्द्विज ॥ २१५ ॥
View Verse
मन्त्रव्यूहैस्तु विविधैर्ध्यानैश्च विविधैर्युतम् ।
तत्वसंख्यासमाख्यातैर्मण्डलैर्भद्रकादिभिः ॥ २१६ ॥
View Verse
तथा चतुर्दशव्यूहैरजेककजगर्भितैः ।
षड्विंशैररकैर्युक्तैश्चक्राब्जैर्नवभिस्तथा ॥ २१७ ॥
View Verse
द्य्वरकादिसहस्रारपर्यन्तैश्च सकारणैः ।
तथाष्टादशभिर्विप्र मिश्रचक्राभिधानकैः ॥ २१८ ॥
View Verse
आवार्यावरकेणैव रूपेण परिसंस्थितैः ।
महाख्यनवनाभेन बिम्बभेदस्थितेन च ॥ २१९ ॥
View Verse
घण्टास्रुक्स्रुवपूर्वैस्तु क्रियाङ्गैर्विविधैरपि ।
नानालक्षणसंयुक्तैः कुण्डैश्च परिभूषितम् ॥ २२० ॥
View Verse
वत्सरोत्सवपर्यन्तैः स्थापनाद्यैश्च कर्मभिः ।
नित्यैर्नैमित्तिकैःकाम्यैः परिपूर्णं द्विजोत्तम ॥ २२१ ॥
View Verse
स्वयंव्यक्तादिभेदोत्थैः प्रासादैश्च समन्वितम् ।
तस्याधिकारवृत्त्यर्थं लोकानां हितकाम्यया ॥ २२२ ॥
View Verse
ततस्तदुक्तमार्गेण विविधैर्भोगसञ्चयैः ।
नित्यैर्नैमित्तिकैः काम्यैर्विविधैश्च महोत्सवैः ॥ २२३ ॥
View Verse
तत्र प्रतिदिनं कुर्वन् पूजां लोकपितामहः ।
व्यापारान् जगतां चक्रे विविधान् लोकपूजितः ॥ २२४ ॥
View Verse
ततो मन्वन्तरे विप्र प्राप्ते वैवस्वताभिधे ।
इक्ष्वाकुर्नामनृपतिः सूर्यवंशसमुद्भवः ॥ २२५ ॥
View Verse
महात्मा सततं योगी सर्वभूतहिते रतः ।
द्रष्टुकामः प्रसन्नात्मा वासुदेवं जगत्पतिम् ॥ २२६ ॥
View Verse
तापसं वेषमास्थाय तपश्चर्तुं गतो वनम् ।
प्रविश्य तु तपस्तेपे शाकमूलफलाशनः ॥ २२७ ॥
View Verse
ग्रीष्मे पञ्चाग्निमध्यस्थो नयन् कालं महातपाः ।
वार्षिके तु निरालम्बो हैमन्ते तु सरोजले ॥ २२८ ॥
View Verse
इन्द्रियाणि समस्तानि नियम्य हृदये पुनः ।
मनो विण्णौ समाविश्य मन्त्रं वै द्वादशाक्षरम् ॥ २२९ ॥
View Verse
जपतो वायुभक्षस्य तस्य राज्ञो महात्मनः ।
आविर्बभूव भगवान् ब्रह्या लोकपितामहः ॥ २३० ॥
View Verse
तमागतमथालोक्य पझयोनिं चतुर्मुखम् ।
प्रणम्य भक्तिभावेन स्तुत्या च परितोषयन् ॥ २३१ ॥
View Verse
नमो हिरण्यगर्भाय जगत्स्रष्ट्रे महात्मने ।
वेदशास्त्रार्थविदुषे चतुर्वक्त्राय ते नमः ॥ २३२ ॥
View Verse
इति स्तुतो जगत्स्रष्ट्रा ब्रह्ना प्राह नृपोत्तमम् ।
तपस्यभिरतं शान्तं त्यक्तराज्यमहासुखम् ॥ २३३ ॥
View Verse
लोकप्रकाशको राजन् सूर्यस्तव पितामहः ।
वसूनामपि सर्वेषां सदा मान्यो मनुः पिता ॥ २३४ ॥
View Verse
कृतवन्तौ तपः पूर्वं तीव्रं पितृपितामहौ ।
तावतीत्य तपस्तेऽद्य वर्तते निस्पृहस्य वै ॥ २३५ ॥
View Verse
किमर्थं राज्यभोगं तु त्यक्त्वा सर्वं नृपोत्तम ।
तपः करोषि घोरं त्वमाचक्ष्व च महामते ॥ २३६ ॥
View Verse
इत्युक्तो ब्रह्नणा राजा तं प्रणम्याब्रवीद्वचः ।
द्रष्टुमिच्छंस्तपश्चर्याबलेन मधुसूदनम् ॥ २३७ ॥
View Verse
करोम्यत्र तपो ब्रह्नन् शङ्खचक्रगदाधरम् ।
इत्युक्तः प्राह राजानं पझजन्मा हसन्निव ॥ २३८ ॥
View Verse
न शक्यस्तपसा राजन् द्रष्टुं नारायणो विभुः ।
मादृशैश्च न दृश्योऽजः केशवः क्लेशनाशनः ॥ २३९ ॥
View Verse
त्वादृशैः किं पुनस्त्वीशो माधवस्त्विति भावय ।
पुरातनीं पुण्यकथां कथयामि निबोध मे ॥ २४० ॥
View Verse
अहं पुरा महाराज वासुदेवं सनातनम् ।
द्रष्टुकामः प्रजासर्गे तपश्चर्यां सुदारुणाम् ॥ २४१ ॥
View Verse
अकार्षं तपसश्चान्ते भगवान् भक्तवत्सलः ।
प्रसन्नः प्रादुरासीन्मे पश्यतः पझलोचनः ॥ २४२ ॥
View Verse
प्रणम्य पुण्डरीकाक्षमस्तौषं विविधैः स्तवैः ।
तत्र श्रेयो बलं तेजो दत्वा स्रष्टुं जगद्विभुः ॥ २४३ ॥
View Verse
अथोपदिष्टवान् मह्यमाद्यं वेदं सनातनम् ।
सदागमाख्यं मूलं तु परब्रह्नप्रकाशकम् ॥ २४४ ॥
View Verse
दिव्यं सिद्धिप्रदं चैव शान्तिकृद्विश्वकर्मिणाम् ।
सर्गस्योत्तरकाले तु विमाने दिव्यलक्षणे ॥ २४५ ॥
View Verse
अनन्तभोगशयने शयानः पद्मलोचनः ।
प्रादुर्भविष्यति पुरस्तं पूजय विशेषतः ॥ २४६ ॥
View Verse
द्वादशार्णेन मन्त्रेण पौष्करेणोक्तमार्गतः ।
वक्ष्यमाणेन विधिना यथावत् कमलोद्भव ॥ २४७ ॥
View Verse
इत्युक्त्वान्तर्दधे देवः परमात्मा जगत्प्रभुः ।
प्रादुरासीत्ततो दिव्यं विमानं परमाद्भुतम् ॥ २४८ ॥
View Verse
शास्त्रं चापि मया लब्धं महोपनिषदाख्यकम् ।
तत्रस्थं देवदेवेशं वासुदेवं जगत्पतिम् ॥ २४९ ॥
View Verse
पूजयामि विधानेन तदुक्तेन नृपोत्तम ।
तदहं ते प्रयच्छामि केशवानन्दमन्दिरम् ॥ २५० ॥
View Verse
विसृज्येदं तपो घोरं पुरं व्रज निजं नृप ।
प्रजानां पालनं धर्मस्तपश्चेव महीभृतः ॥ २५१ ॥
View Verse
विमानं प्रेषयिष्यामि दिवः सिद्धं नृपोत्तम ।
संयुक्तं पञ्चकालज्ञैः सद्ब्रह्ननिरतैर्द्विजैः ॥ २५२ ॥
View Verse
तत्राराधय देवेशं बाह्यान्तरखिलैः शुभैः ।
वासुदेवमनन्ताहौ शयानं पुरुषोत्तमम् ॥ २५३ ॥
View Verse
द्विषट्कार्णेन मन्त्रेण पौष्करोक्तविधानतः ।
क्रतुभिर्विविधैश्चैव यजन् देवं नृपोत्तम ॥ २५४ ॥
View Verse
निष्कामो नृपशार्दूल प्रजा धर्मेण पालय ।
प्रसादाद्वासुदेवस्य मुक्तिस्ते भविता नृप ॥ २५५ ॥
View Verse
इत्युक्त्वा पौष्करं शास्त्रमुपदिश्य यथाक्रमम् ।
तस्मै तु भूमिपालाय विधातान्तरभूत् पुनः ॥ २५६ ॥
View Verse
इक्ष्वाकुश्चिन्तयन्नास्ते पझयोनेर्वचो द्विज ।
आविर्बभूव पुरतो विमानं तन्महीभृतः ॥ २५७ ॥
View Verse
ब्रह्नदत्तं द्विजयुतं माधवानन्तयोः शुभम् ।
तं दृष्ट्वा परया भक्त्या नत्वा च पुरुषोत्तमम् ॥ २५८ ॥
View Verse
ऋषीन् प्रणम्य वृद्धांश्च तदादाय ययौ पुरम् ।
पौरैर्जनैश्च नारीभिर्दृष्टं शोभासमन्वितैः ॥ २५९ ॥
View Verse
लाजानि विक्षिपद्भिश्च ततो राजा स्क्कं गृहम् ।
स्वमन्दिरे विशाले तु विमानं वैष्णवं शुभम् ॥ २६० ॥
View Verse
संस्थाप्याराधयामास भावितात्मा नृपोत्तमः ।
पौष्करोक्तविधानेन तैर्द्विजैरर्चितं हरिम् ॥ २६१ ॥
View Verse
मानुष्यः शोभनाङ्ग्यस्तु घृष्ट्वा तु हरिचन्दनम् ।
मालाः कृत्वा सुगन्धाढ्याः प्रीतिं तस्य वितेनिरे ॥ २६२ ॥
View Verse
पौराः कर्पूरश्रीखण्डकुङ्कुमाद्यं ददुस्तथा ।
पुष्पाणि विष्णुयोग्यानि ददुरानीय भूपतेः ॥ २६३ ॥
View Verse
तत्तत्कर्मार्थबिम्बानि प्रतिष्ठाप्य यथाविधि ।
स्वे स्वे यथोदिते स्थाने सन्निवेश्य सुविस्तृतम् ॥ २६४ ॥
View Verse
ततोऽष्टाष्टकसंख्यैस्तु भोगैः सर्वैरकृत्रिमैः ।
प्रधानैः साङ्गभोगैस्तु विविधैरौपचारिकैः ॥ २६५ ॥
View Verse
सांस्पर्शिकैस्तथा विप्र हृदयङ्गमसंज्ञितैः ।
अर्चयित्वा जगन्नाथं वासुदेवं परात्परम् ॥ २६६ ॥
View Verse
त्रिसन्ध्यं परया भक्त्या जप्यैः स्तोत्रैश्च वैष्णवैः ।
कारयामास देवस्य सुचिरं वत्सरोत्सवम् ॥ २६७ ॥
View Verse
तथा च वत्सरीयाणि नानानैमित्तिकान्यपि ।
प्रितष्ठां तत्प्रकारं च स्थानभेदं तथैव च ॥ २६८ ॥
View Verse
उत्सवादिप्रकारं च वक्ष्याम्युपरि विस्तृतम् ।
भोगैश्च तोषयित्वा तं सर्वदेवमय हरिम् ॥ २६९ ॥
View Verse
निष्कामो दानधर्मैश्च परं ज्ञानमवाप्तवान् ।
यजन् यज्ञान् महीं रक्षन् स कुर्वन् केशवार्चनम् ॥ २७० ॥
View Verse
उत्पाद्य पुत्रान् पित्रर्थं चिरात् त्यक्त्वा कलेबरम् ।
ध्यायन्निष्कल्मषं देवं प्राप्तवान् वैष्णवं पदम् ॥ २७१ ॥
View Verse
ततश्चैतत् क्रमाल्लेभे देवः सर्वेश्वरः स्वयम् ।
रामो राजीवनयनो भ्रातृभेदैस्त्रिभिः सह ॥ २७२ ॥
View Verse
निहन्ता राक्षसानां यो मनुष्योऽहमिति स्मरन् ।
दशेन्द्रियाननं घोरं यो मनोरजनीचरम् ॥ २७३ ॥
View Verse
विवेकशरजालेन शमं नयति देहिनाम् ।
कृतकृत्यस्तु यो वेत्ति स्वभावं दिव्यमुत्तमम् ॥ २७४ ॥
View Verse
ददौ विभीषणायासौ प्रियाय प्रियकारिणे ।
शास्त्रोपदेशपूर्वं तु विमानं दिव्यलक्षणम् ॥ २७५ ॥
View Verse
सोऽपि तच्छिरसा गृह्य ययौ देशं स्वकं प्रति ।
रवौ मध्यन्दिने प्राप्ते कवेरतनया तटे ॥ २७६ ॥
View Verse
चन्द्रपुष्करिणीमध्येऽनन्तपीठेऽवतारयत् ।
दक्षाध्वरे च रुद्रेण परिभूतो निशाकरः ॥ २७७ ॥
View Verse
मूर्ध्नि तस्य कृतावासो यत्र तप्त्वा महत्तपः ।
यस्मिंस्तु पुण्डरीकाक्षो देवो वामनरूपधृक् ॥ २७८ ॥
View Verse
प्राप्तवान्नयसंस्कारं यत्र तु स्वयमेव हि ।
विमानप्रवरं दिव्यं श्रीरह्गमिति शब्दितम् ॥ २७९ ॥
View Verse
प्रतिष्ठास्यति चात्रेति विनिश्चित्य जगत्पतिः ।
गणेशं योगनिद्रां च रक्षाहेतोः समादिशत् ॥ २८० ॥
View Verse
तत्रावतार्य तन्मध्ये विमानं तद्विभीषणः ।
ततसंपूजयामास तैर्द्विजैरर्चितं हरिम् ॥ २८१ ॥
View Verse
रमणीयैस्तु विविधैर्भोगैः सांस्पर्शिकादिकैः ।
तदुद्धर्तुमसौ यत्नमकरोद्बलवानपि ॥ २८२ ॥
View Verse
न शशाक मनागस्मादेतच्चलयितुं तदा ।
अथापतद्धरण्यां वै विलपन् स च दुःखितः ॥ २८३ ॥
View Verse
आर्तं विभीषणं दृष्ट्वा विलपन्तमनाथवत् ।
उवाच भगवान् रङ्गी स्वरेण महता तदा ॥ २८४ ॥
View Verse
श्रीभगवानुवाच ।
आर्य धर्मज्ञ देशोऽयं रमणीयो हि मे मतः ।
अस्मिन्नेव शयानोऽहं रंस्ये त्वामभिवीक्ष्य च ॥ २८५ ॥
View Verse
एतैरेकान्तिभिः सार्धं मदाराधनतत्परैः ।
विभीषणानुजानीहि कुरुष्व च मम प्रियम् ॥ २८६ ॥
View Verse
एतानाराधकान् विप्रान् पञ्चकालपरायणान् ।
क्षेत्रारामगृहाद्यैस्तु सुसमृद्धान् कुरुष्व च ॥ २८७ ॥
View Verse
मा भूस्त्वं दुर्मना याहि क्षिप्रं लङ्कां निशाचर ।
तत्र त्वं सुसमृद्धार्थः श्रियं भुङ्क्ष्वानपायिनीम् ॥ २८८ ॥
View Verse
इत्युक्तः सुसमृद्धार्थान् क्षेत्रारामगृहादिभिः ।
कृत्वा चैकायनांस्तांस्तु पञ्चकालपरायणान् ॥ २८९ ॥
View Verse
ततस्तु प्रययौ चार्तो लङ्कामेव विभीषणः ।
मर्त्यानां भाग्यवैषम्याद्ब्राह्नणानां हिताय च ॥ २९० ॥
View Verse
देवानां च प्रतिष्ठायै रेमे तत्र नदीतटे ।
रङ्गधामनि रङ्गेशः शयानस्तु द्विजोत्तम ॥ २९१ ॥
View Verse
तद्धामोभयतोऽगच्छत् परिरभ्य सरिद्वरा ।
यथा पतिं चिरं प्राप्तं भुजाभ्यां प्रियमङ्गना ॥ २९२ ॥
View Verse
दिव्यं ह्येतन्महद्धाम दिव्यास्तत्र निवासिनः ।
दिव्या चेयं नदी तद्वद्दिव्यतीर्थमिदं सरः ॥ २९३ ॥
View Verse
अनन्तशक्तियुक्तं तद्विमानं हि स्वयम्भवम् ।
किह्गरा विष्णुभूतेशा बलिनः कामरूपिणः ॥ २९४ ॥
View Verse
ते च रक्षन्ति तं देशं सर्वे ह्यनिमिषेक्षणाः ।
ये निष्य न्दा निराहाराः सात्विकाश्च वसन्ति ते ॥ २९५ ॥
View Verse
प्रव्याहरन्तो मधुरां वाणीं कर्णसुखावहाम् ।
न तत्र वसतां पीडा क्षुत्पिपासाद्युपस्थिता ॥ २९६ ॥
View Verse
नाध्यात्मिकादिपीडा वा न जरा नाविवेकिता ।
त्रैकाल्यज्ञानसंपन्नाः सर्वकामविवर्जिताः ॥ २९७ ॥
View Verse
पदार्थसप्तकज्ञानसंपूर्णा नान्ययाजिनः ।
द्वादशाध्यात्मनिरताः पञ्चकालपरायणः ॥ २९८ ॥
View Verse
तमर्चयन्तोऽहरहस्तत्रैव निवसन्ति हि ।
षट्कर्मनिरताश्चापि ब्रह्नण्याहितचेतसः ॥ २९९ ॥
View Verse
चरन्ति तत्र विमलाः पुरुषाः संशितव्रताः ।
देवासुरमुनीन्द्राद्याः सदा देवाभिकाङ्क्षिणः ॥ ३०० ॥
View Verse
वसन्ति तत्र चास्थाय चित्रां स्थावररूपताम् ।
अप्युन्मत्तः प्रसान्तः स्याद्वधिरोऽपि सुबोधवान् ॥ ३०१ ॥
View Verse
तस्य देशस्य माहात्म्यं सम्यग्ज्ञातुं न शक्यते ।
ब्रह्नणापि मुनिश्रेष्ठ किं पुनः खलु मादृशैः ॥ ३०२ ॥
View Verse
तदेतत् परमं धाम श्रीरङ्गमिति शब्दितम् ।
दिव्यलक्षणसंयुक्तं स्वयंव्यक्तमिति श्रुतम् ॥ ३०३ ॥
View Verse
अत्र सन्निहितः साक्षाद्भगवान् पुरुषोत्तमः ।
भक्तानां पुण्डरीकाक्षः परमात्माऽच्युतो हरिः ॥ ३०४ ॥
View Verse
विविधेष्वपि चान्येषु नित्यं स्थानेषु यद्यपि ।
वासुदेवस्तु मन्त्रज्ञात्मा स्थितः सन्निहितः स्वयम् ॥ ३०५ ॥
View Verse
तथापि वलवत्त्वेन सन्निधिं भजतेऽत्र वै ।
ग्रीष्मकालं समासाद्य यथार्कस्तीक्ष्णतां व्रजेत् ॥ ३०६ ॥
View Verse
स्वरूपमजहन्नेव तथैवात्र जगत्पतिः ।
दोषैः स दिग्विभागाद्यैस्त्वन्यथात्वं न याति च ॥ ३०७ ॥
View Verse
नित्यसन्निधिमाहात्म्यात् कालं कल्पक्षयावधि ।
उत्तरोत्तरता चैव जगत्यस्मिन् हि वर्तते ॥ ३०८ ॥
View Verse
भूत्या कान्त्या च कीर्त्या च क्रियया चाप्रमयेया ।
दुष्टोपशान्तिदा शक्त्या सिद्धिदा या च वै सह ॥ ३०९ ॥
View Verse
मुक्तिकामाश्च भविनः फलकामाश्च सत्तम ।
यथाभिमतसंप्राप्तिमिहैवायान्त्यनश्वरीम् ॥ ३१० ॥
View Verse
इह कर्मपराः सर्वे सायं प्रातस्तु मध्यतः ।
कुर्वते सर्वकर्माणि विमानाभिमुखाः सदा ॥ ३११ ॥
View Verse
एवं तु पुष्करक्षेत्रे तोताद्रिशिखरेऽपि च ।
क्ष्माङ्गे पुराणसंज्ञे तु मधुभाण्डाभिधेऽपि च ॥ ३१२ ॥
View Verse
स्थितः संनिहितो देवः स्वयंव्यक्तो जगत्पतिः ।
भगवान् पुण्डरीकाक्षो लोकानां हितकाम्यया ॥ ३१३ ॥
View Verse
देवदेवो जगन्नाथ एवं क्षेत्रेषु केषुचित् ।
स्थापितो विबुधाद्यैस्तु सन्निधत्ते द्विजोत्तम ॥ ३१४ ॥
View Verse
केषुचिन्मनुजेन्द्रैस्तु भक्तिबृंहितमानसैः ।
स्थापितो विधिवद्विप्र सन्निधत्ते जगत्पतिः ॥ ३१५ ॥
View Verse
एवं भगवदाकारैर्नानासंस्थानलक्षणैः ।
नानाविशेषरूपैश्च नानाकार्यवशेन तु ॥ ३१६ ॥
View Verse
विश्वमापूरितं सर्वं सर्वानुग्रहकाम्यया ।
स्वयंव्यक्तं तथासिद्धविबुधैश्च प्रतिष्ठितम् ॥ ३१७ ॥
View Verse
मुनिमुख्यैस्तु गन्धर्वैर्यक्षैर्विद्याधरैरपि ।
रक्षोभिरसुरैर्मुख्यैः स्थापितं मन्त्रविग्रहम् ॥ ३१८ ॥
View Verse
दिव्यशास्त्रोक्तविधिना पूजयेच्छास्त्रकोविदः ।
स्थापितं मनुजैर्देवं मुनिवाक्योक्तमार्गतः ॥ ३१९ ॥
View Verse
पूजयेद् द्विज तत्रापि ज्ञानिभिस्तत्त्बदर्शिभिः ।
वासुदेवैकनिष्ठैस्तु देवतान्तरवर्जितैः ॥ ३२० ॥
View Verse
व्यामिश्रयागमुक्तैस्तु तीव्रभक्तिसमन्वितैः ।
स्थापितं मनुजेन्द्रैस्तु ह्यनुवेधादिकोविदैः ॥ ३२१ ॥
View Verse
अर्चयेद्देवदेवेशं दिव्यशास्त्रोक्तवर्त्मना ।
मुनिवाक्योक्तमार्गेण पूजनं यत्र वर्तते ॥ ३२२ ॥
View Verse
तत्रापि दिव्यमार्गाच्चेत् पूजनं कर्तुमिच्छति ।
मुनिमार्गं परित्यज्य दिव्यमार्गेण पूजयेत् ॥ ३२३ ॥
View Verse
भवेत् सन्निधिमाहात्म्यं कालं कल्पक्षयावधि ।
दिव्यमार्गेण पूजाद्यं वर्तते यत्र नित्यशः ॥ ३२४ ॥
View Verse
तत्र दिव्यं परित्यज्य न कदाचिन्महामते ।
मुनिवाक्योक्तमार्गेण कुर्यात् संपूजनादिकम् ॥ ३२५ ॥
View Verse
कुर्याद्वा यदि संमोहाद्विप्रः संमूढचेतनः ।
संप्रयात्यचिरातस्य भक्तिर्बीजेन वै सह ॥ ३२६ ॥
View Verse
समन्त्रं कर्मतन्त्रं च सिद्धयश्च पराङ्मुखाः ।
इहैव शीघ्रं विप्रेन्द्र देहान्ते गतसन्ततिः ॥ ३२७ ॥
View Verse
घोरं प्रयाति नरकं राजा राष्ट्रं च नश्यति ।
तस्मात् सर्वप्रयत्नेन दिव्यमार्गं तु न त्यजेत् ॥ ३२८ ॥
View Verse
तामसेन तु मार्गेण पूजनं यत्र वर्तते ।
तत्रापि राजसेनैव पूजन सिद्धिदं भवेत् ॥ ३२९ ॥
View Verse
राजसेन तु पूजाद्यं वर्तते यत्र नित्यशः ।
तत्रापि सात्विकेनैव पूजनं शुभदं सदा ॥ ३३० ॥
View Verse
सात्विकेन तु पूजाद्यं वर्तते यत्र चान्वहम् ।
तत्र राजसमार्गेण न कुर्यात् पूजनादिकम् ॥ ३३१ ॥
View Verse
यत्र राजसमार्गेण प्रवृत्तं त्वर्चनादिकम् ।
तत्र तामसमार्गेण न कुर्यादर्चनादिकम् ॥ ३३२ ॥
View Verse
विविधानां राजसानामन्योन्यं स्याभ संकरः ।
सर्वत्रपौरुषे वाक्ये तद्ग्राह्यमविरोधि यत् ॥ ३३३ ॥
View Verse
सनकः ।
केवलं तद्विधानेन न कुर्यात् स्थापनादिकम् ।
दिव्याद्यायतनानां च षूजार्थं यत् त्वयोदितम् ॥ ३३४ ॥
View Verse
शास्त्रं दिव्यादिभेदेन श्रोतुमिच्छामि तत्वतः ।
यज्ज्ञात्वा विनिवर्तेयं शास्त्रसाङ्कर्यदोषतः ॥ ३३५ ॥
View Verse
शाण्डिल्यः ।
वासुदेवेन यत् प्रोक्तं शास्त्रं भगवता स्वयम् ।
अनुष्टुप्छन्दोबन्धेन समासव्यासभेदतः ॥ ३३६ ॥
View Verse
तथैव ब्रह्नरुद्रेन्द्रप्रमुखैश्च प्रवर्तितम् ।
लोकेष्वपि च दिव्येषु तद्दिव्यं विद्धि सत्तम ॥ ३३७ ॥
View Verse
ब्रह्नरुद्रमुखैर्देवैः ऋषिभिश्च तपोधनैः ।
स्वयं प्रणीतं यच्छास्त्रं तद्विद्धि मुनिभाषितम् ॥ ३३८ ॥
View Verse
एतत्तु त्रिविधं विद्धि सात्विकादिविभेदतः ।
विज्ञाय पुण्डरीकाक्षादर्थजालं यथास्थितम् ॥ ३३९ ॥
View Verse
तद्बोधकं प्रणीतं यच्छास्त्रं तत् सात्विकं स्मृतम् ।
तस्माज्ज्ञातेऽर्थजाते तु किञ्चित् समवलम्ब्य च ॥ ३४० ॥
View Verse
स्वबुद्धयुन्मुषितस्यैव ह्यर्थजातस्य बोधकम् ।
यत् प्रणीतं द्विजश्रेष्ठ तथा विज्ञाय तत्वतः ॥ ३४१ ॥
View Verse
ग्रन्थविस्तरसंयुक्तं शास्त्रं सर्वेश्वरेश्वरात् ।
तत्संक्षेपप्रसादेन स्वविकल्पविजृम्भणैः ॥ ३४२ ॥
View Verse
व्रह्नादिभिः प्रणीतं यत् तथा तदृषिभिर्द्विज ।
ब्रह्नादिभ्यः परिश्रुत्य तत् संक्षेपात्मना पुनः ॥ ३४३ ॥
View Verse
स्वविकल्पात् प्रणीतं यत् तत् सर्वं विद्धि राजसम् ।
तत् स्याद् द्वेधा पञ्चरात्रवैस्वानसविभेदतः ॥ ३४४ ॥
View Verse
केवलात् स्वविकल्पोक्तैः कृतं यत् तामसं तु तम् ।
केवलं मनुजैर्यत्तु कृतं तत् पौरुषं भवेत् ॥ ३४५ ॥
View Verse
सनक ।
यैर्लिङ्गैर्वदतांश्रेष्ठ भगवद्वाक्यपूर्वकम् ।
भेदं जानामि तत्वेन तानि विस्तरतो वद ॥ ३४६ ॥
View Verse
शाण्डिल्य ।
यदर्थाढ्यमसन्दिग्धं स्वच्छमल्पाक्षरं स्थिरम् ।
चातुरात्म्यस्वरूपेण संस्थितस्य विभोः सदा ॥ ३४७ ॥
View Verse
स्वाभाविकं परत्वं तु यत्र यत्र समीरितम् ।
अन्यासां मन्त्रमूर्तीनां यत्र चौपाधिकं तु यत् ॥ ३४८ ॥
View Verse
तुर्यादिजाग्रत्पर्यन्तः पदभेदः प्रकाशितः ।
भक्तानामनुकम्पार्थं यत्र वै चतुरात्मनः ॥ ३४९ ॥
View Verse
शक्तीशस्य विभोर्यत्र विभवः संप्रकाशितः ।
अङ्गलाञ्छनभूषाणां शक्तीनां विहगेशितुः ॥ ३५० ॥
View Verse
लयादिभेदभिन्नं तु स्वरूपं यत्र भाषितम् ।
बीजपिण्डपदाद्येन चातुर्विध्येन सत्तम ॥ ३५१ ॥
View Verse
मन्त्राः प्रवर्तिता यत्र यत्र स्थापनकर्मणि ।
अनुवेधक्रिया प्रोक्ता यत्र वै नित्यपूजनम् ॥ ३५२ ॥
View Verse
मूलमूर्तौ तु संपूर्णं प्रोक्तं प्राधान्यतो द्विज ।
तत्र कर्तुमशक्यं यत् स्नानाद्यं तावदेव तु ॥ ३५३ ॥
View Verse
बिम्बान्तरे तदर्थं तु कर्मबिम्बपुरस्सरे ।
विहितं दर्पणाद्येषु तदभावान्महामते ॥ ३५४ ॥
View Verse
क्ष्माजलानलवाय्वाख्यनाभसीयेन वै द्विज ।
धारणापञ्चकेनैव धारणाद्वितयेन च ॥ ३५५ ॥
View Verse
दहनाप्यायनाख्येन यत्र शुद्धिश्च भौतिकी ।
आगमश्रुतिमूलत्वं स्वस्य यद्धयुपपादकम् ॥ ३५६ ॥
View Verse
तत् पारमेश्वरं वाक्यमाज्ञासिद्धं हि मोक्षदम् ।
एवमादेयवाक्योत्थ आगमो यो महामते ॥ ३५७ ॥
View Verse
सन्मार्गदर्शनं कृत्स्नं विधिवादं च विद्धि तत् ।
तत्प्रामाण्यात्तु यत्किञ्चित् समभ्यूह्य यथार्थतः ॥ ३५८ ॥
View Verse
पूर्वापराबिरोधेन निर्वाह्यमविचारतः ।
सर्वेषां रञ्जकं गूढं निश्चयीकरणाक्षमम् ॥ ३५९ ॥
View Verse
पारमेश्वरवाक्योक्तमर्थजालं यथास्थितम् ।
प्रत्यभिज्ञापकं यद्यत् सात्विकं मुनिभाषितम् ॥ ३६० ॥
View Verse
प्रशंसकं यत् सिद्धीनां संप्रवर्तकमप्यथ ।
मूलमूर्तिमनादृत्य कर्मार्चायां तु पुष्कलम् ॥ ३६१ ॥
View Verse
नित्यसंपूजनं प्रोक्तं प्राधान्येन तु यत्र वै ।
ब्रह्नरुद्रादिबिम्बानां प्रमाणं लक्षणं तथा ॥ ३६२ ॥
View Verse
स्थापनं यत्र निर्दिष्टं यत्र वै जगतां पतेः ।
पूजनं तु समुद्दिष्टं प्राकृतानां जडात्मनाम् ॥ ३६३ ॥
View Verse
तत्वानामपि विप्रेन्द्र दिशां कालस्य वाचकैः ।
परमेष्ठ्यादिभिर्मन्त्रैः पञ्चभिर्यत्र वै क्रमात् ॥ ३६४ ॥
View Verse
स्थापनादिप्रतिष्ठान्तं पञ्चकं समुदीरितम् ।
यागपूर्वा हरिस्तोमपर्यन्ताः सप्त कीर्तिताः ॥ ३६५ ॥
View Verse
यागा यत्र तथा सप्त तत्क्रमादधिकारिणः ।
उक्तं यत्र प्रतिष्ठया षोडशन्यासकल्पनम् ॥ ३६६ ॥
View Verse
एतज्जानीहि तत् सर्वं राजसं मुनिभाषितम् ।
भगवन्तं समुद्दिश्य ह्यङ्गभावं विनैव तु ॥ ३६७ ॥
View Verse
ब्रह्नरुद्रमुखानां तु विबुधानां तथैव च ।
मातॄणामपि दुर्गायाः स्वातन्त्र्येण तु यत्र वै ॥ ३६८ ॥
View Verse
मन्त्रं ध्यानं प्रमाणं च लक्षणं स्थापनं तथा ।
निर्दिष्टं तामसं नाम मुनिवाक्यं तु विद्धि तत् ॥ ३६९ ॥
View Verse
अनर्थकमसंबद्धमल्पार्थं शब्दडम्बरम् ।
अनिर्वाहकमाद्योक्तेर्वाक्यं तत् पौरुषं स्मृतम् ॥ ३७० ॥
View Verse
हेयं चानर्थसिद्धीनामाकरं नरकावहम् ।
पारमेश्वरवाक्यार्थैर्यद्विरोधि न तद् द्विज ॥ ३७१ ॥
View Verse
संग्राह्यं सात्विकाद्येषु मुनिवाक्येषु यत्नतः ।
यद्दिव्यापेक्षितं विप्र संग्राह्यमविरोधि तत् ॥ ३७२ ॥
View Verse
सात्विकादिक्रमात्तेषु समभ्यूह्य महामते ।
प्रसिद्धार्थानुपादाय सङ्गतार्थं विलक्षणम् ॥ ३७३ ॥
View Verse
अपि चेत् पौरुषं वाक्यं ग्राह्यं तन्मुनिवाक्यवत् ।
सनक ।
दिव्यपूर्वाणि शास्त्राणि प्रोक्तैरेतैस्तु लिङ्गकैः ॥ ३७४ ॥
View Verse
लिङ्गितानि द्विजश्रेष्ठ व्यक्तनामान्वितानि च ।
कौतूहलं हि मे श्रोतुं प्रब्रूहि गणशस्तथा ॥ ३७५ ॥
View Verse
विज्ञातव्यान्यसंकीर्णं यथा च स्वल्पबुद्धिभिः ।
शाण्डिल्य ।
सात्वतं पौष्करं चैव जयाख्यं च तथैव च ॥ ३७६ ॥
View Verse
एवमादीनि शास्त्राणि दिव्यानीत्यवधारय ।
संहिता चेश्वरस्यापि भरद्वाजस्य संहिता ॥ ३७७ ॥
View Verse
सौमन्तवी तथा ह्येतत् पारमेश्वरसंज्ञितम् ।
वैहायसी संहिता च शास्त्रं चित्रशिखण्डिजम् ॥ ३७८ ॥
View Verse
तथा जयोत्तरं तत्र एवमादीनि तत्वतः ।
सात्विकानि विजानीहि मुनिवाक्यानि सत्तम ॥ ३७९ ॥
View Verse
तन्त्रं सनत्कुमारख्यं तथा पझोद्भवाभिधम् ।
सत्यापि तेजोद्रविणं मायावैभविकं तथा ॥ ३८० ॥
View Verse
इत्यादीन्यवगच्छ त्वं राजसान्येव तत्वतः ।
पञ्चप्रश्नं शुकप्रश्नं तत्वसागरसंहिता ॥ ३८१ ॥
View Verse
इत्यादीन्यवबुद्ध्यस्व तामसानि विशेषतः ।
पूर्वोक्तलक्षणेनैव ज्ञातव्यं तत्र पौरुषम् ॥ ३८२ ॥
View Verse
प्रासादानां च शास्त्राणां यथावत् संप्रकाशितम् ।
भेदं दिव्यादिकं सम्यग् ज्ञात्वा सर्वं समाचरेत् ॥ ३८३ ॥
View Verse
यो न ज्ञात्वा तु साङ्कर्यं पूजाद्यमनुतिष्ठति ।
स हि सर्वस्य जगतः साङ्कर्यं कुरुते सदा ॥ ३८४ ॥
View Verse
विशेषात् स्वस्य वंशस्य तस्मादापद्यपि द्विज ।
न कुर्याच्छास्त्रसाङ्कर्यं हितैषी शास्त्रकोबिदः ॥ ३८५ ॥
View Verse

Chapter 11

श्रीः ।
एकादशोऽध्यायः ।
सनकः ।
नित्योत्सवविधौ ब्रह्मन् पूजनं समुदाहृतम् ।
द्वारावरणदेवानां तेषां ध्यानादिकं क्रमात् ॥ १ ॥
View Verse
ज्ञातुमिच्छामि विप्रेन्द्र प्रब्रूहि मम विस्तरात् ।
शाण्डिलयः ।
श्रूयतामभिधास्यामि यदहं चोदितस्त्वया ॥ २ ॥
View Verse
प्रासादद्वारदेवेभ्यः समारभ्य यथाक्रमम् ।
प्रासादद्वारबाह्ये तु ह्यधस्थौदुम्बरान्तिमे ॥ ३ ॥
View Verse
वास्त्वीशक्षेत्रनाथौ द्वौ स्थितौ दक्षेतरक्रमात् ।
शुक्लवक्त्रः कृष्णदेहो द्विभुजो रत्नपात्रधृक् ॥ ४ ॥
View Verse
दक्षिणेन करेणैव सर्वामरसमाश्रयः ।
पुण्डरीकसमानाभवस्त्रस्रगनुलेपनः ॥ ५ ॥
View Verse
गदोद्यतकरो विप्र ध्यातव्यो वास्तुपूरुषः ।
क्षेत्रेशं द्विभुजं ध्यायेद्धेमाभवसनस्रजम् ॥ ६ ॥
View Verse
नीलजीमूतसंकाशं दण्डहस्तं महातनुम् ।
मुष्टिकृद्वामहस्तेन यागक्षेत्य पालकम् ॥ ७ ॥
View Verse
कुण्डलाद्यैरलङ्कारैरेतौ शोभितविग्रहौ ।
वीक्षमाणौ विभोर्वक्त्रं तेजसातीव निर्भरौ ॥ ८ ॥
View Verse
तप्तकाञ्चनवर्णाभां प्रवालसदृशाम्बराम् ।
हारनूपुरकेयूरकरण्डमकुटादिकैः ॥ ९ ॥
View Verse
अलङ्कृतामलङ्कारैः पुण्डरीकनिभेक्षणाम् ।
अकलङ्कसुसम्पूर्णशरच्चन्द्रनिभाननाम् ॥ १० ॥
View Verse
पझकुम्भकरां लक्ष्मीं पझोपरिगतां स्मरेत् ।
पद्मासनेनोपविष्टां द्वारस्योर्ध्व उदुम्बरे ॥ ११ ॥
View Verse
तरुणादित्यसंकाशो महोरस्कश्चतुर्भुजः ।
उन्नतश्चोन्नतांसश्च पूर्णाङ्गो नातिमांसलः ॥ १२ ॥
View Verse
तनूदरो निम्ननाभो रोमराजिविराजितः ।
दंष्ट्राकरालवदनः पिङ्गश्मश्रुजटाधरः ॥ १३ ॥
View Verse
मधुपिङ्गलनेत्रश्च कुटिलभ्रूलतायुतः ।
प्रलम्बलोलश्रवणः पृथुघ्राणः स्मिताननः ॥ १४ ॥
View Verse
कुण्डलालङ्कृतस्चैव हारकेयूरभूषितः ।
बद्धोष्णीषललाटश्च तिलकेनाप्यल्ङकृतः ॥ १५ ॥
View Verse
शुक्लाम्बरधरः स्रग्वी भुजयुग्मेऽस्य दक्षिणे ।
प्रोद्यतं संस्मरेच्चक्रं प्रज्वलन्तीं गदां परे ॥ १६ ॥
View Verse
श्रोणीतटनिषण्णां च विश्रान्तां वसुधातले ।
पूर्वे वामकरे शङ्खमन्यस्मिश्चाक्षसूत्रकम् ॥ १७ ॥
View Verse
एवं गणाधिपश्चण्डो विक्रमेणापराजितः ।
क्रुद्धो विघ्नायुतानां च क्षणात् संहरणक्षमः ॥ १८ ॥
View Verse
ध्येयो गर्भगृहद्वारशाखामूले तु दक्षिणे ।
तत्रैवापरभागे तु प्रचण्डं त्वीदृशं यजेत् ॥ १९ ॥
View Verse
किंतु सव्यापसव्याभ्यां भुजाभ्यां स्याद्विपर्ययः ।
भुजद्वये यच्चण्डस्य वामे संपरिकीर्तितम् ॥ २० ॥
View Verse
दक्षिणे तत् प्रचण्डस्य ध्येयं वा परिकलप्य च ।
ध्यायेद्द्वाराग्रदेशे तु गरुडं काञ्चनप्रभम् ॥ २१ ॥
View Verse
कुटिलभ्रुसुवृत्ताक्षं पक्षमण्डलमण्डितम् ।
लम्बोदरं सुपीनाङ्गं सर्वभूषणभूषितम् ॥ २२ ॥
View Verse
मकुटाद्यैरलङ्कारैर्नूपुराद्यैर्विराजितम् ।
नीलं वसानं वसनं नानामाल्योपशोभितम् ॥ २३ ॥
View Verse
संमुखं देवदेवस्य भूगतं विधृताञ्जलिम् ।
द्विभुजं तुहिनाभं च सत्याख्यं विहगाधिपम् ॥ २४ ॥
View Verse
प्राणाधिदैवतं चक्रे बलिमण्डलमध्यगे ।
संस्थितं संस्मरेत् सर्वैरङ्गैः पुरुषरूपिणम् ॥ २५ ॥
View Verse
प्रलम्बमानजठरं पक्षराजिविराजितम् ।
दक्षिणेन करेणैव धारयन्तं गणित्रकम् ॥ २६ ॥
View Verse
उत्तानितेतरकरं कुण्डलाद्यैर्विभूषितम् ।
नीलकौशेयवसनं नीलमाल्यानुलेपनम् ॥ २७ ॥
View Verse
अनाकुलाभ्यां नेत्राभ्यां वीक्षमाणं सदा विभुम् ।
अथाग्रमण्डपद्वारशाखायुगलसंस्थितौ ॥ २८ ॥
View Verse
पझगर्भप्रतीकाशावतिभीमपराक्रमौ ।
चण्डप्रचण्डसदृशौ भुजलाञ्छनभूषणैः ॥ २९ ॥
View Verse
रक्ताम्बरधरौ चैव रक्तस्रगनुलेपनौ ।
गणौ धातृविधातारौ ध्यात्वा सपूज्य तत्परः ॥ ३० ॥
View Verse
कुमुदादिगणेशानान् प्रथमावरणे यजेत् ।
पूर्वे च वह्निदिग्भागे पूज्यौ द्वौ गणनायकौ ॥ ३१ ॥
View Verse
कुमुदः कुमुदाक्षश्च प्रसन्नवदनेक्षणौ ।
तुहिनाचलसङ्काशौ प्रथमे वयसि स्थितौ ॥ ३२ ॥
View Verse
नानाभरणदिग्धाङ्गौ नानाकुण्डलभूषितौ ।
नानामाल्यचितौ चैव नानामौलिधरौ द्विज ॥ ३३ ॥
View Verse
नानागन्धविलिप्ताङ्गौ नानावस्त्रविभूषितौ ।
कुमुदाख्यगणेशस्य ध्यातव्यो दक्षिणः करः ॥ ३४ ॥
View Verse
चन्द्ररश्मिप्रतीकाशचामरेण विराजितः ।
अभिगच्छाभयं ध्यायेद्द्वितीयं दक्षिणं करम् ॥ ३५ ॥
View Verse
भवभङ्गात् प्रपन्नानां परेषां गुणशासनम् ।
तस्यैवाद्यं वामकरं प्रबुद्धकमलोद्यतम् ॥ ३६ ॥
View Verse
तूष्णीं भीसूचकं ध्यायेद्बहिःस्थानां परं करम् ।
एतेद्वै कुमुदाक्षस्य वैपरीत्येन भावयेत् ॥ ३७ ॥
View Verse
द्वाभ्यां द्वाभ्यां कराभ्यां वै त्वन्येषामेवमेव हि ।
पुण्डरीको वामनश्च द्वावेतौ हुतभुक्प्रभौ ॥ ३८ ॥
View Verse
गरुडध्वजहस्तौ च शेषमन्यत् पुरोदितम् ।
कृत्वा ध्यात्वाऽथवा न्यस्य दक्षिणे नैरृतेऽपि च ॥ ३९ ॥
View Verse
शङ्कुकर्णाभिधानो यः सर्वनेत्राभिसंज्ञितः ।
द्वावेतौ चम्पकाभौ तु मयूरव्यजनोद्यतौ ॥ ४० ॥
View Verse
महाविभूतेर्देवस्य प्रत्यग्वायुदिगास्थितौ ।
सुमुखः सुप्रतिष्ठश्च विभोः सोमेशदिक्स्थितौ ॥ ४१ ॥
View Verse
चिन्त्यौ मुद्गफलश्यामावातपत्रकरोद्यतौ ।
नोक्तशेषकराणां तु तद्विद्धि कुमुदोदितम् ॥ ४२ ॥
View Verse
मानवः पृश्निगर्भश्च जगत्यम्बरसंस्थितौ ।
तप्तकाञ्चनवर्णाभौ करण्डमकुटोज्ज्वलौ ॥ ४३ ॥
View Verse
दंष्ट्राकरालवदनौ नानामाल्यधरौ द्विज ।
तत्र मानवसंज्ञस्च पक्षनागविभूषितः ॥ ४४ ॥
View Verse
तस्य दक्षिणहस्तश्च शङ्खराजेन शोभितः ।
तत्पृष्ठे कटके हस्ते अङ्गुष्ठान्तरलोलगा ॥ ४५ ॥
View Verse
अक्षमालेति सा प्रोक्ता सर्वसिद्धिकरी सदा ।
मुख्यवामकरे चक्रं तत्पृष्ठे चोर्ध्वगा गदा ॥ ४६ ॥
View Verse
एतद्धि पृश्निगर्भस्य वैपरीत्येन भावयेत् ।
कटिहस्ताद्गतां ध्यात्वा पक्षनागौ विना द्विज ॥ ४७ ॥
View Verse
एते भगवतो विप्र त्वन्तरह्गा मयोदिताः ।
कर्मणा मनसा वाचा तद्भावगतमानसाः ॥ ४८ ॥
View Verse
ज्ञानादिषड्गुणोपेतैराकीर्णाः कोटिशः परैः ।
भूतैः सिद्धैरनन्तैश्च प्रार्थयानैः परं पदम् ॥ ४९ ॥
View Verse
वस्त्रभूषाङ्गरागाद्यैः सर्वे ते कुमुदोपमाः ।
श्वेतमृत्कल्पितेनैव ह्यूर्ध्वपुण्ड्रेण भूषिताः ॥ ५० ॥
View Verse
ललाटस्थेन सर्वेऽपि कुमुदादिगणाधिपाः ।
एवमन्येऽपि भूताद्याः सर्वे पारिषदा द्विज ॥ ५१ ॥
View Verse
एवमावृतिदेवाश्च द्वारस्थाश्च तथैव हि ।
एवं तदीया विप्राश्च क्षत्रविट्च्छूद्रजातयः ॥ ५२ ॥
View Verse
मृदैव वा चन्दनेन कल्पितैरूर्ध्वपुण्ड्रकैः ।
द्वादशैश्च चतुर्भिर्वा भूषिताः स्युः सदा द्विज ॥ ५३ ॥
View Verse
अतसीकुसुमश्यामौ पीतमाल्याम्बरान्वितौ ।
पीतोष्णीषधरौ रौद्रौ प्राग्वद्भुजविभूषितौ ॥ ५४ ॥
View Verse
गणौ चण्डाकृतिधरौ दुर्दर्शौ दुरतिक्रमौ ।
जयं च विजयं नाम्ना यजेत्तद्वारपार्श्वयोः ॥ ५५ ॥
View Verse
तदुद्देशात् समारभ्य बहिर्द्वारावसानकम् ।
द्वितीयावरणक्षेत्रं षोढा कृत्वा तु पञ्चमे ॥ ५६ ॥
View Verse
भागे तु गरुडं कृत्वा विप्र ध्यात्वाऽथवा न्यसेत् ।
द्रवच्चामीकराकारं भीमभ्रकुटिलोचनम् ॥ ५७ ॥
View Verse
पृथुदंष्ट्रं पृथुध्राणं पृथुगात्रं पृथूदरम् ।
पक्षाङ्कुराञ्चितोरस्कं पक्षमण्डलमण्डितम् ॥ ५८ ॥
View Verse
हारकेयूरताटङ्कमकुटाद्यैस्तु भूषणैः ।
भूषितं नीलवसनं नानामाल्यविभूषितम् ॥ ५९ ॥
View Verse
नानागन्धविलिप्ताङ्गं नागैकादशभूषितम् ।
पुष्पस्तबकसंपूर्णमञ्जलिं दधतं द्विज ॥ ६० ॥
View Verse
उन्नम्य दक्षिणं जानुमासनीकृत्य चेतरत् ।
सुखासनसमासीनं विभोराज्ञाप्रतीक्षकम् ॥ ६१ ॥
View Verse
ततः कर्मात्मतत्वानां दशकं सिद्धतां गतम् ।
भगवत्तुल्यसामर्थ्यसार्वज्ञ्यादिगुणैर्युतम् ॥ ६२ ॥
View Verse
वियुक्तं प्राकृताद् दुःखान्नियुक्तं चेश्वरेण तु ।
भवसन्तारकत्वेन ह्येतदावृतिकं क्रमात् ॥ ६३ ॥
View Verse
उपेन्द्रः पूर्वदिग्भागे संस्थितो द्विजसत्तम ।
वह्नौ तेजोधराख्यस्तु दक्षिणे दुरतिक्रमः ॥ ६४ ॥
View Verse
नैरृते तु महाकर्मा पश्चिमे तु महाह्रदः ।
अग्राह्यो वायुदिग्भागे वसुरेतास्तथोत्तरे ॥ ६५ ॥
View Verse
पूर्वोत्तरे वर्धमानः साक्षी गगनगोचरे ।
आधारनिलयं नाम्ना सर्वस्याधोगतं स्मरेत् ॥ ६६ ॥
View Verse
एते स्फटिकवर्णाभाश्वेतमाल्याम्बरान्विताः ।
गणित्रकं रथाङ्गं च शङ्खं चैव गदां तथा ॥ ६७ ॥
View Verse
दधाना मुख्यदक्षादिमुख्यवामान्तमेव हि ।
करैश्चतुर्भिः सुसमा मकुटादिविभूषिताः ॥ ६८ ॥
View Verse
तेजसा विघ्नजालानि प्रेरयन्तो महौजसः ।
स्थानकैः संस्थिताः सर्वे ध्यानोन्मीलितलोचनाः ॥ ६९ ॥
View Verse
अथवा द्विभुजा एते वज्राद्यं दशकं क्रमात् ।
दक्षेण लोकपालीयं धारयन्तः करेण तु ॥ ७० ॥
View Verse
गणित्रकं तु वामेन वरदाभयदास्तु वा ।
तदा वर्णाङ्गरागाद्यैरिन्द्रादिसदृशास्तु वा ॥ ७१ ॥
View Verse
द्वितीयगोपुरद्वारपार्श्वयोरन्तरस्थयोः ।
विन्यसेद् द्वारपालाख्यावेतौ वामादितो गणौ ॥ ७२ ॥
View Verse
निधीशौ शङ्खपझौ तु निधिभाण्डोपरिस्थितौ ।
स्थूलदन्तौ च दान्तौ च द्विभुजौ भगवन्मयौ ॥ ७३ ॥
View Verse
कुटिलभ्रूलतायुक्तौ किञ्चिदुन्नतवक्षसौ ।
लम्बोदरौ सुपीनाङ्गौ ह्रस्वपाणिपदौ द्विज ॥ ७४ ॥
View Verse
शङ्कपझसमानाभौ नीलशुक्लाम्बरस्रजौ ।
मकुटाद्यैस्तु विविधैरलङ्कारैरलंकृतौ ॥ ७५ ॥
View Verse
दक्षिणेन करेणैव धारयन्तौ सरोरुहम् ।
इतरेण करेणैव ह्युत्तानेन निधिं स्वकम् ॥ ७६ ॥
View Verse
अथवा वामहस्ताभ्यां प्रवेशाभीतिदान्वितौ ।
कर्दवयेन शङ्खं वा पझं वा दधतौ द्विज ॥ ७७ ॥
View Verse
वामेव धारयेत् पझं यद्वा शङ्खं निधीश्वरः ।
शङ्खपझधरौ वापि शिरसा मकुटोपरि ॥ ७८ ॥
View Verse
शङ्खचक्रधरौ वापि साधकेच्छावशेन तु ।
उन्नम्य दक्षिणं जानुं ह्यासनीकत्य चेतरत् ॥ ७९ ॥
View Verse
एवं शङ्खनिधेः पझनिधेस्तु विपरीतवत् ।
तद्द्वारशाखानिष्ठौ तु संस्मरेद्दक्षिणादितः ॥ ८० ॥
View Verse
क्षीरकुन्दावदातौ च नीलकौशेयवाससौ ।
नीलनीरजवर्णाभैः पुष्पैर्भूषितविग्रहौ ॥ ८१ ॥
View Verse
पूर्वोक्तगणसादृश्यौ नाम्ना भद्रसुभद्रकौ ।
तद्द्वारबाह्यतः पश्चात् पार्श्वयोर्गोपुरस्थितौ ॥ ८२ ॥
View Verse
एतौ गणेश्वरौ न्यस्येद् ध्यात्वा वा परिकलप्य च ।
अथवा द्विभुजावेतौ तदा भद्रस्य दक्षिणम् ॥ ८३ ॥
View Verse
करं तु तर्जनीयुक्तं वाममीषत्तु कुञ्चितम् ।
गदाग्रोपरिविश्रान्तं गदामूलोपरिस्थितम् ॥ ८४ ॥
View Verse
व्यत्यस्तदक्षिणं पादं वामं तु भुवि संस्थितम् ।
भद्रस्य वामयोर्विप्र यदुक्तं पाणिपादयोः ॥ ८५ ॥
View Verse
दक्षयोस्तत् सुभद्रस्य दक्षोक्तं वामगं भवेत् ।
किन्तु तद्वामहस्तं तु युक्तं विस्मयमुद्रया ॥ ८६ ॥
View Verse
चण्डप्रजण्डौ धाता च विधाता च जयस्तथा ।
विजयश्चापि भद्रश्च सुभद्रश्च गणेश्वरः ॥ ८७ ॥
View Verse
एते गणेश्वरा ह्यष्टौ प्रभापुष्पाम्बरैर्विना ।
देहवक्त्राकृतैस्तुल्यास्तथैवाभरणायुधैः ॥ ८८ ॥
View Verse
भक्तानां विघ्नजालस्य सर्वदिक्संस्थितस्य च ।
संसारफलदातुर्वै च्छेदनार्थं समुद्यताः ॥ ८९ ॥
View Verse
परस्परमुखाः सर्वे स्थानकैः संस्थिताः समैः ।
गणेशायुतलक्षैस्तु नानावर्णवपूर्धरैः ॥ ९० ॥
View Verse
अच्युताराधनपरैरेकैकं परिवारिताः ।
तृतीयावरणे पश्चात् पूर्वादिक्रमयोगतः ॥ ९१ ॥
View Verse
इन्द्रादिलोकपालानां दशकं विन्यसेद्द्विज ।
शतधामनिभं ध्यायेच्चतुर्बाहुं पुरन्दरम् ॥ ९२ ॥
View Verse
सुसितद्विपसंस्थं तु सुतीक्ष्णकुलिशोद्यतम् ।
अजारूढं स्मरेद्रक्तं शक्तिपाणिं हुताशनम् ॥ ९३ ॥
View Verse
सहस्रार्चिभिराकीर्णं सहस्नादित्यभासुरम् ।
महामहिषसंस्थं तु त्वञ्जनाद्रिसमप्रभम् ॥ ९४ ॥
View Verse
सुभूमदण्डहस्तं तु स्मरेद्देवं पित्रीस्वरम् ।
दंष्ट्राकरालवदनं कृष्णमेघसमप्रभम् ॥ ९५ ॥
View Verse
घोरं प्रेतासनं ध्यायेत् खङ्गधृग्राक्षसेश्वरम् ।
मुक्ताफलद्युतिसमं भीमं पाशकरोद्यतम् ॥ ९६ ॥
View Verse
नागकन्यासहस्नाढ्चं मकरस्थमपांपतिम् ।
नीलतोयदसंकाशं महाध्वजपटाङ्कितम् ॥ ९७ ॥
View Verse
ध्यायेत् समीरणं देवं संस्थितं हरिणोपरि ।
सोमं तारागणोपेतं शङ्खगोक्षीरपाण्डरम् ॥ ९८ ॥
View Verse
बृहच्छशकपृष्ठस्थं शिशिरास्त्रकरं स्मरेत् ।
सितभूतिविलिप्ताङ्गं त्रिनेत्रं वृषवाहनम् ॥ ९९ ॥
View Verse
त्रिशूलायुधहस्तं च त्वीशानं ज्ञानिनं स्मरेत् ।
पातालदिग्गतं ध्यायेत् कूर्मारूढं हलायुधम् ॥ १०० ॥
View Verse
सितं सहस्रफणभृद्योनन्तो नाम नागराट् ।
भचक्रं भ्राम्यमाणं तु दण्डहस्तं प्रजापतिम् ॥ १०१ ॥
View Verse
हंसारूढं खसंस्थं तु ध्यायेद्ध्रुवमजं विभुम् ।
एते चतुर्भुजाः सर्वे अक्षसूत्रविभूषिताः ॥ १०२ ॥
View Verse
चिन्तयन्तः परं तत्त्वं वराभयकरोद्यताः ।
दिव्याभरणदिग्धाङ्गा दिव्यमाल्याम्बरान्विताः ॥ १०३ ॥
View Verse
दिव्यरूपधराश्चैव दिव्यगन्धवहा द्विज ।
रक्तशुक्लनिशापीतनीलचम्पकसप्रभैः ॥ १०४ ॥
View Verse
व्योमस्फटिकमार्तण्डराजोपलनिभैस्तथा ।
माल्याङ्गरागवसनैः महार्घैः समलंकृताः ॥ १०५ ॥
View Verse
भूषिता भूषणैश्चित्रैः करण्डमकुटादिभः ।
एभ्यश्चतुर्भुजो ब्रह्मन् विज्ञेयो वृषभध्वजः ॥ १०६ ॥
View Verse
द्विभुजास्त्वमराश्चान्ये वरदाभयदास्तु वा ।
इति लोकेश्वेरेषूक्तं ततो वै द्विजसत्तम ॥ १०७ ॥
View Verse
तृतीयावरणद्वारे शाखामूले तु दक्षिणे ।
सुदर्शनं चतुर्हस्तं ह्रस्वकायं ज्वलत्प्रभम् ॥ १०८ ॥
View Verse
क्रौधरक्तेक्षणं दैत्यदानवासृग्विलेपनम् ।
नृत्यन्तं मदमत्तं च सहस्रारान्तरस्थितम् ॥ १०९ ॥
View Verse
दंष्ट्राकरालवदनं कुटिलभ्रूलतायुतम् ।
कल्पान्तपावकाकारं स्वरश्मिपरिवेष्टितम् ॥ ११० ॥
View Verse
दक्षिणे भुजयुग्मे तु पूर्वेण च सुदर्शनम् ।
धारयन्तं ततोऽन्येन विश्रान्तां भूतले गदाम् ॥ १११ ॥
View Verse
शङ्खं मुख्येन वामेन ह्यपरेण गणित्रकम् ।
हारकेयूरताटङ्कमकुटादिविभूषणैः ॥ ११२ ॥
View Verse
विभूषितं विचित्रैस्तु श्वेतमाल्याम्बरादिकैः ।
विघ्नानुत्पाटयन्तं च दीप्तेन स्वेन तेजसा ॥ ११३ ॥
View Verse
संस्मरेत्तु ततोऽन्यस्मिन् शाखामूले महामते ।
सुस्थितं गरुढं विप्र तप्तकाञ्चनसन्निभम् ॥ ११४ ॥
View Verse
सौम्यवक्त्रं विवृत्ताक्षं रक्ततुण्डं सुभीषणम् ।
पृथूदरं दीर्घपुच्छपक्षमण्डलमण्डितम् ॥ ११५ ॥
View Verse
रक्ताम्बरधरं चैव रक्तस्रगनुलेपनम् ।
दंष्ट्राकरालवदनं भ्रुकुटीकुटिलेक्षणम् ॥ ११६ ॥
View Verse
विचित्रकञ्चुकधरं भुजगेन्द्रैरलंकृतम् ।
मकुटाद्यैरलंकारैर्विविधैस्तु विभूषितम् ॥ ११७ ॥
View Verse
भुजद्वये यच्चक्रस्य वामे संपरिकीर्तितम् ।
दक्षिणे तद्भवेदस्य दक्षोक्तं वामगं भवेत् ॥ ११८ ॥
View Verse
वज्रं शक्तिस्तथा दण्डःखङ्गः पाशो ध्वजस्तथा ।
शिशिराख्यं त्रिशूलं च लाङ्गलं मुसलं तथा ॥ ११९ ॥
View Verse
पूर्वादिक्रमयोगेन चतुर्थावरणे स्थिताः ।
एतेषां क्रमशो ध्यानं समाकर्णय साम्प्रतम् ॥ १२० ॥
View Verse
वज्रं वज्रोपलाभं तु सितदीर्घनखाङ्कितम् ।
दंष्ट्राकरालवदनं ज्वलत्कनकलोचनम् ॥ १२१ ॥
View Verse
सौदामिनीप्रभां शक्तिं शान्ताग्निवदनेक्षणाम् ।
घनघर्घरनिर्घोषमुद्गिरन्तीं मुहुर्मुङुः ॥ १२२ ॥
View Verse
बद्धमुष्टिं स्मरेद्दण्डं रक्ताङ्गं रक्तलोचनम् ।
क्रोधमूर्तिं स्वदशनैर्दशन्तमधर स्वकम् ॥ १२३ ॥
View Verse
स्व रश्मिखचितं ध्यायेन्नृत्यमानं च नन्दकम् ।
शरदाकाशसंकाशं दशन्तं दशनावलीम् ॥ १२४ ॥
View Verse
पाशं गुणगणाकीर्णं विद्युज्जिह्वं भयानकम् ।
हेमालिपाण्डराभं च घोरास्यं रक्तलोचनम् ॥ १२५ ॥
View Verse
शरज्जलदसंकाशं ध्वजं कुटिललोचनम् ।
स्वतेजसा जगत् सर्वं द्योतयन्तं बलोत्कटम् ॥ १२६ ॥
View Verse
शिशिरं शीतधामाभं पीनाङ्गं पृथुविग्रहम् ।
जटाकलापधृक्सौम्यं पुण्डरीकनिभेक्षणम् ॥ १२७ ॥
View Verse
उदयार्कसहस्राभं त्रिशूलं भीषणाकृतिम् ।
कल्पान्तपावकाकारस्वरश्मिपरिवेष्टितम् ॥ १२८ ॥
View Verse
सन्ध्याजलदसंकाशं लाङ्गलं भीमलोचनम् ।
क्षामाङ्गमुन्नतांसं च वज्रकायं बलोत्कटम् ॥ १२९ ॥
View Verse
कुन्दावदातं मुसलं सौम्यमीषत्स्मिताननम् ।
रवं रवन्तं मधुरं श्रोत्रेन्द्रियसुखावहम् ॥ १३० ॥
View Verse
नीलरक्तसितापीतपावकाञ्जनसन्निभैः ।
हेमचन्द्रहिमाकाशसमानाभैः क्रमेण तु ॥ १३१ ॥
View Verse
माल्याङ्गरागवसनै रुचिरैः समलंकृताः ।
दिव्यैराभरणैर्युक्ताः स्वचिङ्नाङ्कितमस्तकाः ॥ १३२ ॥
View Verse
तर्जयन्तश्च दुष्टौघं दक्षिणेन करेण तु ।
वामेन कटिमालम्ब्य सुसमैः स्थानकैः स्थिताः ॥ १३३ ॥
View Verse
चतुर्थावरणद्वारदक्षिणोत्तरशाखयोः ।
गङ्गां च यमुनां चैव ध्यात्वा संपूजयेत् क्रमात् ॥ १३४ ॥
View Verse
भगवत्पादसंभूतां गङ्गां कुमुदसन्निभाम् ।
नवयौवनलावण्यसौकुमार्यगुणैर्वृताम् ॥ १३५ ॥
View Verse
नीलाङ्गरागवसनां नीलमाल्यैरलंकृताम् ।
द्विभुजां सौम्यवदनां पुण्डरीकनिभेक्षणाम् ॥ १३६ ॥
View Verse
हारनू पुरकेयूरकुण्डलाद्युपशोभिताम् ।
संसारतापसन्तप्तानारुरुक्षून् पंर पदम् ॥ १३७ ॥
View Verse
वासनाकर्मपङ्कानि क्षालयन्तीं स्वतेजसा ।
वहन्तीं दक्षिणेनैव कलशं वारिपूरितम् ॥ १३८ ॥
View Verse
वामेन तर्जयन्तीं च करेण प्राकृतान् जनान् ।
यमुनां नीलरत्ना भां नीलकुञ्चितमूर्धजाम् ॥ १३९ ॥
View Verse
सिताङ्गरागवसनां सितमाल्योपशोभिताम् ।
दक्षिणे तर्जनी मुद्रा वामे तु कलशः स्मृतः ॥ १४० ॥
View Verse
अन्यत् सर्वं तु गङ्गोक्तमत्रापि स्यान्महामते ।
लोहिताक्षो महावीर्यस्त्वप्रमेयः सुशोभनः ॥ १४१ ॥
View Verse
वीरहा विक्रमो भीमः शतावर्तस्तु चाष्टमः ।
ऐश्वरीदिक्क्रमेणैव पञ्चमावरणे स्थिताः ॥ १४२ ॥
View Verse
ध्यायेच्चन्द्रप्रतीकाशं लोहिताक्षं बलोत्कटम् ।
नीलाम्बरधरं नीलमाल्यं नीलानुलेपनम् ॥ १४३ ॥
View Verse
महावीर्यं महाकायं पीतवर्णं महाभुजम् ।
प्रवालाभाम्बरधरं रक्तस्नगनुलेपनम् ॥ १४४ ॥
View Verse
संस्मरेदप्रमेयाक्यमप्रमेयबलोत्कटम् ।
हरिताकृतिमापीतवसनस्रग्विलेपनम् ॥ १४५ ॥
View Verse
सुशोभनं शोभनाङ्गं मुक्ताफलनिभं स्मरेत् ।
अतसीपुष्पसंकाशवासोमाल्यानुलेपनम् ॥ १४६ ॥
View Verse
वीरघ्नं वीरहाख्यं च ध्यायेच्चम्पकसप्रभम् ।
बाह्लीकरञ्जितं रक्तवसनस्रग्विमण्डितम् ॥ १४७ ॥
View Verse
विक्रमं विक्रमावासं चाषोदरनिभं स्मरेत् ।
कुन्देन्दुकान्तिवसनं सितमाल्यानुलेपनम् ॥ १४८ ॥
View Verse
भीमं भीमाकृतिं ध्यायेत्तप्तकाञ्चनसन्निभम् ।
पाण्डरारुणकौशेयं तद्वद्गन्धस्रगन्वितम् ॥ १४९ ॥
View Verse
अतसीकुसुमश्यामं शतावर्तं तु भावयेत् ।
पीताम्बरधरं पीतमाल्यगन्धविभूषितम् ॥ १५० ॥
View Verse
भुजद्वयान्विता ह्येते चान्तर्मुदितमानसाः ।
दक्षिणैः पाणिभिसर्वेर्ज्वलन्तं परशुं तथा ॥ १५१ ॥
View Verse
वामैः शङ्खवरं दीप्तं दधानाश्चारुकुण्डलाः ।
समाः समविभक्ताङ्गाः प्रशान्ताकृतयस्तथा ॥ १५२ ॥
View Verse
स्थानकैः संस्थिताः सर्वे स्वप्रभाभिर्विराजिताः ।
प्रसन्नवदनाः सौम्यास्त्रैलोक्योद्धरणक्षमाः ॥ १५३ ॥
View Verse
हारनूपुरकेयूरपूर्वभूषाविभूषिताः ।
तदाज्ञाप्रेक्षकाश्चैव दुष्टदोषोपशान्तिदाः ॥ १५४ ॥
View Verse
बलेन महता क्षिप्तदेवासुरमहोरगाः ।
एकवीराऽसहायाश्च त्वप्रयत्नेन लीलया ॥ १५५ ॥
View Verse
आब्रह्नभवनं शश्वत् परिवर्तयितुं क्षमाः ।
एतदावरणद्वारचतुष्के द्वारदेवताः ॥ १५६ ॥
View Verse
न्यसेद्युग्मप्रयोगेण पूर्वद्वारादितः क्रमात् ।
वज्रनाभं हरीशं च पूर्वस्यां दक्षिणोत्तरे ॥ १५७ ॥
View Verse
ध्यायेत्तु वज्रनाभाख्यं शतधामसमप्रभम् ।
मुख्यदक्षिणहस्तेन निषेधाभिनयान्वितम् ॥ १५८ ॥
View Verse
वेत्रलतां द्वितीयेन चक्रराजं तृतीयतः ।
मुख्यवामकरेणैव श्रोणीतटकृतार्पणम् ॥ १५९ ॥
View Verse
शङ्खराजं द्वितीयेन तथा वज्रं तृतीयतः ।
धारयन्तं तथा रुक्मभूषणैर्विविधैरपि ॥ १६० ॥
View Verse
रक्तमाल्याम्बरधरं रक्तस्रगनुलेपनम् ।
एवमेव हरीशं च निषेधाभिनयोज्झितम् ॥ १६१ ॥
View Verse
प्रवेशाभिनयाख्येन पाणिना किन्तु चिह्नितम् ।
एको ह्यत्र निषेधं च त्वभक्तानां करोति वै ॥ १६२ ॥
View Verse
भक्तानामपरश्चैव प्रवेशं संप्रयच्छति ।
द्वारे द्वारे प्रतीहारद्वयस्यैवं प्रयोजनम् ॥ १६३ ॥
View Verse
दक्षोक्तं वज्रनाभस्य तद्धरीशस्य वामगम् ।
आद्यवामगतं सर्वमन्यद्दक्षिणपाणिगम् ॥ १६४ ॥
View Verse
धर्माध्यक्षनियन्त्रीशौ दक्षिणे दक्षिणोत्तरे ।
कुर्यादन्तकसादृश्यौ पूर्ववद्भुजभूषितौ ॥ १६५ ॥
View Verse
पीतकौशेयवसनौ पीतमाल्यविलेपनौ ।
किन्तु दण्डगदाहस्तौ वज्रचक्रविवर्जितौ ॥ १६६ ॥
View Verse
शुद्धाक्षममृतानन्दं प्रतीच्यां दक्षिणादितः ।
वाणकार्मुकमेकस्मिन् पाणौ पाशमथापरे ॥ १६७ ॥
View Verse
आद्यं करचतुष्कं यत्तद्व्यग्रं पूर्ववद्भवेत् ।
आकृतौ जलनाथस्य सदृशौ सर्वदैव हि ॥ १६८ ॥
View Verse
नीलकौशेयवसनौ नीलस्रगनुलेपनौ ।
वसुनाथं सुधानन्दमुदग्दिग्दक्षिणोत्तरे ॥ १६९ ॥
View Verse
खड्गमुद्गरहस्तौ च प्राग्वच्छेषं चतुष्टयम् ।
कराणामनयोः कार्यं रूपेणोडुपतेः समम् ॥ १७० ॥
View Verse
अतसीकुसुमश्यामकौशेयस्रग्विलेपनौ ।
भूषणैर्भूषिता ह्येते विविधैर्वज्रनाभवत् ॥ १७१ ॥
View Verse
षष्ठावरणदेवानां तद्द्वार्स्थानां विशेषतः ।
ध्यानं श्रृणु क्रमेणैव तत्त्वतो मुनिपुङ्गव ॥ १७२ ॥
View Verse
पूर्वादीशानपर्यन्तं षष्ठावरणसंस्थिताः ।
एताश्च देवता विप्र तेजोरूपं समाश्रिताः ॥ १७३ ॥
View Verse
कालो वियन्नियन्ता च शास्त्रं नानाङ्गलक्षणम् ।
विद्याधिपतयश्चैव सरुद्राः सगणः शिवः ॥ १७४ ॥
View Verse
प्रजापतिसमूहस्तु इन्द्रः सपरिवारकः ।
तन्मुख्यद्वाश्चतुष्के तु पूर्ववत् संस्थिताः क्रमात् ॥ १७५ ॥
View Verse
चक्रशङ्खौ पद्मगदे लाङ्गलं मुसलं शराः ।
शार्ङ्गं चैते क्रमाद्ध्येया विद्युत्तुहिनकुन्दभाः ॥ १७६ ॥
View Verse
पीतनीलसितारक्तसितगोक्षीरसन्निभैः ।
हरितालारुणाभैस्तु वस्त्रमाल्यानुलेपनैः ॥ १७७ ॥
View Verse
सर्वरत्नमयैर्युक्तैर्भूषणैरप्यलङ्कृताः ।
महाबला महावीर्यास्त्वेकवक्त्रा द्विबाहवः ॥ १७८ ॥
View Verse
एते तु नायकाः सर्वे स्वचिन्हाङ्कितमस्तकाः ।
दुष्टौघं तर्जयन्तश्च दक्षिणेन करेण तु ॥ १७९ ॥
View Verse
कटिमालम्ब्य वामेन स्थानकैः सुसमैः स्थिताः ।
दृढव्रतो बहुशिरा महाकायो महाबलः ॥ १८० ॥
View Verse
जितक्रोधो दुराधर्षो महोत्साहस्त्रिविक्रमः ।
अतुलो दुष्टहाऽर्चिष्मान् सर्वदृग् दुरतिक्रमः ॥ १८१ ॥
View Verse
विषमो गहनोऽमोघः षोडशोपप्रवेशकाः ।
शक्राग्निमध्यमारभ्य शक्रेशानान्तरावधि ॥ १८२ ॥
View Verse
शुक्लशोणसुवर्णालिपिङ्गरक्तसितासिताः ।
रक्तपीतातसीहेमाः शोणशुभ्रसितासिताः ॥ १८३ ॥
View Verse
वर्णानुरूपसद्वस्त्रमाल्यालेपनभूषणाः ।
नामानुरूपचारित्राः शङ्खमुद्गरधारिणः ॥ १८४ ॥
View Verse
सव्येतरक्रमेणैव प्रवेशकनिषेधकाः ।
क्षणाद्भुवनसंहारसृष्टिस्थितिकृतिक्षणाः ॥ १८५ ॥
View Verse
उक्तानेतान् क्रमेणैव पूर्ववत् संप्रपूजयेत् ।
मुनयः सप्त पूर्वेऽन्ये ग्रहास्तारादिकैर्वृताः ॥ १८६ ॥
View Verse
जीमूताश्चाखिला नागास्त्वप्सरोगण उत्तमः ।
ओषध्यश्चैव पशवो यज्ञाः साङ्गखिलास्तु ये ॥ १८७ ॥
View Verse
सूक्ष्मरूपेण तिष्ठन्ति पूर्ववत् सप्तमावृतौ ।
संभवः प्रभवश्चैव पूर्णः पुष्कर एव च ॥ १८८ ॥
View Verse
आनन्दो नन्दनश्चैव वीरसेनसुषेणकौ ।
तन्मुख्यद्वारशाखास्थौ द्वौ द्वौ दक्षिणवामयोः ॥ १८९ ॥
View Verse
संभवः श्वेतवर्णस्तु प्रभवः कुन्दसन्निभः ।
पूर्णस्तु रक्तवर्णाभस्त्वतिरक्तस्तु पुष्करः ॥ १९० ॥
View Verse
आनन्दः पीतवर्णस्तु हेमाभो नन्द उच्यते ।
कृष्णाभो वीरसेनस्तु सुषेणोऽञ्जनसन्निभः ॥ १९१ ॥
View Verse
मकुटाङ्गदचित्राङ्गा गदाहस्ता द्विबाहवः ।
चतुर्भुजा वा विप्रेन्द्र शङ्खचक्रगदाधराः ॥ १९२ ॥
View Verse
पूर्ववत् पाणिनान्येन प्रेवशकनिषेधकाः ।
दंष्ट्राकरालवदना निग्रहानुग्रहक्षमाः ॥ १९३ ॥
View Verse
क्षेमकृच्छिवकृत् प्राज्ञो होमकृद्भूतभावनः ।
युगान्ताग्न्यशनश्चैव संवर्तो भीषणस्तथा ॥ १९४ ॥
View Verse
संक्रन्दनश्चानिमिषः शतपर्वा शताननः ।
औदुम्बरः प्राकृतिको द्वि रामश्चांशुमाल्यपि ॥ १९५ ॥
View Verse
औपदौवारिकं त्वेतद्गणषोडशकं क्रमात् ।
दृढव्रतादिसदृशं वर्णतः षड्भूजान्वितम् ॥ १९६ ॥
View Verse
वामदक्षिणयोगेन पृष्ठतः पूर्वपश्चिमम् ।
शङ्खमुद्गरपझाक्षवराभयसमन्वितम् ॥ १९७ ॥
View Verse
नानावर्णस्रगुष्णीषवस्त्रालेपनभूषणम् ।
प्रागुक्तगणशौर्याढ्यं सर्वकर्मकृतिक्षमम् ॥ १९८ ॥
View Verse
तच्छोभाष्टकरक्षार्थं शतमन्युर्विरोचनः ।
अप्रतर्क्यस्त्वनुल्लङ्घ्यस्त्वप्रमेयाभिधानकः ॥ १९९ ॥
View Verse
अमर्षी च महद्भूतः केऽराक्षस्तथाष्टमः ।
इन्द्राग्निमध्योपद्वारपार्श्वशोभास्वनुक्रमात् ॥ २०० ॥
View Verse
एकाकशः स्थिताः शूराः प्रवेशकनिषेधकाः ।
नीलपीतजपाश्यामसितहिङ्गुलकेन्दुभाः ॥ २०१ ॥
View Verse
महाबला महावीर्याः सुदुर्लङ्घ्यपारक्रमाः ।
नानाविधाम्बरैः स्रग्भिर्भूषणैरनुलेपनैः ॥ २०२ ॥
View Verse
अन्यैरनुपदिष्टैश्च यथाशोभमलंकृताः ।
षाड्गुण्यमहिमायुक्ताश्चतुर्हस्ताः क्रमेण तु ॥ २०३ ॥
View Verse
पृष्ठदक्षिणवामाभ्यां चक्रशङ्खसमन्विताः ।
गदाग्रोपरिविश्रान्तमुक्यहस्तद्वयान्विताः ॥ २०४ ॥
View Verse
द्वारोपद्वारशोभेशानेतान् संपूजयेत् क्रमात् ।
विद्या चैवापरा विद्या पावकश्चैव मारुतः ॥ २०५ ॥
View Verse
चन्द्गार्कौ वारि वसुधेत्येताः संसारदेवताः ।
सूक्ष्मरूपेण तिष्ठन्ति बाह्यावरणभूतले ॥ २०६ ॥
View Verse
अमरेशो विरूपाक्षः सुधर्मिष्ठो नियामकः ।
सर्वसत्त्वाश्रयश्चातिगहनस्तदनन्तरम् ॥ २०७ ॥
View Verse
महाराजेश्वरश्चापि धनाध्यक्षेश्वरस्तथा ।
एत् गणेश्वरास्त्वष्टौ तन्मुख्यद्वारपालकाः ॥ २०८ ॥
View Verse
ध्येयाश्चतुर्भुजाः सर्वे मुख्यपाणिद्वयेन तु ।
अमरेशविरूपाक्षौ वज्रवेत्रलताकरौ ॥ २०९ ॥
View Verse
पृष्ठकाभ्यां तु पाणिब्यां चक्रशङ्खसमुज्ज्वलौ ।
कुङ्कुमाञ्जनसंकाशौ दंष्ट्रया विकृताननौ ॥ २१० ॥
View Verse
दक्षिणोत्तरयोगेन लाञ्छनव्यत्ययान्वितौ ।
द्वारदक्षिणवामस्थौ प्रवेशकनिषेधकौ ॥ २११ ॥
View Verse
सुधर्मिष्ठो नियन्ता च सुसितश्यामलप्रभौ ।
सुभीमदण्डहस्तौ च वज्रायुधविवर्जितौ ॥ २१२ ॥
View Verse
यथाक्रमोदितानन्यान् धारयन्तौ यथाविधि ।
सर्वसत्वाश्रयश्चातिगहनः श्यामलः सितः ॥ २१३ ॥
View Verse
किन्तु पाशकरावेतौ पूर्ववद्भुजभूषितौ ।
महाराजेश्वरो रक्तो धनाध्यक्षेश्वरोऽसितः ॥ २१४ ॥
View Verse
शिशिरायुधसंयुक्तौ त्रिकमन्यद्यथा पुरा ।
महाबला महावीर्या दुष्टदोषभयङ्कराः ॥ २१५ ॥
View Verse
दुर्निरीक्षाश्च दुर्धार्षा दैत्यदानवहिंसकाः ।
नानामहार्घवासोभिः भूषालेपैरलंकृताः ॥ २१६ ॥
View Verse
महर्षभं प्रभूतं च गम्भीरं प्राणगोचरम् ।
योगाङ्गं योगनिलयं सनातनमश्रृङ्खलम् ॥ २१७ ॥
View Verse
तारकान्तरितं तारं विरामं विषमं तथा ।
दुरतिक्रमं दुर्ग्रहं च सुधूम्रमनिलाशनम् ॥ २१८ ॥
View Verse
तत्सालकोपद्वारेषु विन्यसेत् पूर्ववर्त्मना ।
उक्तोपद्वारपालानां वर्णतः सममुज्ज्वलम् ॥ २१९ ॥
View Verse
गणषोडशकं त्वेतच्चतुष्पाणिसमन्वितम् ।
गौणवामकराद्यं तु मुख्यवामकरावधि ॥ २२० ॥
View Verse
शङ्खपट्टसहस्तं च निषेधाबिनयोद्यतम् ।
प्रवेशाभिनयाङ्कं च नानावर्णाम्बरस्रजम् ॥ २२१ ॥
View Verse
नानास्थानकसंयुक्तं नानाभूषणभूषितम् ।
अक्षसूत्रधरं वाऽथ प्रपन्नानां प्रवेशकृत् ॥ २२२ ॥
View Verse
निषेधकृत्तथान्येषां न्यस्तव्यं मुनिसत्तम ।
देवव्रतं निरातङ्कं भीमं च पुरुषं तथा ॥ २२३ ॥
View Verse
उग्रं वीरेश्वरं रम्यमरिष्टं मुनिसत्तम ।
अनिर्विण्णं युगान्तांशं शतानन्दं शताननम् ॥ २२४ ॥
View Verse
तेजोधरं विशालाक्षं युगांशं देवनन्दनम् ।
एतद्द्विरष्टशोभासु गणमेकैकशो न्यसेत् ॥ २२५ ॥
View Verse
उपद्वारेशसदृशं वर्णतो लाञ्छनैर्विना ।
चतुर्भिः पाणिभिश्चैव पृष्ठदक्षिणपूर्वकम् ॥ २२६ ॥
View Verse
मुख्यदक्षिणहस्तान्तं शह्खचक्रगदाधरम् ।
निषेधकृच्च पापानामपापानां प्रवेशकृत् ॥ २२७ ॥
View Verse
नानास्रगम्बरोष्णीषभूषालेपाद्यलंकृताः ।
अनन्ताचिन्त्यविभवाः सर्वभूतसमाश्रयाः ॥ २२८ ॥
View Verse
नानाशस्त्रास्त्रकुशला नानाज्ञानसमन्विताः ।
निरस्तानेकदैत्येशाः साधूनां पालनौद्यताः ॥ २२९ ॥
View Verse
द्वारद्वयान्विते साले मुख्यद्वारगतावुभौ ।
तिष्ठतः सूक्ष्मरूपेण तदन्यद्वारपार्श्वयोः ॥ २३० ॥
View Verse
प्राकारसर्वकोणेषु वह्निकोणादितो न्यसेत् ।
प्रभवाप्ययरूपाणां मूर्तीनां चतुरात्मनाम् ॥ २३१ ॥
View Verse
तथा मूर्त्यन्तराणां च तत्कान्तानामनुक्रमात् ।
मन्त्राणामस्त्रसह्घादि तेषां रूपमनुस्मरन् ॥ २३२ ॥
View Verse
चतुर्णामपि कोणानामव्यक्तं भवनाद्बहिः ।
संयजेद्भवनाम्नावै यस्मान्नान्यो भवः स्मृतः ॥ २३३ ॥
View Verse
तेषां बहिः स्वमन्त्रेण दिक्क्रमेण तु हेतिराट् ।
स्वमरीचिगणेनैव भासयन्तं निवेशय् च ॥ २३४ ॥
View Verse
न्यस्यैवमर्चनं कुर्यान्मन्त्रमुद्रान्वितेन तु ।
निरीक्षणादिशुद्धेन अर्घ्यस्रक्चन्दनादिना ॥ २३५ ॥
View Verse
वासुदेवाभिधानस्तु देवः षाड्गुण्यविग्रहः ।
कर्मिणामुपकारार्थं प्रासादं स्थूलविग्रहम् ॥ २३६ ॥
View Verse
सर्वज्ञानक्रियाढ्यं च सर्वतत्वसमाश्रयम् ।
समासाद्यानुगृह्णाति सदार्चान्तर्गतः प्रभुः ॥ २३७ ॥
View Verse
तस्मात्तदङ्गभूतेषु प्राकारेष्वष्टसु क्रमात् ।
पृष्व्यादिबुद्धिनिष्ठं तु बाह्यं तत्वाष्टकं न्यसेत् ॥ २३८ ॥
View Verse
प्रासादश्चाह्गसंयुक्तः प्रकृतिस्त्रिगुणात्मिका ।
तद्गता प्रतिमा जीवस्तद्गतः परमः पुमान् ॥ २३९ ॥
View Verse
अतोऽधिदैवतान्यत्र तत्वान्येतान्यनुक्रमात् ।
सर्वत्र व्यापकत्वेन ध्यात्वा संपूजयेत्ततः ॥ २४० ॥
View Verse
सर्वाधारमयेनैव सर्वतत्वाश्रयेण च ।
सर्वदोषविषघ्नेन कालचक्राम्बुजेन तु ॥ २४१ ॥
View Verse
सम्पुटीकृत्य भवनं सप्राकारमधोर्ध्वतः ।
संपूज्य ह्नादयीं मुद्रां चक्रमुद्रासमन्विताम् ॥ २४२ ॥
View Verse
प्रदर्श्य सर्वतोदिक्कं कवचेनावकुण्ठयेत् ।
एकमूर्तिविधाने च तथैकद्वारभूषिते ॥ २४३ ॥
View Verse
भवनेऽयं विधानः स्याद्दिग्व्यूहपरिनिष्ठिते ।
चतुर्द्वारान्विते गेहे दिग्द्वाराग्रस्थमण्डपे ॥ २४४ ॥
View Verse
सर्वतोभद्रसाले च अघनिर्मोचनेऽपि च ।
सदध्वाख्येऽथ धर्माख्ये द्वारद्विद्वितयान्विते ॥ २४५ ॥
View Verse
द्वारपालगणन्यासे विशेषोऽयं प्रदर्श्यते ।
चण्डाद्याश्च सुभद्रान्ताः प्रासादद्वाश्चतुष्टये ॥ २४६ ॥
View Verse
न्यसनीयाः क्रमेणैव पूर्ववद् द्वन्द्वयोगतः ।
द्वारोर्ध्वोदुम्बरद्वन्द्वद्वितयस्था यथाक्रमम् ॥ २४७ ॥
View Verse
लक्ष्मी कीर्तिर्जया माया देव्यः प्रागुक्तलक्षणाः ।
सत्यः सुपर्णो गरुडः तार्क्ष्यस्त्वग्रेषु संस्थिताः ॥ २४८ ॥
View Verse
अनिर्वर्ती महावर्ती दर्पहा सर्वजित् स्थिरः ।
जयन्तो भयकृन्मानी त्वष्टमो द्विजसत्तम ॥ २४९ ॥
View Verse
दिगग्रमण्डपद्वारशाखापार्श्वं समास्थिताः ।
अनिर्वर्ती महावर्ती कृष्णाभः शुकसन्निभः ॥ २५० ॥
View Verse
दर्पहा सर्वजिच्चैव पाण्डुरक्तसुवर्णभौ ।
स्थिरो जयन्तः सततं श्यामाञ्जनसमद्युती ॥ २५१ ॥
View Verse
भयकृच्चैव मानी च पिङ्गलः पाण्डुरोज्ज्वलः ।
द्विभुजाः सर्व एवैते दक्षिणेन करेण तु ॥ २५२ ॥
View Verse
नन्दकं शङ्खमन्येन दधानाः क्रूरविक्रमाः ।
यदा चतुर्भुजा ध्येयाः तदा चैते गणेश्वराः ॥ २५३ ॥
View Verse
मुख्यदक्षिणहस्तेन खड्गवेत्रलतान्विताः ।
तथा वामकरे शङ्खं पृष्ठगे दक्षिणादितः ॥ २५४ ॥
View Verse
पाणिद्वये चक्रपझौ बिभ्रतो ज्वलनप्रभौ ।
नानावस्त्रस्रगुष्णीषभूषणालेपनान्विताः ॥ २५५ ॥
View Verse
व्यत्यस्तहस्तचरणा लाञ्झनव्यत्ययान्विताः ।
ऊर्जितश्चामृताङ्गस्तु सर्वाङ्गः सर्वतोमुखः ॥ २५६ ॥
View Verse
शुभ्राङ्गो वरदश्चैव वागीशः शब्दविक्रमः ।
पाञ्चजन्यविशेषा हि द्वौ द्वौ चैव क्रमात् स्थितौ ॥ २५७ ॥
View Verse
सर्वतोभद्रसालस्थचतुर्द्वारेषु पूर्ववत् ।
द्विबाहवस्तु संस्मार्या दक्षिणेन करेण तु ॥ २५८ ॥
View Verse
गृहीतमुसलाः सर्वे शङ्खमन्येन पाणिना ।
दधानाश्चैव चत्वारः पूर्वे बन्धूकसन्निभाः ॥ २५९ ॥
View Verse
अन्ये परभृताभास्तु सर्वभूषणभूषिताः ।
बलेन महता क्षिप्तदेवासुरमहोरगाः ॥ २६० ॥
View Verse
एकवीराऽसहायाश्च अप्रयत्नेन लीलया ।
आब्रह्नभवनं शश्वत् परिवर्तनकृत्क्षमाः ॥ २६१ ॥
View Verse
विश्वेशो विश्वभुग्विश्वो विश्वात्मा विश्वलोचनः ।
विश्वपादो विश्वभुजः तथा वै विश्वकर्मकृत् ॥ २६२ ॥
View Verse
एते द्वितीयसालस्य दिग्द्वारेषु नियामकाः ।
द्विबाहवः परिज्ञेया वामदक्षिणयोगतः ॥ २६३ ॥
View Verse
गदाखड्गास्त्रसंयुक्ताः करण्डमकुटान्विताः ।
शोणपिङ्गसितश्यामरक्तपीतसितासिताः ॥ २६४ ॥
View Verse
सर्वर्णाम्बरालेपस्रग्भूषाभिर्विराजिताः ।
एकवीराऽसहायाश्च सर्वदोषनिवारकाः ॥ २६५ ॥
View Verse
तद्द्वारान्तरभागेषु वामदक्षिणयोगतः ।
प्रासादाभिमुखान् न्यस्येन्निधिनाथेश्वरान् क्रमात् ॥ २६६ ॥
View Verse
शङ्खपझौ महापझशतधामाभिधौ ततः ।
अखण्डितः सन्ततश्चानन्तधार इति श्रुतः ॥ २६७ ॥
View Verse
सर्वद्वार इति ख्यातः प्रथमौ पूर्वमीरितौ ।
अन्येषां वक्ष्यते षण्णां वर्णरूपादिकं क्रमात् ॥ २६८ ॥
View Verse
रक्तः कृष्णः सुवर्णाभः सितारुणतमालभाः ।
शङ्खपझनिधीशोक्तसर्वलक्षणलक्षिताः ॥ २६९ ॥
View Verse
वसुरत्नसुवर्णाष्टलोहधान्यधनाधिपाः ।
सर्वौषधिनिधीशानास्तेषामूर्ध्वे सुखासनाः ॥ २७० ॥
View Verse
सर्वालङ्कारसंयुक्ताः स्वाश्रिताभिमतप्रदाः ।
ततस्तृतीयावरणद्वारेषु द्वन्द्वयोगतः ॥ २७१ ॥
View Verse
तद्दक्षिणोत्तराभ्यां तु शाखाभ्यां विन्यसेत् क्रमात् ।
पुरतश्चक्रगरुडौ हलतालौ तु दक्षिणे ॥ २७२ ॥
View Verse
पश्चिमे शार्ङ्गमकरौ सौम्ये नन्दकऋश्यकौ ।
चक्रपक्षीशताराणां शार्ङ्गनन्दकयोरपि ॥ २७३ ॥
View Verse
स्वेषु स्थानेषु पूर्वोक्तं वर्णरूपादिकं द्विज ।
अन्येषां तालपूर्वाणां त्रयाणामथ वक्ष्यते ॥ २७४ ॥
View Verse
तालो ध्वजः स्याद्भूतादिकालरूपाभिमानकः ।
झषः सर्वाङ्गनिभृतो जगद्बीज उदाहृतः ॥ २७५ ॥
View Verse
स सर्वोपद्रवो ऋश्यः संसारश्चपलात्मकः ।
एतान् सूक्ष्मस्वरूपेण ध्यात्वा संपूजयेत् क्रमात् ॥ २७६ ॥
View Verse
गङ्गा च यमुना गोदा नदी च महती तथा ।
वितस्ता नर्मदा चैव जम्ब्वाख्या च सरस्वती ॥ २७७ ॥
View Verse
नद्यश्चतुर्थसालस्य दिग्द्वारेषु क्रमात् स्थिताः ।
गङ्गायमुनायोरुक्तं वर्णरूपादिकं पुरा ॥ २७८ ॥
View Verse
ताभ्यामन्याः समानास्तु वर्णशोभां विनैव तु ।
सितारुणासितस्वर्णसितकुन्दसमप्रभाः ॥ २७९ ॥
View Verse
प्रमत्तप्रौढवेषाश्च नानाभरणभूषिताः ।
सर्वधातुविचित्राङ्गाः सर्वरत्नविराजिताः ॥ २८० ॥
View Verse
सुधाकुम्भधरा द्वाभ्यां कराभ्यां पूर्ववच्च ताः ।
एवं दिग्द्वारभवनद्वार्स्थस्थितिरुदाहृता ॥ २८१ ॥
View Verse
एकमूर्तेषु दिङ्मूर्तेः प्राकारेषूर्ध्वगेषु च ।
द्वारादयस्तदीयाश्च सामान्याः समुदाहृताः ॥ २८२ ॥
View Verse
सर्वसालप्रतीहारशाखापार्श्वगतावुभौ ।
ध्येयौ वा स्थापनीयौ वा बाह्यहारगतौ यदि ॥ २८३ ॥
View Verse
यथोक्तलक्षणोपेतौ स्थापनीयौ यथाक्रमम् ।
एवमावरणेशानान् ध्यात्वा संस्थाप्य वार्चयेत् ॥ २८४ ॥
View Verse
ध्यानोत्थाः पीठदेशेषु स्वाकाराः स्वासु सझसु ।
तदर्थमङ्कणक्षेत्रं त्रिधा वा पञ्चधा भवेत् ॥ २८५ ॥
View Verse
त्रिभागमेकभागं वा त्यक्त्वा तन्मध्यतो बहिः ।
पीठं वायतनं कुर्यात् सर्वदिक्ष्वनत्रेऽथवा ॥ २८६ ॥
View Verse
अधरोत्तरनिष्ठाभ्यां प्रागुक्ते पूर्ववत् स्थिते ।
शिलेष्टकादिभिः क्लृप्ताः पीठिका हस्तविस्तृताः ॥ २८७ ॥
View Verse
तदर्धेनोछ्रिताः सर्वाः सर्वालङ्कारशोभिताः ।
चतुश्राः सुवृत्ता वा संपूज्या वाऽथ केवलाः ॥ २८८ ॥
View Verse
प्रामादिवास्तुदेवानां स्वदिग्भागगतेषु च ।
गोमयादिविलिप्तेषु मण्डलेषु बलिं हरेत् ॥ २८९ ॥
View Verse
विस्तारोच्छ्रायमानाद्वै पीठाः प्रागुक्तलक्षणाः ।
अर्धमानेन वा कार्या रथयात्राऽविरोधकम् ॥ २९० ॥
View Verse
एवमावरणेशानाः पीठेषु स्वासु दिक्षु च ।
दुष्टदोषनिरासार्थं प्रासादाभिमु खाः स्थिताः ॥ २९१ ॥
View Verse
चतुः स्थानावतीर्णस्य द्वारे च यजनालये ।
स्थापनं गणनाथानां श्रृणु त्वं मुनिपुङ्गव ॥ २९२ ॥
View Verse
वास्तुक्षेत्रेशसंज्ञौ द्वौ प्राग्द्वारे पूर्ववत् स्थितौ ।
लक्ष्मीः कीर्तिर्जया माया द्वारेषूर्ध्वस्थिताः क्रमात् ॥ २९३ ॥
View Verse
वज्रनाभादयो देवा द्वौ द्वौ दिग्द्वारशाखयोः ।
प्रागादिद्वारकुम्भेषु संभवप्रभवादयः ॥ २९४ ॥
View Verse
कुमुदाद्यन्तरङ्गं च भूतानामष्टकं परम् ।
द्वारान्तर्युग्मयुक्त्या तु भ्रमणीदेशमाश्रितम् ॥ २९५ ॥
View Verse
सुपर्णश्चक्रसंज्ञश्च सत्यः कौमोदकी द्विज ।
योजनीयाः क्रमेणैव द्वाराणामग्रभूतले ॥ २९६ ॥
View Verse
हेमदण्डगतः सत्यः किन्तु पश्चिमदिग्गतः ।
चण्डाद्याश्च सुभद्रान्ता द्वौ द्वौ प्रागादिषु द्विज ॥ २९७ ॥
View Verse
दक्षिणोत्तरयोगेन तोरणस्तम्भमूलगाः ।
चक्रद्वितयमध्यस्थः पक्षीशस्तोरणोपरि ॥ २९८ ॥
View Verse
सुसितासु पताकासु सत्याख्यो विहगाधिपः ।
सुपर्णः शोणवर्णासु गरुजः पिङ्गलासु च ॥ २९९ ॥
View Verse
राजपाषाणवर्णासु तार्क्ष्यसंज्ञः प्रतिष्ठितः ।
नानावर्णपताकायां संपूज्यो विहगेश्वरः ॥ ३०० ॥
View Verse
इन्द्रादिलोकपालास्ते सिद्धसङ्घपुरस्सराः ।
वज्रादयस्तदस्त्राश्च स्वासु दिक्षु बहिः स्थिताः ॥ ३०१ ॥
View Verse
मुख्यकल्पेऽथवान्येषु निमित्तेष्वेवमाचरेत् ।
अनुकल्पेऽथ चण्डादीन् वास्तुनाथादिपूर्वकम् ॥ ३०२ ॥
View Verse
द्वारेषु केवलान् न्यस्य गरुडान्तं प्रपूजयेत् ।
सर्वद्वारेषु वा पूज्यः सहेतीशः पतत्रिपः ॥ ३०३ ॥
View Verse
विविधासु प्रतिष्ठासु जीर्णोद्धारविधावपि ।
महोत्सवेषु सर्वेषु ध्वजारोहणकर्मणि ॥ ३०४ ॥
View Verse
मङ्गलाङ्कुररोपे च पवित्रारोहणादिषु ।
तथा चानन्तकलशाद्यभिषेकविधावपि ॥ ३०५ ॥
View Verse
प्रायश्चित्तेष्वनित्येषु तुलारोहादिषु द्विज ।
शान्तिकादिषु मुख्येषु काम्येष्वन्येषु नित्यशः ॥ ३०६ ॥
View Verse
मुख्यकल्पोक्तविधिना कुर्यादन्यत्र चान्यथा ।
सिद्धसङ्घास्तथेन्द्राद्यास्तदस्त्राश्च यथाक्रमम् ॥ ३०७ ॥
View Verse
लोकदिक्पालकास्त्वेते स्वसेनाभिः समावृताः ।
प्रसिद्धप्राग्वशेनैव नित्यं स्वस्थानमाश्रिताः ॥ ३०८ ॥
View Verse
दिकपालकत्वादासृष्टेर्यतस्तेषां स्थितिः स्थिरा ।
भगवन्मन्त्रमूर्तीनामनन्तानां महामते ॥ ३०९ ॥
View Verse
स्वस्थानस्था नमस्यन्ति पूजयन्ति जपन्ति च ।
ध्वजाद्यैरुपचारैश्च सम्यक् परिचरन्ति च ॥ ३१० ॥
View Verse
कैवल्यसिद्धये शश्वद्बहुभिः स्वानुगैः सह ।
पालयन्ति च भक्तानां बलमोजो ददन्ति च ॥ ३११ ॥
View Verse
ध्वंसयन्ति च विघ्नौघमनिशं मन्त्रयाजिनाम् ।
संरक्षन्ति फलं मान्त्रं वर्धमानं द्विलक्षणम् ॥ ३१२ ॥
View Verse
अधिकारमनादीयं शक्तिबीजं जगत्प्रभोः ।
दिक्सिद्धये दशात्मत्वं तदव्यत्त्यष्टदिशात्मिका ॥ ३१३ ॥
View Verse
बाह्यत्रिसालभूमिष्ठाः कालाद्या भवदेवताः ।
तत्साधकत्वात् पूर्वोक्तदिग्भागनियताः सदा ॥ ३१४ ॥
View Verse
वज्रनाभादयो देवा लोकदिग्द्वारपालकाः ।
तथामरेशपूर्वाश्च संभवप्रभवादयः ॥ ३१५ ॥
View Verse
प्रसिद्धप्राक्क्रमेणैव दिग्द्वारेषु स्थिताः क्रमात् ।
कालाद्यमष्टकं नित्यमिन्द्राद्यं रुद्रपश्चिमम् ॥ ३१६ ॥
View Verse
नियन्ता कालतत्वान्ते तदन्ते सुस्थितं वियत् ।
क्रमात् पूर्वोत्तरे कोणे न्यसेद्दक्षिणपश्चिमे ॥ ३१७ ॥
View Verse
विद्याऽविद्याद्वयं यद्वै स्वपदस्थेऽग्निमारुते ।
चन्द्रादित्यावुदग्याम्यस्थानयोर्विनिवेश्य च ॥ ३१८ ॥
View Verse
प्रत्यग्भागगतं तोयं प्राग्भागे विन्यसेद्धराम् ।
कुमुदाद्यावृतीशाना लोहिताक्षादयस्तथा ॥ ३१९ ॥
View Verse
वज्रनाभादिकं मुक्त्वा द्वारपालत्रिरष्टकम् ।
द्वारपालगणास्त्वन्ये सालकोणगणास्तथा ॥ ३२० ॥
View Verse
प्रोक्तक्रमेण तिष्ठन्ति भगवत्प्रागपेक्षया ।
कुमुदादिगणेशानाः पुरग्रामादिवास्तुनि ॥ ३२१ ॥
View Verse
पालिकावसथे चैव दिक्पालोक्तवशात् स्थिताः ।
त्रिसन्ध्यमेवं देवानां बलिदानं समाचरेत् ॥ ३२२ ॥
View Verse
संकल्पितेषु सालेषु द्वारावरणवासिनाम् ।
असंकल्पितसालोक्तदेवानां नाचरेद्बलिम् ॥ ३२३ ॥
View Verse
तत्तन्निर्माणकाले तान् प्रतिष्ठाप्य यथाविधि ।
देवयात्रा समेतं तु बलिदानं समाचरेत् ॥ ३२४ ॥
View Verse
एवं सर्वं समपाद्य महापीठोर्ध्वभूतलम् ।
प्रक्षालितं समारुह्य प्राङ्मुखो वाप्युदङ्मुखः ॥ ३२५ ॥
View Verse
तदूर्ध्वाम्बुजदिक्पत्रे कुमुदादीनथान्तरे ।
सर्वभूतान् पारिषदानाहूय ग्रहसंज्ञितान् ॥ ३२६ ॥
View Verse
संपूज्य सोदकं तत्त बलिशेषं समुत्किरेत् ।
पश्चादाचम्य विधिवत् स्नात्वा वा संविशेद्गृहम् ॥ ३२७ ॥
View Verse
सर्वद्वारावृतीशानां सोणस्थानां समर्चने ।
नतिप्रणवसंयुक्तस्वनाम मन्त्र ईरितः ॥ ३२८ ॥
View Verse
महापीठस्थभूतानां पार्षदानां गृहात्मनाम् ।
तारान्ते विष्णुशब्दं च नियुञ्ज्यादुदितक्रमात् ॥ ३२९ ॥
View Verse
सर्वकोणगता मन्त्राः फडन्ताः समुदीरिताः ।
सर्वे समुदिता मन्त्राः स्वाहान्ता होमकर्मणि ॥ ३३० ॥
View Verse
ध्यात्वैवमर्च्य तन्मन्त्रैरर्घ्याद्यैरुपचारकैः ।
दर्शयेदावृतीशानां मुद्रां तर्जनिसंज्ञिताम् ॥ ३३१ ॥
View Verse
द्वारपालगणानां तु चण्डाद्युक्तमनन्तरम् ।
धर्माद्यावरणादूर्ध्बं हेतुना येन केनचित् ॥ ३३२ ॥
View Verse
बलिदानमशक्यं चेत्तत्रत्यानां यथाक्रमम् ।
सर्वतोभद्रपूर्वेषु द्विगुणीकृत्य चाचरेत् ॥ ३३३ ॥
View Verse
मुख्यकल्पे तथान्यत्र यथाशक्त्यावृतिक्षितौ ।
तद्बाह्यावृतिदेवानामावृत्यावृत्य तर्पयेत् ॥ ३३४ ॥
View Verse
द्वारोपद्वारपालानां तस्मिन् द्वारे समर्पयेत् ।
महापीठोदितानां च तद्द्वाराग्रगमण्डले ॥ ३३५ ॥
View Verse
ध्यानोत्थानां तु सञ्चारे न दोषः केन हेतुना ।
तत्तदावरणद्वारदेशेषूक्तक्रमेण तु ॥ ३३६ ॥
View Verse
द्रव्यमूर्तिगतानां च संचारः स्यादनिष्टदः ।
एवमावृतिदेवानां त्रिसन्ध्यं बलिमाचरेत् ॥ ३३७ ॥
View Verse
नित्योत्सवार्थबिम्बस्य सन्निधौ तत् समाचरेत् ।
नृत्तगेयादिसंयुक्तं वेदघोषसमन्वितम् ॥ ३३८ ॥
View Verse
नित्योत्सवार्थबिम्बे तु यानान्निपतिते भुवि ।
उत्तमं स्नपनं कृत्वा शान्तिहोमं समाचरेत् ॥ ३३९ ॥
View Verse
यानमारोप्य तद्बिम्बं पुनर्नित्योत्सवं चरेत् ।
द्वादशाहं व्रतं कुर्यात् साधकः खिन्नमानसः ॥ ३४० ॥
View Verse
जपेत् स्वमन्त्रायुतकं यदि भेदादिदूषिते ।
विधिवत् तत् समाधाय कृत्वा संप्रोक्षणं ततः ॥ ३४१ ॥
View Verse
उत्सवं शेषणापाद्य खिन्नचित्तस्तु साधकः ।
तदारभ्य निराहारो ब्रह्नचर्यव्रते स्थितः ॥ ३४२ ॥
View Verse
चतुष्कमयुतानां तु स्वमन्त्रस्य तदा जपेत् ।
तत्र त्रिरात्रं षडहं द्वादशाहं द्विपक्षकम् ॥ ३४३ ॥
View Verse
व्रतमाचर्य यत्नेन पात्रेभ्यो दानमाचरेत् ।
गोभूहेमादिकानां तु यथाशक्ति द्विजोत्तम ॥ ३४४ ॥
View Verse
दैवाद्बृहति भङ्गे वा तदा बिम्बान्तरेण तु ।
स्नपनादिनियुक्तेन बलिदानैस्तु कैवलैः ॥ ३४५ ॥
View Verse
कर्मशेषं समापाद्य कृत्वा मन्त्रविसर्जनम् ।
जीर्णोद्धारक्रमेणैव व्रताचरणमाभेत् ॥ ३४६ ॥
View Verse
जपायुतचतुष्क च त्रिरात्राद्यं चतुष्टयम् ।
यावद्बिम्बसमापत्तिर्भूयः कृछ्रादिकं चरेत् ॥ ३४७ ॥
View Verse
बिम्बारम्भदिनात् पूर्वं ततस्त्वेकादशाह्निकम् ।
व्रतं कृत्वा तु देवे तु विम्बारम्भदिने द्विज ॥ ३४८ ॥
View Verse
संपूज्य द्वादशाचार्यान् सममूल्यं पृथक् पृथक् ।
तेब्यो द्वादशदानानि दत्बा गोभूतिलानि वा ॥ ३४९ ॥
View Verse
एतेषां सन्निधौ भूयो बिम्बापादनमारभेत् ।
यद्वाबिम्बं समादध्यात् प्रतिष्ठादिक्रमाच्चरेत् ॥ ३५० ॥
View Verse
गोभूहेमादिकानां तु दानं चापि समाचरेत् ।
जातलोकापवादस्तु भूयश्च व्रतमाचरेत् ॥ ३५१ ॥
View Verse
यावल्लोकापवादस्तु शान्तः स्यातावदाचरेत् ।
मनःप्रसादपर्यन्तकालं च व्रतमाचरेत् ॥ ३५२ ॥
View Verse
अन्येषामपि बिम्बानां जाते भेदादिके सति ।
एवमेव भेवद्विप्र प्रायस्चित्तविधिक्रमः ॥ ३५३ ॥
View Verse
शूद्रस्याराधकस्यैवं प्रायश्चित्तं समीरितम् ।
वैश्यस्य द्विगुणं त्वेतत् त्रिगुणं क्षत्रियस्य तु ॥ ३५४ ॥
View Verse
चतुर्गुणं ब्राह्नणस्य प्रायश्चित्तं समीरितम् ।
मनुष्यस्थापितानां तु बिम्बानां भेदनादिके ॥ ३५५ ॥
View Verse
सञ्जाते साधकस्यैवं प्रायश्चित्तं समीरितम् ।
आर्षे तु भगवद्बिम्बे तदेव द्विगुणं भवेत् ॥ ३५६ ॥
View Verse
देवैः प्रतिष्ठिते बिम्बे तदेव त्रिगुणं भवेत् ।
सिद्धप्रतिष्ठिते बिम्बे तदेतत् स्याच्चतुर्गुणम् ॥ ३५७ ॥
View Verse
स्वयंव्यक्तेषु बिम्बेषु जाते भेदादिके सति ।
प्रायश्चित्तं यथोक्तं तु भवेत् पञ्चगुणं द्विज ॥ ३५८ ॥
View Verse
द्विविधं स्यात् स्वयंव्यक्तं बिम्बं भगवतो विभोः ।
सालग्रामशिलारूपैरितरैस्तु शिलादिभिः ॥ ३५९ ॥
View Verse
उभयत्र समानं स्यात् प्रायश्चित्तं समीरितम् ।
तत्रायं हिविशेषः स्यात् स्वयंव्यक्तादिषु द्विज ॥ ३६० ॥
View Verse
पूजायां वर्तमानायां समाधानादिकं चरेत् ।
प्रायश्चित्तादिकं सर्वं सविशेषं समाचरेत् ॥ ३६१ ॥
View Verse
स्वयंव्यक्तादिकानां तु विना मर्त्यप्रतिष्ठितम् ।
सर्वेषामपि विम्बानां प्राप्तमेकतमं तु यत् ॥ ३६२ ॥
View Verse
खीकारसमये विप्र लक्षणादिविवर्जितम् ।
खण्डितं स्फुटितं वापि यथावस्थितमेव हि ॥ ३६३ ॥
View Verse
स्वीकृत्याराधयेन्नित्यं न दोषस्तस्य विद्यते ।
सालग्रामशिलाबिम्बे तत्तन्मूर्तिविनिर्णयम् ॥ ३६४ ॥
View Verse
तत्तद्व्यवस्थितैश्चिह्नैर्ज्ञात्वा सम्यक् समर्चयेत् ।
पश्चाद्भदादिके जाते प्रायश्चित्तं समाचरेत् ॥ ३६५ ॥
View Verse
पूर्वोदितं प्रयत्नेन साधकः क्षीणमानसः ।
चोरभूवारिवन्ह्याद्यैर्जाते भेदादिकेऽपि च ॥ ३६६ ॥
View Verse
बिम्बे चापहृते वापि मार्जाराद्यैश्च जन्तुभिः ।
भेदादिकेऽपि संजाते प्रागुक्तं साधकश्चरेत् ॥ ३६७ ॥
View Verse
तस्माद्दिनात् समारभ्य प्रायश्चित्तं तु यत्नतः ।
यस्मात् प्रागार्जितं पापं कर्म तत्रापि कारणम् ॥ ३६८ ॥
View Verse
तस्मात्तच्छान्तये वापि ह्यपवादस्य शान्तये ।
प्रायश्चित्तं तु कर्तव्यं विहितं प्राक् प्रयत्नतः ॥ ३६९ ॥
View Verse
अन्यथा पातकी स स्यादेतस्मात् पातकाद्द्विज ।
प्रमादतः कृतेप्येवं प्रायश्चित्तं समाचरेत् ॥ ३७० ॥
View Verse
बुद्धिपूर्वकृते मेदे प्रायश्चित्तैर्न निष्कृतिः ।
अवश्यं दण्ड्य एव स्यात् स पापिष्ठोऽतिदुर्मतिः ॥ ३७१ ॥
View Verse
स्वप्रमादकृते भेदे जन्त्वन्तरकृतेपि वा ।
साधको ह्यनुतापार्तो नाचरेद्यदि कीर्तितम् ॥ ३७२ ॥
View Verse
प्रायश्चित्तं तथा सोपि दड्यः स्यात् प्रथमं ततः ।
प्रायश्चित्तं च वै कुर्यादयोग्यस्त्वन्यथा भवेत् ॥ ३७३ ॥
View Verse
गोपन्नपि च दोषस्य तस्य भेदादिकस्य च ।
दण्डश्च प्रायश्चित्तं च विधेयमुभयं भवेत् ॥ ३७४ ॥
View Verse
एवं भेदादिके जाते भयं स्याद्राजराष्ट्रयोः ।
तच्छान्त्यै सप्तदिवसं यजेत् कुम्भस्थलादिकम् ॥ ३७५ ॥
View Verse
एकस्मिन् वा त्रिसप्ताहं बिम्बसंस्थं च मन्तनपम् ।
दोषे प्रसिद्धे भेदादौ प्रायश्चित्तं समीरितम् ॥ ३७६ ॥
View Verse
अप्रकाशे यथोक्तात्तु चतुर्थांशं समाचरेत् ।
पूर्वं त्वपहृतं बिम्बं भूयः प्राप्तं यदि द्विज ॥ ३७७ ॥
View Verse
प्रायश्चित्ताद्यथोक्तात्तु यत्नेनार्थं समाचरेत् ।
बिम्बानां तु क्षते जाते श्रृणु दोषान् विशेषतः ॥ ३७८ ॥
View Verse
क्षतमिन्द्रियचक्रस्थं कर्तुर्भवति दोषदम् ।
आकण्ठान्नाभिपझान्तं मन्त्रस्थं पुत्रमृत्युकृत् ॥ ३७९ ॥
View Verse
पार्श्वद्वये तु जायायाः पृष्ठस्थं भ्रातृहानिदम् ।
नाभेर्यन्मेढ्रप्रयन्तं स्थानमासाद्य तिष्ठति ॥ ३८० ॥
View Verse
क्षतं सुतशिशूनां च नाशकृद्भवति द्विज ।
आकटेः पायुपर्यन्तं भगिनीनां क्षयावहम् ॥ ३८१ ॥
View Verse
ऊरुमूलाच्च जान्वन्तं यत्र यत्र भवेत् क्षतम् ।
धनधान्यपशूनां च क्षयो भवति सर्वदा ॥ ३८२ ॥
View Verse
जान्वोः पादतलान्तं च भृत्यवर्गस्य दोबदम् ।
सर्वेषामनुकम्पार्थमात्मनश्चापि तृप्तये ॥ ३८३ ॥
View Verse
कर्ता कमलसंभूत क्षतमक्षततां नयेत् ।
अल्पक्षते समाधानं विहितं तु निबोध मे ॥ ३८४ ॥
View Verse
योजयेच्चित्रबिम्बस्य गलितं गन्धभावितैः ।
सितरक्तादिकै रागैः पावनैरस्त्रमन्त्रितैः ॥ ३८५ ॥
View Verse
मृण्मयानां तु बिम्बानां मध्वाज्यक्षीरमिश्रया ।
मृदा कौशेयसंपूर्णयुक्त्या हेमोदसिक्तया ॥ ३८६ ॥
View Verse
सन्धानं कारयेद्विप्र दारुजस्य निबोधतु ।
भेदे भङ्गे च सन्दध्यादस्त्रशस्त्रद्वयेन तु ॥ ३८७ ॥
View Verse
अश्मजानां क्षते जाते सति रत्नशलाकया ।
सहेमया च विहितं घृष्टशाणस्य घर्षणम् ॥ ३८८ ॥
View Verse
मनुष्यनिर्मितानां तु ह्यश्मजानां बृहत्क्षते ।
सर्वथा विहितस्त्यागः स्वयंव्यक्तादिकेषु तु ॥ ३८९ ॥
View Verse
शिलामयेषु बिम्बेषु भिन्नं भग्नं च योजयेत् ।
सुवर्णनिर्मितैः पट्टैर्यथा दृढतरं भवेत् ॥ ३९० ॥
View Verse
यद्वा तदङ्गैर्हैमेन कृत्वा सम्यङ्नियोजयेत् ।
दारुजे लोहजेष्वेवं स्वयं व्यक्तादिकेष्वपि ॥ ३९१ ॥
View Verse
भेदे भङ्गे समाधिस्स्यात् स्वयं व्यक्ताश्मबिम्बवत् ।
रत्नजेऽपि समाधानमेवमेव समाचरेत् ॥ ३९२ ॥
View Verse
सालग्रामशिलाविम्बं भिन्नं भग्नं बृहत् क्षतम् ।
अल्पक्षतं च सौवर्णैः पट्टैर्दृढतरं यथा ॥ ३९३ ॥
View Verse
बन्धयेल्लोहजे बिम्बे श्रृणु मर्त्यप्रतिष्ठिते ।
केवलस्य हि हैमस्य यथालाभं क्षेते क्षिपेत् ॥ ३९४ ॥
View Verse
स्वर्णरत्नमयं चूर्णं द्वादशाक्षरमन्त्रितम् ।
अन्यधा तूत्थिते बिम्बे क्षतं सम्यङ्महामते ॥ ३९५ ॥
View Verse
ईषत्सुवर्णमिश्रेण पूरयेत् स्वेन धातुना ।
स्वयं व्यक्तादिकेऽप्येवं मुख्यकल्पे समाचरेत् ॥ ३९६ ॥
View Verse
प्रासादे मण्डपे वापि गोपुरादिषु वा द्विज ।
शोभार्थं संस्थितानां च बिम्बानां पररूपिणाम् ॥ ३९७ ॥
View Verse
व्यूहानां विभवानां च सदा भगवतो विभोः ।
भेदादिके तु सञ्जाते समादध्यात् तथैव तु ॥ ३९८ ॥
View Verse
तत्तत्सन्निध्यनुगुणं प्रतिष्ठादिकमाचरेत् ।
प्रायश्चित्तं समभ्यूह्य साधकस्तु समाचरेत् ॥ ३९९ ॥
View Verse

Chapter 12

श्रीः ।
द्वादशोऽध्यायः ।
सनकः ।
जाते ह्याकस्मिके लोपे सद्व्यापारस्य नित्यशः ।
स्नानादियोगनिष्ठस्य तथा नैमित्तिकस्य च ॥ १ ॥
View Verse
वत्सरोत्सवनिष्ठस्य विविधस्य महामते ।
कृच्छ्रचान्द्रायणादीनां सद्वृत्तानां तथैव च ॥ २ ॥
View Verse
चतुर्णामाश्रमस्थानां वर्णानां च स्त्रियस्तथा ।
श्रेष्ठमध्यमवित्तानां न्यू नानामपि तत्वतः ॥ ३ ॥
View Verse
भक्तानां पुण्डरीकाक्षे श्रद्धासंयमसेविनाम् ।
यावज्जीवावधिं कालं तत्पूजाकृतचेतसाम् ॥ ४ ॥
View Verse
साक्षात्तन्मन्त्रनिष्ठानां यथावन्मुनिपुङ्गव ।
पातत्राणमुपायं तु श्रोतुमिच्छामि साम्प्रतम् ॥ ५ ॥
View Verse
कृतेन येन भक्तानां जायते कृतकृत्यता ।
शाण्डिल्यः ।
वक्ष्ये सम्यङ्महाबुद्धे सारमुद्धृत्य सर्वतः ॥ ६ ॥
View Verse
सर्वलोकहितार्थाय सावधानेन चेतसा ।
लोप बुद्धिं विना यस्य भोगानामप्यसंभवः ॥ ७ ॥
View Verse
सामर्थ्येन विना यस्य कृच्छ्रादीनां वरिच्युतिः ।
ज्वरादिव्याधिदोषेण जातं यस्याह्निकक्षयम् ॥ ८ ॥
View Verse
चातुर्मास्तस्य चाप्राप्तिः यस्य स्वातन्त्र्यतो विना ।
तस्य तस्य महाबुद्धे श्रृणु यद्विहितं हितम् ॥ ९ ॥
View Verse
सांस्पर्शिकानां भोगानां मात्रावित्तं हि पूरणम् ।
हृदयङ्गमसंज्ञानामन्नं च हविषा प्लुतम् ॥ १० ॥
View Verse
औपचारिकभोगानां बीजानि विविधानि च ।
कृच्छ्रचान्द्रायणादीनां व्रतानां परिपूरकः ॥ ११ ॥
View Verse
विशेषार्चनसंयुक्तश्चातुर्मास्यस्य संयमः ।
सौत्रं प्रतिसरं चित्रं मुक्ताहारोपमं शुभम् ॥ १२ ॥
View Verse
शमं नयति भक्तानां सर्वदा लोपमाह्निकम् ।
यथाश्वमेधं विप्राणां सर्वेच्छापरिपूरकम् ॥ १३ ॥
View Verse
राजसूयं नृपाणां च भक्तानां भूषणं तथा ।
भूषणानां यथा मध्ये कौस्तुभं वरभूषणम् ॥ १४ ॥
View Verse
ज्ञेयं पवित्रकं तद्वद्भोगजालस्य चान्तरे ।
यत् पूरयति भक्तानां व्यापारं पारमेश्वरम् ॥ १५ ॥
View Verse
भोगमोक्षाप्तये शश्वद्भोदस्तस्मात्तु कोऽधिकः ।
भक्तानां सततं भक्त्या सालोक्यं विदधाति वै ॥ १६ ॥
View Verse
सामीप्यं साधकानां च नानासिद्धिसमन्वितम् ।
सायुज्यं साधकेन्द्राणां स्वमन्त्रात्मनि यच्छति ॥ १७ ॥
View Verse
तदुत्तरायणेऽतीते चातुर्मास्यस्य मध्यतः ।
कुर्याच्छुभे दिने विप्र सर्वदोषविवर्जिते ॥ १८ ॥
View Verse
कालोऽपि त्रिविधः प्रोक्तश्चातुर्मास्योपलक्षितः ।
आषाढपञ्चदश्यास्तु यावद्वै कार्तिकस्य च ॥ १९ ॥
View Verse
संपूर्णचन्द्रदिवसं तं कालं चान्द्रमन्तिमम् ।
आकर्कटकसंक्रान्तेस्तुलाभोगक्षयावधि ॥ २० ॥
View Verse
कालं तमष्टपक्षं च सौरं मध्यमसंज्ञितम् ।
एकादश्यादि वाऽन्तो यश्चातुर्मास्योपलक्षितः ॥ २१ ॥
View Verse
कालं तं वैष्णवं विद्धि तूत्तमं सर्वसिद्धिदम् ।
अप्राप्तेरस्य कालस्य त्वन्तरायेण केनचित् ॥ २२ ॥
View Verse
निर्वाहणीयो ह्यपरः कालश्चान्द्रायणादिना ।
सम्पाद्यं चैव तन्मध्ये विधिवद्यागपूरकम् ॥ २३ ॥
View Verse
प्रावृट्काले प्रवृत्ते तु त्रैलोक्योदरवर्तिनाम् ।
मनुष्यामरसिद्धानां कर्तव्यं चाग्रवर्तिनाम् ॥ २४ ॥
View Verse
प्रवर्तन्ते हि वै येन श्रद्धया वत्सरं प्रति ।
महत्यस्मिन् महाबुद्धे व्यापारे पारमेश्वरे ॥ २५ ॥
View Verse
विभोः शयनसंस्थस्य काले पुष्पफलाकुले ।
गगने लम्बमाने तु सबलाकैर्वलाहकैः ॥ २६ ॥
View Verse
कुमुदोत्पलकल्हारैर्भूषिते वसुधातले ।
वनोपवन उद्यानैर्हरिते शाद्वलादिकैः ॥ २७ ॥
View Verse
शालिसस्यादिकैर्युक्ते पल्वलोदकशोभिते ।
पवित्रकं कृतं विष्णोरनन्तस्यातितुष्टिदम् ॥ २८ ॥
View Verse
तस्माद्यत्नेन तत् कुर्याच्चातुर्मास्यस्य मध्यतः ।
श्रावण्यां शुक्लपक्षे तु द्वादश्यां द्विजसत्तम ॥ २९ ॥
View Verse
आदावन्ते तथा कुर्यादद्वादशीष्वखिलासु च ।
सङ्क्रान्तिषु च सर्वासु पौर्णमासीषु वा द्विज ॥ ३० ॥
View Verse
अमावास्यास्वशेषासु तृतीयासु तथैव च ।
नभस्येषु च रोहिण्यामष्टम्यां च महामते ॥ ३१ ॥
View Verse
प्रथमा च द्वितीया च पञ्चमी च त्रयोदशी ।
दशम्येकादशीत्येवमेतास्वपि यथारुचि ॥ ३२ ॥
View Verse
कृष्णपक्षेऽप्रशस्ताःस्युः शुक्लपक्षे विशेषतः ।
चन्द्रो गुरुस्सितश्चान्द्रो ज्ञेयास्त्वेते शुभप्रदाः ॥ ३३ ॥
View Verse
पवित्रारोहणादौ तु नक्षत्राणि श्रृणुष्व मे ।
त्र्युत्तरासु च रेवत्यामश्बिन्यां भरणीषु च ॥ ३४ ॥
View Verse
पुनर्वसौ तथा हस्ते रोहिण्यां श्रवणेऽपि च ।
वैष्णवेष्वथ ऋक्षेषु तत्क्षणेष्वखिलेषु च ॥ ३५ ॥
View Verse
चातुर्मास्यस्य कालस्य तूत्थानद्वादशी तु या ।
षडशीतिमुखा दिव्या तस्यामारोपयेत्तु यः ॥ ३६ ॥
View Verse
पवित्रकं जगद्योनेः स पवित्रीकरोति च ।
अतीतां वर्तमानां च एष्यां स्वकुलसन्ततिम् ॥ ३७ ॥
View Verse
तत्र सन्निहितः साक्षान्नानानिर्माणविग्रहैः ।
भक्तानां पुण्डरीकाक्षः परमात्माच्युतो हरिः ॥ ३८ ॥
View Verse
यद्यप्येवं महाबुद्धे भक्तानां नित्यमेव हि ।
नारायणस्तु मन्त्रात्मा स्थितः सन्निहितः स्वयम् ॥ ३९ ॥
View Verse
तथापि बलवत्ता वै तत्तिथेस्तत्र कर्मणि ।
सन्निधिं भजते येन मन्त्रिणां मन्त्रराट् प्रभुः ॥ ४० ॥
View Verse
ग्रीष्मकालं समासाद्य यथार्कस्तीक्ष्णतां ब्रजेत् ।
स्वरूपमजहन्नेव सन्निधानतरं विभोः ॥ ४१ ॥
View Verse
सत्पात्रदेशकालानामासृष्टेः स्थितये तु वै ।
अतः पवित्रकं तस्यामन्यस्यां तदसम्भवात् ॥ ४२ ॥
View Verse
कार्यं क्रियापरैर्भक्त्या साखण्डा येन जायते ।
पवित्रारोहणं विष्णोर्वर्जयेदितरेषु च ॥ ४३ ॥
View Verse
प्रासादस्याग्रतः कुर्यात्तदर्थं मण्टपं द्विज ।
प्रथमावरणे वापि द्वितीयावरणेऽपि वा ॥ ४४ ॥
View Verse
तृतीयावरणे वाथ चतुर्थे पञ्चमेऽपि वा ।
अग्रालाभे तदन्यत्र यथावाञ्छितदिग्गतम् ॥ ४५ ॥
View Verse
चतुरश्रं समं वापि प्राक्पश्चिमदिगायतम् ।
सौम्ययाम्यायतं वापि कर्तुरिच्छानुरूपतः ॥ ४६ ॥
View Verse
तथा प्रागाननं यद्वा यथाभिमतदिङ्मुखम् ।
द्वाविंशतिधनुर्मानं मण्टपं चोत्तमं भवेत् ॥ ४७ ॥
View Verse
अष्टादशधनुर्मानं मण्‍टपं मध्यमं भवेत् ।
अधमं द्वादशधनुर्मानं स्यादथवा द्विज ॥ ४८ ॥
View Verse
पञ्चहस्तात् समारभ्य द्विद्विहस्तविवर्धनात् ।
त्रिसप्तकरपर्यन्तं मानैर्नवविधं भवेत् ॥ ४९ ॥
View Verse
यद्वोत्तमं दशकरं मध्यमं चाष्टहस्तकम् ।
ष़ड्द्दस्तमधमं विद्यात् क्षुद्रं हस्तत्रयायतम् ॥ ५० ॥
View Verse
त्रिंशत्करावसानं वा षट्करात् पञ्जविंशतिः ।
एकं संगृह्यमानेषु ह्येषु वित्तानुरूपतः ॥ ५१ ॥
View Verse
सोपपीठमधिष्ठानं केवलं वा मसूरकम् ।
अधिष्ठानोपरिस्तम्भं प्रस्तरं च त्रिवर्गकम् ॥ ५२ ॥
View Verse
कपोतवृतिसंयुक्तं यद्वोक्ताकृतिवर्जितम् ।
एकत्रिपञ्चसप्तादिभित्तिभेदैः समावृतम् ॥ ५३ ॥
View Verse
प्रत्यङ्गोक्तैरलङ्कारैर्युक्तं वा तद्विवर्जितम ।
शिलयेष्टकया वापि प्कया वाप्यव्कया ॥ ५४ ॥
View Verse
एकद्वारं चतुर्द्वारं यद्वा द्वारद्वयान्वितम् ।
बित्तियुक्तमयुक्तं वा कोणभित्तियुतं तु वा ॥ ५५ ॥
View Verse
केवलं वा प्रपामात्रमुक्तलक्षणवर्जितम् ।
क्षिप्रकर्मप्रसिद्ध्यर्थं शरकाष्ठमयं शुभम् ॥ ५६ ॥
View Verse
गवाक्षकान्वितं चैव द्वारैस्तु परिभूषितम् ।
छन्नं वितानकेनोर्ध्वे प्राकारं परिकल्पयेत् ॥ ५७ ॥
View Verse
क्षेत्रसङ्कोचविस्तारौ कर्तुरिच्छानुरूपतः ।
शिल्पशास्त्रानुसारेण कृत्वैवं मण्डपं द्विज ॥ ५८ ॥
View Verse
यागार्थं सुशुभं विप्र तन्मद्येऽथ प्रकल्पयेत् ।
दृढां समां तदाकारामीषत् प्रागुत्तरप्लवाम् ॥ ५९ ॥
View Verse
प्रोछ्रितां च विशेषेण स्थलां दर्पणसन्निभाम् ।
सामान्या न भवेद्येन मेदिनीमण्टपस्य तु ॥ ६० ॥
View Verse
द्विद्विकेनाङ्गुलीनां तु प्रोन्नतेर्यावदष्टकम् ।
एकवृद्ध्याल्पमानानां यागानां तु स्थलांगणम् ॥ ६१ ॥
View Verse
नवाङ्गुलोन्नतेस्तावद्यावत्पञ्चदशाह्गुलम् ।
प्रोन्नतत्वं स्थलानां च मध्यमानमितात्मनाम् ॥ ६२ ॥
View Verse
चतुर्विंशत्यङ्गुलान्तमुछ्रायं षोडशाङ्गुलात् ।
प्रागुक्तवृद्ध्या कर्तव्यं ज्येष्ठमानमितात्मनाम् ॥ ६३ ॥
View Verse
एतदुच्छ्रायमानं च कथितं ते स्थलासु च ।
पादमर्धं तु हस्तं वा बिस्तारात् सर्वदिक्षु वै ॥ ६४ ॥
View Verse
स्थलानामिष्टकाद्यैश्च चिन्वीयात् प्रथमं ततः ।
मृदा सम्पूर्य तन्मध्यमीषद्वालुकयान्वितम् ॥ ६५ ॥
View Verse
परिक्ष्य केशकीटादीनाकोट्य तदनन्तरम् ।
यावद्भवति पूर्वोक्तलक्षणं वा विशेषतः ॥ ६६ ॥
View Verse
स्थलां मध्योन्नतां रम्यां सप्ताहं संपरीक्ष्य सा ।
न ददाति यथाभेदं यागयोग्या भवेत्तदा ॥ ६७ ॥
View Verse
तदूर्ध्वे वेदिकां कुर्यात् अनेकचरणान्विताम् ।
तोरणैश्च समायुक्तां विभवेच्छानुरूपतः ॥ ६८ ॥
View Verse
पावनैर्यज्ञकाष्ठेश्च सुदृढैः सरलैः समैः ।
यथालक्षणयुक्तानि तोरणानि चतुर्दिशि ॥ ६९ ॥
View Verse
द्वाराणां बाह्यतो विप्र तदन्तर्वा नियोजयेत् ।
त्रीणि त्रीण्यथवा सम्यगेकैकस्यां न्यसेद्दिशि ॥ ७० ॥
View Verse
बुद्ध्वा मण्टपविस्तारं पञ्चकं सप्तकं तु वा ।
एतानि हेमरत्नाद्यैश्चित्रयेद्विभवे सति ॥ ७१ ॥
View Verse
श्रीवृक्षोदुम्बरवटप्लक्षोत्थैरथवा द्विज ।
पूर्वाद्युत्तरपर्यन्त तोरणानां चतुष्टयम् ॥ ७२ ॥
View Verse
चतुष्टयं चतुर्दिक्षु ह्येषामेकैकमेव वा ।
तोरणानां समुच्छ्रायस्तम्भायामसमः स्मतः ॥ ७३ ॥
View Verse
स्तम्भद्वयान्तरस्थेन मानेन स्यात्तु विस्तृतिः ।
स्तम्भमस्तकमानेन साधिकेन सदैव हि ॥ ७४ ॥
View Verse
तद्दण्डौ विन्यसेदभूमौ स्तम्भाभ्यन्तरगा स्थितिः ।
सदैव दृक्स्वरूपाणां कार्या वेदविदांवर ॥ ७५ ॥
View Verse
द्वाराणां बाह्यतो विप्र तोरणानां यथा स्थितिः ।
तलाच्छिखरपर्यन्तं मानमुछ्रायतस्तदा ॥ ७६ ॥
View Verse
सार्धं समं वा द्विगुणं तद्दण्डेषु च भूगतम् ।
चक्रद्वितयमध्यस्थं पक्षमण्डलमण्डितम् ॥ ७७ ॥
View Verse
तोरणे तोरणे कुर्याद्गरुडं चोर्ध्वसंस्थितम् ।
मत्स्यादीनवतारांश्च प्रादुर्भावाननेकशः ॥ ७८ ॥
View Verse
चित्रोदितेन विधिना चतुर्दिक्षु समालिखेत् ।
मुनिसिद्धामरव्रातैरनेकाद्भुतदर्शिभिः ॥ ७९ ॥
View Verse
द्वीपाचलवनोद्यानैर्बहुभिर्मृगयूथपैः ।
सरःसारसकल्हारैर्जलक्रीडापरान्वितैः ॥ ८० ॥
View Verse
खेचरैरङ्गनायुक्तैर्नृपैर्विद्याधरादिकैः ।
प्रशान्तमानसैर्विप्रैरात्मध्यानपरायणैः ॥ ८१ ॥
View Verse
एवमाद्यैरनन्तैश्च व्यापारैश्चित्रसंभवैः ।
तद्यागवेश्म सकलं रञ्जनीयं प्रयत्नतः ॥ ८२ ॥
View Verse
कुर्यात् सुधाविलिप्तं वा भूषयेत्तदनन्तरम् ।
दर्पणैश्चामरैर्वस्त्रैर्दुकूलैर्विविधोज्ज्वलैः ॥ ८३ ॥
View Verse
घण्टाभिरर्धचन्द्राद्यैरातपत्रैर्मनोहरैः ।
प्रोच्छ्रितैः कदलीपूगैर्द्रुमाङ्गैः पावनैर्दृढैः ॥ ८४ ॥
View Verse
मध्वाज्यदधिसत्क्षीरसंपूर्णैः कांस्यभाजनैः ।
शालितण्डुलपात्रैश्च सहिरण्यैः फलैः शुभैः ॥ ८५ ॥
View Verse
लाजसिद्धार्थकैर्बीजभाजनैः षड्रसान्वितैः ।
सत्सुगन्धैस्त्वगेलाद्यैः पर्णैः पूगफलैस्तथा ॥ ८६ ॥
View Verse
मधूकबदरद्राक्षा इक्षुभिस्त्रिफलैः फलैः ।
यथर्तुप्रभवैः पुष्पैर्वहुभिः प्रकरीयकैः ॥ ८७ ॥
View Verse
इत्येवमाद्यैर्विविधैर्भोगपूगैस्तु पावनैः ।
पवित्रेण वितानेन सुसितेनोज्ज्वलेन वा ॥ ८८ ॥
View Verse
चक्राम्बुरुहचिह्नेन भूषयेच्च तदूर्ध्वतः ।
स्तम्भान् संवेष्टयेत् पश्चाद्दुकूलैर्विविधैः पृथक् ॥ ८९ ॥
View Verse
प्रागुत्तरादिदिग्भागाद्यावत्कोणं च मारुतम् ।
सितादिवर्णभेदोत्थाः पताकास्तत्र योजयेत् ॥ ९० ॥
View Verse
एवं रागविभागेन प्रत्यग्भागाच्च वै पुनः ।
दक्षिणाशावधिर्यावद्द्वितीयं च चतुष्टयम् ॥ ९१ ॥
View Verse
एकैव सर्ववर्णा च नाभौ कार्या वितानके ।
बाह्यतो वेदिकायास्तु मण्डपस्य दिगष्टके ॥ ९२ ॥
View Verse
वह्निकोणात् समारभ्य यावत्कोणं तु शाङ्करम् ।
सितारुणं च पीतं च कृष्णं कुर्याच्चतुष्टयम् ॥ ९३ ॥
View Verse
भूयश्चोत्तरदिग्भागाद्यावद्दिक्पश्चिमा द्विज ।
तथाविधं चतुष्कं तु ध्वजानां परिखीर्तितम् ॥ ९४ ॥
View Verse
राजपाषाणवर्णाभं चक्रपक्षीश्वरोपगम् ।
वैजयन्तीत्रयं कुर्यात्तोरणे पूर्वदिक्स्थिते ॥ ९५ ॥
View Verse
दक्षिणे स्फटिकाभं तु आप्ये सिन्दूरवर्चसम् ।
हेमाभं चोत्तरे कुर्यात्तोरणे ध्वजकत्रयम् ॥ ९६ ॥
View Verse
चतुष्केण पताकानां युक्तं श्वेतादिकेन च ।
एकैकं तोरणं वात्र त्रितयं पञ्चकं तु वा ॥ ९७ ॥
View Verse
अर्धेन तोरणायामात् पताकानां च दीर्घता ।
एवं त्वभिनवं कृत्वा यागार्थं मण्डपं द्विज ॥ ९८ ॥
View Verse
स्नपनाद्युत्सवान्तस्य वैशेषिकगणस्य च ।
पुरा प्रकल्पितं वाथ मण्डपं भूषयेत्तदा ॥ ९९ ॥
View Verse
एवं कृते ततः पश्चाद्वेदिकां तोरणैः सह ।
विलिप्य चन्दनाद्यैस्तु गन्धवर्णोज्ज्वलैः क्रमात् ॥ १०० ॥
View Verse
चन्दनेन समालभ्य वेदिकां केवलेन च ।
बाह्लीकभावितेनैव तेनैवाद्यं च तोरणम् ॥ १०१ ॥
View Verse
लिप्तं मृगमदेनैव कुर्याद्दक्षिणदिग्गतम् ।
तुषारधूलीधवलं पश्चिमं कारयेत्ततः ॥ १०२ ॥
View Verse
कुङ्कुमेन समालभ्य केवलेनोत्तरे स्थितम् ।
क्षीरेण चन्दनेनैव कुङ्कुमेन कृतां स्थलाम् ॥ १०३ ॥
View Verse
रजनीचूर्णयुक्तेन हरीबेरेणाम्बुना सह ।
पुण्यगन्धौषधीभिस्तु द्वाराणां मण्डपावनिम् ॥ १०४ ॥
View Verse
ततस्तु विविधैर्धूपैर्बहुभिर्धूपयेद्द्विज ।
ततस्तिरस्करिण्या तद्वेष्टयेत् सर्वतो बहिः ॥ १०५ ॥
View Verse
मण्डपस्योत्तरे भागे कुर्यात् कुण्ड पुरैव तु ।
यद्वा द्विज ततोऽन्यत्र यागाग्रस्था च वर्ज्यदिक् ॥ १०६ ॥
View Verse
दिक्त्रयेऽभिमता या दिक् कुर्यादनलमण्डपम् ।
धूमनिर्गमनोपेतं नानाकुण्डबिभूषितम् ॥ १०७ ॥
View Verse
सार्द्रै श्च सुपलाशैश्च सुयुक्तं तोराणादिकैः ।
यद्वा पचनगेहे तु कुण्डं कुर्यात् सलक्षणम् ॥ १०८ ॥
View Verse
अन्यन्नैमित्तिकार्थं तु पुरा क्लृप्तं तु वा भवेत् ।
एवं कृते ततः कुर्यात् सम्भारग्रहणं द्विज ॥ १०९ ॥
View Verse
सप्तमे पञ्चमे वापि वासरे कर्मवासरात् ।
पूर्वं कृत्वाङ्कुरारो पं ततः कर्म समारभेत् ॥ ११० ॥
View Verse
ततः प्रवेशयेत्तस्मिन् सम्भारान् यागमण्डपे ।
दशम्यां द्विजशार्दूल यत्किञ्चिच्चोपयुज्यते ॥ १११ ॥
View Verse
भूषणादि ततः कुर्याद्यथा तदवधारय ।
तेषां तु द्विविधं रूपं सूक्ष्मस्थूलविभेदतः ॥ ११२ ॥
View Verse
सर्वभावेन भक्तानां यत् पालयति सर्वदा ।
मनोवाक्चित्तजं कृत्स्नं व्यापारं शुभलक्षणम् ॥ ११३ ॥
View Verse
परिज्ञेयमतस्तस्मात् स्वरूपं तस्य यादृशम् ।
फलमेति च वै येन भक्तानां तत्समापनात् ॥ ११४ ॥
View Verse
यदच्छिन्नं जगद्योनेरनन्तप्रसरं सितम् ।
विच्छेदमकृतज्ञानामेति नानात्मना स्वयम् ॥ ११५ ॥
View Verse
जगत्सूत्रं तु तद्विद्धि हेमसूत्रादिना तु वै ।
षाड्गुण्यमहिमानं यद्धत्ते प्रतिसरात्मना ॥ ११६ ॥
View Verse
ज्ञानरागोपरक्तं तु युक्तं कार्यैस्तु वीर्यजैः ।
तैजसैरावृतं मन्त्रैर्बलेनावसितं परि ॥ ११७ ॥
View Verse
ऐश्वर्यमुपचारे तु सम्पत्तौ शक्तितोऽव्ययम् ।
एवं पवित्रकं तावत् परिज्ञातं जगत्प्रभोः ॥ ११८ ॥
View Verse
ब्रह्नण्यधिपतौ विण्णौ तथाकारे प्रतिष्ठिते ।
भक्त्या च विधिवद्दत्तं ददाति भगवत्पदम् ॥ ११९ ॥
View Verse
स्थूलस्य व्यतिरिक्तस्य व्यवहारपदस्थितैः ।
पदार्थैः कल्पनीया च यथा तदवधारय ॥ १२० ॥
View Verse
सूक्ष्मं दृढं सितं श्र्लक्षणं सूत्रं ब्रह्नप्रसूतया ।
विनिर्मितं कुमार्या वा वृद्धया वा विनीतया ॥ १२१ ॥
View Verse
शुद्धया वा विधवया सम्पादितमथापि वा ।
क्षौमं वा पट्टजं वापि केशरोमादिवर्जितम् ॥ १२२ ॥
View Verse
यथालब्धं समादाय सम्यक् प्रक्षाल्य वारिणा ।
तस्य शुद्धिं पुरा कृत्वा दहनाप्यनेन च ॥ १२३ ॥
View Verse
अवलोक्य स्मरन्मूलं विनिष्पाद्य चतुर्गुणम् ।
चातुरात्म्यव्यपेक्षायामथवाष्टगुणं द्विज ॥ १२४ ॥
View Verse
प्रभवाप्ययबुद्ध्या तु भेदभिन्नोपलक्षितम् ।
केशवादिष्वधिष्ठातृभावेन त्रिचतुर्गुणम् ॥ १२५ ॥
View Verse
तन्तुभिर्विषमैर्विष्णोः समस्य परिवर्जयेत् ।
पावित्रिकी क्रिया यस्माद्विषमा सा न कस्यचित् ॥ १२६ ॥
View Verse
पवित्रकाणि कार्याणि तन्तुभिस्तैः सुतानितैः ।
मूलमन्त्रादिमन्त्राणां सर्वेषां मुनिसत्तम ॥ १२७ ॥
View Verse
कुम्भस्थमन्त्रमूर्तेः प्राक् कल्पयेद्भूषणं द्विज ।
अध्यर्धशमजैर्व्यासाद्धाराकारैश्च तन्तुभिः ॥ १२८ ॥
View Verse
शतेनाष्टोत्तरेणाद्यं द्विगुणेन द्वितीयकम् ।
त्रिगुणेन तृतीयं तु व्यासमेवं तु तन्नयेत् ॥ १२९ ॥
View Verse
षट्त्रिंशद्ग्रन्थिकं चाद्यं द्वितीयं द्विगुणं स्मृतम् ।
तृतीयं त्रिगुणं कुर्यादेवमेव महामते ॥ १३० ॥
View Verse
मण्डलस्थस्य च विभोस्तथा वह्निगतस्य च ।
बिम्बस्थस्य पवित्राणां विशेषमवधारय ॥ १३१ ॥
View Verse
मालाकृतिं च शिरसि यथेच्छग्रन्थिपूर्वकम् ।
द्वितीयमंसयोर्यावल्लम्बितं जानुमण्डले ॥ १३२ ॥
View Verse
मूर्ध्नः पादावधिर्यावत्तृतीयमिति विस्तृतम् ।
आमूर्ध्नः पीठपर्यन्तं वनमालापवित्रकम् ॥ १३३ ॥
View Verse
पृथक्पीठस्य वै कुर्यात् स्वप्रमाणेन शोभनम् ।
बिम्बप्रतिसराणां च व्पासश्चानियतः स्मृतः ॥ १३४ ॥
View Verse
सूत्रमानं च पूर्वोक्तं द्विगुणं सति संभवे ।
त्रिगुणं वा मुनिश्रेष्ठ वनमालाख्यभूषणम् ॥ १३५ ॥
View Verse
अष्टोत्तेरण सूत्राणां सहस्रेण समन्वितम् ।
यद्वा तदर्धं पादं वा कुर्याद्वित्तानुरूपतः ॥ १३६ ॥
View Verse
लेपभित्तिपटस्थे तु मूलबिम्बे यदा द्विज ।
कुर्यादुत्सवबिम्बस्य भूषणानां तु षञ्चकम् ॥ १३७ ॥
View Verse
तदापि मूलबिम्बस्य भूषणान्यपि पूर्ववत् ।
क्लपयेदाद्यपूर्वाणि बिम्बप्रतिसरेषु तु ॥ १३८ ॥
View Verse
विभवे देवदेवेशं हारपञ्चसमन्वितम् ।
नानाकाराणि तन्तूनि मुक्ताहारसमन्वितम् ॥ १३९ ॥
View Verse
त्र्यङ्गुलान्तरिता देयाः सर्वेषां ग्रन्थयः समाः ।
सङ्ख्यानेन विना सम्यङ्मातुलुङ्गोपमाः शुभाः ॥ १४० ॥
View Verse
अष्टोत्तरशतग्रन्थिसंयुक्ता वनमालिका ।
चतुः स्थानावतीर्णस्य विभोरामन्त्रणाय च ॥ १४१ ॥
View Verse
पवित्रमाद्यसदृशमेकैकं वा द्वयं द्वयम् ।
सर्वेषां कर्मबिम्बानां तथा वै गोपुरादिषु ॥ १४२ ॥
View Verse
स्थितानां मन्त्रबिम्बानां भजतां सन्निधिं सदा ।
उत्तमादीनि सर्वाणि कुर्याद्वै मुख्यकल्पने ॥ १४३ ॥
View Verse
प्रकल्पयेत् तत्सदृशं मध्यमेनोत्तमेन वा ।
द्वितयं द्वितयं वापि ह्येकैकं वानुकल्पने ॥ १४४ ॥
View Verse
अङ्गानामप्युपाङ्गानां लाञ्छनानामपि द्विज ।
भूषणानां च शक्तीनां तथैव विहगेशितुः ॥ १४५ ॥
View Verse
प्राग्वत्त्रीण्यथवा द्वे द्वे ह्येकैकं वाथवा द्विज ।
यथेच्छमानसंख्योत्थैः सूत्रैस्तु परिकल्पयेत् ॥ १४६ ॥
View Verse
सूत्रभ्रमसमोपेतैर्गभैर्भूषणसञ्चयम् ।
अन्येषां मण्डलाङ्गानां देवानां विभवे सति ॥ १४७ ॥
View Verse
पवित्रकगणं कुर्याद्यथेच्चग्रन्थितन्तुभिः ।
तथैव विष्वक्सेनादेः परिवारगणस्य च ॥ १४८ ॥
View Verse
मन्त्रास्त्रकुम्भयोर्द्वे वै ह्येकं वै मण्डलस्य च ।
द्वयं च कुण्डानलयोः शास्त्रपीठस्य च द्वयम् ॥ १४९ ॥
View Verse
लिपेर्वाक्तत्वभूतस्य शब्दतत्वस्य च प्रभोः ।
घण्टाक्षसूत्रपूर्वाणां क्रियाङ्गानां महात्मनाम् ॥ १५० ॥
View Verse
बलिपीठादिदेवानां देशान्तरनिवासिनाम् ।
गुर्वादीनां चतुर्णां तु हरिवीप्साप्रलापिनाम् ॥ १५१ ॥
View Verse
द्विजोत्तमादिवर्णानां नित्यमच्युतभाविनाम् ।
गृहस्थब्रह्नचारीणां यतीनां वनवासिनाम् ॥ १५२ ॥
View Verse
वृद्धानां जनकादीनां भगवत्तत्ववेदिनाम् ।
बन्धूनां भ्रातृपूर्वाणां नारायणरतात्मनाम् ॥ १५३ ॥
View Verse
जायाया भक्तिनम्राया रताया अर्चने हरेः ।
सम्बन्धिनां च मित्राणां भगवद्धामसेविनाम् ॥ १५४ ॥
View Verse
तदुत्तरसहायानां चातुरात्म्याभिलाषिणाम् ।
भृत्यानां स्वानुकूलानां पुरुषोत्तमयाजिनाम् ॥ १५५ ॥
View Verse
वृद्धये योग्यतायैव पवित्रीकरणाय च ।
यथाभिमतमानैस्तु तन्तुभिर्ग्रन्थिभिस्तथा ॥ १५६ ॥
View Verse
कुर्यात् पवित्रनिचयमथवा मुनिसत्तम ।
गुर्वादीनां चतुर्णां तु यतीनां च कुटुम्बिनाम् ॥ १५७ ॥
View Verse
क्रमाच्चतुर्विंशतिभिः सूत्रैः षोडशभिस्तथा ।
ततो द्वादशभिश्चैव अष्टाभिःषट्त्रिभिस्तथा ॥ १५८ ॥
View Verse
पवित्रकाणि कार्याणि ग्रन्थयः सूत्रसंख्यया ।
आराधकस्य च गुरोः कुर्याद्वे भूषणद्वयम् ॥ १५९ ॥
View Verse
स्थूलकल्पमिदं प्रोक्तं सूक्ष्मकल्पमतः श्रृणु ।
शिरःप्रमाणेनार्चाया भूषणं प्रथमं स्मृतम् ॥ १६० ॥
View Verse
चतुःशतेन सूत्राणां द्वात्रिंशद्भिस्तथाधिकैः ।
सूत्रावर्तैश्च सुसमैः परिकल्प्य सुशोभनम् ॥ १६१ ॥
View Verse
सप्तविंशत्प्रमाणेन दत्वास्मिन् ग्रन्थिसञ्चयम् ।
कर्मादूर्ध्वगतं नाभिप्रमाणेन पवित्रकम् ॥ १६२ ॥
View Verse
परिकल्प्य द्वितीयं च सूत्राणां मुनिसत्तम ।
शतत्रयेण च तथा चतुर्विंशद्भिरेव च ॥ १६३ ॥
View Verse
द्विगुणैर्ग्रन्थिनिचयैरनुगर्भं तु तत् स्मृतम् ।
स्कन्धदेशात् समारभ्य यावत्पादद्वयावधि ॥ १६४ ॥
View Verse
नेत्रसूत्रैस्त्रिभागोनैः सूत्रग्रामैश्च कल्पयेत् ।
त्रिगुणैर्ग्रन्थिनिचयैस्ततो ।़न्यद्द्विजसत्तम ॥ १६५ ॥
View Verse
अष्टोत्तरेण सूत्राणां शतेन ग्रन्थिभिस्तथा ।
शिरः पूर्वावतारादौ यावत्पीठं तु वैष्णवम् ॥ १६६ ॥
View Verse
सूत्रैर्ग्रन्थिगणैश्चैव गर्भैस्तु विविधैस्ततः ।
मण्डलस्य प्रमाणेन कुर्याच्चान्यच्चतुष्टयम् ॥ १६७ ॥
View Verse
प्रथमं पझमानेन नाभिमानं द्वितीयकम् ।
अरतुल्यं तृतीयं स्याच्चतुर्थं नेमिभिः समम् ॥ १६८ ॥
View Verse
एकाशीतिभिरावर्तैः सूत्राणां द्विजसत्तम ।
अग्नेः कुण्डप्रमाणेन ग्रन्थिभिस्तावदेव हि ॥ १६९ ॥
View Verse
भूषणत्रितयं कुर्याद्यथायोगं महामते ।
अष्टोत्तरशतादर्धैः सूत्रैस्तद्ग्रन्थिभिस्तथा ॥ १७० ॥
View Verse
भूषणं सुसमं चैव सुशुभं परिकल्पयेत् ।
द्विजेन्द्र द्विजमुख्यानां ब्राह्नणानां तदर्धतः ॥ १७१ ॥
View Verse
मुख्यमेतत् स्मृतं कल्पमनुकल्पमिदं श्रुणु ।
अष्टाधिकेन सूत्रेण शतेन प्रथमं त्विदम् ॥ १७२ ॥
View Verse
चतुर्भागोनमपरं तदर्धेन तृतीयकम् ।
आद्याच्चतुर्थभागेन चतुर्थं कलपयेत् ततः ॥ १७३ ॥
View Verse
त्रिभागोनं चतुर्थात्तु अग्नेः कुर्यात्तु भूषणम् ।
द्विजेन्द्राणां प्रकुर्वीत सप्तविंशतितन्तुजम् ॥ १७४ ॥
View Verse
ब्राह्मणानां प्रकुर्वीत तन्तुभिर्नवभिर्द्विज ।
स्तनादूर्ध्वमधोनाभेर्न कर्तव्यं कदाचन ॥ १७५ ॥
View Verse
सूत्रत्रयेण चान्येषां भक्तानां तु जगद्गुरोः ।
सूक्ष्मकल्पमिदं विद्धि परकल्पमिदं श्रृणु ॥ १७६ ॥
View Verse
चतुःस्थानावतीर्णस्य मुख्यमन्त्रस्य वै विभोः ।
शतेनाष्टोत्तरेणैव ह्यर्धेनांशेन वा मुने ॥ १७७ ॥
View Verse
तन्तूनां भूषणं कुर्यादेकैकं वा त्रयं त्रयम् ।
जपहोमादिका संख्या पूर्णआरिक्ता महात्मनाम् ॥ १७८ ॥
View Verse
समीकरोति भक्तानां मन्त्रिणामत एव हि ।
कुर्यात्तदग्रन्थिनिचयं सूत्रसंख्योपलक्षितम् ॥ १७९ ॥
View Verse
यदृच्छया ततोऽन्येषां याज्यानां परिकल्प्य च ।
सूत्रभ्रमसमोपेतैर्गर्भैर्भूषणसञ्चयम् ॥ १८० ॥
View Verse
ततस्तु देवदेवस्य चतुः स्थानस्थितस्य यत् ।
पवित्रकगणं विप्र प्रोक्तमाद्यपुरस्सरम् ॥ १८१ ॥
View Verse
कुर्यात्तु गर्भरचनां तस्य सर्वस्य सत्तम ।
हेमसद्रत्नकर्पूरमालयक्षोदकुङ्कुमैः ॥ १८२ ॥
View Verse
सर्वौषधिसमोपेतैस्त्वगेलादिविमिश्रितैः ।
पावनैर्विविधैर्द्रव्यैर्नीव्या च पिचुना सह ॥ १८३ ॥
View Verse
बीजपूरसमाकारमार्द्रामलकशङ्खवत् ।
तदन्तरालानि पुनस्त्वच्छिन्नेन तु तन्तुना ॥ १८४ ॥
View Verse
विभागप्रतिपत्यर्थं ग्रथनीयान्यदूरतः ।
अन्येषां सर्वबिम्बानां यथावित्तानुरूपतः ॥ १८५ ॥
View Verse
कल्पयेद्गर्भरचनां पूर्वोक्तद्रव्यसञ्चयैः ।
आराधकस्य च गुरोः सगर्भं भूषणद्वयम् ॥ १८६ ॥
View Verse
विहितं भगवन्मन्त्रन्यासात्तादात्म्यभावनात् ।
अतोऽन्येषामगर्भं च रचनीयं यथाक्रमम् ॥ १८७ ॥
View Verse
अन्तरालगणं गार्भं कुर्याद्बाह्लीकरञ्जितम् ।
अलङ्कृत्य च सौवर्णैरुपरिष्टाच्च रूप्यकैः ॥ १८८ ॥
View Verse
पवित्रच्छेदसम्मूलं जातरूपमयैस्तु वा ।
शङ्खपजगदाचकमालाश्रीवत्सपूर्वकैः ॥ १८९ ॥
View Verse
एकस्थैव बहूनां वा यथावित्तानुसारतः ।
एवं कृत्वा पवित्राणि क्रमेण द्विजसत्तम ॥ १९० ॥
View Verse
धातुजे वितते भाण्डे वस्त्रच्छन्ने निधाय च ।
अथवा पैत्तले भाण्डे मृण्मये वा सुशोभने ॥ १९१ ॥
View Verse
पालाशे वापि चैकस्मिन् मान्त्रं भूषणसञ्चयम् ।
अन्यस्मिन् लौकिकं स्थाप्य समस्तं द्विजसत्तम ॥ १९२ ॥
View Verse
आच्छाद्य वाससा पश्चात् सुसितेनाहतेन तु ।
बन्धयित्वा तु सृत्रेण दृढेन सुसितेन च ॥ १९३ ॥
View Verse
मध्ये तु यागद्रव्याणां ते भाण्डे विनिवेश्य ।
देशिकः पूर्वविधिना कृतस्नानः कृताह्निकः ॥ १९४ ॥
View Verse
देशिकेन्द्रेण सहितौ गत्वा मन्त्रेशसन्निधिम् ।
प्रपूज्य देवदेवेशमर्ध्यगन्धादिभिः क्रमात् ॥ १९५ ॥
View Verse
विज्ञाप्य देवदेवाय मा मे विघ्नं भव त्विति ।
तस्मादनुज्ञां संगृह्य शिरसावनतेन तु ॥ १९६ ॥
View Verse
निशामुखे प्रवृत्ते तु कर्तार्घ्यकुसुमोद्यतः ।
सहसद्ब्रह्नघोषेण स्तुतिमङ्गलपाठकैः ॥ १९७ ॥
View Verse
शङ्खतूर्यनिनादैश्च पुष्पैरर्घ्यसमन्वितैः ।
कृत्वा द्वार्स्थार्चनं विप्र प्रविशेद्यागमण्टपम् ॥ १९८ ॥
View Verse
इदमुच्चारयेन्मन्त्रं स्वरेणोच्चतरेण तु ।
नमो ब्रह्नण्यदेवायाच्युतायाव्ययाय च ॥ १९९ ॥
View Verse
ऋग्यजुस्सामरूपाय शब्ददेहाय विष्णवे ।
प्रविश्य कल्शस्थानं समीपे तु वरासने ॥ २०० ॥
View Verse
प्राङ्मुखः संस्मरेन्मन्त्रं पूर्ववद्व्याप्तिभाविते ।
उपविश्य यथान्यायमन्तर्यागान्तमाचरेत् ॥ २०१ ॥
View Verse
करादिशुद्धिपूर्वं तु पश्चादर्घ्यादिकल्पनम् ।
प्राग्वत् कृत्वा ततोऽभ्यर्च्य मन्त्रसङ्घं तु देहजम् ॥ २०२ ॥
View Verse
द्वौ द्वौ तु पूर्णकलशौ सौवर्णौ राजतौ तु वा ।
ताम्रजौ मृण्मयौ वाथ सापिधानौ सपल्लवौ ॥ २०३ ॥
View Verse
फलै रत्नादिकैर्युक्तौ सूत्रेण परिवेष्टितौ ।
शालिपीठोपरि स्थाय्य प्रतिद्वारं तु पार्श्वयोः ॥ २०४ ॥
View Verse
पालिकानां शरावाणां विन्यसेत्तु त्रयं त्रयम् ।
प्रितकोणं तु संस्थाप्य घटिकानां त्रयं त्रयम् ॥ २०५ ॥
View Verse
द्वारयागं ततः कुर्यात् पूर्वाद्युत्तरपश्चिमम् ।
अर्घ्यालभनमाल्यैश्च धूपैर्गुग्गुलुमिश्रितैः ॥ २०६ ॥
View Verse
वास्त्वीशः क्षेत्रनाथश्च द्वारलक्ष्मीस्तथा द्विज ।
चण्डप्रचण्डौ गरुडः पूर्वद्वारे तु संस्थिताः ॥ २०७ ॥
View Verse
दक्षे धातृविधातारौ पश्चिमे तु जयेतरौ ।
भद्राख्यश्च सुभद्राख्यो ह्युत्तरे दक्षिणादितः ॥ २०८ ॥
View Verse
मूलबिम्बे यदा कुर्यात् पवित्रारोहणं तदा ।
मण्डलस्थस्य देवस्य प्रागाद्युत्तरपश्चिमम् ॥ २०९ ॥
View Verse
संस्थानं द्वार्स्थदेवानां यात्राबिम्बे यदा भवेत् ।
तत्प्रागपेक्षया तेषां संस्थानमुदितं तदा ॥ २१० ॥
View Verse
मुख्येनार्घ्याम्भसा प्रोक्ष्य पृथग्भाण्डे स्थितं पुरा ।
पञ्चगव्यं ततो विप्र कल्पयित्वा हृदादिकैः ॥ २११ ॥
View Verse
कुशोदकं तदस्त्रेण दत्वाद्येनाभिमन्त्रयेत् ।
कल्पयेत् पञ्चगव्यं तु पञ्चोपनिषदैस्तु वा ॥ २१२ ॥
View Verse
अथ पाणिद्वयेनैव अग्नीषोमात्मकेन तु ।
योग्यतापदवीं नीत्वा शोधयेद्वसुधां ततः ॥ २१३ ॥
View Verse
मूलेन साम्भसानेन प्रोक्षयेद्यत् पुराहृतम् ।
कौशेयेन पवित्रेण ध्यायमानस्तमेव हि ॥ २१४ ॥
View Verse
सर्वबीजानि धान्यानि सिद्धार्थकयुतान्यथ ।
कृत्वास्त्रपरिजप्तानि ध्यात्वा ह्यस्त्रसमानि च ॥ २१५ ॥
View Verse
विघ्नोपशान्तये वेगाद्दशदिक्षु विनिक्षिपेत् ।
संहृत्य बहुकूर्चेन प्राच्यां दिशि निधाय वै ॥ २१६ ॥
View Verse
ईशानदिशि वा न्यस्त्वा यागस्येच्छानुरूपतः ।
तद्गर्भीकृत्य संलिख्य हेतिराट् चन्दनादिना ॥ २१७ ॥
View Verse
चक्रं ध्यात्वा मण्डपोर्ध्वे पङ्कजं वसुधातले ।
र्निगमे च गदां देवीं शङ्खं च ककुभाष्टके ॥ २१८ ॥
View Verse
प्राकाराकारदेहां च नानाज्वालासमाकुलाम् ।
शक्तिरूपां गदां वाथ केवलां मन्त्रतो न्यसेत् ॥ २१९ ॥
View Verse
एवं कृते तदा सम्यग्भवेद्विघ्नविनाशनम् ।
अथादाय दृढं शुद्धमेकरूपं च निर्व्रणम् ॥ २२० ॥
View Verse
कुम्भं च मृण्मयं रम्यं सौवर्णं वाथ राजतम् ।
रत्नहाटकस्रग्गन्धफलसर्वौषधीयुतम् ॥ २२१ ॥
View Verse
शुभपादपशाखाढ्यं पट्टस्रग्गन्धभूषितम् ।
गालितोदकसंपूर्णवारिधारान्वितं नवम् ॥ २२२ ॥
View Verse
चन्दनाद्युपलिप्तं च परितश्चाक्षतान्वितम् ।
वेष्टितं परितः सूत्रैः विकीर्योपरि तन्न्यसेत् ॥ २२३ ॥
View Verse
तद्देवताशरीरं तु वश्यदं बलवर्चसम् ।
सास्त्रेण चक्रमन्त्रेण मन्त्रयेदथ वर्धनीम् ॥ २२४ ॥
View Verse
पूर्वोक्तद्रव्यसंयुक्तां परितः सूत्रवेष्टिताम् ।
आवाह्य मन्त्रनाथस्य दक्षिणे कलशोत्तरे ॥ २२५ ॥
View Verse
विन्यस्य परितस्तत्र स्थापयेत् कलशाष्टकम् ।
सपल्लवं सापिधानं सूत्रेण परिवेष्टितम् ॥ २२६ ॥
View Verse
कुम्भमध्ये विभोःप्राग्वदासनं परिकल्प्य च ।
तन्मद्ये पुण्डरीकाक्षं समावाह्य विधानतः ॥ २२७ ॥
View Verse
सन्निधिं सन्निरोधादिभोगयागावसानकम् ।
पूर्ववत् सकलं कृत्वा तस्य दक्षिणदिग्गतम् ॥ २२८ ॥
View Verse
अस्त्रविग्रहरूपं च ध्यात्वाऽभ्यर्च्य यथाविधि ।
ध्वंसयन्तं च विघ्नानां जालं कर्मावसानिकम् ॥ २२९ ॥
View Verse
इदमभ्यर्थयेद्देवं सास्त्रं बद्धाञ्जलिः स्थितः ।
यागालयं हि विश्वेश गृहाण रचितं मया ॥ २३० ॥
View Verse
आसमाप्तं भज विभो क्रियाङ्गानां च सन्निधिम् ।
ततोऽस्त्रोदकधारां चाप्यच्छिन्नां भित्तिगां नयेत् ॥ २३१ ॥
View Verse
प्रदक्षिणेन प्राग्भागात्तत्पदान्तं च तत् स्मरेत् ।
अथवेशानदिग्भागात् तत्पदान्तं द्विजोत्तम ॥ २३२ ॥
View Verse
पृष्ठतः कलशौ भ्राम्य तुल्यकालं तु वा पृथक् ।
कल्शं वर्धनीयुक्तं विन्यस्य विकिरोर्ध्वगम् ॥ २३३ ॥
View Verse
अर्घ्यदानं तयोः कृत्वा पुष्पाद्यैः पूजयेत् पुनः ।
अस्त्रेण वस्त्रयुग्मं तु अहतं चाभिमन्त्र्य वै ॥ २३४ ॥
View Verse
धूपादिवासितं कृत्वा तावुभौ परिवेष्ट्य च ।
अथवा भद्रपीठं तु विन्यसेद्विकिरोर्ध्वगम् ॥ २३५ ॥
View Verse
सास्त्रं हि मन्त्रकलशं तत्राधारगतं न्यसेत् ।
चतुस्त्रिद्व्येकभारैर्वा शालिभिर्विष्टरे कृते ॥ २३६ ॥
View Verse
तावन्मानांस्तदर्धान् वा तदूर्ध्वे तण्डुलान् न्यसेत् ।
तत्पादांस्तत्समान् वापि तदूर्ध्वे विन्यसेत्तिलान् ॥ २३७ ॥
View Verse
तदूर्ध्वे चाहतं वस्त्रयुग्ममास्तीर्य वै शुभम् ।
कलशं वर्घनीयुक्तं तदूर्ध्वे वापि विन्यसेत् ॥ २३८ ॥
View Verse
प्राग्वत् सास्त्रं तु देवेशमासनादिक्रमाद्यजेत् ।
व्यापारमाचरेद्दिव्यं कुम्भके च स्मरन् विभुम् ॥ २३९ ॥
View Verse
नानिसं युज्यते यस्मात् तस्मादेषा प्रतिक्रिया ।
विभाव्या मन्त्रिणा कौम्भी आस्त्रीरक्षार्थमेव हि ॥ २४० ॥
View Verse
ततोऽवतार्यो भगवान् स्थण्डिलेऽभ्यर्च्य सासनम् ।
प्रदक्षिणप्रणामान्तं कुर्यात् सर्वं तु पूर्ववत् ॥ २४१ ॥
View Verse
मण्डले कुम्भयागे च प्रोक्षणस्नानमाचरेत् ।
ततस्तु ब्रह्नघोषेण यायाद्देवनिकेतनम् ॥ २४२ ॥
View Verse
अथ देवगृहं गत्वा पुण्डरीकाक्षमच्युतम् ।
अष्टाङ्गेन नमस्कृत्य पूजयेत् पुरुषोत्तमम् ॥ २४३ ॥
View Verse
अर्घ्यालभनमाल्यैश्च धूपैरङ्गादिसंयुतम् ।
तत् सर्वं योग्यमाहर्तुं पूजान्तरनिवेदितम् ॥ २४४ ॥
View Verse
पुष्पपूर्वं समादाय शिरसा चाभिनन्द्य तत् ।
समर्प्य विष्वक्सेनस्य ह्यस्त्रमन्त्राबिमन्त्रितैः ॥ २४५ ॥
View Verse
सपीठं भगवद्बिम्बं निर्मलीकृत्य वारिभिः ।
प्रासादं शोधयित्वा तु देवदेवं समर्चयेत् ॥ २४६ ॥
View Verse
स्नानैस्तु क्षीरपूर्वैर्वा धात्रीफलपुरस्सरैः ।
यथाक्रमोपदिष्टैस्तु चान्यैर्भोगैरकृत्रिमैः ॥ २४७ ॥
View Verse
प्रदक्षिणप्रणामान्तं विशेषात् सर्वमाचरेत् ।
लेपभित्तिपटस्थं तु मूलबिम्बं यदा द्विज ॥ २४८ ॥
View Verse
तदा नैमित्तिके बिम्बे सर्वं कुर्याद्विशेषतः ।
एतस्य सन्निधौ विप्र कृत्वा स्नपनमात्रकम् ॥ २४९ ॥
View Verse
स्नपनाधिकृते बिम्बे नित्यनैमित्तिकेऽपि वा ।
सर्वमन्यत् पवित्रान्तं मूलबिम्बे स्माचरेत् ॥ २५० ॥
View Verse
नित्योत्सवार्थबिम्बे तु तदा कुर्यात् तदुत्सवम् ।
तेषामसन्निधौ विप्र दर्पणे तत्समीपगे ॥ २५१ ॥
View Verse
कुर्यात् स्नपनमात्रं तु तदा कुर्यात् तदुत्सवम् ।
दर्भमञ्जरिजे कूर्चे चक्रे वा कुम्भकेऽपि वा ॥ २५२ ॥
View Verse
प्राग्वदन्यत् समस्तं तु मूलबिम्बे समाचरेत् ।
ततो होमगृहं गत्वा कुण्डं संस्कृत्य पूर्ववत् ॥ २५३ ॥
View Verse
तत्रानर्ल च संस्कृत्य कुर्याद्वै मन्त्रतर्पणम् ।
पूर्वोक्तविधिना पश्चात् संस्कृतेनाथ वह्निना ॥ २५४ ॥
View Verse
चरुं संश्रापयेच्चुल्यां हृदा क्षीराज्यतण्डुलैः ।
समुद्धृत्याज्यपूतं तं विनिवेद्य यथाक्रमम् ॥ २५५ ॥
View Verse
कलशस्थलबिम्बानामेकांशं जुहुयात्ततः ।
यद्वा यागसमारम्भात् पूर्वं संसाध्य वै चरुम् ॥ २५६ ॥
View Verse
कलशस्थलबिम्बानां क्रमात् कृत्वा तु पूजनम् ।
सर्वं द्विजप्रदानान्तं वह्नौ सन्तर्पयेत्ततः ॥ २५७ ॥
View Verse
दत्वा पूर्णाहुतिं पश्चात् प्रयायाद्बिम्बसन्निधिम् ।
पुरा यस्मिन् दिने विप्र अतीते वत्सरे कृतः ॥ २५८ ॥
View Verse
पवित्रकोपसंहारस्तद्दिनादादितः स्मरन् ।
अर्घ्यपुष्पादिबलिभिः पूजयेत् सर्वमध्वरम् ॥ २५९ ॥
View Verse
तद्वदाज्यं सपूर्णान्तं क्रमेण जुहुयात्ततः ।
मण्डलाग्रमथासाद्य मुद्राबन्धादिकं तु वै ॥ २६० ॥
View Verse
कृत्वा प्रणामपर्यन्तं ततस्त्वेकं पवित्रकम् ।
वासितं धूपगन्धाभ्यां चतुःस्थानस्थितस्य च ॥ २६१ ॥
View Verse
विनिवेद्य क्रमेणैव धूपं दत्वार्घ्यपूर्वकम् ।
निजानन्दमयैर्भोगैर्नित्यतृप्तस्त्वमव्ययः ॥ २६२ ॥
View Verse
तथापि भक्त्याऽतृप्तोऽहं त्वां यजाम्यात्मसिद्धये ।
इति विज्ञाप्य देवस्य ततोऽस्त्रेणार्घ्यवारिणा ॥ २६३ ॥
View Verse
सर्वं भूषणपूर्वं तु संप्रोक्ष्य द्रव्यसञ्चयम् ।
शालिभिस्तडुण्लैर्वापि तिलैर्वा त्रितयेन वा ॥ २६४ ॥
View Verse
चतुस्त्रिद्व्येकभारैर्वा कृते पीठेऽथवा स्थले ।
निवेश्य वायुदिग्भागे स्थलस्थप्रागपेक्षया ॥ २६५ ॥
View Verse
यद्वा पश्चिमदिग्भागे देशिकेच्छानुरूपतः ।
सितवस्त्रान्वितेनैव त्वक्षतेनैव वर्मणा ॥ २६६ ॥
View Verse
अर्जयित्वास्त्रमन्त्रेण स्थगयेत् कवचेन तु ।
एवं सर्वत्र वा कुर्याद्द्रव्याणामधिवासनम् ॥ २६७ ॥
View Verse
बर्हिपक्षसमोपेतं साङ्गमिष्वष्टकं ततः ।
दिग्विदिक्ष्वस्त्रजप्तं तद्दद्याद्यागनिकेतनम् ॥ २६८ ॥
View Verse
पञ्चरङ्गेण सूत्रेण दृढेन सुसितेन वा ।
चतुर्गुणेन संवेष्ट्याभ्यन्तराद्यागमण्डपम् ॥ २६९ ॥
View Verse
प्रदक्षिणचतुष्कं तु वर्ममन्त्रं तु संस्मरन् ।
प्रासादं बाह्यतस्तद्वद्वेष्टयोदग्निमन्दिरम् ॥ २७० ॥
View Verse
वेष्टयेदन्तरा प्राग्वत्ततो देशिकसत्तमः ।
स्वयं समूहमभ्यर्थ्य पञ्चकालपरायणम् ॥ २७१ ॥
View Verse
षट्कर्मनिरतं चापि यतिबृन्दं तु वैष्णवम् ।
समक्षं भवतां भक्त्या श्वः प्रभुं पूजयाम्यहम् ॥ २७२ ॥
View Verse
सन्निधानमतः कार्यं मदनुग्रहकाम्यया ।
एवमब्यर्थितेब्यस्तु ह्यनुज्ञां प्रतिगृह्य च ॥ २७३ ॥
View Verse
प्राङ्मुखस्त्वासनारूढो गुरुपाणिपरिच्युतम् ।
ब्रह्नकूर्चं पिबेत् पश्चाच्चरुशेषं तु भक्षयेत् ॥ २७४ ॥
View Verse
पिबेद्धृदयसंजप्तं हेमरत्नकुशोदकम् ।
भगवत्पादतोयं च सर्वपापहरं शुभम् ॥ २७५ ॥
View Verse
अद्यात्तदनु ताम्बूलं दन्तकाष्ठसमन्तिम् ।
आचम्य न्यासपूर्वं तु सकलीकृत्य विग्रहम् ॥ २७६ ॥
View Verse
स्थलस्थं मन्त्रमुद्धृत्य कुम्भेऽग्नौ न्यस्य वात्मनि ।
कुतपे कम्बलोपेते स्थित्वा च सकुशास्तरे ॥ २७७ ॥
View Verse
जपेन्मन्त्रवरं साङ्गं पठंस्तोत्रवरान् शुभान् ।
कथां सार्वेश्वरीं पुण्यां कुम्भं निष्पाद्य मण्डलम् ॥ २७८ ॥
View Verse
एकाब्जं बहुपझं वा चक्राब्जाद्यमथापि वा ।
स्वयं भगवता प्रोक्तमेतेषां लक्षणादिकम् ॥ २७९ ॥
View Verse
पौष्करे देवदेवेन सम्यक् पुष्करजन्मनः ।
अथवा मण्डलं कुम्भमपरे वासरे द्विज ॥ २८० ॥
View Verse
भूषणानां ततो गत्वा सन्निधिं द्विजसत्तम ।
दाहाप्यायनयोगेन कुर्याच्चैवाधिवासनम् ॥ २८१ ॥
View Verse
ध्यात्वा दक्षिणहस्ते तु द्वादशारं ज्वलत्प्रभम् ।
कलाद्वादशसंयुक्तं तदन्तःस्थं दिवाकरम् ॥ २८२ ॥
View Verse
दग्धं तद्रश्मिसङ्घेन भस्मकूटगतं स्मरेत् ।
मान्त्रं पवित्रसङ्घं तु निश्शेषं जनयेत्ततः ॥ २८३ ॥
View Verse
सितं षोडशपत्राढ्यं वामहस्तेऽम्बुजं स्मरेत् ।
क्षपाकरं तु तन्मध्ये ध्यायेत् पूर्णकलान्वितम् ॥ २८४ ॥
View Verse
पीयूषवृष्टिसंपातं मुञ्चमानं विचिन्तयेत् ।
तेनामृतेन तद्भस्म भावयेत् सञ्चितं द्विज ॥ २८५ ॥
View Verse
समुत्थितं भस्ममध्यात् तत् सर्वं चिन्तयेत् पुनः ।
पञ्चभूतात्मकं ध्यात्वा व्यापकत्वेन तत् पुनः ॥ २८६ ॥
View Verse
मूलमन्त्रेण सम्प्रोक्ष्य संस्पृश्याथ निरीक्ष्य च ।
कुम्भयोग्यानि चैकस्मिन् माण्डलीयानि चापरे ॥ २८७ ॥
View Verse
बिम्बयोग्यानि चैकस्मिन्नाग्नेयान्यपरे द्विज ।
अन्यानि मन्त्रयोग्यानि ह्येकस्मिन् द्विजसत्तम ॥ २८८ ॥
View Verse
पात्रे पात्रे पृथक् स्थाप्य पात्रलाभानुरूपतः ।
आच्छाद्य वाससा पश्चात् सुसितेनाहतेन तु ॥ २८९ ॥
View Verse
तानि भूषणपात्राणि क्रमेण च पृथक् पृथक् ।
बन्धनीयानि सूत्रेण दृढेन सुसितेन च ॥ २९० ॥
View Verse
आच्छाद्य पूर्ववत् तानि जागरेण नयेन्निशाम् ।
एकादशयां प्रभातेऽथ स्नात्वा पूज्य जनार्दनम् ॥ २९१ ॥
View Verse
आनिमन्त्र्य गृहं गत्वा यन्त्रितः प्रणिपत्य च ।
ब्राह्नणान् गुरुपूर्वांश्च विष्णुभक्तान् दृढव्रतान् ॥ २९२ ॥
View Verse
स्वधर्मनिरतांश्चैव देवदेवक्रियापरान् ।
आपत्कालेऽपि संप्राप्ते येऽर्चयन्त्यच्युतं प्रभुम् ॥ २९३ ॥
View Verse
अथान्यान् वैष्णवान् कांश्चित् सुहृत्सम्बन्धिबान्धवान् ।
ततः पुण्याहघोषेण प्रवृत्ते तु निशामुखे ॥ २९४ ॥
View Verse
शङ्खशब्दैः सुमङ्गल्यैर्ब्राह्नणैर्ध्वनिभिः सह ।
पठद्भिःशाकुनं सूक्तं प्रविशेद्देवमन्दिरम् ॥ २९५ ॥
View Verse
ततो नैमित्तिकं बिम्बं वस्त्रैर्माल्यैश्च भूषणैः ।
विलेपनैरलङ्कृत्य मूर्तिपैः सह देशिकः ॥ २९६ ॥
View Verse
यानमारोप्य निष्क्रम्य शङ्खकाहलतूर्यकैः ।
तालवृन्तैस्तथा च्छत्रैश्चामरैर्विविधैः सितैः ॥ २९७ ॥
View Verse
नरनाथो यथादेवं मण्डपे सन्निवेशयेत् ।
अथ भद्रासने देवं चतुष्पादसमन्विते ॥ २९८ ॥
View Verse
समारोप्यार्चयेद्देवं सविशेषं विधानतः ।
महाहविर्निवेद्याथ तर्पयेद्वन्हिमध्यतः ॥ २९९ ॥
View Verse
ततोऽपराङ्णवेलायां प्रवृत्ते वा निशामुखे ।
पुण्याहोद्धोषणाद्यैश्च सहोक्तैः सर्वमङ्गलैः ॥ ३०० ॥
View Verse
प्रवेशयेज्जगन्नाथं देवेशं यागमण्डपे ।
यागस्य पश्चिमे देशे सौवर्णे भद्रविष्टरे ॥ ३०१ ॥
View Verse
उपरीष्टाद्वितानेन मौक्तिकेनैव शोभयेत् ।
देवमारोप्य यागस्थविभोरभिमुखं द्विज ॥ ३०२ ॥
View Verse
यद्वा दशम्यां बिम्बस्थं यागागारे विभुं न्यसेत् ।
प्राग्दिक्प्रत्यङ्मुखा योज्या ऋङ्मयाः स्वासनेषु च ॥ ३०३ ॥
View Verse
दक्षिणे च उदग्वक्त्रान् यजुर्वेदांश्च योजयेत् ।
प्राङ्मुखान् पश्चिमे भागे सामज्ञान् विनिवेश्य च ॥ ३०४ ॥
View Verse
सह चैकायनैर्विप्रैर्मूर्तिसंज्ञोपलक्षितैः ।
दिश्युत्तरस्यां च ततो नित्यकर्मपरायणान् ॥ ३०५ ॥
View Verse
निवेश्याथर्ववेदज्ञान् सर्वान् द्विद्विकसंख्यया ।
श्रृणु विध्यन्तरं भूयो विस्तराद्द्विजसत्तम ॥ ३०६ ॥
View Verse
पूर्वे प्रत्य्ङ्मुखं कृत्वा आसनस्थं द्विजोत्तमम् ।
पुष्पवस्त्रैस्तथोष्णीषैर्भूषितं चाङ्गुलीयकैः ॥ ३०७ ॥
View Verse
ऋङ्भन्त्रान् पाठयेत् पुण्यान् मन्त्रविद्भगवन्मयान् ।
अथ दक्षिणदिक्संस्थं वीक्षमाणमुदग्दिशम् ॥ ३०८ ॥
View Verse
यजुर्बृन्दं वैष्णवं तत् पाठयेद्देशिकस्तु तत् ।
गायेच्छुद्धानि सामानि सामज्ञः पश्चिमे स्थितः ॥ ३०९ ॥
View Verse
भक्तश्चोदक्स्थितो व्रूयाद्द्दक्षिणास्योऽप्यथर्ववित् ।
स्वशाखोक्तांस्ततो मन्त्रान् ज्ञानलिङ्गानशेषतः ॥ ३१० ॥
View Verse
एकैकं शिष्यवर्गेण वृतो योग्यः क्रमेण तु ।
भगवद्भाविनो ये च यतयः पाञ्चरात्रिकाः ॥ ३११ ॥
View Verse
चतुर्भिराप्तैर्विप्राद्यैर्युक्तस्त्वीशदिशि न्यसेत् ।
एकान्तिनस्त्वनाप्तैश्च युक्तांश्चाग्नेयदिग्गतान् ॥ ३१२ ॥
View Verse
निवेश्य विप्रानैरृत्यां भक्तान् वैखानसांस्तथा ।
चतुर्भिरञ्जलीकैस्तु ततो वायव्यगोचरे ॥ ३१३ ॥
View Verse
सारम्भिणः सात्वतांश्च तत्काले भगवन्मयान् ।
चत्वारोऽथ चतुर्दिक्षु योज्याश्च शिशिनो मुने ॥ ३१४ ॥
View Verse
तेषां चैवानुयायीरंश्चत्वारस्तु प्रवर्त्तिनः ।
ब्राह्नणाः क्षत्रिया वैश्याः शूद्राश्च मुनिसत्तम ॥ ३१५ ॥
View Verse
एकायनीयशाखोत्थान् मन्त्रान् परमपावनान् ।
पाठयेच्च यतीनाप्तपूर्वान् वै पाञ्चरात्रिकान् ॥ ३१६ ॥
View Verse
स्वानुष्ठाने स्वकान् मन्त्रान् जपन्तः संवदन्ति च ।
प्रागादौ चोत्तरान्तं च चत्वारो गुरुपूर्वकाः ॥ ३१७ ॥
View Verse
बहवः समयज्ञानाः सात्वतज्ञाः स्वशक्तितः ।
कृतन्यासास्तथा ध्यानमुद्रालङ्कृतपाणयः ॥ ३१८ ॥
View Verse
स्ववाससा स्वकां मुद्रां च्छन्नां कुर्युः परस्परम् ।
गीतनृत्तपराश्चान्ये अग्रतः स्तोत्रपाठकाः ॥ ३१९ ॥
View Verse
वन्दिबृन्दयुता बाह्ये तथा दुन्दुभिवादिनः ।
अन्ये तु वैष्णवाः सर्वे पृष्ठतः पार्श्वतोऽपि च ॥ ३२० ॥
View Verse
एवं निवेशनं कृत्वा सर्वेषां तु यथाक्रमम् ।
ततस्तु देवदेवस्य चतुःस्थानस्थितस्य च ॥ ३२१ ॥
View Verse
क्रमेण पूजनं कुर्यात् पूर्ववद्द्विजसत्तम ।
आसाद्य कलशोद्देशं विनिवेदनमाचरेत् ॥ ३२२ ॥
View Verse
नानाविशेषभोगानां विभारामन्त्रणाय च ।
दन्तकाष्ठं सताम्बूलं मुखवासं सदर्पणम् ॥ ३२३ ॥
View Verse
चन्दनादीनि गन्धानि जातिपूगफलानि च ।
विनिवेद्य निधायाग्रे दक्षिणेऽथ जगत्प्रभोः ॥ ३२४ ॥
View Verse
गुग्गुलुं मृष्टधूपं च प्राकाशं ताम्रपात्रगम् ।
दृक्प्रभामण्डनं रम्यं हेमसूत्रं सकङ्कणम् ॥ ३२५ ॥
View Verse
मध्वाज्यपूरिते पात्रे तैजसे रोचनाञ्जनम् ।
न्यसेत् षट्कं महन्मूर्तेर्नेत्रवस्त्रे सितारुणे ॥ ३२६ ॥
View Verse
पश्चिभे च विभोर्दद्यात् पुण्यनद्युदकं तथा ।
तीर्थतोयं नगोत्थं च नगमृच्छ्रीफलादि यत् ॥ ३२७ ॥
View Verse
शाद्वलं नीलदर्भांश्च ताम्रपात्रेऽथवायसे ।
उत्तरेऽथ विभोर्दद्याद्देवदेवस्य सत्तम ॥ ३२८ ॥
View Verse
माल्यान्योषधयः सप्त बीजानि च फलानि च ।
तिलतण्डुलपात्राणि क्षीरं दधि घृतं सिता ॥ ३२९ ॥
View Verse
गन्धबृन्दं त्वगेलाद्यं धातवो गैरिकादयः ।
सफलं नारिकेलं च विकारास्त्वैक्षवाखिलाः ॥ ३३० ॥
View Verse
सराजते कांस्यपात्रे संभवानुगुणं द्विज ।
यज्ञपर्णपुटे वा तु विनिवेद्यमसंभवे ॥ ३३१ ॥
View Verse
सकुशोदं स्थलस्थस्य ताम्बूलं दन्तधावनम् ।
सितानि सोत्तरीयाणि उपवीतानि चन्दनम् ॥ ३३२ ॥
View Verse
चतुर्दिग्विनिवेद्याथ बिम्बेऽग्नावेवमेव हि ।
तानि भूषणपात्राणि विनिवेद्य पृथक् पृथक् ॥ ३३३ ॥
View Verse
सन्निवेश्यानि पुरतश्चतुःस्थानस्थितस्य च ।
मूलबिम्बे यदा कुर्यात्तदा सर्वं तदग्रतः ॥ ३३४ ॥
View Verse
स्थाप्य भूषणपर्यन्तं विनिवेद्य यथाक्रमम् ।
कुङ्कुमागरुकर्पूरश्रीखण्डैरधिवासितम् ॥ ३३५ ॥
View Verse
चतुः स्थानावतीर्णस्य दद्याद्गन्धपवित्रकम् ।
ततोऽर्घ्य पुष्पधूपं च मुद्राबन्धं समाचरेत् ॥ ३३६ ॥
View Verse
आदिमध्यावसाने तु सम्यक् च्छिद्रस्य शान्तये ।
जपेन्मन्त्रवरं साङ्गं पश्चाद्बद्धाञ्जलिः पठेत् ॥ ३३७ ॥
View Verse
प्रणवद्विद्वयाद्यं तु स्तोत्रमन्त्रं निमन्त्रयेत् ।
सर्वमन्त्रमयाऽनन्त नित्यसन्निहिताव्यय ॥ ३३८ ॥
View Verse
गुणप्रधानयोगेश भावनाभोगविग्रह ।
नारायण परं ब्रह्न प्राणेश चतुराकृते ॥ ३३९ ॥
View Verse
सर्वगाच्युत सन्मूर्ते सर्वज्ञ पुरुषोत्तम ।
अस्मात् काललवाद्यावद्विसर्जनदिनावधि ॥ ३४० ॥
View Verse
नानामन्त्रगणोपेतः सन्निधिं भज मे प्रभो ।
देवबिम्बे तु सन्मूर्तौ कलशे मण्डलक्षितौ ॥ ३४१ ॥
View Verse
संख्यासूत्रेऽक्षसूत्रे च पावके गुरुविग्रहे ।
घण्टायां सास्त्रपीठे च यागोपकरणेषु च ॥ ३४२ ॥
View Verse
स्रुक् स्रुवाद्येष्वशेषेषु एकान्तिद्विजमूर्तिषु ।
विष्णुपार्षदभेदेषु जन्मकर्मरतेषु च ॥ ३४३ ॥
View Verse
श्रद्धापूतेषु दक्षेषु त्वदेकशरणेषु च ।
अतीतवात्सरीयाणां स्नानादीनां हि कर्मणाम् ॥ ३४४ ॥
View Verse
नैमित्तिकानां नित्यानामपूर्णानां हि शान्तये ।
त्वत्प्रीतये यथाशास्त्रमद्य निर्वर्तयाम्यहम् ॥ ३४५ ॥
View Verse
पावित्रकविधानं च सर्वकर्मप्रपूरणम् ।
अतोऽद्य मुखवासाद्यमुपचारं हि चार्चनम् ॥ ३४६ ॥
View Verse
होमान्तमधिवासीयं कुरु सर्वं हि चात्मसात् ।
त्वामर्चयाम्यहं भक्त्या शक्त्यातीतेऽथ जागरे ॥ ३४७ ॥
View Verse
यथावद्ब्रह्नसूत्रान्तैर्भोगैर्भोगापवर्गदैः ।
विज्ञप्तोऽसीति भगवन् वेत्सि सर्वं हृदि स्थितम् ॥ ३४८ ॥
View Verse
भक्तस्य मम वात्सल्यात् प्रातः कार्यस्त्वनुग्रहः ।
एवं निमन्त्रयित्वाजमष्टाङ्गेन नमेत् क्षितौ ॥ ३४९ ॥
View Verse
चतुः प्रदक्षिणीकृत्य हृदि मन्त्रमनुस्मरन् ।
गीतनृत्तादिकैः स्तोत्रेर्वेदपाठसमन्वितैः ॥ ३५० ॥
View Verse
जयशब्दसमेतैस्तु जागरेण नयेन्निशाम् ।
स्नात्वा ब्राह्ने मुहूर्तेऽथ कृतकोतुकमङ्गलः ॥ ३५१ ॥
View Verse
महता विभवेन प्राग्द्वारयागं समाचरेत् ।
नित्यं कर्म पुरा कृत्वा ह्येकस्मिन्नधिकारिणि ॥ ३५२ ॥
View Verse
कुम्भस्थं तु यजेत् प्राग्वन्मण्डलस्थं ततः क्रमात् ।
बिम्बस्थं देवदेवेशं सविशेषं समर्चयेत् ॥ ३५३ ॥
View Verse
क्षीरादिपञ्चविंशद्भिर्यथावदधिवासितैः ।
स्नानैरन्यैश्च विविधैर्भोगैर्भक्ष्यादिनिर्मितैः ॥ ३५४ ॥
View Verse
सांस्पर्शिकैरासनाद्यैर्विविधैरुपचारकैः ।
हृदयङ्गमसंज्ञैस्तु बहुभेदविनिर्मितैः ॥ ३५५ ॥
View Verse
जपमुद्रावसानान्तमेवं कृत्वा क्रमेण तु ।
अग्निस्थं तर्पयेत् पश्चाद्यथावदनुपूर्वशः ॥ ३५६ ॥
View Verse
अथ भूषणपात्रस्य गत्वा वै स्न्निधिं द्विज ।
पूजयित्वा समुद्धाट्य पात्रं प्रातिसरीयकम् ॥ ३५७ ॥
View Verse
अवलोक्य समादाय गत्वा कलशसन्निधिम् ।
आराधनाङ्गनिचयमव्यक्तं तात्विकं भवेत् ॥ ३५८ ॥
View Verse
तृतीयमुभयात्मं तु आध्यात्म्यादित्रयं तथा ।
अनुसन्धाय वै तस्मिन् संस्मरनं हृदयं धिया ॥ ३५९ ॥
View Verse
तत्राष्टाष्टकसंख्यं तु अव्यक्तं भोगसङ्गरहम् ।
मन्त्रमुद्रासमूहं तु तात्विकं परिकीर्तितम् ॥ ३६० ॥
View Verse
स्वाध्यायगीतवाद्यादिव्रतानि नियमानि च ।
दानान्युत्सवपूर्वाणि नानानैमित्तिकानि च ॥ ३६१ ॥
View Verse
एतान्युभयरूपाणि पुरुषार्थप्रदानि च ।
प्रीतिदानि जगद्योनौ मन्त्रमूर्तौ जनार्दने ॥ ३६२ ॥
View Verse
भास्वरं चिन्मयं शुद्धं यदेषां रूपमक्षयम् ।
तद्गर्भेष्वनुसन्धेयं सूक्ष्मं तदनु भास्वरम् ॥ ३६३ ॥
View Verse
सूर्येन्दुवह्निसंकाशमियत्तापरिकल्पितम् ।
तद्ग्रन्थिगणदेशेषु भावनीयं महामते ॥ ३६४ ॥
View Verse
सुस्थूलं व्यावहार्यं च तृतीयं सार्वलौकिकम् ।
तत् तन्तुनिचयोद्देशे भावनीयं सदैव हि ॥ ३६५ ॥
View Verse
एवमाध्यात्मिकीं व्याप्तिं लक्षयित्वा तु तत्परम् ।
चिन्तयेदधिदेवाख्यां व्याप्ति मान्त्रीमनश्वरीम् ॥ ३६६ ॥
View Verse
चतुर्णामविनाभावि यद्रूपममृतोपमम् ।
नानाभासगणाकीर्णं मूर्तामूर्तमनश्वरम् ॥ ३६७ ॥
View Verse
किरीटमालाश्रीवत्सकौस्तुभानां महामते ।
सन्निधिं भावयेन्नित्यमधिदैवात्मनां त्रयम् ॥ ३६८ ॥
View Verse
पृथ्व्यंप्तेजोऽनिलाकाशपञ्चानां समुदायि यत् ।
रमणीयं शुभं रूपं भक्तानां परितोषकृत् ॥ ३६९ ॥
View Verse
तदस्य चाधिभूतत्वं मन्तव्यं योजनावधौ ।
ध्यात्वैनं मूलमन्त्रं तु समुदीर्य ततः परम् ॥ ३७० ॥
View Verse
प्रणवालङ्कृतं मन्त्रं तमुद्यतकरः पठेत् ।
त्वत्प्रप्तिसाधनं देव तानं यदमलं परम् ॥ ३७१ ॥
View Verse
भक्तिश्रद्धासमोपेता सत्क्रिया त्वत्प्रकाशिता ।
अखण्डसिंद्धये तस्या ह्युपायः कथितस्त्वया ॥ ३७२ ॥
View Verse
ज्ञानकर्मप्रसक्तानां भक्तानां भावितात्मनाम् ।
पवित्राख्यं यथाशक्त्या त्वत्प्रसादान्मया कृतम् ॥ ३७३ ॥
View Verse
यथोचितमिदानीं तद्ध्यायस्व परमेश्वरम् ।
तस्माच्छुभतरं कर्म विज्ञानममलं हि यत् ॥ ३७४ ॥
View Verse
विध्यन्तरं मन्त्रगणं द्रव्यसङ्घस्त्वमेव हि ।
प्राप्तिः पूरयिता पूर्णमपूर्णानां हि कर्मणाम् ॥ ३७५ ॥
View Verse
तथ्येनानेन भगवन् भवभङ्गार्दितस्य च ।
अशठस्य क्रियाकांडमखण्डं सर्वमस्तु ते ॥ ३७६ ॥
View Verse
विज्ञप्तोऽसीति भगवन् आर्थिता मे परा त्वयि ।
विना त्वत्परितोषेण सम्यज्ज्ञानप्रदेन च ॥ ३७७ ॥
View Verse
आपंत्कालेऽपि संप्राप्ते बुद्धिपूर्वं मयाच्पुत ।
न सन्त्याज्यं क्रियाज्ञानं त्वं सर्वं वेत्सि तत्वतः ॥ ३७८ ॥
View Verse
यथाकालं यथावच्च भोगैर्देव यथोचितैः ।
नार्चितोऽसि यथा सम्यक् खेदश्चेतसि तेन मे ॥ ३७९ ॥
View Verse
पूजनं भोगसंभोगैराज्यहोमैस्तु तर्पणैः ।
त्वयेतत् कृतकृत्यत्वान्न किञ्चिदुपयुज्यते ॥ ३८० ॥
View Verse
सुक्षेत्रं वापितं ह्येतदखिलार्थस्य मेऽखिलम् ।
फलिष्यत्यमृतत्वेन ज्ञात्वैवं हि मया पुरा ॥ ३८१ ॥
View Verse
अङ्गीकृतं गुरुमुखात् किन्तु सर्वेश्वर प्रभो ।
परिस्फुरति मे बुद्धौ न निर्व्यूढं यथास्थितम् ॥ ३८२ ॥
View Verse
मनोवाक्कायकर्मैस्तु आप्रभातान्निशावधि ।
अस्वातन्त्र्यादसामर्थ्यान्मनसश्चानवस्थितेः ॥ ३८३ ॥
View Verse
शीतोष्णवातवर्षार्द्येरन्तरायैर्ज्वरादिभिः ।
असम्पत्तेः क्रियाङ्गानां देव त्वदनुरूपिणाम् ॥ ३८४ ॥
View Verse
आप्रवृत्तेः परानन्दप्राप्तिनिष्ठं यदाह्निकम् ।
यथोक्तममराणां तु यस्मान्न घटते ततः ॥ ३८५ ॥
View Verse
तस्य सम्पूरणार्थं तु प्रधानतरमर्चनम् ।
पवित्रकाख्त्यमादिष्टं वत्सरं प्रति यत् त्वया ॥ ३८६ ॥
View Verse
तन्मया कृतमध्यक्षमर्चितं यदनिर्मलम् ।
क्रियायोगादसंपूर्णं तन्मे निर्मलतां नय ॥ ३८७ ॥
View Verse
ज्ञानतोऽझानतो वापि यथोक्तं न कृतं मया ।
तत् सर्वं पूर्णमेवास्तु सुतृप्तो भव सर्वदा ॥ ३८८ ॥
View Verse
ओमच्युत जगन्नाथ मन्त्रमूर्ते जनार्दन ।
रक्ष मां पुण्डरीकाक्ष क्षमस्वाज प्रसीद ओम् ॥ ३८९ ॥
View Verse
उक्त्वेवं मूलमन्त्रं तु हृदाद्यैर्लाञ्छनैः सह ।
समुदीर्य ततो दद्यान्मूर्ध्नि मन्त्रात्मनो विभोः ॥ ३९० ॥
View Verse
सर्वज्ञानक्रियाभोगशुभसंकल्पविग्रहम् ।
मण्डलान्तर्गतस्यैवं प्रासादान्तःस्थितस्य च ॥ ३९१ ॥
View Verse
एवमग्नेः पवित्रे द्वे प्रदद्याद्द्विजसत्तम ।
यद्वा किरीटमाद्ये तु मध्ये श्रीवत्सकौस्तुभे ॥ ३९२ ॥
View Verse
तृतीये वनमालां च मन्त्रैरेभिस्तु विन्यसेत् ।
पझराजे किरीटाय पझरागवृतः स्वयम् ॥ ३९३ ॥
View Verse
पवित्रकेऽस्मिन्नागच्छ क्षिप्रं सन्निहितो भव ।
श्रीवत्साय नमस्तुम्यं कौस्तुभागच्छ ॐ नमः ॥ ३९४ ॥
View Verse
पवित्रकेऽस्मिन् सन्तिष्ठ सच्छ्रीवत्सामलप्रभ ।
आगच्छ वनमाले त्वं अस्मिन् सन्निहिता भव ॥ ३९५ ॥
View Verse
पवित्रके जगद्योनेर्यन्मया परिकल्पितम् ।
श्रृणु विध्यन्तरं भूयो ध्यायेदाद्ये द्विजाखिलम् ॥ ३९६ ॥
View Verse
सांवत्सरं तु यत् कर्म आप्रभातान्निशान्तिमम् ।
ध्यानोत्थं निष्कलं सम्यगपवर्गप्रदं तु यत् ॥ ३९७ ॥
View Verse
संस्मृत्य निष्कलं मन्त्रं शुद्धोच्चारक्रमेण तु ।
मन्त्रे सन्धाय तत्सूत्रं सूत्रे मन्त्रं तथैव च ॥ ३९८ ॥
View Verse
एकीकृत्यात्मना सार्धं दद्याद्वै मन्त्रमूर्धनि ।
समादायापरं सूत्रं तस्मिन् सकलनिष्कलम् ॥ ३९९ ॥
View Verse
ध्यानकर्मस्वरूपं तु कर्म ध्यायेच्च वात्सरम् ।
स्मृत्वा चोभयरूपं तु मन्त्रं कलशपूजितम् ॥ ४०० ॥
View Verse
पूर्ववच्चानुसन्धानं कृत्वा दद्यात् पवित्रकम् ।
ततः प्रतिसरं विप्र तृतीयं च समाहरेत् ॥ ४०१ ॥
View Verse
बाह्यसांवत्सरं कर्म सकलं चाखिलं स्मरेत् ।
पूजयन्तं स्वमात्मानमाधाराच्च परावधिम् ॥ ४०२ ॥
View Verse
लयभोगाधिकाराख्यक्रमेण सकलात्मना ।
सकलं मन्त्रनाथं तु लयभोगाधिविग्रहम् ॥ ४०३ ॥
View Verse
स्मृत्वा कृत्वा च सन्धानं दद्यात् प्रतिसरं ततः ।
अर्घ्यपुष्पैस्तथा गन्धैर्माल्यैर्धूपैस्तथा द्विज ॥ ४०४ ॥
View Verse
पूजया सम्पुटीकुर्याद्भूषणानि पृथक् पृथक् ।
अन्तरान्तरयोगेन घण्टाशब्दसमन्वितम् ॥ ४०५ ॥
View Verse
समस्तरत्नसद्धातुपुष्पाक्षतफलान्विता ।
सत्सुगन्धार्घ्यदर्भाढ्यलाजसिद्धार्थकैर्युता ॥ ४०६ ॥
View Verse
प्रक्षेप्तव्या तु बहुशो वृष्टि करघनैर्मुदा ।
केवला पुष्पवृष्टिर्वा शङ्खादीन्यपि नादयेत् ॥ ४०७ ॥
View Verse
मन्त्रास्त्रकुम्भयोर्दद्याद्भूषणे ध्यानवर्जिते ।
दत्वैवं कलशस्थस्य पुरा विप्र पवित्रकम् ॥ ४०८ ॥
View Verse
अनेन विधिना दद्यान्मण्डलस्थस्य वै पुरा ।
पवित्रकत्रयं शुभ्रं भोगस्थाने च नारद ॥ ४०९ ॥
View Verse
दद्यात् समस्तमन्त्राणां त्रीम्येकं वा यथेच्छया ।
बिम्बस्थं तु समब्यर्च्य प्रदद्याद्भूषणानि तु ॥ ४१० ॥
View Verse
कलशोक्तक्रमेणैव वनमालाख्यभूषणे ।
अव्यक्ताद्यनुसन्धानं यद्वा विध्यन्तरोदितम् ॥ ४११ ॥
View Verse
परादिस्थूलपर्यन्तं सर्वं कृत्वा निवेदयेत् ।
पुषङ्न्यासो यथा प्रोक्तः किरीटाद्यस्य सत्तम ॥ ४१२ ॥
View Verse
तत्रायं हि विशेषः स्यात् किरीटाद्यं चतुष्टयम् ।
क्रमेणावाहयेद्विप्र भूषणानां चतुष्टये ॥ ४१३ ॥
View Verse
किरीटाख्यसुरेशस्य भानुतुल्यप्रभान्वित ।
परिवारयुतस्तिष्ठ त्वमस्मिन् शीर्षभूषणे ॥ ४१४ ॥
View Verse
वक्षः स्थले जगद्योनेर्भूषणं कल्पितं मया ।
श्रीवत्सागच्छ पूर्णेन्दुसमान भगवत्प्रिय ॥ ४१५ ॥
View Verse
वक्षःस्भले जगद्योनेर्भूषणं कल्पितं मया ।
कौस्तुमागच्छ रत्नानामीश त्वं भगवत्प्रिय ॥ ४१६ ॥
View Verse
धातुपुष्पसमाकीर्णे प्रवालमणिभूषिते ।
वनमाले समागच्छ देवदेवप्रिये शुभे ॥ ४१७ ॥
View Verse
चतुर्भिरेतैर्मन्त्रैस्तु क्रमेणावाहयेद्द्विज ।
अङ्गानामप्युपाङ्गानां लाञ्छनानां तथैव च ॥ ४१८ ॥
View Verse
भूषणानां च शक्तीनां गरुडस्य च वै क्रमात् ।
पीठस्य तु पवित्राणि प्रदद्यात् क्रमशस्ततः ॥ ४१९ ॥
View Verse
एवमेव विभोर्दद्यान्मूलबिम्बगतस्य च ।
सर्वेषां कर्मबिम्बानां लक्ष्म्यादीनां तथैव च ॥ ४२० ॥
View Verse
अन्येषामङ्गबिम्बानां परिवारगणस्य च ।
क्रमेण भूषणं दत्वा यायादग्निनिकेतनम् ॥ ४२१ ॥
View Verse
अग्निस्थस्य विभोर्दद्याद्भूषणानि तु पूर्ववत् ।
यदा पवित्रकारोपो मूलबिमेबे तदा भवेत् ॥ ४२२ ॥
View Verse
नित्ये कुण्डेऽन्यथा स स्यान्नित्येनैमित्तिकेऽपि च ।
अग्नौ निवेदयेद् विप्र भूषणं न तु होमयेत् ॥ ४२३ ॥
View Verse
यस्मात् सन्यासमूर्ध्वे तु विहितं भूषणस्य च ।
नाहर्तुं युज्यते दग्धं दोषमाहरणं विना ॥ ४२४ ॥
View Verse
देशिकस्य हृदारोप्य पूजितस्य च देववत् ।
स्वं स्वं चारोप्य चान्येषां देशिकानां तथैव च ॥ ४२५ ॥
View Verse
साधकानां ततो दत्वा यागाङ्गानामपि द्विज ।
शास्त्रात्मनस्ततो दत्वा ह्यन्येषां क्रमशस्तथा ॥ ४२६ ॥
View Verse
पश्चात् पझासनं बद्ध्वा देवस्याभिमुखं स्थितः ।
सकृज्जपेन्महामन्त्रं सर्वकर्मप्रवर्धनम् ॥ ४२७ ॥
View Verse
नाशनं समयानां च दोषाणां स्मरणादपि ।
ततः संश्रावयेद्देवं त्रिस्थानस्थं क्रमेण तु ॥ ४२८ ॥
View Verse
कामतोऽकामतो वापि न कृतं नियमार्चयम् ।
केनचिद्विघ्नदोषेण मया यत्परमेश्वर ॥ ४२९ ॥
View Verse
तेन मे मनसोऽतीव सन्तापो दहनात्मकः ।
यतः समयदोषेण बाधितोऽस्मि जनार्दन ॥ ४३० ॥
View Verse
त्वयोद्दिष्टं पुरा नाथ भक्तानां हितकाम्यया ।
दोषविध्वंसकृच्चुभ्रं पवित्रं तत् कृतं मया ॥ ४३१ ॥
View Verse
प्रसीद मे कुरु त्राणं जहि कोपं हि लोपजम् ।
निमज्जतो भवाम्भोधौ समयप्रच्युतस्य च ॥ ४३२ ॥
View Verse
नमो नमस्ते मन्त्रात्मन् प्रसीद परमेश्वर ।
पाहि पाहि त्रिलोकेश केशवाऽर्तिविनाशन ॥ ४३३ ॥
View Verse
त्वत्प्रसादाच्च मे मास्तु दोषः समयसंज्ञितः ।
अद्यास्तु कर्मसम्पत्तिर्नित्यनैमित्तिके प्रभो ॥ ४३४ ॥
View Verse
श्रुत्वैवमादरात्तस्य संसारार्तस्य मन्त्रराट् ।
पूर्णभावं नयेच्छीघ्रं हन्ति दोषांश्च सामयान् ॥ ४३५ ॥
View Verse
ततः प्रावरणैर्दानैर्यथासम्पत्तिसंभृतैः ।
सोपवीतोत्तरियैश्च च्छत्रोपानहसंयुतैः ॥ ४३६ ॥
View Verse
विविधैर्भोजनैर्विप्र धूपार्घ्यालभनादिकैः ।
पूजयेदाप्तपूर्वांश्च यतिपूर्वांस्तथैव च ॥ ४३७ ॥
View Verse
पञ्च वैखानसान्तांश्च विप्रादींश्चतुरस्तथा ।
पञ्च योगरताद्यांस्तु तथान्यान् वैष्णवान् द्विज ॥ ४३८ ॥
View Verse
एकायनीयशाखोत्थमन्त्राणां प्रथमं ततः ।
त्रयीमयानां मन्त्राणां स्तोत्राणां च तथैव च ॥ ४३९ ॥
View Verse
उद्घोषणं च कर्तव्यं ब्राह्नणैरग्रतो विभोः ।
शङ्खभेरीनिनादैश्च काहलीगीतकैस्तथा ॥ ४४० ॥
View Verse
नृत्तैश्च निनदैरन्यैर्मङ्गलैस्तोषयेत् प्रभुम् ।
पश्चादुत्सवबिम्बं तु यानमारोप्य देशिकः ॥ ४४१ ॥
View Verse
महोत्सवविधिप्रोक्तं सर्वमह्गलसंयुतम् ।
प्रदक्षिणक्रमेणैव प्रासादं तु प्रमेशयेत् ॥ ४४२ ॥
View Verse
प्रार्थनां च ततः कुर्याद्यतीनां भावितात्मनाम् ।
युष्मत्प्रसादसामर्थ्यान्मनसः परिपूर्णता ॥ ४४३ ॥
View Verse
क्रियाङ्गानां तु सर्वेषां मा मेऽस्तु समयच्युतिः ।
एवमस्त्विति वक्तव्यं सर्वैस्तालसमन्वितम् ॥ ४४४ ॥
View Verse
तांश्चानुपृच्छ्य नैवेद्यपूर्वं कुर्यात् सुभोजनम् ।
बन्धुभृत्यसमोपेतः स विशेषं द्विजोत्तम ॥ ४४५ ॥
View Verse
एकरात्रं त्रिरात्रं वा सप्तरात्रं तु वा द्विज ।
पवित्रकं स्थापयित्वा ततः सन्यासमाचरेत् ॥ ४४६ ॥
View Verse
अथवार्चागतं विप्र तावत् संस्थाप्य भूषणम् ।
यावदेकादशी शुक्ला संवृत्ता कार्तिकस्य तु ॥ ४४७ ॥
View Verse
अपनीय च माल्यादीन् प्रदद्याद्वा दिने दिने ।
नो यान्ति म्लानतां यावत् संप्राप्ते कालवासरे ॥ ४४८ ॥
View Verse
महदर्चनपूर्वं तु कृत्वा पूर्णावसानकम् ।
क्रमशश्चोपसहृत्य स्वयं गुर्वात्मना तु वा ॥ ४४९ ॥
View Verse
आदाय पूजिते पात्रे अर्चयित्वा यथाविधि ।
जानुनी भूगते कृत्वा प्रणिपत्य च देशिकम् ॥ ४५० ॥
View Verse
मानयित्वार्घ्यपुष्पाद्यैः प्रणिपत्य स्वयं पुरा ।
विनिवेद्य च तत् पात्रं प्रसादः क्रियतां प्रभो ॥ ४५१ ॥
View Verse
स्वाशिषं भगवत्प्रीतिर्वाच्याचार्येण तस्य तु ।
यथागमं यथाशास्त्रं प्रसादाच्चतुरात्मनः ॥ ४५२ ॥
View Verse
त्वयि सांवत्सरं कृत्यं सुसंपूर्णं सुतास्तु ओम् ।
समुत्कीर्य ततस्तस्य आसनस्थस्य मूर्धनि ॥ ४५३ ॥
View Verse
कलशद्वितयं मान्त्रं कृत्वा सौभाग्यमोक्षदम् ।
विसर्जनं विभोः कुर्यात् पूजापूर्वं यथाक्रमम् ॥ ४५४ ॥
View Verse
विष्वक्सेनं यजेत् साङ्गं तर्पयेत् तदनन्तरम् ।
समाहृत्याखिलं पश्चात् कृते चैतद्विसर्जने ॥ ४५५ ॥
View Verse
यद्यन्निवेदितं तस्य ह्यगाधेऽम्भसि निक्षिपेत् ।
यथासंवत्सरकृतो दोषः समयपूर्वकः ॥ ४५६ ॥
View Verse
नाशमायाति वै क्षिप्रं पवित्रारोपणान्मुने ।
पाति यस्मात् सदोषं हि पतनात् परिरक्षति ॥ ४५७ ॥
View Verse
विशेषेण द्विजं त्राति पूर्णं कर्म करोति च ।
साधके च क्रियाहीने तस्मादुक्तो महान् मया ॥ ४५८ ॥
View Verse
याग एष पवित्राख्य उक्तलक्षणलक्षितः ।
पतितं च क्रियालोपाद्विधिवत् त्रायते यदा ॥ ४५९ ॥
View Verse
तदा वपित्रकं विप्र भूषणं सूत्रजं स्मरेत् ।
अज्ञानादथवा मोहाद्यद्वा कर्मण्यनादरात् ॥ ४६० ॥
View Verse
नास्तिक्याद्वाप्यहङ्कारात् कर्तॄणामुपरोधतः ।
वैशेषिकान्तरप्राप्तेर्यद्वा निद्रादिदोषतः ॥ ४६१ ॥
View Verse
कालातिक्रान्तिभीत्या वा त्वेवमन्येन केनचित् ।
विकलं यजनं कृत्वा यदा दद्यात् पवित्रकम् ॥ ४६२ ॥
View Verse
मन्त्रेशस्य तदानीं तु भवेत् तत् कर्म तामसम् ।
देशाधिपो देशिकश्च प्राप्नुयात् तामसं फलम् ॥ ४६३ ॥
View Verse
ज्वरादिव्याधिपीडा स्यात् तदा तद्देशवासिनाम् ।
त्वराविष्टोऽथवा विप्र रजसा कलुषीकृतः ॥ ४६४ ॥
View Verse
यागं कृत्वा तु देवस्य यदा दद्यात् पवित्रकम् ।
तदा स्याद्राजसं कर्म फलं स्यादेव तादृशम् ॥ ४६५ ॥
View Verse
अज्ञानपूर्वकैर्दोषैः प्रागुक्तैस्तु विवर्जितः ।
यागं कृत्वा सुपूर्णं तु भूषणेन यदा यजेत् ॥ ४६६ ॥
View Verse
तदा कर्ता गुरुश्चापि पवित्रोक्तं फलं लभेत् ।
तदा सांवत्सरं कर्म परिपूर्णतरं भवेत् ॥ ४६७ ॥
View Verse
पतितस्य क्रियालोपात् परित्राणं भवेत् तदा ।
तस्मात्तु यजनं सम्यग्विभोः कृत्वा सुविस्तरम् ॥ ४६८ ॥
View Verse
तदन्ते शोभने प्राप्ते मुहूर्ते देशिको विभुम् ।
भूषणैर्भूषयेत् सम्यगत्वरः शान्तमानसः ॥ ४६९ ॥
View Verse
न लभ्यते मुहूर्तं तु यागान्ते यदि शोभनम् ।
तदन्यस्मिन् समारोप्य पवित्राणि यथाविधि ॥ ४७० ॥
View Verse
तदतिक्रान्तिदोषस्य शान्तयेऽथ जपेद्गुरुः ।
अष्टोत्तरसहस्रं तु मूलमन्त्रं तथास्त्रपम् ॥ ४७१ ॥
View Verse
जपेत् समयदोषघ्नमष्टधा मन्त्रनायकम् ।
एवं सर्वेषु यागेषु मुहूर्तातिक्रमे भवेत् ॥ ४७२ ॥
View Verse
तिथिनक्षत्रवारेषु पवित्रारोहणे विधिः ।
कथितो मुनिशार्दूल यदा पुण्येक्षणादिके ॥ ४७३ ॥
View Verse
केवले वैष्णवे वापि तत् कुर्यात् तत्र मे श्रृणु ।
पुण्यक्षणादिकं यस्मिन् दिने भवति तद्दिनात् ॥ ४७४ ॥
View Verse
प्राक्सप्तमे दिने कृत्वा प्राग्वदङ्कुररोपणम् ।
प्राग्वत् कृत्वाधिवासं तु पुरस्ताद्वासरद्वये ॥ ४७५ ॥
View Verse
ततः कर्मदिने ब्राह्ने मुहूर्ते स्नानकर्म च ।
कृत्वा प्राग्वत् समभ्यर्च्य चतुःस्थानस्थितं विभुम् ॥ ४७६ ॥
View Verse
केवलं बिम्बगं वापि यथाकालानुरूपतः ।
क्षणे तु वैष्णवे प्राप्ते पवित्रैस्तु यजेद्विभुम् ॥ ४७७ ॥
View Verse
यदा तु केवले बिम्बे पवित्रारोपणं भवेत् ।
तदा स्याद्बिम्बगस्यैव अधिवासोक्तपूजनम् ॥ ४७८ ॥
View Verse
तथा वह्निगतस्यापि वर्जयेत् कुम्भमण्डले ।
अतीतेऽस्मिन् मुहूर्ते तु भगवद्यागविस्तरात् ॥ ४७९ ॥
View Verse
क्षणान्तरे तु तत् कृत्वा सास्त्रमूलायुतं जपेत् ।
समस्तदोषशमनमष्टाविंशतिकं जपेत् ॥ ४८० ॥
View Verse
तिलैराज्यैरक्षतैर्वा सहस्रं जुहुयादगुरुः ।
विरोधात् समतिक्रान्ते क्षणे तस्मिन् महामते ॥ ४८१ ॥
View Verse
तदन्यस्मिन् समारोप्य पवित्राणि यथाविधि ।
ततस्तु पूर्वनवके प्रथमस्नपनं चरेत् ॥ ४८२ ॥
View Verse
द्वितीयं वा तृतीयं वा गुरोरिच्छावशेन तु ।
यद्वा मूलायुतं सास्त्रं जप्त्वा पश्चात्तिलादिकैः ॥ ४८३ ॥
View Verse
आहुतीनां सहस्रं तु प्रत्येकं जुहुयात् त्रिभिः ।
जपेन्मन्त्रवरं पश्चात् पञ्चाशच्चतुरुत्तरम् ॥ ४८४ ॥
View Verse
विधानमेवं कथितं स्थाने मर्त्यप्रतिष्ठिते ।
स्वयंव्यक्तादिके स्थाने पवित्रारोहणादिषु ॥ ४८५ ॥
View Verse
नैमित्तिकेषु सर्वेषु नित्येष्वपि विशेषतः ।
मुहूर्तातिक्रमे तत्तत्कालातिक्रमणेऽपि च ॥ ४८६ ॥
View Verse
न दोषो द्विज पूर्वोक्तस्तत्रापि च विशेषतः ।
भगवद्यागविस्तारादृतेऽन्येन च केनचित् ॥ ४८७ ॥
View Verse
विध्नानामुद्यमे तेन अतिक्रान्ते क्षणादिके ।
तत्तत्कर्माखिलं कृत्वा कालेऽन्यस्मिन् यथाविधि ॥ ४८८ ॥
View Verse
तद्दोषशान्तये कुर्यान्महामन्त्रजपं सुधीः ।
सकृद्द्विधा चतुर्धा वा अष्टधा वा द्विपञ्चधा ॥ ४८९ ॥
View Verse
द्विषट्षोडशधा वापि अष्टाविंशतिधा तु वा ।
तत्तत्कर्मविशेषाणां गुरुत्वाद्यानुगुण्यतः ॥ ४९० ॥
View Verse
यद्वाधिकं जपं कुर्याद्यथा चित्तं प्रसीदति ।
प्रायश्चित्तविशेषं तु हयूर्ध्वं वक्ष्यामि विस्तरात् ॥ ४९१ ॥
View Verse
दोषसंभावना प्रोक्ता तत्र कालावधिस्तथा ।
कीर्तितो विस्तरेणैव तस्मान्नात्र प्रतन्यते ॥ ४९२ ॥
View Verse
इत्येष कथितः सम्यक् पवित्रारोहणे विधिः ।
कृते पवित्रके विप्र भक्तैर्मन्त्रक्रियापरैः ॥ ४९३ ॥
View Verse
कश्चिद्विशेषनियमः पालनीयः प्रयत्नतः ।
यावदेकादशी शुक्ला कार्तिकस्यातिपुण्यदा ॥ ४९४ ॥
View Verse
वक्ष्यते सूक्ष्मरूपोऽन्यः प्रकारो मुनिपुङ्गव ।
केवले बिम्बके वापि यागमन्दिरसंस्थिते ॥ ४९५ ॥
View Verse
प्रासादसंस्थिते वापि दशम्यामधिवासिते ।
कल्पयेद्भूषणारोपं विना कलशमण्डले ॥ ४९६ ॥
View Verse
अग्निस्थेऽपि तदा कुर्यात् तत् प्राग्वदधिवासिते ।
एकं द्वे त्रीणि वा दद्यात् पवित्राणि तदा विभोः ॥ ४९७ ॥
View Verse
समानीयोत्तमाद्येन भेदेन तु कृतानि वा ।
द्रव्याभावो द्विजश्रेष्ठ अशक्तिर्यदि वा भवेत् ॥ ४९८ ॥
View Verse
सद्योऽधिवासं द्वादश्यां कृत्वा शक्त्या तु कारयेत् ।
सोपवासं द्विजश्रेष्ठ अर्चायां भूषणं विभोः ॥ ४९९ ॥
View Verse
यथेच्छाकल्पितैः सूत्रैर्ग्रन्थिभिस्तु यथेच्छया ।
निशारोचनया वापि पवित्राणां च धातुना ॥ ५०० ॥
View Verse
केनचिद्ग्रन्थयो विप्र विधिवत् परिरञ्जयेत् ।
पुष्पपूर्णानि गर्भाणि कृत्वा वा केवलान्यतः ॥ ५०१ ॥
View Verse
प्रपूज्य पूर्ववद्द्विप्र बिम्बसन्निहितं विभुम् ।
निवेद्य भूषणं दद्याद्वाणीमुच्चारयेदिमाम् ॥ ५०२ ॥
View Verse
यन्मया ब्रह्नसूत्रं च कल्पितं ग्राहयस्व च ।
कर्मणां पूरणार्थाय यथा दोषो न मे भवेत् ॥ ५०३ ॥
View Verse
इत्युक्त्वा च ततो दद्यात् पूज्योपरि पवित्रकम् ।
स्तुत्वा च देवदेवेशं द्वितीयेऽह्नि प्रयत्नतः ॥ ५०४ ॥
View Verse
पूजयित्वाथ देवेशं कुर्यात् तदुपसंहृतिम् ।
गृहे पवित्रयागे तु विशेषमधुनोच्यते ॥ ५०५ ॥
View Verse
बिम्बस्थे मण्डलस्थे वा चतुस्स्थानस्थितेऽपि वा ।
पवित्राणां त्रयं दद्यादेकैकं वा यथेच्छया ॥ ५०६ ॥
View Verse
इत्युक्तं योगिनां श्रेष्ठ पवित्रारोहणं परम् ।
ऊनातिरिक्ताद्यत् पाति भुवि भक्तजनं सदा ॥ ५०७ ॥
View Verse
तस्य निर्वर्तनाद्भक्त्या ब्राह्नणो वेदविद्भवेत् ।
श्रीमानत्युग्रशक्तिर्वै क्षत्रियोऽन्छिन्नसन्ततिः ॥ ५०८ ॥
View Verse
धनधान्ययुतो वैश्यः शूद्रस्तु सुखभाग्भवेत् ।
गोभूहिरण्यदानानामनन्तानां हि यत् फलम् ॥ ५०९ ॥
View Verse
यावज्जीवं प्रदत्तानां प्रत्यहं तत् समाः शतम् ।
परमायुश्च संपूर्णं तत् फलं प्राप्नुयान्नरः ॥ ५१० ॥
View Verse
प्राप्तकालं स्वबुद्ध्या तु आसाद्यायतनं हरेः ।
स्मरन् सर्वेश्वरं सम्यक् समुत्सृजति विग्रहम् ॥ ५११ ॥
View Verse
यानैश्चन्द्रप्रकाशैश्च दिव्यस्त्रीजनसङ्घकैः ।
वीज्यमानो दिवं याति पूज्यमानस्तथाऽमरैः ॥ ५१२ ॥
View Verse
भुञ्जीत सकलान् भोगान् सर्वलोकान्तरोद्भवान् ।
यः कुर्याद्भूषणारोपं निष्कामः प्रीतये विभोः ॥ ५१३ ॥
View Verse
संप्राप्य विष्णुलोकं स आस्ते कल्पशतान् बहून् ।
कालेन महतासाद्य मानुष्यं पुनरेव हि ॥ ५१४ ॥
View Verse
शुभे काले शुभे देशे जायते सुशुभे कुले ।
निवृत्ते बालभावे तु व्यक्ते करणसङ्ग्रहे ॥ ५१५ ॥
View Verse
बुद्धितत्वे प्रबुद्धे तु ऋगभ्यासवशात्तु वै ।
कर्मणा मनसा वाचा नारायणपरो भवेत् ॥ ५१६ ॥
View Verse
नित्यं क्रियापरो धीमान् ब्रह्नण्यः सत्यविक्रमः ।
अनन्ययाजी शुद्धात्मा दुष्टसङ्गविवर्जितः ॥ ५१७ ॥
View Verse
व्याधिशोकविनिर्मुक्तः पुत्रदारादिकैर्युतः ।
अपमृत्युविनिर्मुक्तो ज्ञानमासाद्य निर्मलम् ॥ ५१८ ॥
View Verse
श्वेतद्वीपं समासाद्य सुराणां यत् सुदुर्लभम् ।
ज्ञानिनामपि चान्येषां तत्र दृष्ट्वा जगत्पतिम् ॥ ५१९ ॥
View Verse
परब्रह्नत्वमायाति तत्कर्मपरमः पुमान् ।
पश्यन्त्यारोप्यमाणं ये ब्रह्नसूत्रं जगत्प्रभोः ॥ ५२० ॥
View Verse
तथानुमोदन्त्यन्योन्यं यान्ति ते परमां गतिम् ।
श्रृण्वन्ति ये विधानं तु पवित्रं पापनाशनम् ॥ ५२१ ॥
View Verse
प्राप्नुवन्ति च ते पुण्यमिष्टापूर्तोदितं हि यत् ।
नारी ह्यनन्यशरणा पतिना परिचोदिता ॥ ५२२ ॥
View Verse
तद्भक्ता सद्गुणा साध्वी कर्मणा मनसा गिरा ।
नित्यं भर्तरि चाद्रोहा प्रयाता सह तेन वै ॥ ५२३ ॥
View Verse
पवित्रकं जगद्योनेरारोपयति वा द्विज ।
सातुलं चैव सौभाग्यं प्राप्नुयादचिरेण तु ॥ ५२४ ॥
View Verse
देहान्ते देवनारीणां देवानां याति पूज्यताम् ।
सा त्वरुन्धतिपूर्वाणामर्वाक् समभिवीक्ष्यते ॥ ५२५ ॥
View Verse
ज्ञानमासादयत्यन्ते येन यात्यच्युतं पदम् ।
प्रोत्तारयति बन्धूनां दुष्कृतेभ्योऽब्जसंभव ॥ ५२६ ॥
View Verse
पितॄणां जनकादीनां नाम्ना स्नेहपरस्तु यः ।
ददाति भूषणं विप्र मन्त्री मन्त्रात्मनो विभोः ॥ ५२७ ॥
View Verse
दुर्गतेः सुगतिं यान्ति द्युसिन्धोरस्थिना यथा ।
यथा सुराणाममृतं नृणं गाङ्गं यथा जलम् ॥ ५२८ ॥
View Verse
स्वधा यथा पितॄणां च कर्मिणां तद्वदेव हि ।
पवित्रकं क्रियाढ्यानां पावनं भूतिवर्धनम् ॥ ५२९ ॥
View Verse
सर्वदोषभयघ्नं च सर्वोपद्रवनाशनम् ।
सर्वसौख्यप्रदं चैव सर्वगुह्यप्रकाशनम् ॥ ५३० ॥
View Verse
तपोदानव्रतानां च विहितस्याह्निकस्य च ।
निश्शेषयागभोगानां कृत्वा संपूरणक्रियाम् ॥ ५३१ ॥
View Verse
अपरेऽहनि वै कुर्याच्चतुर्थे सप्तमेऽपि वा ।
स्नपनं पूज्यमन्त्रस्य तीर्थोद्देशेऽथ सङ्गमे ॥ ५३२ ॥
View Verse
नद्यां समुद्रगामिन्यां देवखाते ह्रदे तु वा ।
प्रीतये परमेशस्य त्वात्मनो दुःखहानये ॥ ५३३ ॥
View Verse
आह्लादायामराणां च पितॄणां तृप्तये तु वै ।
आप्यायनार्थं भूतानां भुवनानां च भूतये ॥ ५३४ ॥
View Verse
देशदोषप्रशान्त्यर्थं गोब्राह्नणहिताय वै ।
यथावत् स्रपनं कुर्यात्रीर्थबिम्बे विशेषतः ॥ ५३५ ॥
View Verse
नित्यस्नपनबिम्बे वा कुर्यात्तत्तदसन्निधौ ।
नित्योत्सवपरे बिम्बे ह्याचरेत्तदसन्निधौ ॥ ५३६ ॥
View Verse
तदभावे पवित्रे तु दर्भमञ्जरिजे शुभे ।
विधानमत्र मे सम्यक् श्रृणु विप्र समाहितः ॥ ५३७ ॥
View Verse
बहुशाखमभग्नाग्रं समूलं यदपुष्पितम् ।
प्राङ्मुखो दर्भमादाय प्रणवेन पुरा क्षितेः ॥ ५३८ ॥
View Verse
ततस्तेनैव तन्मूलं प्राग्वत् कुर्यादधिष्ठितम् ।
तस्य मद्यमनालं यन्न्यग्भूतमवतिष्ठते ॥ ५३९ ॥
View Verse
आराध्य मन्त्रनाथेन स्मरेद्व्याप्तं महात्मना ।
विवर्तं परमात्मीयमध्यक्षाख्यं च विद्धि तम् ॥ ५४० ॥
View Verse
अनेकगर्भमुच्चं यत् काण्डं काण्डेषु चोत्तमम् ।
अणिमादिगुणैर्युक्तं पुंस्तत्वं तेन कल्प्यते ॥ ५४१ ॥
View Verse
वाचकं तस्य योक्तव्यं हंसयुक्तं द्विलक्षणम् ।
बहिष्काण्डचतुष्केण चित्तपूर्वं चतुष्टयम् ॥ ५४२ ॥
View Verse
ग्रथनीयमथो वक्त्रमव्यक्तान्तं स्वकैः पदैः ।
प्रणवादिनमोन्तैस्तु व्यापकं सूक्ष्मलक्षणम् ॥ ५४३ ॥
View Verse
एवं श्रोत्रादिकान् पञ्च स्वनाम्ना ग्रथयेत्तदा ।
कर्मेन्द्रियाणि तदनु ततस्तन्मात्रपञ्चकम् ॥ ५४४ ॥
View Verse
पञ्चकं त्वथ भूतानां बद्ध्वा वै क्ष्मावसानिकम् ।
अवशिष्टैस्तु तत्काण्डैर्बध्नीयात्तु करण्डवत् ॥ ५४५ ॥
View Verse
विना शिखासमूहेन समुत्थानावधेरथ ।
किञ्चित्तदूर्ध्वदेशाच्च यथा नो याति वै पुनः ॥ ५४६ ॥
View Verse
बहुधा काण्डसङ्घस्तु कल्पितस्तत्त्वसंख्यया ।
विभिन्नानां च काण्डानां भङ्गादेकतरस्य च ॥ ५४७ ॥
View Verse
उत्पद्यतेऽन्यथात्वं च तस्मात्तद्ग्रथयेद्दृढम् ।
दर्भमञ्जरिजं त्वेवं सम्पाद्यादौ पवित्रकम् ॥ ५४८ ॥
View Verse
अनुसन्धीयते तत्र मान्त्रध्यानं यथास्थितम् ।
पूजयित्वार्घ्यपुष्पाद्यैरलङ्कत्य पठेदिदम् ॥ ५४९ ॥
View Verse
त्वमेव तीर्थं भगवंस्त्वमेवायतनं परम् ।
त्वयैवाधिष्ठितं सर्वमिदं जानामि तत्त्वतः ॥ ५५० ॥
View Verse
तत्रापि च त्वया दिष्टं क्रियाकाण्डं शुभप्रदम् ।
यत्तन्निर्वाहयाम्यद्य त्वदनुग्रहकाम्यया ॥ ५५१ ॥
View Verse
एवं विज्ञाप्य भगवन् मन्त्रमूर्तिं परात्परम् ।
तत्पत्रपात्रगं कृत्वा ब्रह्नयानगतं तु वा ॥ ५५२ ॥
View Verse
वेदगेयध्वनीशङ्खशब्दमङ्गलपूर्वकम् ।
नीत्वा तीर्थान्तिकं तत्र तीरदेशे निधाय च ॥ ५५३ ॥
View Verse
पूर्वामुखं च तद्यानमादाय च पवित्रकम् ।
वामहस्ततले कुर्यात् क्ष्मामण्डलगतं त्विव ॥ ५५४ ॥
View Verse
विधृयान्मध्यभागाच्च पाणिना दक्षिणेन तु ।
अवतीर्याम्भसो मध्यं निमज्जेत् सह तेन वै ॥ ५५५ ॥
View Verse
सन्निधिं तत्र तत्कालं प्रकुर्वन्त्यचिरात्तु वै ।
निश्शेषाणि च तीर्थानि लोकत्रयगतानि च ॥ ५५६ ॥
View Verse
मन्त्रात्मा यत्र रक्षार्थं क्षणमास्ते जलाशये ।
तत्रायतनतीर्थानां सर्वेषां स्यात् समागमः ॥ ५५७ ॥
View Verse
किं पुनर्यत्र भगवान् मन्त्रमूर्तिरधोक्षजः ।
साधकाभ्यर्थितः स्नायात् सर्वानुग्रहया धिया ॥ ५५८ ॥
View Verse
विद्वान् योऽनेन विधिना तीर्थमासाद्य तत्ववित् ।
स्नापयेद्बान्धवादीनां प्राप्नुवन्त्यचिराच्च ते ॥ ५५९ ॥
View Verse
तैर्थं फलमनायासान्मन्त्रमूर्तेः प्रसादतः ।
किं तु तद्यानवादित्रवर्जितस्तु भवेद्विधिः ॥ ५६० ॥
View Verse
इमं विद्धि महाबुद्धे विशेषं चात्र कर्मणि ।
सामान्यमविनाशं यच्चिन्मयं रूपवर्जितम् ॥ ५६१ ॥
View Verse
विशेषज्ञानसंबद्धं जीवहंसं विभाव्य तम् ।
पवित्रकं तदाकारं स्मृत्वाऽप्लाव्यं ततोऽम्भसा ॥ ५६२ ॥
View Verse
एवं तेनैव चान्येषां बहूनां बहुभिस्तु वा ।
सम्पाद्यं विष्टरे स्नानं दूरस्थानां सदैव हि ॥ ५६३ ॥
View Verse
सम्पन्ने स्नपने त्वेवं द्वितीयेऽह्नि महामते ।
रथे कृत्वार्चिते तं वै प्रपूज्य च यथाविधि ॥ ५६४ ॥
View Verse
यात्राख्यमुत्सवं कुर्यादन्नदानपुरस्सरम् ।
सनृत्तगेयवादित्रं जागरेण समन्वितम् ॥ ५६५ ॥
View Verse
एकरात्रं द्विरात्रं वा त्निरात्रं भक्तिपूर्वकम् ।
सकृत् संवत्सरस्यान्ते तूत्सवं स्नपनादिकम् ॥ ५६६ ॥
View Verse
कुर्याद्यो मन्त्रनाथस्य स सिद्धिं लभते पराम् ।
प्रस्वापे च प्रबोधे च हयुत्सवे वत्सरीयके ॥ ५६७ ॥
View Verse
तथा सहस्रकलशैरबिषेकविधावपि ।
अङ्कुरारोपणे चैव मन्त्राह्गाभरणे द्विज ॥ ५६८ ॥
View Verse
विविधासु प्रतिष्ठासु जीर्णोद्धारविधावपि ।
प्रायश्चित्तेषु मुख्येषु तुलाभारादिकेऽपि च ॥ ५६९ ॥
View Verse
एवमादिनिमित्तेषु काम्येष्वपि तथैव च ।
द्वादश्यादिषु कालेषु कल्पयेद्यागपूर्वकम् ॥ ५७० ॥
View Verse
यागमण्डपविन्यासं चतुस्स्थानार्चनक्रियाम् ।
तत्रायं हि विशेषः स्यात् पूर्वेद्युः कर्मवासरात् ॥ ५७१ ॥
View Verse
रजन्यामधिवासःस्यात् प्रभाते कर्म तद्भवेत् ।
उत्सवेषु तदारम्भवासरे ह्यधिवासनम् ॥ ५७२ ॥
View Verse
तद्रात्रौ कर्म कुर्वीत कुम्भाद्यर्चनपूर्वकम् ।
पुष्पयागेषु विप्रेन्द्र कुर्यात् सद्योऽधिवासनम् ॥ ५७३ ॥
View Verse
संप्रोक्षणे च पूर्वं तु दहनाप्यायनात्मकम् ।
स्याद्वा सर्वत्र तत् सद्यो देशकालानुरूपतः ॥ ५७४ ॥
View Verse
प्रस्वापे स्वस्तिकं नाम कुर्याद्यागवरं द्विज ।
प्रबोधे तु विवेकाख्यं व्यूहेष्वेकतमं तु वा ॥ ५७५ ॥
View Verse
उत्सवे ह्येकपझं वा नैकाब्जं चक्रपङ्कजम् ।
भूषितं परितो विप्र केवलः परशूपमैः ॥ ५७६ ॥
View Verse
कर्तर्यन्तरितैर्वापि यद्वा पझदलोपमैः ।
इन्दीवरदलाकारैर्यववल्मीकरूपकैः ॥ ५७७ ॥
View Verse
यागं वा नवनाभाख्यं यागानामुत्तमोहि सः ।
यद्वा कुम्भोदरान्तानां वृत्तादीनां क्रमेण तु ॥ ५७८ ॥
View Verse
नवानामपि बिम्बानामेकैकं प्रतिवासरम् ।
प्रथमाहात् समारभ्य यावन्नवमवासरम् ॥ ५७९ ॥
View Verse
यागं व्यूहाभिधानं वा नवभिः पङ्कजैर्युतम् ।
अथ व्यूहाच्चतुष्पझाद् यावदष्टसरोरुहम् ॥ ५८० ॥
View Verse
नवानां व्यूहयागानामेकैकं च क्रमेण तु ।
नियमो नवसंख्याख्यस्तत्संख्ये स्यान्महोत्सवे ॥ ५८१ ॥
View Verse
न्यूनाधिकदिनेऽन्यस्मिन्नुत्सवे नववासरे ।
द्वयोरप्येकपझादिविधिः साधारणो भवेत् ॥ ५८२ ॥
View Verse
सर्वदा पुष्पयागे तु मातुलुङ्गोपमाऽरकैः ।
युक्तं चक्राम्बुजं कुर्यादनन्तकलशे द्विज ॥ ५८३ ॥
View Verse
चक्राम्बुजं चाभिमतमङकुरारोपणे तथा ।
विविधासु प्रतिष्ठासु चक्राब्जे संयजेद्विभुम् ॥ ५८४ ॥
View Verse
यथाभिमतरूपे तु व्यूहे वाभीप्सिते द्विज ।
भूतावासाह्वये वापि धरुवे वा नित्यसंज्ञके ॥ ५८५ ॥
View Verse
जीर्णोद्धारादिविधिषु ह्येवमेव महामते ।
क्ष्मापरिग्रहपूर्वेषु सर्वेष्वपि च कर्मसु ॥ ५८६ ॥
View Verse
प्रायश्चित्तनिमित्ते तु संजाते संकरादिके ।
अभीष्टैररकैर्युक्तं कुर्याच्चक्राम्बुजं सदा ॥ ५८७ ॥
View Verse
तुलाभारादिकेऽप्येवं यद्वा काम्यानुरूपतः ।
सङ्क्रान्तिद्विचतुष्केषु मेषसंक्रान्तिपूर्वकम् ॥ ५८८ ॥
View Verse
सदध्वदे तु धर्माख्ये वसुगर्भे क्रमेण तु ।
सर्वकाम्ये ह्यमित्रघ्ने ह्यायुष्ये वलभद्रके ॥ ५८९ ॥
View Verse
आरोग्ये संयजेद्देवं पुण्डरीकाक्षमव्ययम् ।
वाग्विभूतिप्रदे चैव मानसाख्येऽयनद्वये ॥ ५९० ॥
View Verse
चन्द्रसूर्योपरागे तु जयेऽनन्ते तदेव हि ।
द्वादश्योः सुप्रतिष्ठाख्ये बुद्ध्याधारे तु पूर्वयोः ॥ ५९१ ॥
View Verse
अमोघसंज्ञितेऽन्यासु प्रशस्तासु तिथिष्वपि ।
नक्षत्रेषु प्रशस्तेषु यजेद्यागे गुणाकरे ॥ ५९२ ॥
View Verse
शान्तिकर्मणि वै कुर्याद्यागे शङ्खोदराभिधे ।
पूजनं देवदेवस्य यागे वा शान्तिकाह्वये ॥ ५९३ ॥
View Verse
पौष्टिके च यथायागे ह्यथवा कौस्तुभोदरे ।
वनमालोदरे वाथ यष्टव्यो भगवान् विभुः ॥ ५९४ ॥
View Verse
रक्षाकर्मण्यमित्रघ्ने आरोग्ये वा यजेत् प्रभुम् ।
आप्यायनेऽर्धचन्द्राख्ये यद्वा पूर्णएन्दुमण्डले ॥ ५९५ ॥
View Verse
कजाभिधाने यागे वा यजेत् कुम्भोदरे तु वा ।
धर्मार्थी संयजेन्नित्यं देवदेवं जनार्दनम् ॥ ५९६ ॥
View Verse
सदध्वदेवा धर्माख्ये अघनिर्मोचनेऽथवा ।
अर्थार्थी पूजयेन्नित्यं पझे कौमोदकीगदे ॥ ५९७ ॥
View Verse
वसुगर्भाभिधे यागे सर्वतोभद्रकेऽथवा ।
काम्याभिलाषी कुर्वीत सर्वकामप्रदाभिधम् ॥ ५९८ ॥
View Verse
विजयो राज्यलाभश्च शतारं मिश्रचक्रराट् ।
सहस्रारं तु वा मिश्रं मिश्रं वारिजचक्रराट् ॥ ५९९ ॥
View Verse
इच्छासंख्यारसंपूर्णं सहस्रारावसानकम् ।
मोक्षार्थी परमानन्दे यागे वा चक्रपङ्कजे ॥ ६०० ॥
View Verse
सहस्रसंख्यासंख्यातैररकैः परिभूषिते ।
अथवा मिश्रचक्रे तु तत्संख्यारपरिष्कृते ॥ ६०१ ॥
View Verse
सर्वेष्वेतेषु यागेषु सर्वेषामपि कर्मणाम् ।
पूजयेद्वा जगन्नाथं वासुदेवं सनातनम् ॥ ६०२ ॥
View Verse
प्रस्वापं च प्रभोधं च उत्सवं वात्सरीयकम् ।
पवित्रारोहणं चैव स्थापनं विविधं तथा ॥ ६०३ ॥
View Verse
जीर्णोद्धारविधानं च तुलाभारादि कर्म च ।
प्रायश्चित्तानि मुख्यानि वर्जयित्वा तु कर्मसु ॥ ६०४ ॥
View Verse
नैमित्तिकाख्येष्वन्येषु सर्वेषु द्विजसत्तम ।
अनुकल्पे यजेद्देवं कुम्भमण्डलके विना ॥ ६०५ ॥
View Verse
प्रायश्चित्तप्रकारस्तु विभिन्नस्त्रित्रिभेदतः ।
उत्तमादिविभागेन कलशे मण्डलक्षितौ ॥ ६०६ ॥
View Verse
बिम्बेऽग्नौ संयजेद्देवं प्रकारे ह्युत्तमोत्तमे ।
कुम्भमण्डलवह्निस्थं यजेत्तन्मध्यमे विभुम् ॥ ६०७ ॥
View Verse
कुम्भेऽग्नौ च यजेद्देवं विभुं तदधमे द्विज ।
बिम्बेऽग्नौ च यजेद्देवं गुरोरिच्छानुरूपतः ॥ ६०८ ॥
View Verse
स्नपनैः परभेदोत्थैः स्नापयेन्मध्यमोत्तमे ।
अपरोदितभेदैस्तु चतुर्भिः स्नापयेद्विभुम् ॥ ६०९ ॥
View Verse
क्रमेण मध्यमध्याद्ये न्यूनमद्यावसानिके ।
चतुष्टये तदन्यस्मिन्नग्नौ सन्तर्पयेद्विभुम् ॥ ६१० ॥
View Verse
प्रायश्चित्तेषु सर्वेषु जपं वापि समाचरेत् ।
देशकालस्वसामर्थ्यद्रव्यादेरानुगुण्यतः ॥ ६११ ॥
View Verse
प्रायश्चित्तेषु सर्वेषु चतुस्स्थानार्चनादिके ।
दशप्रकारे विप्रेन्द्र दिनसंख्यां निबोध मे ॥ ६१२ ॥
View Verse
दिनानि चत्वारिंशच्च त्रिंशद्विंशतिरेव च ।
तथा पञ्चदशाहश्च क्रमादेकदिनान्तिमम् ॥ ६१३ ॥
View Verse
एवमष्टादशविधा दिनसंख्या प्रकीर्तिता ।
उत्तमोत्तमपूर्वेण भेदेन नवधा तु वा ॥ ६१४ ॥
View Verse
द्विकद्विकक्रमेणैव तदा द्व्येकदिनान्तिमम् ।
प्रायश्चित्तप्रकारस्तु प्रसड्गादत्र कीर्तितः ॥ ६१५ ॥
View Verse
विस्तरेण प्रवक्ष्यामि ह्युपरिष्टान्महामते ।
इति पावित्रकं सम्यग्विधानं कथितं माय ।
इतः परं मुनिश्रेष्ठ किमन्यच्छ्रोतुमिच्छसि ॥ ६१६ ॥
View Verse

Chapter 13

श्रीः ।
त्रयोदशोऽध्यायः ।
सनकः ।
शयनस्थे जगन्नाथे चातुर्मास्यस्य मध्यतः ।
पवित्रारोहणं प्रोक्तं त्वया मतिमतां वर ॥ १ ॥
View Verse
किं देवशयनं नाम किं देवः स्वप्स्यतीत्यसौ ।
देवः किमर्थं स्वपिति किं विधानं तथा वद ॥ २ ॥
View Verse
के मन्त्राः के च नियमाः व्रतान्यस्य क्रिया तु का ।
किं ग्राह्यं किं च मोक्तव्यं सुप्ते देवे जनार्दने ॥ ३ ॥
View Verse
शाण्डिल्यः ।
श्रूयतामभिधास्यामि गुह्याद्गुह्यतरं तव ।
पुरा तपः प्रभावेन तोषितो योगनिद्रया ॥ ४ ॥
View Verse
ममाङ्गं मानयस्वे ति प्रार्थितो जगतांपतिः ।
निरीक्ष्य चात्मनो देहे रुद्धं लक्ष्म्या उरःस्थलम् ॥ ५ ॥
View Verse
शङ्खचक्रासिशार्ङ्गाद्यैर्बाहवः सुविभूषिताः ।
अधोनाभेर्निरुद्धं च वैनतेयेन पक्षिणा ॥ ६ ॥
View Verse
मकुटेन शिरो रुद्धं कुण्डलाभ्यां श्रवोयुगम् ।
ततो ददौ सुसन्तुष्टो नेत्रयोः स्थानमादरात् ॥ ७ ॥
View Verse
चतुरो वार्षिकान् मासान् वासं प्रीता गमिष्यसि ।
योगनिद्रापि तद्वाक्यं श्रुत्वा हृष्टतनूरुहा ॥ ८ ॥
View Verse
चकार लोचनावासमत्यर्थं शार्ङ्गधन्वनः ।
द्वादश्यां शुक्लपक्षस्य आषाढस्य द्विजाधिप ॥ ९ ॥
View Verse
तदादौ कौमुदाख्यस्य यावन्मासस्य तद्दिनम् ।
देवः सर्वेश्वरस्तां तु मानयन्नयनस्थिताम् ॥ १० ॥
View Verse
योगनिद्रां महानिद्रां शेषाहिशयने स्वपन् ।
क्षीरोदतोयबीच्यग्रैः धौतपादः समाहितः ॥ ११ ॥
View Verse
लक्ष्मीकराम्बुजश्लक्ष्णमृज्यमानपदद्वयः ।
प्रवृत्ते तौहिने काले प्रबुद्ध्यति जनार्दनः ॥ १२ ॥
View Verse
वासुदेवो जगन्नाथः क्रियार्थं स्वेच्छया द्विज ।
सेवमानोऽपि तां निद्रां जडतां न व्रजेत् प्रभुः ॥ १३ ॥
View Verse
यथा प्राकृतिकः सुप्तः कश्चिन्मलिनमानसः ।
अकर्ता सर्वकार्याणां योगनिद्रावशीकृतः ॥ १४ ॥
View Verse
न तादृक्त्वे जगद्धातुरप्रमेयः सनातनः ।
यतः प्रबुद्धःसर्वज्ञो नित्योऽजः परमेश्वरः ॥ १५ ॥
View Verse
तस्य निद्रादयो दोषाः सततं यान्ति वश्यताम् ।
निद्रादिदोषरहिते प्रसुप्ते ह्यच्युतेऽमले ॥ १६ ॥
View Verse
निवर्तन्ते क्रियाः सर्वाश्चातुर्वर्ण्यस्य सर्वशः ।
विवाहव्रतबन्धादिचूडासंस्कारदीक्षणम् ॥ १७ ॥
View Verse
यज्ञो गृहप्रवेशादिगोदानार्चाप्रतिष्ठनम् ।
पुण्यानि यानि कर्माणि वर्जयेद्दक्षिणायने ॥ १८ ॥
View Verse
असङ्क्रान्तं तु यन्मासं दिव्ये पित्र्ये च वर्जयेत् ।
मलिम्लुचमशौचं च सूर्यसङ्क्रान्तिवर्जितम् ॥ १९ ॥
View Verse
नैमित्तिकान् मासि मासि तथा संवत्सरोत्सवान् ।
विशेषयागसंयुक्तान् सर्वसंपूरणादृते ॥ २० ॥
View Verse
नान्यन्नैमित्तिकं काम्यं कार्यं मासचतुष्टये ।
अबीष्टव्रतमाश्रित्य नेतव्यं तच्चतुष्टयम् ॥ २१ ॥
View Verse
भगवद्भक्तिनिष्णातैः कार्यं यच्चापरं श्रृणु ।
विष्णोरायतनस्याग्रे कुर्याच्छयनमन्दिरम् ॥ २२ ॥
View Verse
षट्करादादितो यावच्चतुर्दशकरावधि ।
स्तम्भयुक्तं सुधालिप्तं नानारागैः सुरञ्जितम् ॥ २३ ॥
View Verse
ऊर्ध्वं तथा भित्तिगणं पूरयेच्चित्रनिर्मितैः ।
ब्रह्नरुद्रेन्द्रचन्द्रार्कबिम्बैश्चान्यैस्तु वै बुधैः ॥ २४ ॥
View Verse
अष्टयोनिगतैर्विप्र सर्वैश्चोपनतस्थितैः ।
ब्रह्नर्षिसिद्धमनुजैर्भक्तैश्चान्यैस्तथाऽसुरैः ॥ २५ ॥
View Verse
अप्सरोभिश्च विविधैस्तुवद्बद्धाञ्जलीयकैः ।
सम्मुखे देवदेवस्य सर्वाभरणभूषितैः ॥ २६ ॥
View Verse
एवं तु शयनागारं कृत्वा वस्त्रादिभूषितम् ।
ब्रह्नस्थानं समाश्रित्य तस्मिन् कुर्यात्ततो द्विज ॥ २७ ॥
View Verse
एकद्विचतुरष्टाभिः स्वकीयैस्तु करैः स्थलाम् ।
कोणेषु तत्समैर्दण्डैः शुभैर्यज्ञतरूद्भवैः ॥ २८ ॥
View Verse
सुश्लक्ष्णैर्वेदिका कार्या चतुर्भिस्तोरणान्विता ।
वितानकं तदूर्ध्वे तु मध्ये पङ्कजभूषितम् ॥ २९ ॥
View Verse
प्रलम्बिपुष्पमालाभिर्घण्टाचामरदर्पणैः ।
भूषयेद्बुद्बुदाद्यैश्च सुवर्णरजतोद्भवैः ॥ ३० ॥
View Verse
मुक्तेन्द्रनीलवैडूर्यपझरागविचित्रितैः ।
सितादिवस्त्रभेदेन पताकाभिस्तथा ध्वजैः ॥ ३१ ॥
View Verse
खगेन्द्रतालमकरऋश्यसंज्ञैः समुच्छ्रितैः ।
पूर्वादिदिक्षु संयुक्तैः कोणे पूर्णघटैर्युतम् ॥ ३२ ॥
View Verse
बीजैर्गन्धैस्त्वगेलाद्यैः पूरितैः पात्रसञ्चयैः ।
राजद्भिः सत्फलोपेतैर्विविधैः परितो वृताम् ॥ ३३ ॥
View Verse
विचित्रपुष्पप्रकरां चन्दनाद्यनुलेपिताम् ।
विचित्रवस्त्रसञ्छन्नां कुर्याद्वेदिं जगद्गुरोः ॥ ३४ ॥
View Verse
इत्येवं शयनागारं संपाद्यादौ मनोहरम् ।
हेमरत्नविचित्राङ्गं शयनं लक्षणान्वितम् ॥ ३५ ॥
View Verse
सुपर्णतालमकरऋश्यैर्दिक्स्थैर्विभूषितम् ।
मकरास्यसमायुक्तं व्याघ्राङ्घ्रिसदृशाङ्घ्रिकम् ॥ ३६ ॥
View Verse
यद्वा गर्भगृहे विष्णोर्मूलमूर्तेस्तु दक्षिणे ।
शयनं कल्पयेद्विप्र स्वगृहे वाऽनुकल्पने ॥ ३७ ॥
View Verse
एवं पुरा समापाद्य यथा वित्तानुरूपतः ।
संगृह्य सर्वसंभारान् दशम्यां द्विजसत्तम ॥ ३८ ॥
View Verse
संकल्प्य पूर्वविधिना पूर्वोक्तं यागमण्डपम् ।
प्रविशेद्देशिकेन्द्राख्य एकादश्यां निशामुखे ॥ ३९ ॥
View Verse
पूर्ववत् पूजनं कुर्यात् कलशे मण्डले क्षितौ ।
संप्रविश्य ततः प्राग्वन्मूलमूर्तौ तु पूजनम् ॥ ४० ॥
View Verse
कुर्यात् स्नपनयोग्यायां यात्रामूर्तावतोऽन्यथा ।
वह्नौ सन्तर्पयेन्मन्त्रं समिद्भिः सप्तभिः क्रमात् ॥ ४१ ॥
View Verse
यागमण्डपमासाद्य जागरेण नयेन्निशाम् ।
ब्राह्ने मुहूर्ते संप्राप्ते उत्थाय शयनात्ततः ॥ ४२ ॥
View Verse
स्नातः कृताभिगमनो नित्यं निर्वर्त्य पूरयेत् ।
पूर्वोक्तमण्डलं विप्र रजोभिर्विविधैस्ततः ॥ ४३ ॥
View Verse
कुम्भमण्डलयोः पूर्वं समाराध्य यथाक्रमम् ।
ततो नैमित्तिकं बिम्बं पश्चिमे मण्डपस्य तु ॥ ४४ ॥
View Verse
संस्थाप्य संयजेत् सम्यग्भोगैर्व्यक्तैः क्रमोदितैः ।
अष्टाष्टसंख्यासंख्यातैर्विविधैरौपचनारिकैः ॥ ४५ ॥
View Verse
सांस्पर्शिकैस्ततो ब्रह्नन् हृदयङ्गमसंज्ञकैः ।
एवमिष्ट्वा तु होमान्तं सविशेषं विधानतः ॥ ४६ ॥
View Verse
इन्द्रादिलोकपालानां बलिं दद्याद्द्विजोत्तम ।
ततो विसृज्य मन्त्रेशं कुम्भमण्डलकुण्डगम् ॥ ४७ ॥
View Verse
विष्वक्सेनं यजेत् साङ्गं भोगैर्मण्डलमध्यतः ।
ततस्तां भगवद्व्यक्तिं प्रासादान्तः प्रवेशयेत् ॥ ४८ ॥
View Verse
उत्सवोक्तविधानेन सर्वालङ्कारसंयुतम् ।
संप्रवेश्य प्रेवद्याथ मूलमूर्तिं महामते ॥ ४९ ॥
View Verse
अर्घ्येण गन्धपुष्पाभ्यां धूपेन सुशुभेन च ।
प्रपूज्यावाह्य शय्यार्थमूर्तौ वै मूलमूर्तितः ॥ ५० ॥
View Verse
तां समानीय यागार्थमण्डपे स्नापयेत् क्रमात् ।
अलह्कृतामलङ्कारैर्नू पुरान्तैः समुज्ज्वलैः ॥ ५१ ॥
View Verse
श्रीखण्डशशिबाह्लीकविलिप्तां पुष्पवेष्टिताम् ।
प्रावृतां नेत्रवस्त्रेण मृष्टधूपैः सुधूपिताम् ॥ ५२ ॥
View Verse
पूजयेद्विभवेनैव भोगपूगैस्तु पावनैः ।
यद्वाह्यनुमतो विप्र देशिको गुरुणा मुने ॥ ५३ ॥
View Verse
पूर्वमेव यजेन्मूर्तिमेनां स्नपनपूर्वकम् ।
ततो निशामुखे प्राप्ते देशिकः साधकैः सह ॥ ५४ ॥
View Verse
यानेनाभिमतेनैव प्रदक्षिणचतुष्टयम् ।
प्रासादं संपरिक्रम्य सर्वाण्यावरणानि वा ॥ ५५ ॥
View Verse
सह चैकायनैर्विप्रैर्द्विजेन्द्रैः पाञ्चकालिकैः ।
सिद्धान्तनिष्ठैस्तत्कर्मनिरतैर्भगवन्मयैः ॥ ५६ ॥
View Verse
मङ्गलानि प्रयुञ्जानैः पुष्पाक्षतकरैर्द्विज ।
कृत्वा द्वार्स्थार्चनं सार्घ्यैः पुष्पगन्धानुलेपनैः ॥ ५७ ॥
View Verse
लक्ष्मीनिवासेश विभो भोगपर्यङ्कशायन ।
ममाशु पापनिचयं विघ्नजालं विनाशय ॥ ५८ ॥
View Verse
पठन्मन्त्रमिमं सम्यक् प्रणबब्रह्नंसयुतम् ।
प्रविशेच्छयनागारं हृदि मन्त्रमनुस्मरन् ॥ ५९ ॥
View Verse
ततः शयनदेशे तु पश्चिमे हेमविष्टरे ।
निवेश्य प्राङ्मुखीं मूर्तिं यदा गर्भगृहे तदा ॥ ६० ॥
View Verse
निवेश्य द्वाराभिमुखीं स्वयं समुपविश्य तु ।
पञ्चगव्येन चाभ्युक्ष्य ततः शय्यास्थलं द्विज ॥ ६१ ॥
View Verse
कुङ्कुमागरुकर्पूरेरुपलिप्य च चन्दनैः ।
तस्मिन् मध्ये शुभं कुर्यात् स्वस्तिकं सूक्ष्मलक्षणम् ॥ ६२ ॥
View Verse
शुक्लारुणैस्तथा पीतैर्धातुभिश्चासितैर्मुने ।
चतुर्विधेन रजसा कुर्याद्रत्नोद्भवेन वा ॥ ६३ ॥
View Verse
मूर्धोपथानसंयुक्तं मसूरकबरान्वितम् ।
गग्डोपधानसंयुक्तं चरणाधारसंयुतम् ॥ ६४ ॥
View Verse
ज्योत्स्नावितानसदृशप्रच्छादनपटान्वितम् ।
सुधूपितं च शयनं संस्थाप्य च तथोपरि ॥ ६५ ॥
View Verse
प्रागुत्तरशिरश्शुभ्रं प्राक्छिरस्त्वथवा द्विज ।
मूलबिम्बे शयनगे स्थाप्यं तदनुरूपतः ॥ ६६ ॥
View Verse
तद्दक्षिणेऽथ दिग्भागे देशं समवलम्ब्य वै ।
तस्मिन् शुभतरे ब्रह्नन् शयने शशिवासिते ॥ ६७ ॥
View Verse
क्षीरोदार्णवमद्यस्थं सहस्रफणमौलिनम् ।
हिमकुन्देन्दुधवलं नागराजं महामते ॥ ६८ ॥
View Verse
प्रणवेन स्वनाम्ना च वर्णान्तेन सबिन्दुना ।
घ्यात्वार्चयित्वा स्तुत्वा च नमस्कृत्वा प्रसाद्य च ॥ ६९ ॥
View Verse
निवेश्य तस्मिंस्तां मूर्तिं केवलां वा श्रिया सह ।
स्वबीजं मन्त्रपूतं तु ॐ लक्ष्मीपतये नमः ॥ ७० ॥
View Verse
समुदीर्य धियाचार्य अङ्गोपाङ्गक्रमेण तु ।
द्वादशाक्षरवर्णैस्तु स्वनामपदसंयुतैः ॥ ७१ ॥
View Verse
दत्वा गन्धानि माल्यं च धूपं शव्यास्थितं प्रभुम् ।
पूजयेत् पूर्वविधिना भोगैः सर्वैर्यथोदितैः ॥ ७२ ॥
View Verse
ततस्त्वभिनवं कुण्डं संस्कृत्याभ्यन्तरे द्विज ।
तेजस्तस्मिन् समाहूय मन्त्रेणानेन विन्यसेत् ॥ ७३ ॥
View Verse
हुताशनागच्छ विभो कुण्डेऽस्मिन् हव्यवाहन ।
सन्निधानं घटे चास्मिन् कुरु मासचतुष्टयम् ॥ ७४ ॥
View Verse
ततश्चावाह्य देवेशं तर्पयेत् पूर्ववत् क्रमात् ।
होमं समाप्य संपूज्य ह्यर्घ्याद्येः संपठेदिदम् ॥ ७५ ॥
View Verse
सुप्ते त्वयि जगन्नाथे जगत् सुप्तं भवेदिदम् ।
प्रबुद्धेद त्वयि बुध्येत जगत् सर्वं चराचरम् ॥ ७६ ॥
View Verse
शाययित्वोपरि सितं दुकूलं धूपधूपितम् ।
दत्वोपरि समभ्यर्च्य पुष्पधूपविलेपनैः ॥ ७७ ॥
View Verse
सर्वसत्वोपसंहारां चिन्ताशक्तिं च विन्यसेत् ।
दक्षिणे त्वभिमानाक्यमूर्तिं तु चमरोद्यताम् ॥ ७८ ॥
View Verse
एवं ज्ञाननिशां वामे तालवृन्तकरोद्यताम् ।
उत्तमाङ्गपदे निद्रां करसंवाहने रताम् ॥ ७९ ॥
View Verse
पदारविन्ददेशस्थां लालयन्तीं कराम्बुजैः ।
आदाय चरणौ दिव्यौ साक्षाच्छ्रीं निधिसंश्रिताम् ॥ ८० ॥
View Verse
आनन्दं ब्रह्नणो रूपं तस्यै देवोऽदिदेवता ।
तदन्तः स्मरणानन्दजातविस्मयलोचनाम् ॥ ८१ ॥
View Verse
स्वनामपदमन्त्रैस्ताः सम्पूज्याः प्रणवादिभिः ।
राजती काञ्चनी मूर्तिस्ताम्रजा रीतिजाऽथवा ॥ ८२ ॥
View Verse
पूर्वा पूर्वा प्रशस्ता स्याच्छयनोत्थानकर्मणि ।
यदि कुर्याद्विपर्यासं राजा राष्ट्रं विनश्यति ॥ ८३ ॥
View Verse
दर्भमञ्जरिजे कूर्चे सर्वाभावे तदाऽचरेत् ।
एवं हि देवशयनं प्रतिष्ठाप्य द्विजोत्तम ॥ ८४ ॥
View Verse
तस्यैवाग्रे स्वयं वाचा गृह्णीयान्नियमान्नरः ।
चतुरो वार्षिकान् मासान् देवस्योत्थापनावधि ॥ ८५ ॥
View Verse
स्त्री वा नरो वा तद्भक्तो धर्मार्थी सुदृढव्रतः ।
गृह्णीयान्नियमानेतान् दन्तधावनपूर्वकम् ॥ ८६ ॥
View Verse
तेषां फलानि वक्ष्यामि तत्कर्तॄणां पृथक् पृथक् ।
मधुस्वरो भवेद्विप्र पुरुषो गुडवर्जनात् ॥ ८७ ॥
View Verse
लभेत सन्ततिं दीर्घां तैलसेवाविवर्जनात् ।
अभ्यह्गवर्जनाद्ब्रह्नन् सुन्दराङ्गः प्रजायते ॥ ८८ ॥
View Verse
कटुतैलपरित्यागाच्छक्रावासमावाप्नुयात् ।
प्रधूकतैलत्यागेन सौभाग्यमतुलं लभेत् ॥ ८९ ॥
View Verse
पुष्पादिभोगत्यागेन स्वर्गे विद्याधरो भवेत् ।
योगाभ्यासी भवेद्यस्तु स ब्रह्नपदमाप्नुयात् ॥ ९० ॥
View Verse
कस्तूरीकुङ्कुमक्षोदचन्दनाद्यनुलेपनम् ।
यो वर्जयेत् स वैरूप्यं दौर्गन्ध्यं न तु वाप्नुयात् ॥ ९१ ॥
View Verse
ताम्बूलवर्जनाद्भोगी रक्तकण्ठश्च जायते ।
घृतत्यागात् स लावण्यं सर्वस्निग्धतनुर्भवेत् ॥ ९२ ॥
View Verse
फलत्यागाच्च मतिमान् वहुपुत्रश्च जायते ।
पादाभ्यह्गपरित्यागाच्छिरोभ्यङ्गविवर्जनात् ॥ ९३ ॥
View Verse
दीप्तिमान् दीप्तकरणः साक्षाद्द्रव्यपतिर्भवेत् ।
दधिदुग्धतक्रनियमाद्गोलोकं लभते नरः ॥ ९४ ॥
View Verse
इन्द्रातिथित्वमाप्नोति स्थालीपाकविवर्जनात् ।
लभते सन्ततिं दीर्घामपि पव्कमभक्षयन् ॥ ९५ ॥
View Verse
भूमौ प्रस्तरशायी च विष्णोरनुचरो भवेत् ।
सदा मुनिः सदा योगी मधुमांसस्य वर्जनात् ॥ ९६ ॥
View Verse
एवमादिपरित्यागाद्धर्मी स्याद्धर्मनन्दनः ।
एकान्तरोपवासेन ब्रह्नलोके महीयते ॥ ९७ ॥
View Verse
धारणान्नखरोमाणां गङ्गास्नानं दिने दिने ।
मौनव्रती भवेद्यस्तु तस्याज्ञा तुलिता भवेत् ॥ ९८ ॥
View Verse
द्विषट्काक्षरनिष्णातः प्राप्नुयात् परमं पदम् ।
नमो नारायणायेति जपन्नामशतं फलम् ॥ ९९ ॥
View Verse
पादाभिवन्दनाद्विष्णोर्लभेद्गोदानजं फलम् ।
विष्णुपादाम्बुसंस्पर्शात् कृतकृत्यो भवेन्नरः ॥ १०० ॥
View Verse
विष्णोरायतने कुर्यादुपलेपनमार्जने ।
कल्पस्थायी भवेद्विप्र स नरो नात्र संशयः ॥ १०१ ॥
View Verse
प्रदक्षिणशतं यस्तु करोति स्तुतिपाठकः ।
हंसयुक्तविमानेन स च विष्णुपुरं व्रजेत् ॥ १०२ ॥
View Verse
गीतवाद्यकरो विष्णोर्गान्धर्वं लोकमाप्नुयात् ।
कृत्वा प्रदक्षिणं दिव्यं स्थानमप्सरसां व्रजेत् ॥ १०३ ॥
View Verse
नित्यं शास्त्रविनोदेन लोकान् यस्तु प्रबोधयेत् ।
स व्यासरूपी विष्ण्वग्रे अन्ते विष्णुपुरं व्रजेत् ॥ १०४ ॥
View Verse
पुष्पमालाकुलां पूजां कृत्वा विष्णोःपुरं व्रजेत् ।
प्रातःस्नायी नरो यस्तु नरकं स न गच्छति ॥ १०५ ॥
View Verse
भोजनं वर्जयेद्यस्तु स स्नानं पौष्करं लभेत् ।
तीर्थाम्बुना हरेःस्नानान्निर्मलं देहमाप्नुयात् ॥ १०६ ॥
View Verse
पञ्चगव्याशनाद्विप्र चान्द्रायणफलं लभेत् ।
पर्णेषु यो नरो भुङ्क्ते कुरुक्षेत्रफलं लभेत् ॥ १०७ ॥
View Verse
शिलायां भोजनान्नित्यं स्नानं प्रायागजं लभेत् ।
यामद्वयाशनत्यागान्न रोगैः परिभूयते ॥ १०८ ॥
View Verse
एवमादिव्रतैर्देवस्तुष्टिमाप्नोति तोषितः ।
यस्मिन् देशे तु तद्भक्तो यो मासांश्चतुरः क्षिपेत् ॥ १०९ ॥
View Verse
व्रतैरनेकैर्नियमैर्महद्भिः श्रेष्ठमानसः ।
कल्पस्थायी विष्णुलोके संवसेन्नात्र संशयः ॥ ११० ॥
View Verse
चतुरो वार्षिकान् मासान्नियमो येन यत्कृते ।
कथयित्वा द्विजेन्द्रेभ्यो भुक्तेभ्यस्तं स दक्षिणाम् ॥ १११ ॥
View Verse
दत्वा विसर्जयेद्विप्रांस्ततो भुञ्जीत च स्वयम् ।
यन्नक्तं चतुरो मासान् प्रवृत्तिं तस्य वाऽचरेत् ॥ ११२ ॥
View Verse
एवं य आचरेद्विद्वान् सोऽनन्तं धर्ममाप्नुयात् ।
यस्य विष्णोः समाप्येत चातुर्मास्यव्रतं द्विज ॥ ११३ ॥
View Verse
स भवेत् कृतकृत्यस्तु न पुनर्मानुषो भवेत् ।
तदन्ते जन्म चासाद्य शुचीनां श्रीमता गृहे ॥ ११४ ॥
View Verse
शास्त्रमेकायनं ज्ञात्वा सम्यक् कृत्वा तदुद्भवम् ।
त्रयोदशविधं कर्म भगवन्तं समाप्नुयात् ॥ ११५ ॥
View Verse
एवं संकल्प्य नियमानन्यान् वै शास्त्रचोदितान् ।
कार्यात्र प्रत्यहं पूजा मार्जनं चोपलेपनम् ॥ ११६ ॥
View Verse
मृदा धातुविकारैर्वा सुगन्धैश्चन्दनादिकैः ।
प्रदानं धूपदीपानां व्यजनेनानिलोत्थितिः ॥ ११७ ॥
View Verse
शशिचन्दनसंमिश्रं शीतलोदकसत् क्रिया ।
कदलीफलकल्हारैः पझोत्पलविमिश्रितैः ॥ ११८ ॥
View Verse
स्वेदशान्तिं समापाद्य पौनः पुन्येन पूजनम् ।
वेणुवीणासमोपेतां गीतिं च मधुरस्वनाम् ॥ ११९ ॥
View Verse
एवं मासद्वये याते याते मेघरवेऽम्बरात् ।
ब्रह्नन् भाद्रपदे मासि द्वादश्यां हि निशामुखे ॥ १२० ॥
View Verse
ईषत् प्रबोधमाश्रित्य देवदेवो ह्यधोक्षजः ।
स्थित्यर्थममराणां च परिवर्तनमाचरेत् ॥ १२१ ॥
View Verse
दक्षिणेनाङ्गसङ्गेन त्यक्त्वा चोत्तानशायिनीम् ।
योगनिद्रां समाश्रित्य प्रकुर्वन् प्रभवाप्ययौ ॥ १२२ ॥
View Verse
वायुचक्रान्तरस्थस्य जगद्बीजचयस्य च ।
मुखेन्दुमण्डलाच्चाथ अपोह्याच्छादनाम्बरम् ॥ १२३ ॥
View Verse
आस्ते चाश्वयुजे चैव द्वादश्यां परमेश्वरः ।
सन्त्यज्य शयनं दिव्यं निशायां कार्तिकस्य तु ॥ १२४ ॥
View Verse
उत्थायामरनाथस्तु समाक्रम्य पतत्रिराट् ।
निश्शेषभुवनग्रामवीधीनां दोषशान्तये ॥ १२५ ॥
View Verse
विचरत्यप्रमेयात्मा नन्दयंस्तु सुरादिकान् ।
संहर्षयन् जगत्यस्मिन् सुकृतां धर्मपद्धतिम् ॥ १२६ ॥
View Verse
एवं भक्तजनैः कार्यं तस्य तच्चेष्टितं महत् ।
विविधैरुत्सवैर्दानैर्जपजागरणस्तवैः ॥ १२७ ॥
View Verse
नृत्तगीतसमोपेतैर्विलासैर्हास्यसंयुतैः ।
क्रीडमानैः सुमनसैः प्रयतैः प्रणतैर्विभोः ॥ १२८ ॥
View Verse
एकदेशस्थितैर्विप्र अननय्मनसैः सदा ।
विशेषयागपूर्वं तु परिवर्तनमाचरेत् ॥ १२९ ॥
View Verse
तद्वत् प्रभातवेलायामासनं च विधीयते ।
प्रबोधनं ततः कुर्याच्छयनस्थस्य वै विभोः ॥ १३० ॥
View Verse
द्वादश्यां शुक्लपक्षस्य कार्तिके मासि वै द्विज ।
दशम्यां विधिवत् कृत्वा संकल्पं पूर्ववद्बुधः ॥ १३१ ॥
View Verse
निमन्त्रणं द्विजातीनामेकादश्यां तथैव च ।
पूर्ववते पूजनं कृत्वा चतुःस्थानस्थितस्य वै ॥ १३२ ॥
View Verse
रात्रौ प्रजागरं कुर्यात् सहायैः सह देशिकः ।
पुण्याख्यानकथाभिस्तु स्तोत्रपूर्वैस्तु गीतकैः ॥ १३३ ॥
View Verse
सवाद्यैर्मधुरैर्नृत्तैरपहासैस्तु हर्षदैः ।
जयशब्दैर्नमस्कारैः करतालसमन्वितैः ॥ १३४ ॥
View Verse
सोपवासः शुचिः स्नात्वा समाराध्य परं प्रभुम् ।
भोगैः षड्रसपूर्णैस्तु सुपूर्णैरौपचारिकैः ॥ १३५ ॥
View Verse
अर्घ्यैर्विलेपनैर्माल्यैर्मृष्टधूपसमन्वितैः ।
ब्राह्ने मुहूर्ते द्वादश्यां मन्त्रमूर्तिं प्रबोधयेत् ॥ १३६ ॥
View Verse
प्रबुद्ध त्वं जगन्नाथ प्रबुद्ध परमेश्वर ।
प्रबुद्ध पुण्डरीकाक्ष भक्तानामनुकम्पया ॥ १३७ ॥
View Verse
त्वयि प्रबुद्धे देवेश तवाग्रे परमेश्वर ।
लौकिकानीह यज्ञानि तानि निर्वर्तयाम्यहम् ॥ १३८ ॥
View Verse
अग्रतः सर्वयज्ञानां त्वं प्रभुर्नामतः सदा ।
नापरेषु जगन्नाथ पूजितेषु सुरेषु च ॥ १३९ ॥
View Verse
मयि यज्ञसमाप्तिः स्यात् त्वयि सन्तर्पितेऽनले ।
सर्वे देवानलमुखाः स चाग्निस्त्वन्मुखे कृतः ॥ १४० ॥
View Verse
ब्रह्ना स्वयं ब्रह्नलोके स्वर्गे स्वर्गनिवासिनः ।
सात्विका मानुषे लोके नागाद्याश्च रसातले ॥ १४१ ॥
View Verse
त्वयि प्रबोधयन्त्येते स्वार्थसंसिद्धये सदा ।
त्यज योगमयीं निद्रां कृपां कुरु सनातन ॥ १४२ ॥
View Verse
बोधश्च मामनिर्बोध इति मन्त्रमुदाहरन् ।
उत्तिष्ठ ब्रह्नणस्पते उदुत्यं जातवेदसम् ॥ १४३ ॥
View Verse
इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् । ।
समूढमस्य पां सुरे स्वाहा ॥ १४४ ॥
View Verse
जितंतेनोच्चया वाचा समस्तव्यस्तयोगतः ।
शङ्खध्वनिसमोपेतैः दुन्दुभीपटहस्वनैः ॥ १४५ ॥
View Verse
वन्दिबृन्दोत्थितोच्चाभिर्नानावाग्भिर्महामते ।
महाजयजयारावैः पुनःपुनरुदीरितैः ॥ १४६ ॥
View Verse
प्रवोधलक्षणैः स्तोत्रैरुत्थाप्य शयनात्ततः ।
अर्घ्यगन्धादिनाभ्यर्च्य प्रविशेद्यागमण्डपम् ॥ १४७ ॥
View Verse
संपूर्याभिमतं रागैर्मण्डलं चाधिवासितम् ।
कुम्भमण्डलयोः पूर्वं पूजां कृत्वा विधानतः ॥ १४८ ॥
View Verse
पश्चादुत्सवमूर्तिं च यजेन्मण्डलपश्चिमे ।
महास्नपनपूर्वैस्तु भोगैः पूर्णैर्यथोचितैः ॥ १४९ ॥
View Verse
होमं तु विधिवत् कृत्वा तोषयेत् परितो द्विज ।
एकायनीयशाखोत्थैः साक्षात्तत्प्रतिपादकैः ॥ १५० ॥
View Verse
दिव्यैर्बलादिकैर्मन्त्रैर्व्यापकैः प्रणवान्वितैः ।
ऋग्यजुस्सामसंभूतैर्मन्त्रैः स्तोत्रैः पृथग्विधैः ॥ १५१ ॥
View Verse
गीतकैर्विविधैर्नृत्तैर्वाद्यैस्तन्त्र्यादिभिस्तदा ।
एवं प्रवृत्ते गीताद्ये यायाच्छ्य्यानिकेतनम् ॥ १५२ ॥
View Verse
प्रबोधितं तु विधिवत् स्नापयेत् पूर्ववत् प्रभुम् ।
संपूज्य च तथा भक्त्या क्रमेण च महामुने ॥ १५३ ॥
View Verse
महाविभूतिसंभारैः पुष्पधूपानुलेपनैः ।
नैवेद्यैर्विविधैर्विप्र स्तोत्रवादित्रपूर्वकैः ॥ १५४ ॥
View Verse
अग्नौ सन्तर्पयेत् पश्चात् सविशेषं यथाविधि ।
पश्चादुत्सवमूर्तिं तां पूजितां यागमण्डपात् ॥ १५५ ॥
View Verse
समानीय रथाद्येषु यानेत्वभिमतेर्चिते ।
स्थाप्य प्रासादपूर्वं वा भ्रामयेद्ग्रामपूर्वकम् ॥ १५६ ॥
View Verse
वक्राधिष्ठानपूर्वं वा संस्थाप्य भ्रामयेद्द्विज ।
गणिका भगवद्भक्तैः सह नागरिकैर्जनैः ॥ १५७ ॥
View Verse
परिव्राड्ब्रह्नचारिभिः जपस्तुतिपरायणैः ।
द्विजेन्द्रप्रमुखैर्वृत्तसंयुक्तैस्तत्परायणैः ॥ १५८ ॥
View Verse
श्वेताम्बरधरैः सर्वैर्ध्वजोत्तरकरैः शुभैः ।
वालव्यजनहस्तैश्च पताकोद्यतपाणिभिः ॥ १५९ ॥
View Verse
पझोत्पलकरैश्चान्यैर्द्विजैर्वेत्रलताकरैः ।
लाजसिद्धार्थककरैरन्यैरक्षतपाणिभिः ॥ १६० ॥
View Verse
सुसुगन्धतयाच्छिन्नधूपपात्रकरैस्तथा ।
फलपुष्पकरैश्चान्यैस्तथा पूर्णघटोद्यतैः ॥ १६१ ॥
View Verse
अन्यैः कलशहस्तैश्च गदाचक्रधरैः सदा ।
शङ्खातपत्रहस्तैश्च दण्डलाङ्गलधारिभिः ॥ १६२ ॥
View Verse
ऋङ्भन्त्रोद्धोषणपरैर्जपस्तुतिपरैस्तथा ।
प्रयत्नाद्देवतासीभिर्नृत्तगीतादि चोत्सवम् ॥ १६३ ॥
View Verse
कारयेत् सर्वतो वीथीर्वाद्यैरन्यैः पृथग्विधैः ।
प्रदहेत् सुरभिं धूपं पृथक् साज्यं च गुग्गुलुम् ॥ १६४ ॥
View Verse
अर्थिनश्चार्थनिचयैस्तर्पणीयाश्च शक्तितः ।
देवीयब्रह्नयानस्य भ्रममाणस्य वै द्विज ॥ १६५ ॥
View Verse
अल्पमात्रं तु यो दद्यात् पञ्चकालपरायणे ।
दानं सहस्रगुणितं विस्तारं याति तत्र तत् ॥ १६६ ॥
View Verse
पुष्पमूलादिनैवेद्यैः फलमूलैर्धनैस्तथा ।
ब्रह्नयानगतं देवं यः पूजयति भक्तितः ॥ १६७ ॥
View Verse
तद्दानं लक्षगुणितं विस्तारं नात्र संशयः ।
सर्षपाक्षतपुष्पाणि अग्रतः पृष्ठतो विभोः ॥ १६८ ॥
View Verse
क्षेप्तव्यानि द्विजश्रेष्ठ ऊर्ध्वे च ककुबष्टके ।
एवं विधं ब्रह्नरथं वेष्णवं विघ्ननाशनम् ॥ १६९ ॥
View Verse
ग्रामे पुरे वा नगरे भ्राम्यते यत्र कुत्नचित् ।
विपापोऽसौ भवेद्देशो न दुर्भिक्षभयं भवेत् ॥ १७० ॥
View Verse
नाकालमृत्युना किञ्चित् प्राप्यते विधिना तथा ।
ईतयोपद्रवाद्याश्च पर्समं यान्ति सर्वदा ॥ १७१ ॥
View Verse
नश्यन्ति तस्करास्तत्र नाधर्मः संप्रवर्तते ।
धर्मयुक्तो भवेद्राजा जना धर्मपरास्तथा ॥ १७२ ॥
View Verse
भवन्ति सुखिनः सर्वे दुःखशोकविवर्जिताः ।
एवं प्रदक्षिणीकृत्य क्षिप्त्वा पुष्पाञ्जलिं ततः ॥ १७३ ॥
View Verse
अवतार्य रथान्मन्त्रं चक्राधिष्ठानपूर्वकम् ।
यष्टव्यमर्घ्यगन्धाद्यैर्मुद्रां बद्ध्वा जपेत्ततः ॥ १७४ ॥
View Verse
तर्पणीयमथाज्याद्यैर्दद्यात् पूर्णाहुतिं शुभाम् ।
अर्घ्यधूपप्रधानाद्यैः क्षमयेत् पुरुषोत्तमम् ॥ १७५ ॥
View Verse
ततो यागगृहं नीत्वा प्रणिपत्य मुहुर्मुहुः ।
ततः शयनमूर्तेस्तु गत्वैवं सन्निधिं गुरुः ॥ १७६ ॥
View Verse
चतुः प्रदक्षिणीकृत्य अष्टाङ्गेन नमेत् क्षितौ ।
तोषयित्वा जगन्नाथं ब्रह्नयानादिषु द्विज ॥ १७७ ॥
View Verse
संस्थाप्य भ्रामयेद्भक्त्या प्रासादं साम्प्रतं क्रमात् ।
प्रविश्य गर्भगेहं तु द्वारदेशे स्थितः प्रभुम् ॥ १७८ ॥
View Verse
अर्घ्यपाद्यादिभिः पूज्य निनयेदन्तरं ततः ।
मूलमूर्तिं प्रणम्याथ अर्घ्यगन्धादिभिर्यजेत् ॥ १७९ ॥
View Verse
विसर्जयेत्तु तन्मूर्तौ मन्त्रं शयनमूर्तिगम् ।
पश्चादुत्सवमूर्तिं तां पूजितां यागमण्डपात् ॥ १८० ॥
View Verse
प्रदक्षिणक्रमेणऐव गर्भगेहं प्रवेशयेत् ।
मूलमूर्तिगतं देवमर्घ्याद्यैः संप्रपूज्य च ॥ १८१ ॥
View Verse
स्तुत्वा विज्ञाप्य तद्भूयो गुणातीतमधोक्षजम् ।
अनेनोत्सवयोगेन यागपूजादिकेन च ॥ १८२ ॥
View Verse
निर्वर्तितेन भगवंस्त्वं मम प्रीयतामिति ।
ततो विसर्जयित्वा तु कुम्भमण्डलमध्यगम् ॥ १८३ ॥
View Verse
कृत्वा यागं गणेशस्य कुर्यात्तस्य विसर्जनम् ।
अनुकल्पे तु देवस्य परिभ्रमणकर्मणः ॥ १८४ ॥
View Verse
प्रागेव देवदेवेशं कुम्णमण्डलकुण्डगम् ।
विसर्जयित्वा तत्पश्चात् परिभ्रमणमाचरेत् ॥ १८५ ॥
View Verse
यद्वा विघ्नेशयागं च तथैव तु समाचरेत् ।
प्रागेव मुख्यकाले तु कृत्वा शयनगं विभुम् ॥ १८६ ॥
View Verse
ततो विसर्जयेद्देवं कुम्भमण्डलकुण्डगम् ।
यानपात्रं तथा च्छ्त्रं प्रतिपाद्य सदक्षिणम् ॥ १८७ ॥
View Verse
शयनं स्वगुरोर्विप्र द्विजानां तदसन्निधौ ।
देवदेवस्य देवस्य मूलमूर्तिगतस्य च ॥ १८८ ॥
View Verse
कृत्वा जानुद्वयं भूमौ बद्धाञ्जलिरिदं पठेत् ।
देव सर्वेश्वरानादे कर्मणानेन चाखिलाम् ॥ १८९ ॥
View Verse
शुभां गतिं जनो यातु प्रीतिं च परमां भज ।
इति विज्ञाप्य देवस्य बाह्नणान् प्रीणयेत्ततः ॥ १९० ॥
View Verse
विविधैरन्नपानाद्यैर्यथाशक्ति द्विजोत्तम ।
बन्धुभृत्यसमोपेतमनुयागमथाचरेत् ॥ १९१ ॥
View Verse
अनेन विधिना कुर्याच्छयनस्थस्य बोधनम् ।
यदा तु मूलमूर्तौ तु चतुःस्थानार्चनं भवेत् ॥ १९२ ॥
View Verse
तदाप्युत्सवमूर्तौ स्यात् पूजितायां तदुत्सवम् ।
कुर्याच्छयनमूर्तौ च शयनं शास्त्रकोविदः ॥ १९३ ॥
View Verse
यात्राव्यक्तेरभावे तु मूलबिम्बेऽर्चनं भवेत् ।
तदा स्नपनबिम्बे तु तदीयस्नपनं भवेत् ॥ १९४ ॥
View Verse
तदा शयनमूर्तौ स्यादुत्वो द्विजसत्तम ।
तदभावे तु तत् कर्म दर्भमञ्चरिजे हितम् ॥ १९५ ॥
View Verse
विष्टरे विष्टरं कल्प्य रक्षार्थं किञ्चिदूनतः ।
तदा मन्त्रेशकुम्भेस्याच्छस्त्रकुम्भे तदुत्सवम् ॥ १९६ ॥
View Verse
अथवा चक्रराजस्य विष्टरे वा समाचरेत् ।
अभावे स्नपनव्यक्तेर्दर्पणे स्नपनं भवेत् ॥ १९७ ॥
View Verse
तदभावे निवेद्यैव प्रक्षिपेत् कलशान् क्रमात् ।
इत्येवमुक्तं देवस्य शयनं च प्रबोधनम् ॥ १९८ ॥
View Verse
यदुक्तमेवामखिलं यथाकालमसंभवात् ।
अस्वातन्त्र्यादसामर्थ्याद्वित्ताभावात्तु वा द्विज ॥ १९९ ॥
View Verse
द्रादशीष्वखिलास्वेवं कुर्यात् संवत्सरान्तरे ।
परीते तु शयानां तु चातुर्मास्ये तु संयमे ॥ २०० ॥
View Verse
भक्तैर्निर्वहणीयं तु तुलाभोगावसानकम् ।
पूर्वोक्तविधिना शय्यां यो विष्णोः परिकल्पयेत् ॥ २०१ ॥
View Verse
सोऽचिराल्लभते लक्ष्मीं सौभाग्यमतुलं तथा ।
पुत्रदारकुटुम्बेषु कदाचित् केनचित् सह ॥ २०२ ॥
View Verse
वियोगं नाप्नुयात् किञ्चिद्योषिद्वा पुरुषस्तथा ।
अतुलं पुण्यमाप्नोति दीर्घमायुश्च विन्दति ॥ २०३ ॥
View Verse
रोगाच्च मुच्यते रोगी भीतो मुच्येत वै भयात् ।
अजय्यः सर्वशत्रूणां पूज्य सर्वजनस्य च ॥ २०४ ॥
View Verse
भुक्त्वा भोगांस्तु विविधान् विष्णुलोके महीयते ।
शेषशय्यागतं विष्णुं यः पूजयति भक्तितः ॥ २०५ ॥
View Verse
विभवेनाथ भक्त्या वा तस्य तुप्यति केशवः ।
तस्मिन् काले तु ये किचित्तत्र तिष्ठन्ति मानवाः ॥ २०६ ॥
View Verse
याति पापं क्षयं तेषामन्ते स्वर्गं व्रजन्ति च ।
इदं शय्याविधानं तु श्रृणुयाद्यस्तु वैष्णवः ॥ २०७ ॥
View Verse
त्रिविधस्य तु पापस्य क्षयस्तस्य तु वै क्षणात् ।
अनेन विधिना यस्तु कुर्याद्विष्णोः प्रबोधनम् ॥ २०८ ॥
View Verse
सकामानखिलान् प्राप्य दीर्घमायुश्च विन्दति ।
विधिनानेन यः कुर्यात् प्रतिसंवत्सरं द्विज ॥ २०९ ॥
View Verse
प्रबोधनं तु देवस्य स वै जन्मनि जन्मनि ।
सुखप्रबुद्धो भवति सर्वदोषविवर्जितः ॥ २१० ॥
View Verse
सर्वेषां बान्धवादीनां वन्दनीयस्त्वसौ नरः ।
विष्णोर्भक्तिपरो ब्रह्नन् स गच्छेद्वैष्णवं पदम् ॥ २११ ॥
View Verse
दुग्धाब्धिभोगिशयने भगवाननतो ।
यस्मिन् दिने स्वपिति वाथ विबुध्यते वा ।
तस्मिन्ननन्यमनसामुपवासभाजां ।
पुंसां ददाति सुगतिं गरुडांससंस्थः ॥ २१२ ॥
View Verse

Chapter 14

श्रीः ।
चतुर्दशोऽध्यायः ।
सनकः ।
स्नपनानां विधिं ब्रह्नन् समाख्याहि सविस्तरम् ।
यझ्ज्ञानात् सकलाः पूर्णाः नित्यनैमित्तिकाः क्रियाः ॥ १ ॥
View Verse
शाण्डिल्य ।
श्रृणुवत्स महाबुद्धे सावधानेन चेतसा ।
विधानं स्नपनानां तु बहुभेदविनिर्मितम् ॥ २ ॥
View Verse
प्रासादस्याग्रतः कुर्यान्मण्डपं तु तदर्थतः ।
प्रथमावरणे वापि द्वितीयावरणेऽपि वा ॥ ३ ॥
View Verse
तृतीयावरणे वापि चतुर्थे पञ्चमेऽथवा ।
आग्नेय्यां दक्षिणस्यां वा नैरृत्यां पश्चिमे तु वा ॥ ४ ॥
View Verse
वायव्यामुत्तरस्यां वा ऐशान्यां वा यथा रुचि ।
कुर्यान्मानादिकं सर्वं यागमण्डपवद्द्विज ॥ ५ ॥
View Verse
विना यागस्थलान्मद्ये वेदिं चापि तदूर्ध्वतः ।
अधिवासश्च कुम्भानां स्थापनं स्नपनं तथा ॥ ६ ॥
View Verse
युज्यतेवै यथैकस्यां तथाभ्यूह्य समाचरेत् ।
आचार्यांश्चतुरो विप्र षडष्टौ द्वादशापि वा ॥ ७ ॥
View Verse
यजमानस्तु वरयेच्छास्त्रज्ञान् गुरुणा सह ।
प्रवीणांश्च बहुत्वे तु तत्संख्यानियतिः कृता ॥ ८ ॥
View Verse
तेषां यथोक्तसंख्यानामभिज्ञानामसन्निधौ ।
तादृशान् वरयेद्विप्रांश्चतुस्त्रिद्येकमेव वा ॥ ९ ॥
View Verse
साधकांश्चतुरः षड्वा ह्यष्टौ द्वादश षोडश ।
वरयेच्छास्त्रकुशलान् प्रवीणानुक्तकर्मसु ॥ १० ॥
View Verse
एवं सर्वेषु यागेषु नित्यनैमित्तिकात्मसु ।
आचार्याणां साधकानां संख्यानियम ईरितः ॥ ११ ॥
View Verse
संख्याहीनं न गृण्डीयादापद्यापि कदाचन ।
मोहेन यदि गृण्डीयाद्भयं स्याद्राजराष्ट्रयोः ॥ १२ ॥
View Verse
प्राङ्मुखे मण्डपे भागे तृतीये पश्चिमे स्थिते ।
मध्यसूत्रं समाश्रित्य स्नानपीठं प्रकल्पयेत् ॥ १३ ॥
View Verse
प्राग्गतं प्रत्यगास्ये तु सौम्यास्ये दक्षिणागतम् ।
तदास्ये चोत्तरासंस्थं यथा लक्षणलक्षितम् ॥ १४ ॥
View Verse
यदा स्नपनबिम्बादौ बिम्बे स्नपनमाचरेत् ।
एवं तदा प्रकुर्वीत मण्डपं द्विजसत्तम ॥ १५ ॥
View Verse
मूलबिम्बे यदा कुर्यात्तदग्रे मण्डपं तदा ।
तदानीं न तु कुर्वीत स्नानपीठं द्विजोत्तम ॥ १६ ॥
View Verse
सप्तमे पञ्चमे वापि पूर्वे स्नपनवासरे ।
तृतीये वा मुनिश्रेष्ठ तस्मिन्नहनि वा द्विज ॥ १७ ॥
View Verse
अङ्कुरानर्पयित्वा तु ततः स्नपनमारभेत् ।
यदा पूर्वदिने कुर्यात् कुम्भानामधिवासनम् ॥ १८ ॥
View Verse
तदानीं पूर्वरात्रौ तु कुर्यात् कौतुकबन्धनम् ।
पूर्वेद्युर्विघ्निते पश्चात्तस्मिन्नहनि वाचरेत् ॥ १९ ॥
View Verse
यदा कर्मदिने विप्र कुर्यात् कुम्भाधिवासनम् ।
तदानीं तु दिने तस्मिन् कुर्यात् कौतुकबन्धनम् ॥ २० ॥
View Verse
ततः प्रभात आचार्यः कृतस्नानः प्रसन्नधीः ।
प्रविश्य मण्डपं सार्धं परिचर्यापरैर्जनैः ॥ २१ ॥
View Verse
शलाकासहितैर्दर्भैः सहदेवीविमिश्रितैः ।
मार्जयेत् सर्वतो विप्र प्राङ्मुखो वा वाप्युदङ्मुखः ॥ २२ ॥
View Verse
आलेपयेद्गोमयेन पूर्वादीशानपश्चिमम् ।
नूतनेनाम्बरेणैव गालितेन जलेन तु ॥ २३ ॥
View Verse
प्रोक्षयेत् सर्वदिग्विप्र पञ्चगव्यकुशाम्बुभिः ।
एको द्वौ बहवो वापि देशिकाः स्नपने स्मृताः ॥ २४ ॥
View Verse
नवसूत्रधराः सर्वे सर्वालङ्कारसंयुताः ।
नववस्त्रोत्तरीयाश्च सोष्णीषा गुरुसम्भताः ॥ २५ ॥
View Verse
नियमस्थास्तु बहवस्तथैव परिचारकाः ।
यद्यद्योग्यं भवेद्ब्रह्नन् स्नपने यत्र यत्र तु ॥ २६ ॥
View Verse
तत् समस्तं समाहृत्य मण्डपे संप्रवेश्य च ।
स्नपनं प्रारभेत् पश्चाद्देशिकः शास्त्रपारगः ॥ २७ ॥
View Verse
स्नपनं द्विविधं विद्धि परापरविभेदतः ।
परं तु दशधा प्रोक्तं प्रधानादिविभेदतः ॥ २८ ॥
View Verse
प्रधानं प्रथमं विद्धि द्वितीयं तु परं स्मृतम् ।
तृतीयं परसूक्ष्मं स्यात् परस्थूलं चतुर्थकम् ॥ २९ ॥
View Verse
पञ्चमं स्यात् सूक्ष्मपरं सूक्ष्मसूक्ष्मं तु षष्ठकम् ।
सूक्ष्मस्थूलं सप्तमं स्यात् स्थूलं स्यात् परमष्टमम् ॥ ३० ॥
View Verse
स्थूलसूक्ष्मं तु नवमं स्थूलस्थूलं तदुत्तरम् ।
चतुर्धा त्वपरं विद्धि ह्येकैकं नवधा स्थितम् ॥ ३१ ॥
View Verse
उत्तमोत्तमपूर्वेण भेदेन द्विजसत्तम ।
परापरविभेदानामेषां साधारणं स्थितम् ॥ ३२ ॥
View Verse
अनन्तकलशं नाम्ना स्नपनं सर्वपूरकम् ।
एषां प्रधानपूर्वाणां सूत्रपातपुरस्सरम् ॥ ३३ ॥
View Verse
सर्वमुद्धारपर्यन्तं क्रमेण श्रृणु सत्तम ।
लोहजं दारुजं वापि मृण्मयं वा सुशोभनम् ॥ ३४ ॥
View Verse
मण्डपेशानदिग्भागे संस्थाप्य जलभाजनम् ।
वेदिं प्रक्षाल्य तोयेन वस्त्रैः संवेष्ट्य नूतनैः ॥ ३५ ॥
View Verse
सूत्रपातं ततः कुर्यात् कुम्भसंख्यानुरूपतः ।
यथोक्तमानविस्तीर्णक्षेत्रमण्डपमध्यतः ॥ ३६ ॥
View Verse
मण्डपस्य तु विप्रेन्द्व प्राग्भागमवलम्ब्य वा ।
स्वीकृत्य पश्चात् प्राक् प्रत्यक् दद्यात् सूत्रचतुष्टयम् ॥ ३७ ॥
View Verse
दक्षिणोत्तरगं सूत्रपञ्चकं विनिवेशयेत् ।
एवं कृते भवन्त्यत्र पदानि द्वादश द्विज ॥ ३८ ॥
View Verse
एकैकस्य तु विस्तारं तालं प्रादेशभेव वा ।
हस्तं वाऽरत्निमात्रं वा मण्डपस्यानुरूपतः ॥ ३९ ॥
View Verse
सहत्त्वस्य च कुम्भानामेवं सर्वत्र चोर्ध्वतः ।
पिष्टचूर्णैरलङ्कृत्य चतुर्दिक्षु समन्ततः ॥ ४० ॥
View Verse
कोष्ठेषु पीठिकां कुर्यात्तण्डुलैव्रीहिभिस्तु वा ।
तासां हि प्रतिकोष्ठं तु कुर्यादाढकसंमितैः ॥ ४१ ॥
View Verse
अर्धाथिकैस्त्रिभिः प्रश्थैरथवा केवलैस्त्रिभिः ।
अर्धोत्तरेण वा विप्र कुर्यात् प्रस्थद्वयेन वा ॥ ४२ ॥
View Verse
यद्वा प्रस्थद्वयेनैव प्रस्थेनार्धोत्तरेण वा ।
प्रस्थेन वा तदर्धेन तत्पादेनाथवा द्विज ॥ ४३ ॥
View Verse
तुर्याश्रामथवा वृत्तां कृत्वैवं पीठिकां ततः ।
सौवर्णा राजता ग्राह्यास्तम्रा वा भेदवर्जिताः ॥ ४४ ॥
View Verse
श्र्लक्ष्णा न सुषिराः कुम्भा चतुर्विंशाङ्गुलोन्नताः ।
विस्तृतेर्मध्यतस्तद्वत्तद्गलं त्र्यङ्गुलोन्नतम् ॥ ४५ ॥
View Verse
ततमङ्गुलिषट्केन तत्रास्यं त्र्यङ्गुलं स्मतम् ।
मेखला परितो ज्ञेया त्र्यङ्गुला द्विजसत्तम ॥ ४६ ॥
View Verse
यद्वा तदर्धमानं तु सर्वमुच्छ्रायपूर्वकम् ।
यद्वोत्तमोत्तमा विप्र द्रोणमानोदपूरकाः ॥ ४७ ॥
View Verse
तदष्टमांशतो न्यूनाः क्रमात् प्रस्थद्वयाबधि ।
अधमाधमकुम्भास्तु प्रस्थमात्रोदपूरकाः ॥ ४८ ॥
View Verse
एवं लक्षणयुक्तास्तु कार्या वित्तानुरूपतः ।
चक्राधारोपरिस्थास्तु वितताः कमठो दराः ॥ ४९ ॥
View Verse
पाञ्चजन्यवलिग्रीवाः शतपत्रमुखाननाः ।
ऊर्ध्वाधः कौमुदीमालामण्डलालंकतृता द्विज ॥ ५० ॥
View Verse
मकाराननशेषाभिः अमृताम्बुप्रबाहकाः ।
नदीसमुद्र श्रीवृक्षनानामाल्येः परिष्कताः ॥ ५१ ॥
View Verse
चक्राधाराधिभिर्यद्वा रहिताः सत्यसंभवे ।
मृण्मया वानुकल्पे तु भेदश्छिद्रविवर्जिताः ॥ ५२ ॥
View Verse
पव्कविम्बफलाकाराः कालवृत्तैर्विवर्जिताः ।
न द्वितप्ताः सुतप्ताश्च ह्येकवर्णास्तु सुस्वनाः ॥ ५३ ॥
View Verse
संगृह्य क्षालयेत् सम्यक् शुद्धतोयैश्च सर्वतः ।
सूत्रेण वेष्टयेद्यत्नादङ्गुलाङ्गुलमन्तरम् ॥ ५४ ॥
View Verse
पश्चिमे कलशस्थानात् कलशानधिवासयेत् ।
शालिभिः स्थण्डिलं कृत्वा केवले स्थण्डिले तु वा ॥ ५५ ॥
View Verse
पूर्वाग्रानुत्तराग्रांश्च कुशांस्तत्र परिस्तरेत् ।
तारेण तत्र कलशान् न्यस्य पुष्पेण पूज्य च ॥ ५६ ॥
View Verse
अधोमुखांस्तु तानेव न्यस्य पङ्क्तिक्रमेण तु ।
कुशानुपरि संस्तीर्य प्राङ्मुखं परमेष्ठिना ॥ ५७ ॥
View Verse
दर्भमुद्रां प्रदर्श्याथ गन्धतोयेन सर्वतः ।
संप्रोक्ष्य पुंसा विश्वेन विकिरेदक्षतानि च ॥ ५८ ॥
View Verse
निवृत्या चोन्मुखीकृत्य सर्वेण मुनिपुड्गव ।
पृथगुद्धृत्य कलशान् स्वस्थानेषु क्रमान्न्यसेत् ॥ ५९ ॥
View Verse
कुम्भन्यासादि सर्वं तु द्विषट्कार्णेन वाचरेत् ।
निरीक्षणादिसंशुद्धान् कृत्वा सहृदयेन तु ॥ ६० ॥
View Verse
द्वादशाक्षरमन्त्रेण मन्त्रयेत् तान् सकृत् सकृत् ।
तेनैव पूजयेत् पश्चादर्घ्यस्रकचन्दनादिना ॥ ६१ ॥
View Verse
तदाहरणोहमं तु यथाशक्ति समाचरेत् ।
पूर्णान्तमथ संपूर्य क्रमाद्द्रव्यैर्निबोध तत् ॥ ६२ ॥
View Verse
पङ्क्तित्रये पश्चिमादि पूर्वान्तं च चतुश्चतुः ।
तत्र दक्षिणदिक्पङ्क्तौ कलशे पश्चिमे स्थिते ॥ ६३ ॥
View Verse
धात्रीफलोदकं चैव लोध्रतोयमनन्तरम् ।
रक्तचन्दनतोयं च रजनीनीरमुत्तमम् ॥ ६४ ॥
View Verse
ततस्तु मध्यपङ्क्तौ तु तथैव विनिवेशयेत् ।
ग्रन्थिपल्लववार्येव ततस्तु तगरोदकम् ॥ ६५ ॥
View Verse
प्रियङ्गुवारि तदनु मांसीजलमतः परम् ।
तथैवोत्तरपङ्क्तौ तु भवेदेतच्चतुष्टयम् ॥ ६६ ॥
View Verse
सिद्धार्थकोदकं चैव सर्वौषधिजलं ततः ।
सर्वरत्नोदकं चैव शुद्धोदकमतः परम् ॥ ६७ ॥
View Verse
न्यसेत् कूर्चं कुशं दार्भमुदग्रं षोडशाङ्गुलम् ।
अङ्गुलं ग्रन्थिमानं तु मूलं वै द्वादशाङ्गुलम् ॥ ६८ ॥
View Verse
शेषमग्रं बिजानीयादित्येतत् कूर्चलक्षणम् ।
अधवार्थाङ्गुलो ग्रन्थिरग्रं वै व्द्यङ्गुलं भवेत् ॥ ६९ ॥
View Verse
मूलं कुर्यात्तु विप्रेन्द्र द्वादशाङ्गुलसंमितम् ।
ब्राह्नणस्य चतुर्दर्भं त्रिदर्भं क्षत्रियस्य तु ॥ ७० ॥
View Verse
द्विदर्भं तु विशां कुर्चं स्त्रीशूद्राणां तथा भवेत् ।
सर्वेषामथवा कूर्चं चतुस्सप्तकृतं तु वा ॥ ७१ ॥
View Verse
मूलमन्त्रेण तदनु पूजयेद् द्द्वादशात्मना ।
अर्घ्यालभनपुष्पैश्च धूपेन मुनिपुह्गव ॥ ७२ ॥
View Verse
अपिधाय क्रमेणैव विधानैः सूत्रवेष्टितैः ।
प्रतिकुम्भं तु वसनैवेर्ष्टयेद्विभवे सति ॥ ७३ ॥
View Verse
आच्छाद्य नववस्त्रेण सर्वतः प्रागुदङ्मुखः ।
पूर्ववत् पूजयित्वा तु ततो होमं समारभेत् ॥ ७४ ॥
View Verse
अष्टोत्तरशतं हुत्वा समिदादीन् पृथक् पृथक् ।
पूर्णाहुतिं ततो हुत्तत्वा कलशानभिमन्त्रयेत् ॥ ७५ ॥
View Verse
मूलमन्त्रेण सर्वेषां म्नपनं विहितं द्विज ।
अन्तरान्तरयोगेन कुम्भैः शुद्धोदपूरितैः ॥ ७६ ॥
View Verse
स्नपनं चार्घ्यदानं च द्रव्याणां तु समाचरेत् ।
द्रव्यन्यासक्रमेणैव तदुद्धारः प्रकीर्तितः ॥ ७७ ॥
View Verse
प्रधानमेतत् कथितं द्विषट्ककलशात्मकम् ।
सर्वेषां कारणमिदं कार्याण्यन्यानि सत्तम ॥ ७८ ॥
View Verse
अम्बुना पञ्चगव्येन क्षीरेण तदनन्तरम् ।
दद्ना धृतेन मधुना सर्वौषधिजलेन तु ॥ ७९ ॥
View Verse
बीजाम्बुफलतोयं च गन्धपुष्पाम्बुना ततः ।
हेमरत्नोदकेनाथ पूरितं तु यथाक्रमम् ॥ ८० ॥
View Verse
कलशानां द्विषट्कं यत् परमेतदुदाथृतम् ।
पच्चगव्यदधिक्षीरघृतमध्विक्षुवारिणा ॥ ८१ ॥
View Verse
सर्वौषधीगन्धरत्नफलपुष्पजलैस्तथा ।
केवलेनोदकेनापि क्रमेण परिपूरितम् ॥ ८२ ॥
View Verse
द्विषट्कमेतत् कुम्भानां परसूक्ष्ममुदाहृतम् ।
पयोदधिघृतक्षौद्रैः सर्वगन्धोदकेन च ॥ ८३ ॥
View Verse
सर्वौषधिजलेनापि पत्रपुष्पफलाम्बुभिः ।
बीजाम्बुना हेमरत्नजलेनैकीकृतेन च ॥ ८४ ॥
View Verse
मिश्रैः पुण्यसरित्तोयैः परिपूर्णं क्रमेण तु ।
परस्थूलमिमिदं विद्धि कलशं द्वादशात्मकम् ॥ ८५ ॥
View Verse
सूत्रपातादिकं चान्यत् त्रितयेऽस्मिन् प्रधानवत् ।
पञ्चधा भाजिते क्षेत्ने भागाः स्युः पञ्चविंशतिः ॥ ८६ ॥
View Verse
बहिः प्रागादियोगेन कलशानां द्विरष्टके ।
क्षीरं दधि घृतं चैवमधुवै रसमैक्षवम् ॥ ८७ ॥
View Verse
धात्रीफलादिदशकं सर्वौषध्यन्तमेव हि ।
पत्रोदकं ततः पश्चात् तदन्तः कलशाष्टके ॥ ८८ ॥
View Verse
प्रागादिपुष्पतोयं फलबीजोदके त्वथ ।
गन्धोदकं च तदनु हेमरत्नजले तथा ॥ ८९ ॥
View Verse
पुण्यतर्त्सरेत्तोयं मद्ये शुद्धोदकम् न्यसते ।
द्रव्यन्यासक्रमेणैव तदुद्धार उदाहृतः ॥ ९० ॥
View Verse
एवं क्रमाद् द्रव्ययुक्तकलशैर्द्विजसत्तम ।
स्नपनं पञ्चविंशद्भि रेतत् सूक्ष्मपरं स्मृतम् ॥ ९१ ॥
View Verse
पञ्चविंशतिकोष्ठानि कल्पयित्वा तु पूर्ववत् ।
मध्ये शुद्धोदकं न्यस्य बहिरिन्द्रादियोगतः ॥ ९२ ॥
View Verse
पूर्वं क्षीराम्भसा पूर्णं परं शुद्धेन वारिणा ।
तृतीयं रत्नतोयेन हेमतोयेन चापरम् ॥ ९३ ॥
View Verse
गन्धसंमिश्रितं चान्यत् फलपुष्पोदकान्वितम् ।
शालिबीजाम्भसा पूर्णभष्टमं परिकीर्तितम् ॥ ९४ ॥
View Verse
कुम्भाष्टकं तु तद्बाह्यदिगष्टकसमाश्रितम् ।
धात्रीफलोदकं पूर्वे पथ्यातोयं ततोऽपरे ॥ ९५ ॥
View Verse
गलूचीक्षोदमन्मस्मिन् विभीतकजलं परे ।
कुमारीव्कथितं तोयं व्याघ्रीसलिलमेव च ॥ ९६ ॥
View Verse
नागरोदकमन्यस्मिन् तथान्यस्मिन् मधूदकम् ।
विहितोऽत्र समुद्धारो द्रव्यन्यासक्रमेण तु ॥ ९७ ॥
View Verse
सत्याद्यैः पञ्चभिर्मन्त्रैस्त्रिभिः सिंहादिभिः क्रमात् ।
अन्तरावरणस्थानां कलशानां महामते ॥ ९८ ॥
View Verse
एकैकं सप्तधामन्त्र्य प्रागादौ तद्बहिः स्थितान् ।
कलशांश्चक्रमन्त्रेण हृदाद्येनाभिमन्त्रयेत् ॥ ९९ ॥
View Verse
गायत्र्यान्तर्गतैर्विप्र कलशैः स्नापयेत् क्रमात् ।
द्वितीयावरणस्थैस्तु उपचारा हृदा मुने ॥ १०० ॥
View Verse
केवलेनोदकेनाथ अस्त्रजप्तेन सेचयेत् ।
यद्वा प्रागुदितेनैव वर्त्मना सर्वमाचरेत् ॥ १०१ ॥
View Verse
दशभिः सप्तभिकुम्भैः सूक्ष्मसूक्ष्ममिदं स्मृतम् ।
चतुर्हस्तं त्रिहस्तं वा क्षेत्रं सार्धद्विहस्तकम् ॥ १०२ ॥
View Verse
द्विहस्तं वा समापाद्य तदर्धं तु द्विधा भवेत् ।
एकेन कर्णिकां कुर्याद्द्वितयेन द्विरष्टकम् ॥ १०३ ॥
View Verse
दलानां तु ततो ब्रह्नन् कर्णिकोपरि विन्यसेत् ।
कलशानां चतुष्कं तु दिक्चतुष्कसमाश्रितम् ॥ १०४ ॥
View Verse
पूर्वं तु पुष्पतोयेन गन्धोदेन ततः परम् ।
स्वर्णोदेनापरं चान्यत् सर्वरत्नजलेन तु ॥ १०५ ॥
View Verse
पूर्वपत्रात् समारभ्य यावदीशानगोचरम् ।
षोडशान्यान् प्रतिष्ठाप्य तत्रैव कलशान्मुने ॥ १०६ ॥
View Verse
प्रथमं पञ्चगव्येन केवलेन तु पूरयेत् ।
गोमूत्रेण द्वितीयं तु तृतीयं गोमयाम्बुना ॥ १०७ ॥
View Verse
त्रेताग्निभूतिना विप्र चतुर्थं सोदकेन तु ।
गजगोवृषभश्रृङ्गवल्मीकाक्यमृदा परम् ॥ १०८ ॥
View Verse
शालिक्षेत्रान्नदीमध्यात् पझषण्डाच्च पर्वतात् ।
मृद्भिः षष्ठं तु कलशं पूरणीयं ततो द्विज ॥ १०९ ॥
View Verse
सप्तमं सर्षपाम्भोभिः सर्वौषधिभिरष्टमम् ।
क्षीरेण नवमं विद्धि दध्ना दशममुच्यते ॥ ११० ॥
View Verse
घृतेन चैकादशमं मधुना द्वादशं द्विज ।
सर्वैस्त्रयोदशं बीजैः फलैः सर्वैश्चतुर्दशम् ॥ १११ ॥
View Verse
समस्तधान्यैरपरं सर्वगन्धैस्तु षोडशम् ।
दलस्थान् पूर्वमुद्धृत्य द्रव्यन्यासक्रमेण तु ॥ ११२ ॥
View Verse
पश्चात्तु कर्णिकासंस्थांस्तथैव तु सुमुद्धरेत् ।
हृदाभिमन्त्रितं कृत्वा एकैकं कलशं पुरा ॥ ११३ ॥
View Verse
स्नापयेन्मूलमन्त्रैण एकैकेन ततः क्रमात् ।
इति विंशतिभिः कुम्भैरन्वितं द्विजसत्तम ॥ ११४ ॥
View Verse
सूक्ष्मस्थूलमिदं प्रोक्तं ततोऽन्यच्छृणु विस्तृतम् ।
प्राक्प्रत्यगायतं सूत्रपञ्चकं विनिवेश्य च ॥ ११५ ॥
View Verse
दक्षिणोत्तरसूत्रानामेकादश विनिक्षिपेत् ।
एवं कृते तु कोष्ठानि चत्वारिंशद्भवन्ति हि ॥ ११६ ॥
View Verse
तत्र पश्चिमदिक्पङ्क्तेरारभ्य क्रमयोगतः ।
दक्षिणादुत्तरान्तं च कलशानां चतुश्चतुः ॥ ११७ ॥
View Verse
विन्यस्य पूरयेत्तांस्तु क्रमाद्द्रव्यैर्निबोध तत् ।
पाद्यार्घ्याचमनीयार्थद्रव्यैः पूर्वोदितैस्त्रयम् ॥ ११८ ॥
View Verse
नगादाद्यन्तमध्येभ्यो नदीमृत्तीरसंभवा ।
ह्रदाद्वल्मीकशिखरादूगजदन्तक्षतीकृतात् ॥ ११९ ॥
View Verse
हलोत्था गोवृषश्रृङ्गशालीनां तु समुद्भवा ।
तथा च पझषण्डोत्था त्वेकस्मिन् गोमयं परे ॥ १२० ॥
View Verse
वनदाहसमुद्भतं तथैव च महानसात् ।
त्रेताग्निभस्म त्वपरे विनिवेश्य घटान्तरे ॥ १२१ ॥
View Verse
अन्यस्मिन् पञ्चगव्यं तु कुशोदकसमन्वितम् ।
सघृतं तैलकुम्भं तु चमसीवारिपूरितम् ॥ १२२ ॥
View Verse
पलाशखदिराश्वत्थशमीलोहितचन्दनम् ।
कषायोदकमन्यस्मिन् परे तु त्रिफलोदकम् ॥ १२३ ॥
View Verse
वचा शतावरी कन्या व्याघ्री सिंही कृताञ्जलिः ।
गोलोमी सिंहलोमी च कुष्ठं भूम्यञ्जनं तथा ॥ १२४ ॥
View Verse
महागरुडवेगा च कलशेऽन्यत्र सत्तम ।
महानीला गलूची च सहदेवी शतावरी ॥ १२५ ॥
View Verse
विष्णुक्रान्ता च कार्कोटा सांहा वह्निशिखापरे ।
यष्टी वराहकर्णी चाप्यन्यस्मिन् गजपिप्पली ॥ १२६ ॥
View Verse
श्रीफलाद्यानि चान्यस्मिन् पावनानि फलानि च ।
दधिक्षीराज्यकुम्भांश्च द्वौ मध्विक्षुरसान्वितौ ॥ १२७ ॥
View Verse
मूलान्यम्भोरुहाणां च तान्यन्यस्मिन् घटे न्यसेत् ।
द्रुमाणां पावनानां तु सक्षीराणां विशेषतः ॥ १२८ ॥
View Verse
पत्रपुष्पफलोपेतमेकस्मिन् मञ्जरीगणम् ।
जात्यादिकमथैकस्मिन् कौसुमीयं लताचयम् ॥ १२९ ॥
View Verse
रोचनारजनीयुग्मं बालमोटाथ पझकम् ।
इति पञ्चकमन्यस्मिन् दर्भदूर्वाङ्कुराणि च ॥ १३० ॥
View Verse
सास्यं शाल्यङ्कुरचयं कलशे ह्यपरे तु वै ।
सिदधार्थकान् सिताद्यांस्तु प्रियङ्गुं गन्धसंज्ञकम् ॥ १३१ ॥
View Verse
अपरस्मिन् न्यसेत् कुम्भे सह वै नागकेसरैः ।
ग्राम्याश्चोषधयः सप्त सप्तारण्या घटद्वये ॥ १३२ ॥
View Verse
बाह्लीकं चन्दनं चैव रसं कर्पूरमेव च ।
चतुष्कमेतदपरे त्वन्यस्मिन् धातवः शुभाः ॥ १३३ ॥
View Verse
ताम्रजाम्बूनदाद्यास्तु परे रत्नचयं महत् ।
न्यसेद्विद्रुमजालं च द्वये मुक्ताफलानि च ॥ १३४ ॥
View Verse
अर्घ्योदकमकमथैकस्मिन्नदीतीर्थोदकं द्वये ।
सर्वौषधिघटं चैव सुशीताम्भोघटं ततः ॥ १३५ ॥
View Verse
सुगन्धपुष्पकलशं चत्वारिंशत् त्वमी स्मृताः ।
द्रव्यन्यासक्रमोद्धार इदं स्थूलं परं स्मृतम् ॥ १३६ ॥
View Verse
शीताम्बुपूरितानां च घटानां केवलं द्विज ।
चत्वारिंशत् समायुक्तं स्थूलसूक्ष्मं प्रकाशितम् ॥ १३७ ॥
View Verse
गन्धोदकेन पूर्णानां चत्वारिंशद्भिरेव च ।
समन्वितं घटानां तु स्थूलस्थूलं प्रकीर्तितम् ॥ १३८ ॥
View Verse
सूत्रपातविधानं च कुम्भन्यासक्रमं ततः ।
उद्धारं चानयोः कुर्यात् स्थूलाद्यसदृशं द्विज ॥ १३९ ॥
View Verse
भक्तिश्रद्धावशाच्चापि विभवानुगुणं तु वा ।
त्रिविधं स्थूलभेदं तु द्विगुणं तु समाचरेत् ॥ १४० ॥
View Verse
अनुकल्पे तदर्धं वा पादमष्टांशमेव वा ।
चतुष्टयं वा कुम्भानां प्रत्येकं वा द्वयं द्वयम् ॥ १४१ ॥
View Verse
एकैकं वापि विप्रेन्द्र सर्वद्रव्यमयं घटम् ।
नवानां परिपूर्णानामुक्तादन्यदपेक्षितम् ॥ १४२ ॥
View Verse
कुर्यादभ्यूह्य तत् सर्वं प्रधानोदितवर्त्मना ।
एवं तु दशधा विप्र परभेदाः प्रकाशिताः ॥ १४३ ॥
View Verse
अपरस्य विभेदांस्तु क्रमेण श्रृणु सत्तम ।
चतुरश्रीकृते क्षेत्रे ह्येकत्रिंशद्विभाजिते ॥ १४४ ॥
View Verse
कोष्ठकानां नवशतमेकपष्टिस्तथैव च ।
मध्ये पङ्क्तित्रयं स्थाप्य मार्जयेत्तद्बहिर्द्वयम् ॥ १४५ ॥
View Verse
वीथ्यर्थं तद्बहिर्भूयः स्थाप्य पङ्क्तित्रयं पुनः ।
द्वयं विमृज्य वीथ्यर्थं स्थापयेत् सप्तकं पुनः ॥ १४६ ॥
View Verse
विभज्य वा त्रिणवधा ह्येकैकं विमृजेद्द्विज ।
वीथ्यर्थं संकटे देशे कलशानां तु पूर्ववत् ॥ १४७ ॥
View Verse
क्रमेण तेषु कोष्ठेषु कलशान् पूर्ववन्न्यसेत् ।
घृतमुष्णोदकं चैव रत्नवारि फलोदकम् ॥ १४८ ॥
View Verse
लोहाम्भो मार्जनाम्भश्च गन्धाम्भोऽक्षतवारि च ।
यवोदकमथेशान्तं मध्यादारभ्य मध्यमे ॥ १४९ ॥
View Verse
पाद्यमर्घ्य तथाचामं पञ्चगव्यं क्रमेण तु ।
द्विचतुष्केण संवीतनकानां तु मध्यमे ॥ १५० ॥
View Verse
ऐन्द्राद्युत्तरपर्यन्तं विदिक्स्थानां तु मध्यमे ।
दधि क्षीरं मधु तथा कषायं वह्निदिक्क्रमात् ॥ १५१ ॥
View Verse
एवं सप्तदश प्रोक्तः प्रधानद्रव्यसंयुताः ।
शेषाश्चान्ये चतुष्षष्टिः शुद्धोदकसमन्विताः ॥ १५२ ॥
View Verse
इत्येकाशीतिकलशा मध्यतः संस्थिता द्विज ।
ततस्त्वेकोनपञ्चाशत्कलशास्तद्दिगष्टके ॥ १५३ ॥
View Verse
तत्र मध्यमकुम्भेषु दिक्स्थितानां च सेचयेत् ।
गुलोदकं चेक्षुरसं नालिकेररसं तथा ॥ १५४ ॥
View Verse
शान्तिवारि मुनिश्रेष्ठ पूर्वदिक्क्रमयोगतः ।
विदिक्स्थब्रह्नकुम्भेषु सेचयेन्मड्गलोदकम् ॥ १५५ ॥
View Verse
आग्नेयादीशपर्यन्तं शिष्टमन्यच्छतत्रयम् ।
असीतियुक्तं कुम्भानां तथैव चतुरुत्तरम् ॥ १५६ ॥
View Verse
सुगन्धैः शीतलैस्तोयैः संपूर्णं द्विजसत्तम ।
पस्चान्मध्यस्थनवके मध्यादीशानपश्चिमम् ॥ १५७ ॥
View Verse
वासुदेवाद्वराहान्तं मूर्तीनां नवकं यजेत् ।
अर्घ्यालभनमाल्यैश्च धूपेन च यथाक्रमम् ॥ १५८ ॥
View Verse
तद्वहिर्नवकानां तु ब्रह्नकुम्भेषु पूजयेत् ।
केशवाद्वामनान्तं च द्विचतुः पूर्वदिक्क्रमात् ॥ १५९ ॥
View Verse
तत एकोनपञ्चाशत् कलशानां महामते ।
पूजयेद्ब्रह्नकुम्भेषु श्रीधराद्यं चतुष्टयम् ॥ १६० ॥
View Verse
पूर्वाद्युत्तरपर्यन्तं वह्न्यादीशानपश्चिमम् ।
नराद्यं कृष्णपर्यन्तं चतुष्कं पूजयेद्द्विज ॥ १६१ ॥
View Verse
प्राग्वत् कूर्चानि संन्यस्य चक्रिकाभिः पिधाय च ।
तत आच्छादयेद्वर्स्त्रैनूतनैस्तु पृथक् पृथक् ॥ १६२ ॥
View Verse
तत ऊर्ध्वं यजेद्देवं वासुदेवं जगत्पतिम् ।
पाद्यमर्घ्यं तथाचामं पञ्चगव्यं घृतं दधि ॥ १६३ ॥
View Verse
पयो मधु कषायं च उष्णाम्भः फलपारि च ।
मार्जनाम्भो ऽक्षताम्भश्च रत्नाम्भो लोहवारि च ॥ १६४ ॥
View Verse
गन्धाम्भश्च यवाम्भश्च गुलोदेक्षुरसौ तथा ।
नालिकेररसं चापि शान्तितोयं च मङ्गलम् ॥ १६५ ॥
View Verse
क्रमेणानेन विप्रेन्द्र ह्याचरेत् स्नपनं विभोः ।
मूलमन्त्रेण सर्वेषां स्नपनं विहितं द्विज ॥ १६६ ॥
View Verse
अथवा पाद्यपूर्वं तु गन्धतोयावसानकम् ।
ऋग्भिः पुरुषसूक्तस्य तथेदं विष्णुरित्यृचा ॥ १६७ ॥
View Verse
यवाम्भो गुलतोयाद्यं चतुष्कं शान्तिपश्चिमम् ।
त्वं विष्णुरिति मन्त्रेण विष्णोर्नुकमिति द्विज ॥ १६८ ॥
View Verse
स्नापयेन्मङ्गलाद्येन तोयेन मुनिपुङ्गव ।
येनाभिषिञ्चेद्देवेशं प्रधानकलशेन तु ॥ १६९ ॥
View Verse
तच्छुद्धवारिकलशैस्तन्मन्त्रेणाभिषेचयेत् ।
प्रतिद्रव्यं तु वस्त्रेण ह्यर्घ्यालभनमाल्यकैः ॥ १७० ॥
View Verse
धूयेन च समभ्यर्च्य ततस्तेनाभिषेचयेत् ।
यद्वार्घ्यं पाद्यमाचामं गन्धस्रग्धूपदीपकम् ॥ १७१ ॥
View Verse
दद्याद्यथाक्रमं सर्वं केवलं चार्ध्यमेव वा ।
युक्तं शतचतुष्केण सप्तत्या च त्रयेण च ॥ १७२ ॥
View Verse
कुम्भानां स्नपनं ह्येतदुत्तमोतममुच्यते ।
हीनमष्टाष्टसंख्यातैरन्तश्शुद्धोदवारिभिः ॥ १७३ ॥
View Verse
कलशैः स्नपनं यत्तु तत् स्यादुत्तममध्यमम् ।
तथा पङ्क्तिचतुष्कं तु हीनं स्यात् पूर्वनिश्चितात् ॥ १७४ ॥
View Verse
यदेतत् स्नपनं युक्तमेकाशीत्या च मध्यतः ।
दिक्षु चैकोनपञ्चाशच्चतुष्केन विदिक्षु च ॥ १७५ ॥
View Verse
ब्राह्नदैविकभागस्थैः कलशैरन्वितं द्विज ।
शेषैःषष्टयुत्तरशतसंख्यातैः शुद्धवारिभिः ॥ १७६ ॥
View Verse
विहीनं कलशैर्विप्र तद्भवेदुत्तमाधमम् ।
शतद्वयेन कुम्भानां चतुर्दिक्संस्थितेन च ॥ १७७ ॥
View Verse
चतुर्हीनेन वै विप्र ह्येकाशीत्या च मध्यतः ।
संयुक्तं स्नपनं प्राग्वत् तद्भवेन्मध्यमोत्तमम् ॥ १७८ ॥
View Verse
अष्टाष्टपरिसङ्ख्यातैरन्तः शुद्धोदवारिभिः ।
कलशैर्यद् भवेद्धीनं तत् स्यान्मद्यममध्यमम् ॥ १७९ ॥
View Verse
एकाशीत्या च कुम्भानां मध्यतस्तु समन्वितम् ।
दिक्षु चैकोनपञ्चाशन्मध्यस्थनवसंयुतम् ॥ १८० ॥
View Verse
शेषैः शुद्धोदकलशैर्विहीनं मध्यमाधमम् ।
पङ्क्तीनामष्टकेनात्र हीनं क्षेत्रं तु कल्पयेत् ॥ १८१ ॥
View Verse
एकाशीत्या च कुम्भानां केवलं पूर्ववद् द्विज ।
अधमोत्तममेतत्तु स्नपनं परिकीर्तितम् ॥ १८२ ॥
View Verse
द्वात्रिंशद्भिस्तु कल्शैः सौणस्थैः शुद्धवारिभिः ।
विहीनं स्नपनं यत्तद् भवेद धममध्यमम् ॥ १८३ ॥
View Verse
यच्चतुष्षष्टिकलशैर्विहीनं सर्वदिक्स्थितैः ।
शुद्धोदकैर्द्विजश्रेष्ठ तद्भवेद धमाधमम् ॥ १८४ ॥
View Verse
नवधा सप्तधा वात्र क्षेत्रं कृत्वा तु पीडयेत् ।
द्वयं चतुष्कं वा शिष्टं कुम्भानां स्थापनार्थतः ॥ १८५ ॥
View Verse
इत्युक्तमाद्यं नवधा द्वितीयं श्रृणु सत्तम ।
चतुरश्रीकृते क्षेत्रे ह्यष्टादशविभाजिते ॥ १८६ ॥
View Verse
यद्वा षोडशधा विप्र पङ्क्तिषट्कं तु मध्यतः ।
संस्थाप्य तद्बहिर्वीथ्यै मार्जयेद्द्वितयं द्विज ॥ १८७ ॥
View Verse
एकैकं वापि तद्बाह्ये स्थापयेत्तु चतुष्टयम् ।
पूर्ववत्तेषु कलशान् न्यस्य द्रव्याणि निक्षिपेत् ॥ १८८ ॥
View Verse
मध्ये कुम्भचतुष्के तु सर्वरत्नजलं ततः ।
द्वितये मौक्तिकं प्राच्यामेकस्मिन् वह्निदिग्गते ॥ १८९ ॥
View Verse
वज्रं याम्यद्वये विप्र गोमेदकमनन्तरे ।
एकस्मिन्निन्द्रनीलं तु पुष्यरागं ततो द्वये ॥ १९० ॥
View Verse
पश्चिमस्थे तु वायव्ये ह्येकस्मिन् ब्रह्नरागकम् ।
चन्द्रकान्तं द्वये सौम्ये ह्येकस्मिन् विद्रुमं परे ॥ १९१ ॥
View Verse
द्वितीयावरणे प्राच्यामाज्यं कुम्भद्वये द्विज ।
कुम्भ आग्नेयकोणस्थे ह्येकस्मिग्नौपमानिकम् ॥ १९२ ॥
View Verse
क्षीरं द्वये दक्षिणस्थे नैरृत्यां मार्जनं तथा ।
दधि द्वये पश्चिमस्थे गन्धो वायव्यकोणगे ॥ १९३ ॥
View Verse
सौम्यद्वये माक्षिकं स्यात् कषायं चेशकोणगे ।
गन्धोदकेन संपूर्णं कुम्भानां शिष्टमष्टकम् ॥ १९४ ॥
View Verse
एवं मध्यस्थिताः कुम्भाः षट्त्रिंशत्संख्यया द्विज ।
चतुर्विंशत्तु कलशाः प्रतिदिक्कं तु तद्बहिः ॥ १९५ ॥
View Verse
विदिक्स्थितास्तु प्रत्येकं कलशाः षोडश द्विज ।
पूर्वदिक्संस्थितानां तु कुम्भानां मध्यमे स्थिते ॥ १९६ ॥
View Verse
चतुष्केऽर्घ्य तथा पाद्यं दक्षिणे पश्चिमे तथा ।
आचामं सौम्यमध्यस्थचतुष्के पञ्चगव्यकम् ॥ १९७ ॥
View Verse
वह्निदिक्कलशानां तु चतुष्के मध्यसंस्थिते ।
तैलं गुलोदं निरृतौ वायुसंस्थे तिलोदकम् ॥ १९८ ॥
View Verse
अक्षतं त्वीशदिक्संस्थे ह्यष्टाविशोत्तरं शतम् ।
अवशिष्टं तु कुम्भानां पूर्णं गन्धोदकेन तु ॥ १९९ ॥
View Verse
अर्घ्यादिसर्वरत्नान्तमुद्धारक्रम इष्यते ।
अर्घ्यं पाद्यं तथाचामं पञ्चगव्यं ततः परम् ॥ २०० ॥
View Verse
तैलं गुलोदकं चैब तिलोदं चाक्षतोदकम् ।
आज्यं तथा चौपमान्यं क्षीरं मार्जनमेव च ॥ २०१ ॥
View Verse
दधि गन्धं माक्षिकानि कषायं मौक्तिकं तथा ।
वज्रादिसर्वरत्नान्तमष्टकं क्रमशो द्विज ॥ २०२ ॥
View Verse
शतद्वयेन कुम्भानां चतुर्न्यूनेन संयुतम् ।
एतत् स्नपनमाख्यातमुत्तमोत्तमसंज्ञितम् ॥ २०३ ॥
View Verse
चतुरश्रीकृते क्षेत्रे चतुर्दशविभाजिते ।
कोष्ठकानां भवत्यत्र चतुर्न्यूनं शतद्वयम् ॥ २०४ ॥
View Verse
मध्ये पङ्क्तिचतुष्कं तु संस्थाप्य परिमार्जयेत् ।
एकैकं वीथये बाह्ये स्थापयेच्च चतुष्टयम् ॥ २०५ ॥
View Verse
तत्रापि कोष्ठकानां तु कलशस्थापनार्थतः ।
संश्थाप्याष्टोत्तरशतं शेषाणि परिमार्जयेत् ॥ २०६ ॥
View Verse
पूर्ववत्तेषु कलशान् न्यस्य द्रव्याणि निक्षिपेत् ।
विन्यसेद्रत्ननिचयं मध्ये कुम्भचतुष्टयम् ॥ २०७ ॥
View Verse
प्राङ्भध्यसूत्राद्दक्षिणतः कलशे मौक्तिकं द्विज ।
एतद्दक्षिणतः संश्थे वज्रगोमेदके क्रमात् ॥ २०८ ॥
View Verse
इन्द्रनीलं पुष्यरागं पश्चिमस्थे द्वये तथा ।
ब्रह्नरागं चन्द्रकान्तं सोमदिक्स्थे द्वये द्विज ॥ २०९ ॥
View Verse
प्राङ्भध्यसूत्रोत्तरतो विद्रुमं कलशे द्विज ।
एवं द्विषट्कं कुम्भानां मध्यतः तद्दिगष्टके ॥ २१० ॥
View Verse
प्रतिदिक्कलशानां तु द्विषट्कं द्विजसत्तम ।
तेषां मध्यस्थिते कुम्भे चतुष्के प्राग्दिगादितः ॥ २११ ॥
View Verse
अर्घ्यं तैलं तथा पाद्यं गुलाम्ब्वाचमनीयकम् ।
तिलोदकं पञ्चगव्यमक्षतं त्वीशपश्चिमम् ॥ २१२ ॥
View Verse
शेषाः कुम्भाश्चतुष्षष्टिः पूर्णा गन्धोदकेन तु ।
अर्घ्यादिसर्वरत्नान्तमुद्धारक्रम इष्यते ॥ २१३ ॥
View Verse
एवमष्टोत्तरशतैः कुम्भैरुत्तमध्यमम् ।
चतुरश्रीकृते क्षेत्रे त्रयोदशविभाजिते ॥ २१४ ॥
View Verse
पङ्क्तीनां पञ्चमं मद्ये संस्थाप्य परिमार्जयेत् ।
एकैकं वीथये बाह्ये स्थापयेत् त्रितयं पुनः ॥ २१५ ॥
View Verse
मध्यमे रत्नकुम्भं तत् प्रागादीशावसानकम् ।
मुक्ताफलं तथा वज्रं गोमेदकेन्द्रनीलकौ ॥ २१६ ॥
View Verse
पुष्यरागो ब्रह्नरागश्चन्द्रकान्तश्च विद्रुमः ।
तद्बहिः प्राकक्रमेणैव धृतं चैवोपमानिकम् ॥ २१७ ॥
View Verse
क्षीरं मार्जनतोयं च दधि गन्धं च माक्षिकम् ।
कषायमष्टौ शिष्टाश्च गन्धाम्भः परिपूरिताः ॥ २१८ ॥
View Verse
एवं मध्यस्थिता विप्र कलशाः पञ्चविंशतिः ।
अष्टकं नवकानां तु तद्बहिस्तु दिगष्टके ॥ २१९ ॥
View Verse
तेषां मध्ये क्रमादर्ध्यं तैलं पाद्यं गुलोदकम् ।
आचामं तिलतोयं च पञ्चगव्यं तथाक्षतम् ॥ २२० ॥
View Verse
प्रागाशादीशदिङ्निष्ठं शिष्टमष्टाष्टकं द्विज ।
पूरितं गन्धतोयेन ह्येवं कुम्भसमन्वितम् ॥ २२१ ॥
View Verse
नवत्या सप्ताधिकया तद्भवेदुत्तमाधमम् ।
त्रिपञ्चधा कृते क्षेत्रे भागानां तु भवन्ति हि ॥ २२२ ॥
View Verse
शतद्वयं तथा पञ्चविंशतिर्मुनिपुङ्गव ।
पङ्क्तीनां पञ्चकं मध्ये तद्बहिर्विमृजेद्द्वयम् ॥ २२३ ॥
View Verse
वीथ्यर्थं तद्बहिर्भूयः स्थापयेत् त्रितयं द्विज ।
तन्मध्ये रत्नकलशं दिक्स्थिते तु चतुष्टये ॥ २२४ ॥
View Verse
रत्नाष्टकं मौक्तिकादि द्वन्द्वशः पूर्वदिक्क्रमात् ।
प्रागादीशानपर्यन्तं तद्बहिः कलशाष्टके ॥ २२५ ॥
View Verse
घृतपूर्वकषायान्तद्रव्याणामष्टकं द्विज ।
ऐन्द्रादिनवकानां तु ह्यष्टानां द्विज मध्यमे ॥ २२६ ॥
View Verse
अर्घ्याद्यक्षतपर्यन्तं क्रमादीशानपश्चिमम् ।
शेषाः कुम्भास्चतुष्षष्टिर्गन्धोदकसमन्विताः ॥ २२७ ॥
View Verse
पञ्चाशीतिघटोपेतमेतत् स्यान्मध्यमोत्तमम् ।
मध्यमे रत्नतोयं तु तद्बहिः कलशाष्टकम् ॥ २२८ ॥
View Verse
मुक्तादिद्रुव्यसंयुक्तं पूर्ववन्नवकाद्बहिः ।
इत्येकाशीतिकलशैर्भवेन्मध्यममध्यमम् ॥ २२९ ॥
View Verse
सप्तधा भाजिते क्षेत्रे चत्वारिंशन्नवोत्तरम् ।
कोष्ठकानि भवन्त्यत्र कलशान् विन्यसेत्ततः ॥ २३० ॥
View Verse
पूर्ववद्द्रव्यसंयुक्ताः कलशाः पञ्चविंशतिः ।
चपुर्विंशतिशेषास्तु शुद्धोदकसमन्विताः ॥ २३१ ॥
View Verse
एवमेकोनपञ्चाशत्कलशैर्मध्यमाधमम् ।
रत्नादिककषायान्ता युक्ताः सप्तोत्तरा दश ॥ २३२ ॥
View Verse
अष्टौ गन्धोदसंयुक्ता एतत् स्यादधमोत्तमम् ।
शुद्धोदाष्टकहीनं तद्भवेदधममध्यमम् ॥ २३३ ॥
View Verse
रत्नादिविद्रमान्तेन द्रव्यसङ्घेन संयुतम् ।
नवकं कलशानां यत् तद्भवेदधमाधमम् ॥ २३४ ॥
View Verse
एवं द्वितीयभेदास्तु कीर्तिताः तृतीयं श्रृणु ।
क्षेत्रं तु सप्तधा कृत्वा प्राग्वदापाद्य संस्थितम् ॥ २३५ ॥
View Verse
उदङ्मुखस्थितो बूत्वा प्रणवं बन्धयेत्ततः ।
तन्मुद्रां विन्यसेत् कुम्भे जितन्ताख्येन मध्यतः ॥ २३६ ॥
View Verse
दैविकेऽष्टाक्षरैः कुम्भान् प्राङ्मुखःप्राग्दिगादितः ।
मानुषांस्तु द्विषट्केन षोडशप्रागुदड्मुखः ॥ २३७ ॥
View Verse
फट्कारैः पैतृकान् विप्र न्यसेत् प्रत्यगुदङ्मुखः ।
तन्मुद्रां बन्धयित्वा तु मध्यादुत्तरपश्चिमम् ॥ २३८ ॥
View Verse
कुम्भानां पञ्चके विप्र पाद्यार्घ्याचमनान्यपि ।
पञ्चगव्यं घृतं चापि पञ्चोपनिषदैः क्रमात् ॥ २३९ ॥
View Verse
विदिक्कुम्भचतुष्के तु वह्न्यादीशानपश्चिमम् ।
दधि क्षीरं मधु तथा ह्युष्णाम्भोमूर्तिवाचकैः ॥ २४० ॥
View Verse
चतुर्भिः कलशैर्विप्र तद्वहिर्दिक्चतुष्टये ।
कषायं मार्जनाम्भश्च फलाम्भः परिमार्जनम् ॥ २४१ ॥
View Verse
आग्नेयादीशपर्यन्तं कलशानां चतुष्टये ।
रत्नोदं सर्वलोहाम्भः कुशाम्भः सक्तुवारि च ॥ २४२ ॥
View Verse
क्षिपेत् क्रमेण विप्रेन्द्र वर्णैरष्टाक्षरोदितैः ।
शुद्धाम्भसान्तरालस्थं पूरितं कलशाष्टकम् ॥ २४३ ॥
View Verse
प्रागग्निमध्यादारभ्य ईशप्राङ्भध्यपश्चिमम् ।
प्रणवाख्येन मन्त्रेण केवलेन ततो वहिः ॥ २४४ ॥
View Verse
दिक्कुम्भानां चतुष्के तु गन्धाम्भः पुष्पवारि च ।
औपमानिकसंज्ञं च तथाचामलकोदकम् ॥ २४५ ॥
View Verse
आग्नेयादिक्रमेणैव कलशानां चतुष्टये ।
अक्षताम्भस्तिलाम्भश्च यवाम्भस्तण्डुलोदकम् ॥ २४६ ॥
View Verse
द्विषट्कमन्त्रेण ततो विष्णुगायत्रिया द्विज ।
शेषाः षोडश शुद्धाम्भः परिपूर्णाः क्रभेण तु ॥ २४७ ॥
View Verse
एवं संपूरयित्वा तु प्रणम्याञ्जलिमुद्रया ।
वासुदेवादियागाद्यं सर्वं कृत्वा तु पूर्ववत् ॥ २४८ ॥
View Verse
द्रव्यन्यासक्रमेणैव समुद्धारः प्रकीर्तितः ।
मूलमन्त्रेण वै दद्यात् सर्वं यद्वा द्विजोत्तम ॥ २४९ ॥
View Verse
इदं विष्ण्वाख्यतः पाद्यमर्घ्यमापो वहन्त्विति ।
आपः पुनन्त्वित्याचामं गायत्र्या पञ्चगव्यकम् ॥ २५० ॥
View Verse
धृतं दद्यात्ततो विप्र घृतं शुक्रमसीति च ।
दधिक्रा इति मन्त्रेण दधि दद्यात्ततः परम् ॥ २५१ ॥
View Verse
क्षीरमाप्याययस्वेति पधुवातेति वै मधु ।
आदित्यः शुक्रमित्येवमुष्णाम्भो मुनिपुङ्गव ॥ २५२ ॥
View Verse
ततः कषायतोयं तु शदसस्पतिमित्यृचा ।
शन्नोदेवीरित्यनेन दद्याद्वै मार्जनं ततः ॥ २५३ ॥
View Verse
गणानामिति मन्त्रेण दद्याच्चैव फलोदकम् ।
त्वं विष्णुरिति मन्त्रेण दद्यात्तु परिमार्जनम् ॥ २५४ ॥
View Verse
अग्न आयाहिवीतये इति रत्नोदकं ततः ।
इषेत्वेति च लोहाम्भस्त्वग्निमीके कुशोदकम् ॥ २५५ ॥
View Verse
किमित्त इति मन्त्रेण दद्यात् सक्तूदकं ततः ।
दद्याच्छुद्धोदकान्यष्टावापो अस्मानिति क्रमात् ॥ २५६ ॥
View Verse
अष्टौ गन्धोदकादीनि मानस्तोक्या निवेदयेत् ।
शेषान् पुरुषसूक्तेन षोडश प्रत्यृचं क्रमात् ॥ २५७ ॥
View Verse
एवमेकोनपञ्चाशत्कलशैरुत्तमोत्तमम् ।
बहिःषोडश शुद्धोदैर्हीनमुत्तममध्यमम् ॥ २५८ ॥
View Verse
तत्रस्थेः कोणकलशैर्हीनं स्यादुत्तमाधमम् ।
अन्तः शुद्धोदकस्थाने स्थितं गन्धोदकाष्टकम् ॥ २५९ ॥
View Verse
विहीनं सर्वकलशैर्बहिरावरणस्थितैः ।
तदन्तः पञ्चविंशद्भिरन्वितं मध्यमोत्तमम् ॥ २६० ॥
View Verse
मानुषे दिक्चतुष्केन हीनं मध्यममध्यमम् ।
तत्रस्थैः सर्वकलशैर्हीनं स्यान्मध्यमाधमम् ॥ २६१ ॥
View Verse
नवकं कलशानां यत्तद्भवेदधमोत्तमम् ।
तृतीयमेवं कथितं चतुर्थं श्रृणु सत्तम ॥ २६२ ॥
View Verse
मध्यस्थितैककुम्भेन तद्भवेदधमाधमम् ।
तृतीयमेवं कथितं चतुर्थं श्रृणु सत्तम ॥ २६३ ॥
View Verse
सप्तभक्ते स्थिता भागाश्चत्वारिंशन्नवोत्तरम् ।
घृतमुष्णोदकं चैव रत्नवारि फलोदकम् ॥ २६४ ॥
View Verse
लोहाम्भो मार्जनाम्भश्च गन्धाम्भोऽक्षतवारि च ।
यवोदकमथेशान्तं मध्यादारब्य मध्यमे ॥ २६५ ॥
View Verse
पाद्यमर्घ्यं तथाऽचामं पञ्चगव्यं तथा दधि ।
पयो मधु कषायं च दिग्विदिक्षु च तद्बहिः ॥ २६६ ॥
View Verse
गुलोदकं चेक्षुरसं नालिकेररसं तथा ।
शान्तिवारि चतुर्दिक्षु पूर्वादिक्रमयोगतः ॥ २६७ ॥
View Verse
विदिक्कुम्भचतुष्केषु विन्यसेन्मङ्गलोदकम् ।
शेषा भागाश्चतुर्विशच्छून्याः स्युर्द्विजसत्तम ॥ २६८ ॥
View Verse
मन्त्रार्चनं तथोद्धारो यथा चाद्योत्तमोत्तमे ।
उत्तमोत्तममेतद्धि स्नपनं परिकीर्तितम् ॥ २६९ ॥
View Verse
पञ्चभागीकृते स्थाने कलशाः पञ्चविंशतिः ।
मूलमन्त्रेण कलशान् विन्यस्य प्रोक्षयेत्ततः ॥ २७० ॥
View Verse
द्रव्याणि निक्षिपेत्तेन प्राङ्मुखः प्रयतो वशी ।
ब्राह्नं तु मध्यमं कुम्भं स्नानतोयेन पूरयेत् ॥ २७१ ॥
View Verse
ततस्तु मानुषे भागे प्रागाद्ये दिक्चतुष्टये ।
पाद्यमर्घ्यं तथाऽचामं पञ्चगव्यं तथैव च ॥ २७२ ॥
View Verse
घृतं दधि तथा क्षीरं मधु चाग्नेयपूर्वकम् ।
इन्द्राग्निमध्यादारब्य तदीशान्तरपश्चिमम् ॥ २७३ ॥
View Verse
उष्णोदकं कषायं च मार्जनं च फलोदकम् ।
तिलाम्बु रत्नतोयं च लोहतोयं कुशोदकम् ॥ २७४ ॥
View Verse
ततस्तु दैविके भागे पूर्ववद्दिक्चतुष्टये ।
गन्धोदकं च पुष्पाम्भ औपमान्यामलोदके ॥ २७५ ॥
View Verse
आग्नेयादीशपर्यन्तमक्षताम्भस्तथैव च ।
नालिकेररसं चेक्षुरसं वै तण्डुलोदकम् ॥ २७६ ॥
View Verse
एवं च पञ्चविंशद्भिः कुम्भैरुत्तममध्यमम् ।
पाद्यं च मध्यमे भागे प्रागादीशानपश्चिमम् ॥ २७७ ॥
View Verse
अर्घ्यमाचमनं चापि पञ्चगव्यं घृत दधि ।
क्षीरं मधूष्णतोयं च अन्तरालेषु वै क्रमात् ॥ २७८ ॥
View Verse
कषायं मार्जनाम्भश्च फलाम्भः परिमार्जनम् ।
रत्नाम्भो लोहतोयं च कुशाम्भश्चोष्णतोयकम् ॥ २७९ ॥
View Verse
ततस्तु दैविके भागे प्रागादीशानपश्चिमम् ।
गन्धाम्भः पुष्वतोयं च औपमान्यामलाम्बुनी ॥ २८० ॥
View Verse
अक्षताम्भस्तिलोदं च यवोदं तण्डुलोदकम् ।
विहितश्च समुद्धारः पाद्यात्तण्डुलपश्चिमाः ॥ २८१ ॥
View Verse
एवं तु पञ्चविंशद्भिः स्नपनं चोत्तमाधमम् ।
सप्तभक्ते स्थले प्राग्वद्धृताच्छान्त्यम्बु पश्चिमम् ॥ २८२ ॥
View Verse
कलशैरेकविंशद्भिः स्नपनं मध्यमोत्तमम् ।
त्रिधा विभक्ते कोष्ठानां नवकं तत्र सत्तम ॥ २८३ ॥
View Verse
मध्यादीशानपर्यन्तं धृतं दधि पयो मधु ।
तथोद्वर्तनचूर्णं च ततः कोणचतुष्टये ॥ २८४ ॥
View Verse
उष्णोदकं च गन्धाम्भः पुष्पाम्भो मङ्गलोदकम् ।
द्रव्यन्यासक्रमेणैव समुद्धारः प्रकीर्तितः ॥ २८५ ॥
View Verse
एवं तु नवभिः कुम्भैर्भवेन्मध्यममध्यमम् ।
घृतं पयो दधि मधु गन्धहेमाम्बुनी तथा ॥ २८६ ॥
View Verse
रत्नाम्भश्चोषधीवारि शालिचूर्णानि च क्रमात् ।
मध्यमादीशदिङ्निष्ठमेतत् स्यान्मध्यमाधमम् ॥ २८७ ॥
View Verse
मध्यमे दिक्चतुष्के तु पञ्चगन्यैस्तु पञ्चकम् ।
आग्नेयादीशपर्यन्तं कलशानां चतुष्टयम् ॥ २८८ ॥
View Verse
शुद्धाम्भसा तु संपूर्णमेतत् स्यादधमोत्तमम् ।
मध्ये रत्नजलं दिक्षु कुम्भानां तु चतुष्टयम् ॥ २८९ ॥
View Verse
मुक्तादिरत्नसंयुक्तं द्वन्द्वयोगेन सत्तम ।
एवं तु पञ्चभिः कुम्भैर्भवेदधममध्यम् ॥ २९० ॥
View Verse
सर्वरत्रजलं मध्ये दिग्द्वये पूर्वपश्चिमे ।
द्वौ कुम्भौ तत्र पूर्वस्मिन् मौक्तिकादिचतुष्टयम् ॥ २९१ ॥
View Verse
चतुष्कं पुष्परागादि ह्यन्यस्मिन् द्विजसत्तम ।
एवं कुम्भत्रयेणैव स्नपनं त्वधमाधमम् ॥ २९२ ॥
View Verse
एवं ह्यपरभेदास्तु षट्त्रिंशत् संप्रकाशिताः ।
कुम्भाधिवासपूर्वं तु सर्वं पूर्ववदाचरेत् ॥ २९३ ॥
View Verse
आज्यस्य दैवतं देवो वासुदेवः परः स्मृतः ।
उष्णाम्भसः सङ्कर्षणः प्रद्युम्नो रत्नबारिणः ॥ २९४ ॥
View Verse
फलाम्भसोऽनिरुद्धस्तु भगवान् दैवतं द्विज ।
नारायणस्तु मन्त्रात्मा लोहतोयस्य दैवतम् ॥ २९५ ॥
View Verse
मार्जनस्य हयग्रीवो विष्णुः स्याद्गन्धवारिणः ।
नृसिंहोऽक्षततोयस्य वराहो यववारिणः ॥ २९६ ॥
View Verse
पाद्यस्य केशवो देवोऽर्घ्यस्य नारायणः स्मृतः ।
देव आचमनीयस्य माधवस्त्वधिदेवता ॥ २९७ ॥
View Verse
गोविन्दः पञ्चगव्यस्य विष्णुस्तु दधिदैवतम् ।
मधुसूदनसंज्ञस्तु पयसो देवता स्मृता ॥ २९८ ॥
View Verse
त्रिविक्रमाख्यो मधुनः कषायस्य च वामनः ।
भगवान् श्रीधराख्यस्तु गुलतोयस्य देवता ॥ २९९ ॥
View Verse
देवदेवो हृषीकेश इक्षुसारस्य दैवतम् ।
दामोदरोऽधिदैवं तु नालिकेराम्भसो द्विज ॥ ३०० ॥
View Verse
पझनाभस्तु भगवान् शान्तितोयस्य देवता ।
नरो नारायणश्चैव हरिः कृष्णस्तथैव च ॥ ३०१ ॥
View Verse
आग्नेयादीशपर्यन्तं देवता मङ्गलाम्भसः ।
परिमार्जनसंज्ञे तु शङ्खः स्यादधितैवतम् ॥ ३०२ ॥
View Verse
कुशोदकस्य पझं स्याद्गदा स्यात् सक्तुनो द्विज ।
वनमाला पुष्पतोये चक्रं स्यादौपमानिके ॥ ३०३ ॥
View Verse
किरीटमधिदैवं तु भवेदामलकाम्भसः ।
कौस्तुभस्तिलतोयस्य श्रीवत्सस्तण्डुलाम्भसः ॥ ३०४ ॥
View Verse
एकाशीतिस्थितानां तु शुद्धोदानां तु देवता ।
कान्त्याद्युन्नतिपर्यन्तमष्टकं प्रतिदिक्क्रमात् ॥ ३०५ ॥
View Verse
बहिरेकोनपञ्चाशच्छुद्धतोयेषु च क्रमात् ।
स्वधादिगायत्र्यन्तास्तु शक्तयो ह्यधिदेवताः ॥ ३०६ ॥
View Verse
अष्टावष्टौ तु पूर्वादिदिक्ष्वगन्यादिविदिक्षु च ।
अन्येषां स्नपनानां तु सर्वेषां द्विजसत्तम ॥ ३०७ ॥
View Verse
मर्यादा चैव हृष्टिश्च शुद्धोदेष्वधिदेवता ।
कलशानां तु गरुडः शेषः सूत्रस्य दैवतम् ॥ ३०८ ॥
View Verse
कूर्चानां तु परं ब्रह्न चक्रिकानां तु चक्रराट् ।
वाससां वासुदेवस्तु सर्वेषां च स एव वा ॥ ३०९ ॥
View Verse
मार्जनं प्रोक्षणं चैव शकृता चानुलेपनम् ।
सूत्रपातमलङ्कारं पिष्टचूर्णैः समन्ततः ॥ ३१० ॥
View Verse
द्वादशाक्षरमन्त्रेण कारयेत् पञ्च मन्त्रवित् ।
पञ्चोपनिषदा मन्त्री कलशानधिवासयेत् ॥ ३११ ॥
View Verse
विष्णुगायत्रिया तत्र कोष्ठेषु कलशान् न्यसेत् ।
तत्र द्रव्याधिदेवानां वाचकैः पूरयेत् क्रमात् ॥ ३१२ ॥
View Verse
कूर्चांस्तु प्रक्षिपेत्तेषु द्विषट्कब्रह्नविद्यया ।
तत्तद्द्रव्याधिदेवांस्तु तत्तद्द्रव्येषु पूजयेत् ॥ ३१३ ॥
View Verse
चक्रिकाः स्थापयेत् पश्चाच्चक्रमन्त्रेण साधकः ।
वासोभिश्छादयेत् पश्चाद्द्विषट्कार्णेन मन्त्रवित् ॥ ३१४ ॥
View Verse
वस्त्रापनयनं कुर्यान्मूलमन्त्रेण मन्त्रवित् ।
प्रणवेन तु सूत्राणि च्छित्त्वा तेनाभिवन्द्य च ॥ ३१५ ॥
View Verse
उद्ध्त्य विष्णुगायत्र्या दद्याद्धस्ते गुरोस्तथा ।
यस्मिन् यस्मिन्न मन्त्रोऽत्र विहितः कर्मणि द्विज ॥ ३१६ ॥
View Verse
द्वादशाक्षरमन्त्रण तत्तत् कुर्याद्विचक्षणः ।
अथवा सर्वकर्माणि द्वादशाक्षरविद्यया ॥ ३१७ ॥
View Verse
पूर्वोक्तः परभेदानां स्नपनानां महामते ।
अर्घ्यादिद्रव्यनिचयः इतरेषां तु कथ्यते ॥ ३१८ ॥
View Verse
विष्णुपर्णी च दूर्वा च पझं श्यामाकमेव च ।
एतानि पाद्यस्याङ्गानि चत्वारि द्विजपुङ्गव ॥ ३१९ ॥
View Verse
गन्धपुष्पेऽक्षतफले यवसिद्धार्थकं तिलम् ।
कुशाग्रमर्घ्यस्याङ्गानि ह्येतान्यष्टौ भवन्ति हि ॥ ३२० ॥
View Verse
लवङ्गजातितक्कोलमङ्गमाचमनीयके ।
शकृद्रसं च गोमूत्रं क्षीरं दधि घृतं तथा ॥ ३२१ ॥
View Verse
अङ्गानि पञ्चगव्यस्य पञ्चैतानि च सर्वतः ।
शम्योदुम्बरबिल्वानां पलाशवटयोस्तथा ॥ ३२२ ॥
View Verse
खदिराश्वत्थयोश्चापि विकङ्कततरोस्तथा ।
त्वक्सारं तु कषायं स्यात् सर्वपापापनोदनम् ॥ ३२३ ॥
View Verse
कुष्ठं मांसी हरिद्रे द्वे मुराशैलेयचम्पकाः ।
वचाकच्चोरमुस्ताश्च सर्वौषध्यः प्रकीर्तिताः ॥ ३२४ ॥
View Verse
पलाशबिल्ववकुलकदम्बाम्रशिरीषजाः ।
न्यग्रोधाश्वत्थजाश्चापि पल्लवाः पत्रवारिणः ॥ ३२५ ॥
View Verse
केतकीमल्लिका जातिनन्द्यावर्तोत्पलोद्भवाः ।
पझचम्पककुन्दोत्थाः कुसुमाः पुष्पवारिणः ॥ ३२६ ॥
View Verse
कदलीविल्वचूताश्च पनसं मातुलङ्गकम् ।
नालिकेरं चामलकं बीजपूरं फलाम्भसः ॥ ३२७ ॥
View Verse
अङ्गान्येतानि विप्राष्टौ फलानि कथितानि वै ।
यवगोधूमकत्रीहिशालिमुद्गप्रियङ्गुकाः ॥ ३२८ ॥
View Verse
माषनीवारकौ चाङ्गं कथितं बीजवारिणः ।
बाह्लीकं चन्दनं चैव कर्पूरमगरुं तथा ॥ ३२९ ॥
View Verse
गन्धाङ्गानि च चत्वारि त्वथवा मुनिपुङ्गव ।
चन्दनं कुङ्कुमं मांसी हरिबेरं मुतं तथा ॥ ३३० ॥
View Verse
उशीरं कुष्ठमगरु गन्धाम्भो ऽङ्गं तु चाष्टकम् ।
सूर्यकान्तं पझरागमिन्द्रकान्तं तथैव च ॥ ३३१ ॥
View Verse
वैडूर्यं चाप्ययस्कान्तमिन्द्रनीलप्रवालकौ ।
गरुडं पुष्यरागं च स्फटिकब्रह्नरागकौ ॥ ३३२ ॥
View Verse
वज्रं मौक्तिकमङ्गानि रत्नोदस्य अथवा द्विज ।
मणिमुक्ताफलं वज्रं प्रवालं पुष्यकं तथा ॥ ३३३ ॥
View Verse
रत्नोदकाङ्गान्येतानि पञ्च वै कथितानि ते ।
अपरस्नपनानां तु द्वितीयं नवकं विना ॥ ३३४ ॥
View Verse
तत्र मुक्ताफलं वज्रं गोमेदकेन्द्रनीलकौ ।
पुष्यरागं ब्रह्नरागं चन्द्रकान्तं च विद्रुमम् ॥ ३३५ ॥
View Verse
रत्नाम्भसोऽष्टावङ्गानि ह्यमूनि घदितानि वै ।
सहदेवी शिरीषं च रजनी सूर्यवर्तिनी ॥ ३३६ ॥
View Verse
सदाभद्रा कुशाग्राणि मार्जनाङ्गानि षड् द्विज ।
रुक्मं रूप्यं च ताम्रं चाप्ययस्त्रपुकमेव च ॥ ३३७ ॥
View Verse
अह्गानि कथितान्येव पञ्च वै लोहवारिणः ।
तिलसिद्धार्थनीवारयववेणुयवानि च ॥ ३३८ ॥
View Verse
तुलसीपत्रयुक्तानि शान्तम्भो ऽङ्गानि चैव षट् ।
इन्द्रवल्ल्यङ्कुरं पझमश्वत्थाङ्कुरमेव च ॥ ३३९ ॥
View Verse
एकपझं च चत्वार्यङ्गानि मङ्गलवारिणः ।
नद्यां तटाके वल्मीके पर्वते चैव मृत्तिका ॥ ३४० ॥
View Verse
परिमार्जनवस्तूनि कथितानि द्विजोत्तम ।
शङ्खं चक्रं च कूर्मं च वैनतेयं तथैव च ॥ ३४१ ॥
View Verse
कुर्यात् प्रतिकृतिं लोहैरौपमानिकमुच्यते ।
शुद्धोदकलशाः सर्वे चन्दनैकाङ्गसंयुताः ॥ ३४२ ॥
View Verse
अथवानन्तकलशं नाम्ना सकलपूरकम् ।
यदेतस्य विधानं त्व क्रमेण श्रृणु विस्तृतम् ॥ ३४३ ॥
View Verse
पूर्ववन्मण्डपं कुर्याच्चत्वारिंशत्करायतम् ।
द्वात्रिंशत्करविस्तारं चतुर्द्वारादिसंयुतम् ॥ ३४४ ॥
View Verse
ध्वजाद्यैरप्यलंकारैः पूर्ववत् सुविभूषितम् ।
आपाद्या वा प्रपामात्रं यथाभिमतदेशगम् ॥ ३४५ ॥
View Verse
यागार्थमण्डपं प्राग्वत् कल्पयेत् तत्समीपतः ।
उक्ते दिनेऽङ्कुरारोपं कृत्वा कर्मदिनात् पुरा ॥ ३४६ ॥
View Verse
तदर्थान् सर्वसंभारान् संभृत्य सुसमाहितः ।
देशिकेन्द्रस्तु पूर्वेद्युः सुस्नातश्च कृताह्निकः ॥ ३४७ ॥
View Verse
भूषणैर्विविधैर्वस्त्रैर्नूतनैश्च विभूषितः ।
सितोष्णीषोत्तरीयश्च चित्रैर्माल्यैरलंकृतः ॥ ३४८ ॥
View Verse
चतुर्भिरष्टभिर्वा र्यैस्तादृशैरपि साधकैः ।
तत्संख्यैः शास्त्रकुशलैः कञ्चुकादिविभूषितैः ॥ ३४९ ॥
View Verse
अन्यैश्च सुसितैर्वस्त्रैः स्थगितानननासिकैः ।
तत्तत्प्रयोगकुशलैरनेकैः परिचारकैः ॥ ३५० ॥
View Verse
प्राप्तेऽपराङ्णसमये कृत्वा द्वार्स्थार्चनं विशेत् ।
यागार्थमण्डपं तत्र देवं कुम्भादिके यजेत् ॥ ३५१ ॥
View Verse
तत्रैव वा यजेद्बिम्बं बह्नौ सन्तर्प्य पूर्ववत् ।
ततोऽनुज्ञां समादाय क्रमेण मुनिपुङ्गव ॥ ३५२ ॥
View Verse
अनुकल्पविधाने तु प्रासादं संप्रविश्य च ।
मूलबिम्बं तु संपूज्य अर्घ्यालभनमाल्यकैः ॥ ३५३ ॥
View Verse
धूपेन च ततोऽनुज्ञां समादायारभेत् ततः ।
द्वार्स्थाभ्यर्चनपूर्वं तु विशेत् स्नपनमण्डपम् ॥ ३५४ ॥
View Verse
प्रोक्षयेत् पञ्चगव्येन द्विषट्कार्णेन सर्वतः ।
नानाविधानि पुष्पाणि विकिरेत् सर्वदिक् तथा ॥ ३५५ ॥
View Verse
सिद्धार्थकांश्च बीजानि ततो मण्डपमध्यतः ।
सार्धद्वाविंशतिकरं भजेत् क्षेत्रं तु पञ्चधा ॥ ३५६ ॥
View Verse
एकैकं नवधा भूयश्चचत्वारिंशच्च पञ्च च ।
पङ्क्तयश्चापि कोष्ठानां पञ्चविंशोत्तरं भवेत् ॥ ३५७ ॥
View Verse
द्विसहस्रं ततो मध्ये कलशस्थापनार्थतः ।
एकाशीति च कोष्ठानि संस्थाप्य परिमार्जयेत् ॥ ३५८ ॥
View Verse
परितोवीथये पङ्क्तिद्वितयं तद्बहिः पुनः ।
पूर्वादिदिक्चतुष्के तु एकाशीतिपदानि च ॥ ३५९ ॥
View Verse
कल्पयेत् पार्श्वतो वीथ्यै पुनः पङ्क्तिद्वयं भवेत् ।
चतुर्षु कोणेष्वेकोनपञ्चाशत्कोष्ठकानि तु ॥ ३६० ॥
View Verse
कल्पयेत्तत्र चाप्येकाशीतिमध्यानुसारतः ।
मध्यतो नवकं स्थाप्य पङ्क्त्यैकां लोपयेत् परि ॥ ३६१ ॥
View Verse
बहिः पङ्क्तिद्वये दिक्षु षट्कं षट्कं विदिक्षु च ।
चतुश्चतुश्च संस्थाप्य शेषाणि परिमार्जयेत् ॥ ३६२ ॥
View Verse
तद्बहिः परितो वीथ्यै लुम्पेत् पङ्क्तिद्वयं ततः ।
कोणानि कल्पयेद्यत्नात् पदषोडशकानि तु ॥ ३६३ ॥
View Verse
तत्पार्श्वे लोपयेत् पङ्क्तिमेकैकां दिक्चतुष्टये ।
पङ्क्तिद्वयेन द्वाराणामन्तर्भागास्त्रयो बहिः ॥ ३६४ ॥
View Verse
पञ्चपार्श्वे तु शोभार्थं चतुरतर्बहिर्द्वयम् ।
तदन्तः पङ्क्तित्रितये त्नयस्त्रिंशत्पदानि तु ॥ ३६५ ॥
View Verse
वींथ्या सहैकतां नीत्वा ह्येकैकं स्थापयेद्बहिः ।
द्वाराणामपि कोणानां मध्ये षोडशसंख्यया ॥ ३६६ ॥
View Verse
पच्चविंशतिकोष्ठानि स्थापयित्वा तु पार्श्वतः ।
अन्ययोन्यं लोपयेत् पङ्क्तिमेकैकां तु महामुने ॥ ३६७ ॥
View Verse
एवमापाद्य कुम्भानां पदानि स्थापनार्थतः ।
ततः सुगन्धरजसा सितेन सुसमा द्विज ॥ ३६८ ॥
View Verse
अङ्गुष्ठविस्तरोत्सेधा ऋज्वी रेखास्तु कल्पयेत् ।
विकीर्य कोष्ठेषु रजः पश्चाद्द्वाराणि पूरयेत् ॥ ३६९ ॥
View Verse
तेनैव शोभां पीतेन विचित्रैः कुसुमान्वितैः ।
लताबृन्दैर्मुनिश्रेष्ठ वीथीः सर्वत्र भूषयेत् ॥ ३७० ॥
View Verse
ततः संगृह्य कलशान् पूर्वलक्षणलक्षितान् ।
अष्टोत्तरशतं कृत्वा मूलमन्त्रेण वै घृतम् ॥ ३७१ ॥
View Verse
गायत्र्या वा ततो द्वारा चतुष्के पूर्वदिक्क्रमात् ।
द्वौ द्वौ संस्थाप्य कलशौ कुमुदादीन् प्रपूज्य च ॥ ३७२ ॥
View Verse
पुष्पैरभ्यर्च्य कोष्ठानि विचित्रैर्मन्त्नमन्त्नितैः ।
सर्वधान्यैः प्रयत्नेन कल्पयित्वा तु पीठिकाः ॥ ३७३ ॥
View Verse
तासु द्वौ द्वौ कुशाग्रौ च निक्षिपेन्मूलमन्त्रतः ।
सूत्रेण वेष्ठितान् कृत्वा कलशान् पूर्ववद्द्विज ॥ ३७४ ॥
View Verse
गायत्र्या क्षालयित्वा तान् कोष्ठेषु न्यस्य तारतः ।
अधोमुखान् न्यसेत् पृष्ठे परमेष्ठ्यात्मना कुशान् ॥ ३७५ ॥
View Verse
ततः संप्रोक्षयेत् पुंसा पञ्चगव्येन तान् कुशैः ।
विश्वेन विकिरेत् सर्वानक्षतांश्च तदूर्ध्वतः ॥ ३७६ ॥
View Verse
उत्तानये न्निवृत्या तान् क्रमाद्यत्नेन वै ततः ।
गालितेन तु तोयेन सुगन्धैश्चन्दनादिकैः ॥ ३७७ ॥
View Verse
वासितेन तु तान् विप्र सर्वेणापूरयेत् क्रमात् ।
मध्यैकाशीतिमघ्यस्थनवके मध्यकुम्भके ॥ ३७८ ॥
View Verse
सूर्यकान्तं पझरागं वैडूर्यं चन्द्रकान्तकम् ।
अयस्कान्तमिन्द्रनीलं प्रवालं गारुडं तथा ॥ ३७९ ॥
View Verse
पुष्यरागं स्फाटिकं च ब्रह्नरागं च मेचकम् ।
वज्रं च रजतं चैव मौक्तिकं ताम्रमेव च ॥ ३८० ॥
View Verse
सर्वाण्येतानि निक्षिप्य तद्बहिर्नवकाष्टके ।
पूर्वादीशानपर्यन्तं मध्यकुम्भेषु वै क्रमात् ॥ ३८१ ॥
View Verse
द्रव्याणि षोडशैतानि द्वन्द्वयोगेन विन्यसेत् ।
द्विसप्तति च संख्येषु न्यसेच्छेषेषु मौक्तिकम् ॥ ३८२ ॥
View Verse
पूर्वैकाशीतिमध्यस्थनवके मध्यगोचरे ।
कदलीपनसाम्राणां क्षीरिकाबदराख्ययोः ॥ ३८३ ॥
View Verse
मातुलङ्गकेसरयोः ह व्यजम्बीरयोरपि ।
फलानि निक्षिपेत् पश्चात्तद्बहिर्नवकाष्टके ॥ ३८४ ॥
View Verse
प्रागादीशानपर्यन्तं मातुलङ्गं च दाडिमम् ।
नारङ्गं चापि जम्बीरं तक्कोलं बदरीं तथा ॥ ३८६ ॥
View Verse
क्षुद्रपूर्वं च पनसं कदलीमोचके तथा ।
क्रमाद्द्वन्द्वप्रयोगेण मद्यकुम्मेषु विन्यसेत् ॥ ३८७ ॥
View Verse
नवकाष्टककुम्मेषु बदराणि विनिक्षिपेत् ।
उशीर कुङ्कुमं चैव मांसी मलयजं तथा ॥ ३८८ ॥
View Verse
मुरं च हरिबेरं च कुष्ठं चागरुमेव च ।
एकाशीतिपदे याम्ये विश्वान्येतानि निक्षिपेत् ॥ ३८९ ॥
View Verse
मध्ये मध्यस्थकलशे पूर्वादिक्रमयोगतः ।
शेषेषु मध्यकुम्भेषु न्यसेदेकैकजं फलम् ॥ ३९० ॥
View Verse
विनिक्षिपेन्मलयजमेतेषामष्टकेषु च ।
समुद्रवापीकूपानां तटाकानां ह्रदस्य च ॥ ३९१ ॥
View Verse
वृष्टीनदीहिमानां च तोयानि प्रतिपादयेत् ।
वारुणे मध्यमे कुम्भे एकैकं शेषमध्यमे ॥ ३९२ ॥
View Verse
शेषेषु चाष्टवर्ग्येषु शुद्धोदानि विनिक्षिपेत् ।
यवगोधूमकब्रीहिशालिमुद्गप्रियङ्गुकान् ॥ ३९३ ॥
View Verse
माषनीवारकौ वापि नवके मध्यमे घटे ।
शेषेषु धान्यमेकैकं मद्यकुम्भेषु च क्रमात् ॥ ३९४ ॥
View Verse
अष्टकेषु च सिद्धानि तोयानि प्रतिपादयेत् ।
आग्नेयैकोनपञ्चाशन्नवके पूरयेद्घृतम् ॥ ३९५ ॥
View Verse
षट्केष्वैन्द्रादियोगेन गोमूत्रं गोमयं तथा ।
क्षीरं दधि विनिक्षिप्य कोणेषूष्णोदकं न्यसेत् ॥ ३९६ ॥
View Verse
नैरृते मध्यनवके तैलं विन्यस्य तद्बषिः ।
शेषेषु चत्वारिंशत्सु कलशेषु गुलोदकम् ॥ ३९७ ॥
View Verse
वायव्यनवके मध्ये न्यसेत् तैलं तु सार्षपम् ।
कलशेषु च शेषेषु विन्यसेदैक्षवं रसम् ॥ ३९८ ॥
View Verse
ईशानैकोनपञ्चाशन्नवके मधु विन्यसेत् ।
शेषेषु नालिकेराम्भः तत्क्षीरं वापि विन्यसेत् ॥ ३९९ ॥
View Verse
ऐन्द्रादिपञ्चविंशत्सु प्रथमे मध्यमे घटे ।
क्षेत्रतीर्थाब्धिशैलेभ्यः सूकराख्यबिलाद्गजात् ॥ ४०० ॥
View Verse
वल्मीकाद्वृषशृङ्गाच्च मृदमादाय पूरयेत् ।
शेषेष्वष्टसु चैकैकं षोडसे गन्धवारि च ॥ ४०१ ॥
View Verse
सहदेवी वचा चैव शतमूली शतावरी ।
कुमारी च गलूची च सिंही व्याग्री तथैव च ॥ ४०२ ॥
View Verse
द्वितीये मध्यमे कुम्भे विन्यस्य बहिरष्टके ।
एकैकं प्राक्क्रमेणैव षोडशे पूर्ववद्भवेत् ॥ ४०३ ॥
View Verse
न्यग्रोधोदुम्बराश्वत्थजम्बूबिल्वपलाशजैः ।
शिरीषमधुकोत्थैश्च त्वग्रसैर्मध्यमं घटम् ॥ ४०४ ॥
View Verse
तृतीये पूरयित्वाष्टौ व्यस्तैः षोडशपूर्ववत् ।
पलाशबिल्ववकुलकदम्बाम्रशिरीषजान् ॥ ४०५ ॥
View Verse
न्यग्रोधाश्वत्थजान् क्षिप्त्वा चतुर्थे पल्लवान् घटे ।
मध्यमेऽष्टासु च व्यस्तान् प्राग्वत् षोडश विन्यसेत् ॥ ४०६ ॥
View Verse
मल्लिकाजातिवकुलनन्द्यावर्तप्रियङ्गुजैः ।
पझचम्पककुन्दैश्च पुष्पैरापूर्य मध्यमम् ॥ ४०७ ॥
View Verse
कलशं पञ्चमव्यस्तैरष्टौ शेषांस्तु पूर्ववत् ।
सिद्धार्थं सर्षपं माषं रोचनां गोसमुद्भवाम् ॥ ४०८ ॥
View Verse
इन्द्रयवं वेणुयवं शमीश्यामाकबीजके ।
षष्ठे मध्यस्थिते कुम्भे न्यसेदष्टासु च क्रमात् ॥ ४०९ ॥
View Verse
व्यस्तानि तानि द्रव्याणि प्राग्वत् शेषांस्तु षोडश ।
तिलं वनतिलं चैव जीरकं कृष्णजीरकम् ॥ ४१० ॥
View Verse
अतसीं शतपुष्पां च कुठारच्छिन्नमेव च ।
ऋषिबीजं च विन्यस्य मध्यकुम्भे तु सप्तमे ॥ ४११ ॥
View Verse
एकैकं बहिरष्टासु प्राग्वत् षोडशसु द्विज ।
षष्टिश्यामाकशालीनां नीवारस्य च तण्डुलम् ॥ ४१२ ॥
View Verse
दूर्वाकुशेन्द्रवल्लीनामङ्कुरान् पिप्पलस्य च ।
न्यसेन्मध्येष्टमेऽष्टासु व्यस्तानन्येषु पूर्ववत् ॥ ४१३ ॥
View Verse
कुशोदीच्येक्षुकाशानामुशीरशरपुङ्खयोः ।
अगर्वपामा र्गयोश्च मूलानि नवमे न्यसेत् ॥ ४१४ ॥
View Verse
कुम्भे मध्यस्थितेः ऽष्टासु व्यस्तानन्येषु पूर्ववत् ।
तुलस्याः कृष्णतुलस्याश्च ग्रन्थिवेणोरपिच्छदाः ॥ ४१५ ॥
View Verse
भृङ्गराजस्य बिल्वस्य शम्याः केतकि जातयोः ।
दशमे मध्यमेऽष्टासु व्यस्तान् शेषेषु पूर्ववत् ॥ ४१६ ॥
View Verse
मुस्तानगरमुस्ताख्यकन्दे कुवलयस्य च ।
कुमुदोत्पलयोश्चापि शीतलीयककन्दकम् ॥ ४१७ ॥
View Verse
कल्हारस्य कशेरोश्च कन्दे एकादशे क्षिपेत् ।
मध्ये कुम्मेषु चैतानि क्रमादन्येषु पूर्ववत् ॥ ४१८ ॥
View Verse
मुद्गमाषकनिष्पावशिम्बव्रीहियवाङ्कुरान् ।
आढकानां कुलुत्थानामङ्कुरान् द्वादशे क्षिपेत् ॥ ४१९ ॥
View Verse
मध्यकुम्भेऽष्टके व्यस्तान् प्राग्वत् षोडशसु द्विज ।
शङ्खापुष्पी सदाभद्रा विष्णुक्रान्त्येकफझयोः ॥ ४२० ॥
View Verse
बलायाः खरमञ्जर्याः सहायाश्च तथैव च ।
अङ्कुरान् सहदेव्याश्च यध्ये कुम्भे त्रयोदशे ॥ ४२१ ॥
View Verse
विन्यस्याष्टासु च व्यस्तानन्येषु प्राग्वदाचरेत् ।
श्वेतार्कं ब्रह्नदण्डीं च तथा ब्रह्नसुवर्चलाम् ॥ ४२२ ॥
View Verse
सरक्तां च विरक्तां च पृश्निपर्णीं स्थिरां तथा ।
परण्डं चापि विन्यस्य मध्ये कुम्भे चतुर्दशे ॥ ४२३ ॥
View Verse
अष्टासु तानि व्यस्तानि प्राग्वदन्येषु विन्यसेत् ।
सुरभीं पझकिञ्जल्कं नागकेसरमेव च ॥ ४२४ ॥
View Verse
पत्रमेलात्वचं चैव लतां कस्तूरिकां तथा ।
जातीफलं च वै पञ्च दशमै मध्यसंस्थिते ॥ ४२५ ॥
View Verse
कुम्भे न्यस्याष्टके व्यस्तं शेषं पूर्ववदाचरेत् ।
सुवर्णं रजतं ताभ्रमायसं त्रपु सीसकम् ॥ ४२६ ॥
View Verse
आरं कांस्यं च विन्यस्य षोडशे मध्यसंस्थिते ।
कलशेऽष्टासु च व्यस्तं प्राग्वत् षोडशसु द्विज ॥ ४२७ ॥
View Verse
एवं द्रव्याणि विन्यस्य क्रमेण सुसमाहितः ।
तत आग्नेयकोणे तु देवस्याराधनार्थतः ॥ ४२८ ॥
View Verse
अर्घ्यादेर्द्रव्यनिचयं मधुपर्कं च विन्यसेत् ।
ततो निरृतिकोणे तु सरिद्राशालिपिष्टके ॥ ४२९ ॥
View Verse
दूर्वामश्वत्थपत्रं च सिद्धार्थं च तथाक्षतम् ।
माल्यानि पूर्वकुम्भं च न्यसेन्नीराजनार्थतः ॥ ४३० ॥
View Verse
तथाचोद्वर्तनार्थं च चूर्णं गोधूमशालिजम् ।
रजनीचूर्णसंमिश्रमीषत् पझकभावितम् ॥ ४३१ ॥
View Verse
चमषीं च खलिं चैव तथा च मुनिपुङ्गव ।
चन्दनं मुखलेपार्थं घृष्टकर्पूरभावितम् ॥ ४३२ ॥
View Verse
चम्पकैर्मुरमांसीभ्यां हरिबेरैः समन्वितम् ।
पिष्टमामलकं चैव शिरः स्नानार्थकं न्यसेत् ॥ ४३३ ॥
View Verse
पृथक् पृथक् च पात्रेषु ततो वायव्यकोणके ।
धौतवस्त्रं करण्डं च पुष्पमाल्यादिभाजनम् ॥ ४३४ ॥
View Verse
तत ईशानकोणे तु शलाकान्यायसानि तु ।
आयसा गुलिकाश्चैव तथा सन्दंशनं द्विज ॥ ४३५ ॥
View Verse
अन्यद्यदुपयोगि स्यात् स्थापयेत् तद्यथारुचि ।
एतदुक्तं समस्तं वा यथाभिमतकोणगम् ॥ ४३६ ॥
View Verse
मध्यैकाशीतिमध्यस्थनवके मध्यसंस्थिते ।
कुम्भे यजेद्वासुदेवं ततः प्रागादियोगतः ॥ ४३७ ॥
View Verse
दिक्स्थानां नवकानां तु मध्येषु प्रभवक्रमात् ।
चतुरो वासुदेवादीन् विदिक्स्थानां तु मध्यतः ॥ ४३८ ॥
View Verse
ईशादिवह्निपर्यन्तं तानेवाप्यययोगतः ।
मध्यं शुद्धद्ककुम्मेषु सत्यं सर्वेषु पूजयेत् ॥ ४३९ ॥
View Verse
बहिर्दिङ्नवकानां तु शुद्धोदेषु च दिक्क्रमात् ।
सुपर्णं गरुडं चैव तार्क्ष्यं तु विहगेश्वरम् ॥ ४४० ॥
View Verse
वह्न्यादीशानपर्यन्तं नवकानां चतुष्टये ।
शुद्धोदेषु च तानेव क्रमेण परिपूजयेत् ॥ ४४१ ॥
View Verse
एकाशीतिषु दिक्स्थेषु पूर्वादिक्रमयोगतः ।
मध्यकुम्भेषु षट्त्रिंसशत्संख्यातेषु यथाक्रमम् ॥ ४४२ ॥
View Verse
पझनाभादयो विप्र देवा वेदविदन्तिमाः ।
पूज्या नवकयुक्त्या तु मध्यादिशानपश्चिमम् ॥ ४४३ ॥
View Verse
मध्ये शुद्धोदकुम्भेषु यजेत् कल्किकस्वरूपिणम् ।
वहिर्नवकशुद्धोदकलशेषु यजेत् प्रभुम् ॥ ४४४ ॥
View Verse
पातालशयनाख्यं तु पश्चादग्निदिगादितः ।
चतुर्षु कोणेष्वेकोनपञ्चाशन्नवकेषु च ॥ ४४५ ॥
View Verse
मध्येषु केशवादीनां क्रमात् त्रिकचतुष्टये ।
आद्यान् दिक्स्थेषु कुम्भेषु द्विदीयांस्तु चतुर्ष्वपि ॥ ४४६ ॥
View Verse
विदिक्स्थेषु तृतीयांश्च षट्कं षोडशके क्रमात् ।
चक्रादिवज्रपर्यन्तमस्त्रषोडशकं यजेत् ॥ ४४७ ॥
View Verse
कोणस्थेषु चतुष्केषु न्यसेच्छक्तिं ततःपरम् ।
ऐन्द्री दक्षिणतः पञ्चविंशतौ प्रथमे यजेत् ॥ ४४८ ॥
View Verse
सर्वसम्पत्प्रदां लक्ष्मीं मध्यकुम्भेषु तद्बहि ।
अष्टास पुष्टि तद्बाह्य कान्ति षोडशके द्विज ॥ ४४९ ॥
View Verse
एमाद्येषु चान्येषु पञ्चविंशतिषु क्राम ।
प्रभादीना च शक्तीनां त्रिय् त्रिययं यजेत् ॥ ४५० ॥
View Verse
तत्रापि पञ्चदशमे बहिः षोडशके न्यसेत् ।
किरीट मन्ति मे पञ्चविंशतौ त्रितयं यजेत् ॥ ४५१ ॥
View Verse
श्रीवत्सकौस्तुभं चापि वनमालां तथैव च ।
वासुदेवादिमन्त्रैस्तु वनमालान्तिमैः क्रमात् ॥ ४५२ ॥
View Verse
अष्टाविंशतिसंख्यं तु हुत्वाज्यं तु यथारुचि ।
पूर्णान् दत्वा ततः कुम्भान् संपातविधिना स्तृशेत् ॥ ४५३ ॥
View Verse
पिधाय चक्रिकाभिस्तु सर्वानुक्तक्रमेण तु ।
वासोभिश्छादयेत् पश्चान्नूतनैस्तु पऋथक् पृथक् ॥ ४५४ ॥
View Verse
भूयः पूर्णाहुतिं दत्वा दिक्षु भूतबलिं हरेत् ।
मृदादिसर्वरत्नान्तमुद्धारक्रम इष्यते ॥ ४५५ ॥
View Verse
पूर्वं विष्णोर्नुकमिति मन्त्रेण च महामते ।
पूर्वादीशानपर्यन्तं मृत्कुम्भैरभिषिच्य च ॥ ४५६ ॥
View Verse
सर्वमृत्कलशेनैव मध्यस्थेन ततो बहिः ।
कुम्भैः षोडशभिर्विप्र प्रागादिक्रमयोगतः ॥ ४५७ ॥
View Verse
एवमेव क्रमः सर्वपञ्चविंशतिषु द्विज ।
प्रतद्विष्णुरि त्यनेन मूलाद्भिरभिषेचयेत् ॥ ४५८ ॥
View Verse
प्रतत्ते विष्णुवास इति कषायैरन्विताम्बुभिः ।
यस्य त्रिपूर्णे त्येतेन कलशैः पल्लवान्वितैः ॥ ४५९ ॥
View Verse
तदस्ये ति च मन्त्रेण पुष्पैरापूरितैर्घटैः ।
तावामिति च मन्त्रेण सिद्धार्थादिसमन्वितैः ॥ ४६० ॥
View Verse
प्रवः पान्तमि त्येतेन तिलाद्यन्वितवारिभिः ।
परो मात्रे तिमन्त्रेण षष्ट्यादिद्रव्यवारिभिः ॥ ४६१ ॥
View Verse
न ते विष्णो रित्यनेन कुशमूलान्विताम्बुभिः ।
इरावती ति मन्त्रेण तुलस्यादिजलैस्ततः ॥ ४६२ ॥
View Verse
अतो देवे ति मन्त्रेण मुस्ताकन्दादिसंयुतैः ।
इदं विष्णुरि त्यनेन मुद्गाद्यङ्कुरपूरितैः ॥ ४६३ ॥
View Verse
त्रीणि पदे ति मन्त्रेण शङ्खपुष्पादिवारिभिः ।
विष्णोः कर्माणी त्यनेन श्वेतार्काद्यम्बुभिस्ततः ॥ ४६४ ॥
View Verse
तद्विष्णो रिति मन्त्रेण सुरभ्यादिजलैस्ततः ।
तद्विप्रास इत्यनेन स्नापयेल्लोहवारिभिः ॥ ४६५ ॥
View Verse
प्रागेकाशीतिकलशैः स्नापयेत् क्रमयोगतः ।
पूर्वादिमध्यपर्यन्तनवके स्नपनक्रमः ॥ ४६६ ॥
View Verse
ऐन्द्रेण नवकेनादावुरुयज्ञाय इत्यृचा ।
इन्द्राविष्णू दृंहिते ति वह्निदिक्संस्थितेन च ॥ ४६७ ॥
View Verse
इयं मनीषे ति याम्येन नवकेनाभिषेचयेत् ।
वषट् ते विष्णुवासे ति नैरृतेन ततः परम् ॥ ४६८ ॥
View Verse
तिस्रोवाच इत्यनेन वारुणेन महामते ।
योवर्ध ओषधि मन्त्रेण वायव्यनवकेन तु ॥ ४६९ ॥
View Verse
स्तरीरत्वदभवती ति सौम्येन नवकेन तु ।
ईशानदिक्स्थितेनैव यस्मिन् विश्वेति चेत्यृचा ॥ ४७० ॥
View Verse
इदं वचः पर्जन्याये ति स्नापयेन्मघ्यमेन तु ।
याम्येकाशीतिकलशैस्ततः संस्नापयेद्विभुम् ॥ ४७१ ॥
View Verse
सहस्रशीर्षं देव मिति मन्त्रपुरस्सरैः ।
सन्ततं सिराभि रितिपर्यन्तैश्च क्रमेण तु ॥ ४७२ ॥
View Verse
अष्टमन्त्रैर्मुनिश्रेष्ठ प्रागादिनवकाष्टकैः ।
एतैरेव समस्तैस्तु स्नापयेन्मध्यमेन तु ॥ ४७३ ॥
View Verse
एकाशीत्या तु वारुण्या कलशैरभिषेचयेत् ।
समुद्रज्येष्ठा इत्यनेन पूर्वादिनवकेन तु ॥ ४७४ ॥
View Verse
वापीकूपतटाकाब्धिर्ह्रदवृष्टिसमुद्भवैः ।
या आपो दिव्या इति मन्त्रेणैवाभिषेचयेत् ॥ ४७५ ॥
View Verse
नद्यम्भसा स्नापनीत यासां राजे त्यृचा ततः ।
यासु राजे ति मन्त्रेण हिमतोयेन वै ततः ॥ ४७६ ॥
View Verse
समुद्रज्येष्ठपूर्वैस्तु चतुर्भिर्मध्यमेन तु ।
ततोऽभिषिञ्चेत् सौम्यैकाशीतिकुम्भैः क्रमेण तु ॥ ४७७ ॥
View Verse
यदिमा इति मन्त्रेण शाक्रेण नवकेन तु ।
यस्यौषधि रित्येतेन वह्निदिक्संस्थितेन तु ॥ ४७८ ॥
View Verse
साकं यक्ष्मे ति याम्येन अन्यावो इति नैरृते ।
याः फलिनी ति मन्त्रेण वारुण्यां नवकेन तु ॥ ४७९ ॥
View Verse
मुञ्चतु मा शपय्या दिति वायुदिङ्नवकेन तु ।
आपः पुनन्त्वित्य नेन सोमदिक्संस्थितेन तु ॥ ४८० ॥
View Verse
ओषधीः सोमराज्ञी ति मन्त्रैणैशानकेन तु ।
या ओषधीस्सोमराज्ञी विष्ठिता इति मध्यतः ॥ ४८१ ॥
View Verse
ततोऽग्न्येकोनपञ्चाशत्कलशैरभिषेचयेत् ।
गायत्र्या चैन्द्रषट्केन गन्धद्वारे ति याम्यतः ॥ ४८२ ॥
View Verse
पयस्वतीरोषधय इति षट्केन पश्चिमे ।
दधिक्राव्ण इत्यृचा सौम्यषटकेन तत्परम् ॥ ४८३ ॥
View Verse
सम्यक स्रवन्ति सरितः सूक्तेनैव घृतेन च ।
नैरृतैकोनपञ्चाशत्कलशैरभिषेचयेत् ॥ ४८४ ॥
View Verse
तेजोसी त्यादियजुषा तैलेन स्नापयेत्ततः ।
द्वादशाक्षरमन्त्रेण प्राक्क्रमेण गुडोदकेः ॥ ४८५ ॥
View Verse
तेजसीत्यादि मन्त्रेण वायौ तैलेस्तु सार्षपेः ।
द्वादशार्णाख्यमन्त्रेण सर्वैरिक्षुरसैस्ततः ॥ ४८६ ॥
View Verse
मधुवातादिभिर्मन्त्रैः कलशैर्मधुपूरितैः ।
पूर्वोदितेन मन्त्रेण नालिकेरजलैः क्रमात् ॥ ४८७ ॥
View Verse
तेनेवोष्णजलैः पश्चाद्वह्न्यादीशानपश्चिमम् ।
सुतप्तायोगुडक्षेपात् सञ्जातोष्णैस्तदैव तु ॥ ४८८ ॥
View Verse
उद्वर्तयेत्तयो देवं द्रपदा दीति मन्त्रतः ।
शिरस्यामलकं दद्या न्मानस्तोके ति मन्त्रतः ॥ ४८९ ॥
View Verse
प्रक्षाल्य शुद्धतोयैश्च बहुभिश्च सुगन्धिभिः ।
मध्यैकाशीतिकलशैस्ततः संस्नापयेत् क्रमात् ॥ ४९० ॥
View Verse
सहस्रशीर्षे त्यनया ऋचैन्द्रीनवकैर्घटैः ।
अष्टाभिरष्टदिक्संस्थैर्मघ्यमेन द्वितीयया ॥ ४९१ ॥
View Verse
द्वाभ्यां द्वाभ्यां तथा ऋघ्भां क्रमान्नवकसप्तकैः ।
पौरुषेण तु सूक्तेन समस्तेन शनैः शनैः ॥ ४९२ ॥
View Verse
स्नापयेद्देवदेवेशं मध्यस्थनवकेन तु ।
यद्वा सर्वस्य वशिन मित्याद्यैर्मनुभिः क्रमात् ॥ ४९३ ॥
View Verse
महोपनिषदन्तस्थैः दिक्स्थितैः कलशाष्टकैः ।
एक एव नारायण इति मध्यगतेन तु ॥ ४९४ ॥
View Verse
यद्वा द्विषट्कमन्त्रेण सर्वकुम्भैः क्रमेण तु ।
मृदादि सर्वरत्नान्तं स्नापयेद्द्विजसत्तम ॥ ४९५ ॥
View Verse
उद्धार एवं कथितः श्रृणु कर्मक्रमं द्विज ।
प्रभाते तु कृतस्नानः कृतकौतुकमङ्गलः ॥ ४९६ ॥
View Verse
देशिकेन्द्रस्तथान्यैश्च देशिकैश्च समन्वितः ।
प्रासादं संप्रविश्याथ नित्यं निर्वर्त्य पूर्ववत् ॥ ४९७ ॥
View Verse
यागमण्डपमासाद्य रजोभिः पूर्य मण्डलम् ।
कुम्भमण्डलयोरिष्ट्वा प्रासादं संप्रविश्य च ॥ ४९८ ॥
View Verse
ततस्त्वर्घ्यादिभिर्भोगैः मूलबिम्वं तु पूजयेत् ।
तस्मात् स्नपनबिम्बे तु समावाह्य तथैव च ॥ ४९९ ॥
View Verse
इष्ट्वालंकृत्य विविधैर्वस्त्रैर्माल्यैश्च भूषणैः ।
शिबिकादौ समारोप्य सर्वालङ्कारसंयुतम् ॥ ५०० ॥
View Verse
पूर्वोक्तवर्त्मना विप्र निनयेत् स्नानमण्डपम् ।
स्नानपीठे समारोप्य पूर्वोदितविधानतः ॥ ५०१ ॥
View Verse
यथाक्रमं समभ्यर्च्य यावदात्मनिवेदनम् ।
ततस्तु देवदेवस्य कुर्यात् कौतुकबन्धनम् ॥ ५०२ ॥
View Verse
देवस्य पुरतः कुर्याच्छकृता मण्डलं शुभम् ।
पिष्टचूर्णैरलंकृत्य न्यसेत् कोणेषु पालिकाः ॥ ५०३ ॥
View Verse
व्रीहिभिः पीठिकां कृत्वा तदूर्ध्वं विनिवेशयेत् ।
हैमं वा राजतं पात्रं पूरितं शालितण्डुलैः ॥ ५०४ ॥
View Verse
स्वारिमानैस्तदर्धैर्वा ताम्बूलैश्च विभूषितम् ।
तदूर्ध्वे विन्यसेत् सूत्रं पट्टजं तु चतुर्गुणम् ॥ ५०५ ॥
View Verse
मन्त्रयित्वास्त्रमन्त्रेण संपूज्य कुसुमैरपि ।
तत् पात्रं शिरसि स्थाप्य परिचर्यापरस्य च ॥ ५०६ ॥
View Verse
शिष्यस्य मण्डपं पश्चाच्चतुष्कुर्यात् प्रदक्षिणम् ।
सर्वमङ्गलसंयुक्तं प्रासादाभ्यन्तरे यदि ॥ ५०७ ॥
View Verse
प्रथमावरणे वापि द्वितीयावरणेऽथवा ।
प्रदक्षिणचतुष्कं तु कुर्याद्वा संकटे द्वयम् ॥ ५०८ ॥
View Verse
देवस्याग्रे तु तत्पात्रमाधारस्योपरि न्यसेत् ।
कृत्वा पुण्याहघोषं तु देवमर्घ्यादिभिर्यजेत् ॥ ५०९ ॥
View Verse
ततः प्रतिसरं चेष्ट्वा गन्द्यधूपाधिवासितम् ।
कौतुकं देवदेवस्य बन्धयेद्दक्षिणे करे ॥ ५१० ॥
View Verse
संपूज्यार्ग्यादिभिर्भूयस्ताम्बूलैस्तोषयेद्द्विजान् ।
दीक्षितान् वैष्णवांश्चापि देशिकेन्द्रपुरस्सरान् ॥ ५११ ॥
View Verse
आचार्यः स्वयमादद्यात्तदर्धं तण्डुलादिकम् ।
एवं सर्वेषु यागेषु कार्यं कौतुकबन्धनम् ॥ ५१२ ॥
View Verse
कुम्भानां विहितं कर्म न कृतं यदि व पुरा ।
कया त्वनुपपत्या तु तदा तत् सर्वमाचरेत् ॥ ५१३ ॥
View Verse
स्नानासनोदितैर्भोगैः मुखलेपान्तिमैः क्रमात् ।
पूजयित्वा ततः कुम्भैः स्नापयेदुक्तवर्त्मना ॥ ५१४ ॥
View Verse
सर्वेषामपि कुम्भानां स्नानशेषं तु पूरयेत् ।
घटान्तरं तु द्रव्याणामन्तरान्तरयोगतः ॥ ५१५ ॥
View Verse
शुद्धाम्भसा स्नापयित्वा वस्त्रेणार्घ्यादिभिर्यजेत् ।
एवं सुस्नाप्य विधिवद्रजनीचूर्णपूरितैः ॥ ५१६ ॥
View Verse
कौतुकोक्तेन मार्गेण पुरस्तादधिवासितैः ।
पञ्चविंशतिभिः कुम्भैर्नवभिः पञ्चभिस्तु वा ॥ ५१७ ॥
View Verse
एकेन वापि तच्चूर्णं द्विषट्कब्रह्नविद्यया ।
प्रदद्यान्मूर्घ्निदेवस्य भूयश्चार्घ्यादिभिर्यजेत् ॥ ५१८ ॥
View Verse
सर्वाङ्गं परिमृज्याथ भक्तानां मूर्घ्नि दापयेत् ।
विष्वक्सेनस्य दत्वा तु तन्मन्त्रेण ततो द्विज ॥ ५१९ ॥
View Verse
सहस्रधारास्नपनमाचरेच्छद्धवारिभिः ।
सवन्दनादिकं दत्वा ततः पीठात्ततः प्रभुम् ॥ ५२० ॥
View Verse
अलङ्कारासनं नीत्वा आसनादिक्रमाद्यजेत् ।
भोगैः सांस्पर्शिकैः प्राग्वद्विविधैरौपचारिकैः ॥ ५२१ ॥
View Verse
हृदयङ्गमसंज्ञैश्च विचित्रैश्च मनोहरैः ।
एवं द्विजप्रदानान्तं होमान्तं वा प्रपूज्य च ॥ ५२२ ॥
View Verse
शिबिकादौ समारोप्य पूर्ववत् संप्रवेशयेत् ।
प्रदक्षिणक्रमेणैव प्रासादाभ्यन्तरं ततः ॥ ५२३ ॥
View Verse
तत्रावरोप्य तद्बिम्बं स्वस्थाने सन्निवेश्य च ।
इष्ट्वाचार्घ्यादिभिर्भोगैः मूलबिम्बं तथैव च ॥ ५२४ ॥
View Verse
समार्प्य च कृतं कर्म कुर्याच्चैव विसर्जनम् ।
ततश्चौत्सवबिम्बं तद्विचित्रैर्वसनैस्तथा ॥ ५२५ ॥
View Verse
ततश्चोत्सवबिम्बं तद्विचित्रैर्वसनैस्तथा ।
अनेकैर्भूषणै रम्यैर्माल्यैश्च सुसुगन्धिभिः ॥ ५२६ ॥
View Verse
अलंकृत्य समारोप्य शिबिकां संप्रवेशयेत् ।
आस्थानमण्डपं सम्यगुत्सवोदितवर्त्मना ॥ ५२७ ॥
View Verse
तत्रावरोप्य यानाच्च सौवर्णे वितते शुभे ।
भद्रासनेऽथवा विप्र विचित्रास्तरणान्विते ॥ ५२८ ॥
View Verse
यथाक्रमोदितेनैव वर्त्मना संप्रपूजयेत् ।
सांस्पर्शादिकैर्भोगैर्विविधैस्तु विशेषतः ॥ ५२९ ॥
View Verse
महाहविर्निवेद्याथ कृत्वा सर्वं क्रमेण तु ।
द्विजप्रदानपर्यन्तमग्नौ सन्तर्पयेत् क्रमात् ॥ ५३० ॥
View Verse
समर्पणादिकं सर्वं कृत्वा देवं जगत्पतिम् ।
समारोप्य च यानादौ सर्वमङ्गलसंयुतम् ॥ ५३१ ॥
View Verse
प्रवेशयेत्तु प्रासादं यानादेरवरोप्य च ।
स्वस्थाने सन्निवेश्याथ अर्घ्यगन्धादिभिर्यजेत् ॥ ५३२ ॥
View Verse
मूलबिम्बं तथाभ्यर्च्य कृतं कर्म समर्पयेत् ।
स्नानशेषेण तोयेन कुम्भस्थेन क्रमेण तु ॥ ५३३ ॥
View Verse
द्वारस्थान् सकलान् देवांस्तथा चावरणस्थितान् ।
बलिदानक्रमेणैव संप्रोक्ष्य परिपूज्य च ॥ ५३४ ॥
View Verse
बलिं च दत्वा शेषेण गणेशमभिषिच्य च ।
पूजयेदर्घ्यगन्धाद्यैरथवा ह्यनुकल्पके ॥ ५३५ ॥
View Verse
पूजावसाने देवस्य स्नपनव्यक्तिगस्य तु ।
प्रोक्षणं देवतानां च गणेशस्याभिषेचनम् ॥ ५३६ ॥
View Verse
आचरेत् क्रमयोगेन यजमानस्ततो द्विज ।
आचार्यान् साधकांश्चैव तोषयेद्विविधैर्धनैः ॥ ५३७ ॥
View Verse
अन्यांश्च वैष्णवान् सर्वान् यथाशक्ति च तोषयेत् ।
अनिवारितमन्नाद्यं सार्वजन्यं तु कारयेत् ॥ ५३८ ॥
View Verse
एवमेव हि सर्वेषु स्नपनेषु क्रियाक्रमः ।
प्रोक्षणं परिवाराणां बलिदानं च वर्जयेत् ॥ ५३९ ॥
View Verse
महाहविर्विधानं च विभवे सति कल्पयेत् ।
प्रधानादिक्रमेणैव स्नपनानां तु पञ्चकम् ॥ ५४० ॥
View Verse
कुर्यान्नित्यविधौ विप्र तथा नैमित्तिकेऽपि च ।
ततस्तु सूक्ष्मसूक्ष्मादिस्थूलस्थूलान्तपञ्चकम् ॥ ५४१ ॥
View Verse
चातुरात्म्यादिदेवानां कार्यं स्थापनकर्मणि ।
अयने विषुवे चैव ग्रहणे सोप्रसूर्ययोः ॥ ५४२ ॥
View Verse
स्नपनं मुख्यकल्पे तु कुर्यादाद्योत्तमोत्तमम् ।
अनुकल्पे तु तन्मध्यं तन्न्यूनादि चतुष्टयम् ॥ ५४३ ॥
View Verse
अयनद्वयमध्यस्थसंक्रान्तिद्विचतुष्टये ।
आवृत्तिक्रमयोगेन कल्पयेन्मुनिपुड्गव ॥ ५४४ ॥
View Verse
उत्सवारम्भदिवसे तदन्ते च समारभेत् ।
अधमोत्तमसंज्ञं तु तन्मध्यं वानुकल्पके ॥ ५४५ ॥
View Verse
महाहविर्विधाने तु तन्न्यूनं तु समाचरेत् ।
देशकालानुरूपेण द्वितीयं नवकं तु वा ॥ ५४६ ॥
View Verse
तृतीयं वा चतुर्थं वा कल्पयेत्तु यथाक्रमम् ।
प्रायश्चित्तेषु कार्येषु सर्वाण्येतानि कल्पयेत् ॥ ५४७ ॥
View Verse
तेषु स्नपनभेदं तु वक्ष्याम्युपरि विस्तृतम् ।
स्नपनानां विधानं तु दिव्यशास्त्रोक्तवर्त्मना ।
यथावत् कथितं सम्यक्किमन्यच्छ्रोतुमिच्छसि ॥ ५४८ ॥
View Verse

Chapter 15

श्रीः ।
पञ्चदशोऽध्यायः ।
सनक ।
स्वयं व्यक्तविमानस्य प्रादुर्भावप्रसङ्गतः ।
प्रतिष्ठा सूचिता ब्रह्नन् विस्तरेणाद्य मे वद ॥ १ ॥
View Verse
शाण्‍डिल्य ।
श्रूयतामभिधास्यामि यदर्थं चोदितस्त्वया ।
पौष्कराख्ये महाशास्त्रे प्रोक्ता भगवता स्वयम् ॥ २ ॥
View Verse
प्रतिष्ठा वासुदेवेन पौष्करस्य महात्मना ।
सुविस्तरेण सर्वत्र प्रकीर्णा बहुधा स्थिता ॥ ३ ॥
View Verse
सर्वत्र सारमुद्धृत्य तत्प्रसादाद्वदामि ते ।
आद्यवेदोद्भवैर्दिव्यैः साक्षात् सद्ब्रह्नवाचकैः ॥ ४ ॥
View Verse
मन्त्रैर्बलादिकैर्योक्ता प्रतिष्ठा तत्पदप्रदा ।
सिद्धान्तोक्तेन मन्त्रेण साङ्गेनैव बलादिकैः ॥ ५ ॥
View Verse
स्थापना या तु सा प्रोक्ता भोगमोक्षफलप्रदा ।
साङ्गेन मूलमन्त्रेण ज्ञानध्यानान्वितेन च ॥ ६ ॥
View Verse
प्रतिष्ठा विहिता ब्रह्नन् मन्त्रसिद्धिफलप्रदा ।
एकायनाख्यवेदोक्तैर्मन्त्रैरन्यैस्त्रयीमयैः ॥ ७ ॥
View Verse
सिद्धान्तोक्तेन मन्त्रेण साङ्गेन क्रियते च या ।
सा सार्धमैहिकैर्भोगै रणिमादिफलप्रदा ॥ ८ ॥
View Verse
दिव्यैर्बलादिकैर्मन्त्रैः सह चान्यैस्त्रयीमयैः ।
स तु षाड्गुण्यफलदा सह सज्ञफलैर्भवेत् ॥ ९ ॥
View Verse
सह ऋक्सामपूर्वैस्तु मन्त्रैः स्वव्याप्तिसंयुतैः ।
साङ्गेन मूलमन्त्रेण स्थापना या महामते ॥ १० ॥
View Verse
सा सर्वभोगदा चान्ते तथा मन्त्रफलप्रदा ।
केवलैः श्रुतिमन्त्रैस्तु यथावसरलक्षणैः ॥ ११ ॥
View Verse
धारणा भगवदध्यानमन्त्रन्यासेन वै सह ।
देशिकेन्द्रेण या कार्या भक्तानां परमेश्वरे ॥ १२ ॥
View Verse
सामान्या सा परिज्ञेया यज्ञवत् सर्व भोगदा ।
कालक्रमादकामानां सर्वाः परफलप्रदाः ॥ १३ ॥
View Verse
इति मन्त्रविभेदेन सप्तधा परिकीर्तिता ।
द्विजेन्द्रो भगवद्याजी तद्भक्तस्तन्मनाः सदा ॥ १४ ॥
View Verse
निर्द्वन्द्वो नित्यसत्त्वस्थो द्विषट्काध्यात्मचिन्तकः ।
वेत्ता यो व्यूहपूर्वस्य व्यक्तस्य परमात्मनः ॥ १५ ॥
View Verse
बलादिदिव्यमन्त्रेषु यस्य निष्टा परा स्थिता ।
सन्यासं कर्मणां यस्तु करोत्यध्यक्षतः क्रमात् ॥ १६ ॥
View Verse
नित्यसिद्धे तदाकारे तत्परत्वे च सर्वदा ।
यस्यास्ति सक्तिर्हृदये तस्यासौ सन्निधिं भजेत् ॥ १७ ॥
View Verse
मन्त्ररूपी जगन्नाथः परमात्माच्युतः प्रभुः ।
अतस्तेन प्रतिष्ठानं कृतं मुख्याधिकारिणा ॥ १८ ॥
View Verse
विद्धि तन्मुख्यकल्पं तु प्रतिष्ठोक्तफलप्रदम् ।
प्राक् त्रयीधर्मनिष्ठो यः प्राप्तदीक्षो जितेन्द्रियः ॥ १९ ॥
View Verse
मन्त्रज्ञः कर्मकुशलः पञ्चरात्रार्थतत्ववित् ।
स्थापनं यत् कृतं तेन ह्यनुकल्पं च विद्धि तत् ॥ २० ॥
View Verse
परात्परस्वरूपस्य परस्य चतुरात्मनः ।
शान्तोदितादिव्यूहानां केशवाद्यखिलस्य च ॥ २१ ॥
View Verse
तथा विभवमूर्तीनामेकाकारस्वरूपिणः ।
तथा च सर्वजगतामेकबीजात्मकस्य च ॥ २२ ॥
View Verse
सदोदितस्वरूपस्य वासुदेवस्य वै विभोः ।
त्रयाणामच्युतादीनां तद्भेदानां तथैव च ॥ २३ ॥
View Verse
शान्तोदितस्वरूपस्य परस्य चतुरात्मनः ।
या तु सन्धानरूपा सा प्रतिष्ठेति प्रकीर्तिता ॥ २४ ॥
View Verse
पीठब्रह्नशिलाज्ञानस्तम्बस्य चतुरात्मनः ।
चतुर्दिग्वीक्षमाणस्य या तु सन्धानलक्षणा ॥ २५ ॥
View Verse
बोद्धव्या सुप्रतिष्ठा च दिग्व्यूहपरिपूरिका ।
धृतिशक्तिः स्वरूपेण त्वमूर्तेनाव्ययात्मना ॥ २६ ॥
View Verse
स्थितये प्रक्रियार्थं च ब्रह्नपाषाणतां गता ।
सर्वब्रह्नशिलानिष्ठमाक्षितेर्द्विजसत्तम ॥ २७ ॥
View Verse
व्याप्तमामूलतश्चैव तेनामूर्तेन वै पुरा ।
द्रव्यमूर्तिरमूर्ता च गृहीता स्तम्बलक्षणा ॥ २८ ॥
View Verse
अनुग्रहार्थं वर्णानां स्थित्यर्थं दिक्क्रमस्य च ।
अधोर्ध्वाभ्यां विभागार्थं सिद्धये पुनरेव हि ॥ २९ ॥
View Verse
तात्वस्य विशव्पीठस्य जडत्वविनिवृत्तये ।
सम्यक् संवित्तिलाभार्थं तत्वानां भिन्नरूपिणाम् ॥ ३० ॥
View Verse
युक्तिः परिगृहीता च चातुरात्म्यैकलक्षणा ।
एकस्याच्युतबीजस्य भिन्नेषु प्रतिवस्तुषु ॥ ३१ ॥
View Verse
संस्थि स्थितिरच्छिन्ना सा प्रतिष्ठान्त एव हि ।
ज्ञानस्तम्बाविभक्तानामेतेषां चतुरात्मनाम् ॥ ३२ ॥
View Verse
चतुर्दिग्वीक्षमाणानां स्थापना या समीरिता ।
एकदिग्वीक्षितानां च स्थापितानां च पङ्क्तितः ॥ ३३ ॥
View Verse
सा च प्रतिष्ठा विज्ञेया पूर्ववद्द्विजसत्तम ।
भिन्नानां व्यूहमूर्तीनां केशवाद्यखिलस्य च ॥ ३४ ॥
View Verse
प्रादुर्भावसमूहस्य द्व्यादिकस्य च यद्द्विज ।
एकस्मिन् विश्वपीठे तु स्थितिरेकस्य चेच्छया ॥ ३५ ॥
View Verse
प्रतिष्ठाख्यं विशेषं तु स्थापनं समुदाहृतम् ।
चिच्छक्तेरनुविद्धं च अव्यक्तं तत्वविग्रहम् ॥ ३६ ॥
View Verse
दिव्यमूर्तौ चलाख्ये तु नित्यमेकात्मताधिया ।
बिम्बसंस्कारकाले तु अधिवासाभिधे द्विज ॥ ३७ ॥
View Verse
अचलत्वेन सन्मन्त्रैश्चलभावेन वा पुनः ।
साङ्गं सलाञ्छनं चैव कामाच्चाभिमतात्तु वै ॥ ३८ ॥
View Verse
आराधनार्थं हृदयान्न्यस्तं तद्धृदये पुनः ।
समाहरेत् कृतार्थत्वान्नित्यं कालान्तरेण वा ॥ ३९ ॥
View Verse
सुबोधपरिणामेन सत्वेनाऽनिर्मलेन च ।
कालसत्ता इयत्ताख्या परिच्छेदवशात् स्मृता ॥ ४० ॥
View Verse
तमा स्थापनसंस्थं च विशेषं समुदीरितम् ।
संपन्ने ब्रह्नपाषाणसंस्कारे पैठिकेऽपि च ॥ ४१ ॥
View Verse
उद्वर्तनाभ्यञ्जनेन मृद्भूतीर्गोमयादिना ।
शिल्पिदोषोपशमने स्नानमात्रे कृते सति ॥ ४२ ॥
View Verse
निष्पन्ने नेत्रदाने तु स्नाने संपादिते परे ।
उत्थाप्य मूर्तिपाद्यैस्तु गुरुणा वहुभिर्बलात् ॥ ४३ ॥
View Verse
निवेशनममन्त्रं यद्विधिवत् साम्प्रतं कृतम् ।
तृतीयं वज्रलेपेन नित्यमेकात्मता द्विज ॥ ४४ ॥
View Verse
प्राप्ते लग्नोदये मन्त्रन्यासमारणात्तु वै ।
चिच्छक्तेरनुसन्धानात् तत् स्थितस्थापनं तथा ॥ ४५ ॥
View Verse
प्रासादान्तरभित्तीनां लिखितं वाम्बरादिके ।
सिद्ध्यर्थं साधकेन्द्रैस्तु सिद्धिकालावधिं तु वै ॥ ४६ ॥
View Verse
चरबिम्बस्य यन्मन्त्रन्यासं वै सासनस्य च ।
नित्यमाराधनार्थं तु कर्मार्चायामपि द्विज ॥ ४७ ॥
View Verse
तदपि प्रचलाख्यं तु स्थितस्थापनमेव च ।
क्ष्माभङ्गैर्जलपूर्वैस्तु दोषैर्या चातिदूषिता ॥ ४८ ॥
View Verse
उद्धृत्य योजितान्यत्र स्थाने तु शुभलक्षणे ।
सम्यक् संस्थापनाद्भूयः संस्थापन मुदाहृतम् ॥ ४९ ॥
View Verse
विद्युत्प्रपातपूर्वैस्तु दोषैर्या चातिदूषिता ।
तदुत्थाने कृते शश्वन्निर्दोषे चासने सति ॥ ५० ॥
View Verse
तत्समा लक्षणाढ्या च प्रतिमाद्या महामते ।
अन्यस्मिन् वा नवे पीठे विधिवत् परियोजिता ॥ ५१ ॥
View Verse
बोद्धव्यं तद्विशेषं च स्थापनोत्थापनं तु वै ।
आदिमूर्त्यादिभेदेन चलाचलविभागतः ॥ ५२ ॥
View Verse
प्रतिष्ठादिविशेषास्तु अष्टधा परिकीर्तिताः ।
आदिमूर्त्यादिमूर्तीनां भोगपर्यङ्कशायिनाम् ॥ ५३ ॥
View Verse
या तु पीठे मुनिश्रेष्ठ विधिवत् परियोजना ।
संस्थापना च विज्ञेया तथा चाऽस्थापना ॥ ५४ ॥
View Verse
आसीनानां स्थितानां तु स्थापना समुदीरिता ।भवेत् ।
प्रस्थापना सुपर्णस्थमूर्तीनां परिकीर्तिता ॥ ५५ ॥
View Verse
शयनादिविभेदेन चतुर्धा परिकीर्तिता ।
भूयश्च द्विविधं विद्धि बेरैकत्वबहुत्वतः ॥ ५६ ॥
View Verse
शिलया मणिना वापि लौहैर्वापि कृता तु या ।
नित्यादिसकलस्नानविषया रहिता सदा ॥ ५७ ॥
View Verse
कर्मार्चयापि देवीभिः स्थिताप्यासीनतां गता ।
स्थाप्यते केवला मूर्तिः एकबेरं तु विद्धि तत् ॥ ५८ ॥
View Verse
मृद्दारुजं तु यद्बिम्बं कर्मार्चादिसमन्वितम् ।
नित्यादिसर्वस्नानार्थं शक्तिभिः सहितं न वा ॥ ५९ ॥
View Verse
मणिवज्रादिशैलोत्थं निमित्तस्नपनक्षमम् ।
सदा तु नित्यस्नानार्थं कर्मार्चासहितं तु यत् ॥ ६० ॥
View Verse
बृहद्बिम्बं तु लक्ष्म्यादिसहितं रहितं तु वा ।
नित्यनैमित्तिकाद्युक्तसकलस्नपनक्षमम् ॥ ६१ ॥
View Verse
लक्ष्म्यादिभिः समोपेतं यद्बिम्बं शक्तिभिः सदा ।
तदेतत्त्रिविधं विद्धि बहुबेरं महामते ॥ ६२ ॥
View Verse
यत्तु चित्रमयं बिम्बं भित्तिकाष्ठाम्बराश्रयम् ।
कर्मबिम्बसमोपेतं नित्यादिस्नानकर्मणि ॥ ६३ ॥
View Verse
यच्चापि मृण्मयं बिम्बं त्रिविधं चापि चित्रजम् ।
नित्यनैमित्तिकस्नाने दर्पणादिसमन्वितम् ॥ ६४ ॥
View Verse
कर्मबिम्बान्वये योग्यं विभवेच्छानुसारतः ।
एतच्चतुर्विधं विद्धि बहुबेरविशेषकम् ॥ ६५ ॥
View Verse
बहुबेरं यथायोगं स्थितमासीनमेव वा ।
शयानं यानगं वापि भवेदिच्छानुरूपतः ॥ ६६ ॥
View Verse
बहुबेरादिभेदास्तु पञ्चधा परिकीर्तिताः ।
अन्यानि कर्मबिम्बानि यात्राबिम्बपुरस्सरम् ॥ ६७ ॥
View Verse
तत्तत्कर्मविशेषार्थं बहुबेरैकबैरयोः ।
द्वयोश्च कल्पनीयानि विभवस्यानुरूपतः ॥ ६८ ॥
View Verse
साधारं सर्वमूर्तीनां प्रति ष्ठानक्रमं श्रृणु ।
यथोक्तलक्षणोपेतं प्रासाद बिम्बसंयुतम् ॥ ६९ ॥
View Verse
यथाभिमतदिग्वक्त्रं निश्चयीकृत्य वै पुरा ।
भूभागे सति वै कुर्यात्तदग्रे यागमण्डपम् ॥ ७० ॥
View Verse
दिक्त्रये तदभावात्तु तदभावाद्विदिक्षु वा ।
यथाभिमतदेशेषु सौम्ययाम्यदिगायतम् ॥ ७१ ॥
View Verse
आनुगुण्यऽयशुद्धं च शुभं निर्बाधमुच्छ्रितम् ।
त्रिपञ्चाशत्करायामं षोडशाङ्गुलसंमितम् ॥ ७२ ॥
View Verse
द्विसप्तकरविस्तारं विभवेच्छानुसारतः ।
हस्तद्वादशविस्तीर्णं षट्चत्वारिंशदायतम् ॥ ७३ ॥
View Verse
द्विचतुष्काङ्गुलैर्युक्तमष्टत्रिंशत्करायतम् ।
विस्तृतं दशभिर्हस्तैरथवा द्विजसत्तम ॥ ७४ ॥
View Verse
चतुस्त्रिंशत्करं सार्धमायामं नवविस्तृतम् ।
द्विरष्टाङ्गुलसंयुक्तं त्रिंशत्करसमायतम् ॥ ७५ ॥
View Verse
विस्तृतं चाष्टभिर्हस्तैरेवं पञ्चविधं भवेत् ।
सप्तषट्पञ्चहस्तं च तथा सार्धं चतुष्करम् ॥ ७६ ॥
View Verse
चतुर्हस्तं भवेत् पीठं क्रमान्मण्डपपञ्चके ।
मण्डपे मण्डपे कुर्यात् पार्थिवं पीठपञ्चकम् ॥ ७७ ॥
View Verse
स्वविस्तृतेः षंडशेन सर्वेषां परिवर्ज्य च ।
अन्तरालानि विप्रेन्द्र तदुच्छ्रायमथाचरेत् ॥ ७८ ॥
View Verse
चतुर्विंशतिमांशेन स्वेन स्वेन महामते ।
शिष्ठं च परितो वीथिः स्यादेबां पीठकल्पना ॥ ७९ ॥
View Verse
तद्विस्तारोच्छ्रितांस्तम्भान् स्थापयेत् कोणदेशतः ।
तन्मानेन समारोप्याः स्तम्भानां शिरसोपरि ॥ ८० ॥
View Verse
रचनारहिताश्चान्ये दण्डास्तिर्यक्प्रसारिताः ।
सर्वं स्थलांगणं ब्रह्नन् चतुर्दिक्तोरणान्वितम् ॥ ८१ ॥
View Verse
पीठात् तृतीयभागेन विस्तृतं तोरणं भवेत् ।
विस्तारात् त्रिगुणेनैव सर्वेषामुन्नतिः स्मृता ॥ ८२ ॥
View Verse
सचक्रगरुडाः सर्वे त्रिचतुःपञ्चसंख्यया ।
स्वान्तरालप्रमाणेन सस्तम्भास्तोरणाखिलाः ॥ ८३ ॥
View Verse
विनिवेश्याः क्षितौ खात्वा सर्वे चैव सुलक्षणाः ।
चतुरश्रास्त्वधोभागे त्वष्टाश्रा मध्यभागतः ॥ ८४ ॥
View Verse
वर्तुलाश्चोर्ध्वभागाश्च समांशेन विभाजिताः ।
कृत्वैवं भगवद्यागमण्डपं सर्वकर्मणआम् ॥ ८५ ॥
View Verse
उदग्दिक्पीठतश्चोर्ध्वे धिष्ण्यं कुर्यात् कजाङ्कितम् ।
वर्तुलं चतुरश्रं तु प्रकाशाख्यं सुलक्षणम् ॥ ८६ ॥
View Verse
शङ्खचक्रगदापझैरङ्कितं मेखलावनौ ।
द्रव्याणामधिवासार्थं तत्समीपस्थितं तु यत् ॥ ८७ ॥
View Verse
मध्यमे मण्डलं पीठे मन्त्रास्त्रकलशार्चनम् ।
चतुर्थं स्नानकुम्भानां सोषधीनां निवेशने ॥ ८८ ॥
View Verse
तस्मिन्नन्यत्र शयनं पञ्चमं स्नपनासनम् ।
भद्रपीठसमायुक्तं स्नानद्रव्यसमन्वितम् ॥ ८९ ॥
View Verse
पूरितं वालुकाभिश्च कर्तव्यं तु द्विजाऽथवा ।
सद्वारं सगवाक्षं च सकवाटं हि सार्गलम् ॥ ९० ॥
View Verse
कृत्वैवमधिवासार्थं प्राकारं सालयं महत् ।
प्रासादक्षेत्रमानं तु सन्त्यज्य परितस्ततः ॥ ९१ ॥
View Verse
समेखलं सपीठं तु दिक्षु कुण्डाष्टकं लिखेत् ।
अनुकल्पे तु वा कुर्यात् प्राच्यां दिङ्भण्डपाद्बहिः ॥ ९२ ॥
View Verse
तत्पाश्चात्ये तु वा भागे सपीठाः सहतोरणाः ।
सस्तंभा वा पृथक्पीठा विविक्ताश्च परस्परम् ॥ ९३ ॥
View Verse
चातुरात्म्यादिदेवानां ब्रह्नन् स्थापनकर्मणि ।
संस्थितिं श्रृणु कुण्डानां विविधां दिग्विदिक्षु च ॥ ९४ ॥
View Verse
महाविभवसौभाग्य आयुरारोग्यवृद्धये ।
सिद्धये सर्वकर्माणां विघ्नानां विनिवृत्तये ॥ ९५ ॥
View Verse
व्यत्ययादफलं विद्धि मुक्तये समतानघ ।
गदाद्वन्द्वद्वयोपेतं प्राग्दिक्तुर्याश्रमेव वा ॥ ९६ ॥
View Verse
चक्रं दक्षिणदिग्विप्र शङ्खं प्रत्यक्प्रदेशतः ।
पझमुत्तरदिग्भागे यथाभिमतपल्लवम् ॥ ९७ ॥
View Verse
आग्नेय्यां तु समापाद्य कुण्डमश्वत्थपत्रवत् ।
विमुक्तकमलं कुर्यात् त्रिकोणं पूर्ववत्ततः ॥ ९८ ॥
View Verse
होमार्थं या तु दिक्कुण्डमष्टाश्रं वायवे पदे ।
धिष्ण्यं श्रीवत्ससंज्ञं तत् अर्धेन्दुसदृशाकृति ॥ ९९ ॥
View Verse
ऐशान्यां तु समालिख्य लक्षणेनोपलक्षितम् ।
अतोऽपरं सन्निवेशमेकाग्रमवधारय ॥ १०० ॥
View Verse
धिष्ण्यं पूर्वपदे वृत्तमाग्नेय्यां कौस्तुभाकृति ।
चक्रं दक्षिणादिग्भागे शार्ङ्गाकारं तु यातुदिक् ॥ १०१ ॥
View Verse
आप्यां गदाकृतिं प्राग्वन्मालाख्यं वायवे पदे ।
उदग्दिक्कमलाकारं श्रीवत्साकारमीशदिक् ॥ १०२ ॥
View Verse
विस्तारं शम मानं तु सर्वेषां विहितं तु वै ।
द्वादशांशं परित्यज्य ओष्ठार्थं च ततो बहिः ॥ १०३ ॥
View Verse
सुसमं मेखलाबन्धं कुर्यात् तद्विस्तृतेः समम् ।
शम द्वयं भवेत् सर्वं यथा मेखलया सह ॥ १०४ ॥
View Verse
मध्यदेशे तु वृत्तं च तुर्याश्रं वा सुलक्षणम् ।
प्रासादक्षेत्रभूमेर्वै तमेवैशपदे बहिः ॥ १०५ ॥
View Verse
संपाद्यमानं युक्तं वा तर्पणे सर्वकर्मणाम् ।
वास्त्वङ्गविबुधानां च लोकेशानां महामते ॥ १०६ ॥
View Verse
विघ्नेशद्वारपालानां क्षेत्रेशस्य तथा क्षितेः ।
कृत्वैवं भूषयेत् प्राग्वत् सकुण्डं यागमण्डपम् ॥ १०७ ॥
View Verse
चतुरश्रं चतुर्द्वारं दर्भमालान्तरीकृतम् ।
अन्यत्र तदलाभे तु यथाभिमतदिङ्मुखम् ॥ १०८ ॥
View Verse
चतुर्दशकराच्चैव यावत्त्रिंशत्करावधि ।
षट्करान्तं पुनस्तस्माद्बिम्बमानव्यपेक्षया ॥ १०९ ॥
View Verse
कार्या मध्ये स्थला तेषां द्विसप्तांशैस्ततोऽष्टभिः ।
समन्तभद्रा सुश्लक्ष्णा चिता प्केष्टकादिभिः ॥ ११० ॥
View Verse
तालोन्नतैः समारभ्य सामान्येऽस्मिन् हि कर्मणि ।
उन्नताङ्गुलवृद्ध्या तु नीचा तद्ध्रासतः क्रमात् ॥ १११ ॥
View Verse
द्वित्रिरष्टांशकैर्मध्ये सर्वासां मण्डलं भवेत् ।
चतुरश्रं चतुर्द्वारं चक्राम्बुरुहभूषितम् ॥ ११२ ॥
View Verse
दक्षिणे शयनं सौम्ये कुण्डं अग्नेस्तु पूर्ववत् ।
समेखलं द्विहस्तं च चक्रपझाङ्कितं शुभम् ॥ ११३ ॥
View Verse
तदधश्चतुरश्रं प्राक् गदामेखलिकान्वितम् ।
तथा दक्षिणदिग्भागे कुर्याद्वै चक्रचिह्नितम् ॥ ११४ ॥
View Verse
वर्तुलं पश्चिमे सौम्ये कमलाङ्कं मनोहरम् ।
शङ्खाङ्कं सर्वकोणेषु मानमेषां यथोर्ध्वगे ॥ ११५ ॥
View Verse
सर्वे दशान्तहस्तानां चतुर्णामेकमेखला ।
मण्डपानां तु किन्त्वत्र ऊर्ध्वगं सर्वमेखलम् ॥ ११६ ॥
View Verse
ततोऽधः संस्थिताः सर्वे एककुण्डास्तु मण्डपाः ।
तेषां समेखलं चाद्ये द्वाविंशत्यङ्गुलं भवेत् ॥ ११७ ॥
View Verse
ह्रासादङ्गुलयुग्मस्य यावद्वै षोडशाङ्गुलम् ।
स्यात् षट्करे गृहे कुण्‍डं कुर्याद्वै वा मेखलाधिका ॥ ११८ ॥
View Verse
अष्टहस्तोच्छ्रितं पूर्वं ततोर्धकरवर्धितम् ।
त्रयोदशकरादीनां चतुर्णां ह्रासयेत् ततः ॥ ११९ ॥
View Verse
अष्टकं त्वङ्गुलानां तु सप्तपञ्चचतुःक्रमात् ।
न ह्रासः षट्करान्तानां न्यूनानामुच्छ्रितेर्भवेत् ॥ १२० ॥
View Verse
एवं स्नानगृहाणां तु विस्तारश्चोन्नतैः सह ।
किन्तु वै वालुकापीठैर्मध्यतश्चोपशोभितः ॥ १२१ ॥
View Verse
द्विचतुर्भिर्द्विहस्तांशैर्विस्तृताः प्राग्वदुन्नताः ।
स्नानीया अग्रगोहाद्वा दिक्त्रयेऽभिमेत शुभे ॥ १२२ ॥
View Verse
अर्धमानसमं मुख्यात् सुपीठं शयनान्वितम् ।
दृग्दानभवनं कुर्यान्मङ्गल्यकलशैः सह ॥ १२३ ॥
View Verse
सर्वेषां कर्मभूभागं कोणस्तम्भैर्विभूषितम् ।
सुनेत्रैर्वेष्टितं कुर्याच्चक्राद्यैः पूर्ववद्युतम् ॥ १२४ ॥
View Verse
सुस्थिरं दृढपादं च स्नानाम्भोग्रहणक्षमम् ।
अर्धेन वालुकापीठाद्दीर्घमाद्यक्रमेण तु ॥ १२५ ॥
View Verse
वर्धितं चार्धहस्तेन ह्रासितं चतुरङ्गुलैः ।
स्वदैर्घ्यादर्धविस्तीर्णं कृत्वैवं सप्रणालकम् ॥ १२६ ॥
View Verse
तेन तद्वालुकापीठं भूषयेन्मध्यगेन तु ।
यागागारस्य वै दिक्षु द्वारार्थं तत्र चान्तरे ॥ १२७ ॥
View Verse
शमार्धं वृद्धियोगेन ह्रासोऽन्यत्र कलादिकः ।
तोरणानि बहिः कुर्याद्दृढैः काष्ठैः सुपूजितैः ॥ १२८ ॥
View Verse
पञ्चहस्तानि चार्धेन वर्धितानि करेण तु ।
न ह्रासमाचरेत्तेपामन्यत्र करणे सति ॥ १२९ ॥
View Verse
दशमात् पञ्चहस्तानामृते भूमौ प्रवेशयेत् ।
शमार्धं वर्धितानां च द्वे द्वे संवर्धयेत् कले ॥ १३० ॥
View Verse
दैर्घ्यात् प्रवेशशिष्टात्तु त्रिभागेन तदन्तरम् ।
सर्वं चक्रध्वजं कार्यं वस्त्रस्रङ्भञ्जरीयुतम् ॥ १३१ ॥
View Verse
सुधाद्यैर्वर्णकैः पीतैश्चन्दनाद्यैस्तु लेपितम् ।
भिन्नाङ्गमेतदखिलं यथैकस्मिन् हि युज्यते ॥ १३२ ॥
View Verse
कर्म यागगृहे शश्वद्विभूतेर्वावनेर्विना ।
पञ्चत्रिंशत्करं क्षेत्रं स्वतुर्यांशेन विस्तृतम् ॥ १३३ ॥
View Verse
तन्मध्ये तु चतुर्हस्तं चाऽपाद्यं स्थलसप्तकम् ।
स्थलानां व्यवधानं तु कुर्याद्वै तालसंमितम् ॥ १३४ ॥
View Verse
एकापायेन वै कुर्याद्विहस्तान्तस्थलाङ्गणम् ।
क्रमेणाष्टाङ्गुलान्मानाद्व्यङ्गुलं द्व्यङ्गुलं विना ॥ १३५ ॥
View Verse
स्थलानां संकटानां च व्यवधानं द्विगोलकम् ।
एवमेव समुच्छ्रायः सर्वासां परिकीर्तितः ॥ १३६ ॥
View Verse
परितो विहितं वीथेर्मानमत्र स्वपीठजम् ।
एवं वा सङ्कटे कुर्यादाद्योक्तान्मण्डपद्वयात् ॥ १३७ ॥
View Verse
मध्ये मण्डलपीठं तु तस्य दक्षिणदिग्भवेत् ।
समीपे शयनं स्थानकुम्भानां स्थापनायनम् ॥ १३८ ॥
View Verse
एवं हि वामनिकटे भोगानां मन्त्रतर्पणम् ।
ऋग्यजुः सामपूर्वाणां श्रुतीनां हवनं परे ॥ १३९ ॥
View Verse
दृग्दानशयनं स्थाने ह्यन्यस्मिन् शयने हितम् ।
व्यवसायार्थसम्पत्ती देशकालौ तु तज्ज्ञताम् ॥ १४० ॥
View Verse
ज्ञात्वा समाचरेत् सर्वं न न्यूनं नाधिकं तु वा ।
यद्युक्तमविरुद्धं च व्यापकं सम्प्रयोजनम् ॥ १४१ ॥
View Verse
तत्तदभ्यूह्य सर्वत्र कुर्याल्लोभधिया विना ।
यतो यथोक्तं देवानां निष्पद्यति हि वा न वा ॥ १४२ ॥
View Verse
अतो यथोक्तेन विना नावसीदति बुद्धिमान् ।
यथोक्तकरणे च्छिद्रपूरणं परमं स्मृतम् ॥ १४३ ॥
View Verse
भावभक्तिसमेतं च श्रद्धापूतं पुरोदितम् ।
प्रासादस्याष्टदिग्व्योम मूर्तिपानां यथोदितम् ॥ १४४ ॥
View Verse
स्थण्डिलेष्वथ कुण्डेषु तादर्थ्येनाथवा स्वयम् ।
स्वकुण्डे हवनं कुर्याच्चतुर्वेदमथोऽपरे ॥ १४५ ॥
View Verse
समस्तं मूर्तिपीयं वा स्वयमेव समाचरेत् ।
सामग्रीविरहाद्योग्यमूर्तिपानामभावतः ॥ १४६ ॥
View Verse
एवं त्वभिनव कृत्वा यागार्थं मण्डपं द्विज ।
पूर्वोदितैरलङ्कारैरलंकृत्य पृथग्विधैः ॥ १४७ ॥
View Verse
सितरक्तादिभेदेन प्रागादौ तु ध्वजाष्टकम् ।
निवेश्य मध्ये वेद्यां तु पुनरप्ययवत्तथा ॥ १४८ ॥
View Verse
यागमण्डपनिर्माणे भूयो विध्यन्तरं श्रृणु ।
प्राग्वा ह्युदग्वा प्रासादात् त्रिंशद्धस्तैर्द्विजायतम् ॥ १४९ ॥
View Verse
द्व्यधिकैर्मण्डपं कुर्यादन्यद् द्वादशभिः करैः ।
स्यात् तुर्यश्रायतं मध्ये वेदीनां तत्र पञ्चकम् ॥ १५० ॥
View Verse
परितः पञ्चहस्तं च हस्ते हस्तेऽन्रीकृतम् ।
प्रदक्षिणगणोपेतं वितानाद्यैर्विभूषितम् ॥ १५१ ॥
View Verse
वेद्यामुत्तरदिक्स्थायां कुर्यात् कुण्डं सलक्षणम् ।
होमोपकरणं सर्वं तत्रोपरि निवेश्य च ॥ १५२ ॥
View Verse
ततोपरायां वेद्यां तु नेत्रे उन्मीलयेद्द्विज ।
मण्डलं मध्यमायां तु वेद्यामप्येकपङ्कजम् ॥ १५३ ॥
View Verse
प्रस्तार्य चित्रं शयनं चतुर्थ्यां मुनिसत्तम ।
स्नानकर्म ततः कुर्यात् पञ्चमायां तु दक्षिणे ॥ १५४ ॥
View Verse
मण्डपस्य चतुर्दिक्षु कुर्यात् कुण्डचतुष्टयम् ।
प्रासादस्यापि परितः कुर्यात् कुण्डचतुष्टयम् ॥ १५५ ॥
View Verse
तदर्थान् सर्वसंभारान् संभृत्य सुसमाहितः ।
दिने कर्मदिनात् पूर्वे सप्तमे पञ्चभेऽपि वा ॥ १५६ ॥
View Verse
अङ्कुरानर्पयित्वा तु ततः कर्म समारभेत् ।
प्रधानदिवसात् पूर्वदिने देशिकसत्तमः ॥ १५७ ॥
View Verse
स्नातः शुक्लाम्बरः स्रग्वी कृतन्यासः सुशान्तधीः ।
कृताह्निकोऽधिवासार्थं सर्वालङ्कारभूषितः ॥ १५८ ॥
View Verse
सर्वसाधनसंयुक्तं त्वर्घ्यपाद्यसमन्वितम् ।
मङ्गल्यकुम्भमादाय ध्यायमानोऽच्युतं हृदि ॥ १५९ ॥
View Verse
सह चैकायनैर्विप्रैः सदागमपरायणैः ।
तथा ऋङ्भयपूर्वैस्तु आमूलाद्भगवन्मयैः ॥ १६० ॥
View Verse
भेरीपटहवादित्रशङ्खशब्दादिकैः सह ।
ऋग्यजुस्सामपूर्वैश्च प्रशस्ताः संपठन् श्रुतीः ॥ १६१ ॥
View Verse
द्वारपालार्चनं कृत्वा यागागारं प्रविश्य च ।
संस्मृत्य स्वासने व्याप्तिमर्चयित्वोपविश्य च ॥ १६२ ॥
View Verse
मध्यपीठसमीपे तु प्राङ्मुखः पश्चिमे पदे ।
अग्रे मङ्गल्यकलशमाधारस्योपरि न्यसेत् ॥ १६३ ॥
View Verse
विप्रान् ऋङ्भयपूर्वांश्च उपवेश्य च पूर्ववत् ।
पूर्वोक्तस्त्वधिकैर्युक्तो द्रव्यैर्द्रव्यगणः शुभः ॥ १६४ ॥
View Verse
यश्च यत्रोपयोग्यस्तु तत्र तं संप्रवेशयेत् ।
मन्त्राणामुपदेष्टा चाप्यनुकूलो महामतिः ॥ १६५ ॥
View Verse
योक्तव्यः कर्मदक्षस्तु सर्वेष्ववसरेषु च ।
दक्षिणे ह्यात्मनो विप्र एकचित्तः समाहितः ॥ १६६ ॥
View Verse
स्वयं वस्त्वनुसन्धाय हवनार्चनकर्मणाम् ।
आस्ते ह्युत्पत्तिपूर्वाणां न्यासान्तानामनन्यधीः ॥ १६७ ॥
View Verse
करशुद्ध्यादि सर्वं तु चक्रादिन्यासपश्चिमम् ।
सर्वं क्रमेण कृत्वा तु पुण्याहं वाचयेत् ततः ॥ १६८ ॥
View Verse
ओङ्काराद्यं पवित्रान्तं मन्त्राणां प्राक्चतुष्टयम् ।
पाठयेच्च सपुण्याहं गायत्रीत्रितयान्वितम् ॥ १६९ ॥
View Verse
ततश्चात्मानुवादं च आत्मव्यूहं तथैव च ।
विष्णुसूक्तं शाकुनं च शिवसंकल्पमेव च ॥ १७० ॥
View Verse
श्रीसूक्तं चापि शंशूक्तं भद्रसूक्तं यथैव च ।
अद्भिरित्यादिकं यच्च प्रीतिमन्त्रावसानकम् ॥ १७१ ॥
View Verse
पुण्याहं स्वस्ति ऋद्धिं च संवाच्य सह मूर्तिपैः ।
प्रोक्षयेच्छतधारेण स्थानानी त्यादिकेन च ॥ १७२ ॥
View Verse
एवं सर्वेषु यागेषु भवेत् पुण्याहवाचनम् ।
यागं पुरोक्तविधिना त्रिस्थानस्य क्रमाद्यजेत् ॥ १७३ ॥
View Verse
भगवन्तं जगद्योनिं बिम्बमध्ये द्विजोत्तम ।
कुर्यात् सतोरणानां च ध्वजानां स्थापनं ततः ॥ १७४ ॥
View Verse
सत्यादिकं चतुष्कं तु मध्ये वेद्या ध्वजाष्टकम् ।
प्रभवाप्यययोगेन यजेत् प्रागादियोगतः ॥ १७५ ॥
View Verse
उत देवा अवहिता ऋङ्भयान् पाठयेत्ततः ।
प्रागादिदिक्चतुष्केषु तोरणानां चतुष्टये ॥ १७६ ॥
View Verse
सुशोभनं सुभद्रं च सुगन्धं च यजेत् क्रमात् ।
सुहोत्रं च ततश्चक्रं विहगेश्वरसंयुतम् ॥ १७७ ॥
View Verse
उपरिष्टान्मुनिश्रेष्ठ पूजयेत् प्रतितोरणम् ।
एतेषामथवा पूर्वं भवेद् द्वार्स्थैः सहार्चनम् ॥ १७८ ॥
View Verse
पाठयेद्द्वारपालीयं साम सामविदस्ततः ।
अथोर्घ्यपुष्पभृन्मूर्तिधरैर्यायात् सामवृतः ॥ १७९ ॥
View Verse
यत्र तिष्ठति विश्वेशः पीठब्रह्नशिलान्वितः ।
तत्रावलोकनं तेषां कुर्यात् सन्ताडनादिकम् ॥ १८० ॥
View Verse
चक्रास्त्रमन्त्रितैः स्नानकलशैः स्नपयेत्ततः ।
सिद्धार्थकैस्तथा पञ्चगव्यमृदभूतिवारिणा ॥ १८१ ॥
View Verse
वल्मीकमृज्जलेनाथ चक्राङ्कौषधिवारिणा ।
संक्षोभ्याभ्यर्च्य चोद्वर्त्य क्षालयेदस्त्रवारिणा ॥ १८२ ॥
View Verse
तमर्घ्येणार्चयित्वा च ततस्तन्मन्त्रितान् करे ।
सिद्धार्थकान् दक्षिणे तु बध्वाग्रे पाठयेदृचम् ॥ १८३ ॥
View Verse
रक्षोहणं तथा सर्वान्नयेत् प्रतिसरे मणीन् ।
सर्वत्र वेष्टितं कृत्वा समारोप्य रथोत्तमे ॥ १८४ ॥
View Verse
कर्मारम्भं च पठतः तस्य दक्षिणदिङ्न्यसेत् ।
ऋक्सामपूर्वान् वामे तु ब्राह्नणांश्च चतुश्चतुः ॥ १८५ ॥
View Verse
पुरतोऽस्त्रं स्मरनं यायात् स्वयं विघ्नांस्तु सूदयन् ।
सनृत्तगीतवादित्रस्तुतिमङ्गलपाठकैः ॥ १८६ ॥
View Verse
इदं विष्णुर्विचक्रम इति ऋङ्भयैः सह पाठकैः ।
एकायनांस्तदन्ते तु ॐ नमो ब्रह्नणे तु यत् ॥ १८७ ॥
View Verse
तथैव शाकुनं सूक्तं श्रीसूक्तेन समन्वितम् ।
स्वर्णादिनार्थिनः शक्त्या तर्पयंस्तान्निवेशयेत् ॥ १८८ ॥
View Verse
यागभूमिं ततो बिम्बमवरोप्य रथादिकात् ।
निषण्णं दृढकाष्ठोत्थतोरणे सन्निवेश्य च ॥ १८९ ॥
View Verse
स्नानभूमौ ततः कुर्यादस्त्रेणाज्यतिलाहुतीः ।
यद्वा पूर्वं समानीय पीठं ब्रह्नशिलान्वितम् ॥ १९० ॥
View Verse
भूमिष्ठे भद्रपीठे तु वेदिकायां निवेश्य च ।
ततो बिभ्बं समानीय स्थापयेत् पिण्डिकोपरि ॥ १९१ ॥
View Verse
स्थाप्यमाने बृहद्बिम्बे विशेषः कथ्यते श्रृणु ।
पूर्ववत् कर्मशालायां संस्थाप्याकारशुद्धये ॥ १९२ ॥
View Verse
संस्नाप्य विधिना कृत्वा नयनोन्मीलनं ततः ।
स्नपनं बृहादापाद्य केवलं वा बहूदकैः ॥ १९३ ॥
View Verse
स्नानकर्मशिलादीनामीषत् कृत्वा तु सार्चनम् ।
उत्थाप्य मूर्तिपाद्यैस्तु बहुभिस्तु रथस्थितम् ॥ १९४ ॥
View Verse
समानीय ततो यत्नात् प्रासादाभ्यन्तरं तु वै ।
यथावद्रत्नविन्यासपूर्वं पीठे निवेश्य च ॥ १९५ ॥
View Verse
बृहद्बिम्बं ततः कुर्यात् कर्म बिम्बेऽखिलं तु वै ।
सन्निरोधस्तु मन्त्राणां तत्र लघ्नेदये स्मृतः ॥ १९६ ॥
View Verse
आबृहत्स्नपनात्पूर्वं यत्किञ्चदपि तत्र तत् ।
निर्वर्तनीयं पूर्णान्तं बुद्वैवं प्राङ्भहामते ॥ १९७ ॥
View Verse
तथा कार्यं शुभो येन मूहूर्तो नावसीदति ।
एवं हि चित्रपूर्वाणामन्येषां मुनि सत्तम ॥ १९८ ॥
View Verse
सरत्नब्रह्नपाषाणवर्जितानां समापयेत् ।
स्नानाद्यं कर्मबिम्बे तु तत्सममीपेऽथ दर्पणे ॥ १९९ ॥
View Verse
कर्मबिम्बं विना तेषां प्रस्वापाद्यपि विष्टरे ।
कुर्यात् प्रवेशपूर्वं तु सर्वमुत्सवपश्चिमम् ॥ २०० ॥
View Verse
शक्तिभिः कर्मबिम्बैश्च गरुडाद्यैर्यदा सह ।
समाचरेत् प्रतिष्ठानं मूलबिम्बेन वै सह ॥ २०१ ॥
View Verse
तदानीं तानि बिम्बानि यागभूमौ प्रवेशयेत् ।
एवं प्रवेश्य तद्बिम्बं देशिकः सुसमाहितः ॥ २०२ ॥
View Verse
मण्डलाग्रमथासाद्य तत्र बिम्बं निवेदयेत् ।
भगवन् भूतभव्येश त्वय्येवाराधनाय च ॥ २०३ ॥
View Verse
इदं बिम्बं करिष्यामि संस्कृत्य रजनीक्षये ।
एवं निवेद्य स्नानार्थं कलशान् स्थापयेत् पृथक् ॥ २०४ ॥
View Verse
अथवा कर्मदिवसात् तृतीये वासरे पुरा ।
कर्मभूमेः समानीय ब्रह्न पीठशिलान्वितम् ॥ २०५ ॥
View Verse
यागभूमौ तु संस्थाप्य कलशे मण्डलक्षितौ ।
वह्नौ च देवदेवेशमिष्ट्वा पूर्वोक्तवर्त्मना ॥ २०६ ॥
View Verse
यिम्बादिसर्वद्रव्याणामधिवासं यथास्थितम् ।
कल्पयित्वा तु देवस्य कृत्वा बिम्बनिवेदनम् ॥ २०७ ॥
View Verse
अपरेऽहनि संप्राप्ते स्नपनं प्रारभेद्गुरुः ।
यद्वा तृतीयदिवसे प्राग्वदिष्ट्वा क्रमेण तु ॥ २०८ ॥
View Verse
त्रिस्थानस्थं जगन्नाथं कर्मशालां प्रविश्य च ।
प्राप्तेऽपराङ्नसमये बिम्बमाकारशुद्धये ॥ २०९ ॥
View Verse
संस्नाप्य विधिना पश्चाद्बिग्वं तोयेऽधिवास्य च ।
अपरस्मिन् दिने प्राप्ते देशिकस्तु कृताह्निकः ॥ २१० ॥
View Verse
जलादुत्थाप्य तद्बिम्बं यागभूमौ प्रवेशयेत् ।
सनकः ।
जलाधिवासनं कर्म यथावद्वदतांवर ॥ २११ ॥
View Verse
श्रोतुकामस्य मे सम्यक् समाख्याहि सुविस्तरम् ।
शाण्डिल्यः ।
वक्ष्ये जलाधिवासीयं विधानमवधारय ॥ २१२ ॥
View Verse
प्रासादस्य विशुद्ध्यर्थं बिम्बशुद्ध्यर्थमेव च ।
मानोन्माणप्रमाणानामूनाधिक्योपशान्तये ॥ २१३ ॥
View Verse
जगदाप्यायनार्थं च सर्वसम्पूर्णसिद्धये ।
प्रतिष्ठार्थक्रियारम्भात् पूर्वमेव शुभे दिने ॥ २१४ ॥
View Verse
पञ्चगव्यादिना स्नानं पूजाहोमौ तथा जपम् ।
समाचरेत् स्वमन्त्रस्य यत्नैवं न कृतं पुरा ॥ २१५ ॥
View Verse
हेतुना केनचित्तत्र जलवासं समाचरेत् ।
नदीषु दीर्घिकायां वा तटाके निर्झरे ह्रदे ॥ २१६ ॥
View Verse
संभवे सति कुर्वीत जलवासं यथाविधि ।
असंभवे जलद्रोण्यां कटाहे धातुनिर्मिते ॥ २१७ ॥
View Verse
यथासंभवमन्यस्मिन् पात्रे वा मृण्मयादिके ।
अल्पतोये श्मशानान्ते लवणोदपरिप्लुते ॥ २१८ ॥
View Verse
कटुके च कषाये च तिक्ते फेनैश्च दूषिते ।
चैत्यवृक्षसमीपे च नीचावाससमीपके ॥ २१९ ॥
View Verse
वर्णान्तरे युते स्वल्पे ऊषरे शौवलान्विते ।
एवमादिषु दुष्टेषु जलवासं न कारयेत् ॥ २२० ॥
View Verse
एकत्रिपञ्चरात्रं वा जलमद्येऽधिवासयेत् ।
देशकालानुरूपेण सद्यो वा जलवासनम् ॥ २२१ ॥
View Verse
प्रतिष्ठादिवसात् पूर्वं तृतीये पञ्चसप्तमे ।
दिनेऽपराङ्णसमये कर्मशालां प्रविश्य च ॥ २२२ ॥
View Verse
अस्त्रमन्त्रेण संप्रोक्ष्य बिम्बं सन्ताडयेत्ततः ।
सिद्धार्थकेस्तिलैर्दीर्घैरस्त्रमन्त्राभिमन्त्रितैः ॥ २२३ ॥
View Verse
सस्नाप्याकारशुद्ध्यर्थं षडिभः सिद्धार्थकादिकेः ।
वस्त्राभरणपुष्पाद्यैरलंकृत्य च भूषणैः ॥ २२४ ॥
View Verse
पूर्ववत् कौतुकं बद्ध्वा समारोप्य रथादिके ।
पूर्ववच्छ्रुतिघोषैश्च शङ्खभेर्यादिकैः सह ॥ २२५ ॥
View Verse
विविधैर्नृत्तगेयैश्च तथान्यैर्मङ्गलैः सह ।
ग्रामं वा नगरं वापि प्रासादं च प्रदक्षिणम् ॥ २२६ ॥
View Verse
भ्रामयित्वा जलोद्देशमानयेन्मूर्तिपैः सह ।
प्रपायां तु जलाभ्यर्णे अवरोप्य रथादिकात् ॥ २२७ ॥
View Verse
विष्टरे विनिवेश्याथ प्राङ्मुखं वाप्युदङ्मुखम् ।
मण्डपं जलमध्ये तु वातवृष्टिक्षमं शुभम् ॥ २२८ ॥
View Verse
चतुः स्तम्भसमायुक्तं चतुस्तोरणभूषितम् ।
वितानध्वजसंयुक्तं वेष्टितं दर्भमालया ॥ २२९ ॥
View Verse
विचित्रैश्च फलैर्युक्तं द्रुमाङ्गैः पावनैस्तथा ।
मुक्तादामसमायुक्तं स्रग्दामभिरलंकृतम् ॥ २३० ॥
View Verse
कोणप्रदीपसंयुक्तं चामरैरुपशोभितम् ।
पुरैव कारयित्वा तु कुर्यात् पुण्याहघोषणम् ॥ २३१ ॥
View Verse
प्राग्वच्छुद्धिमपां कृत्वा तन्मध्ये विन्यसेत्ततः ।
प्रतिमानुगुणं भद्रपीठमास्तरणान्वितम् ॥ २३२ ॥
View Verse
सोपधानं तदूर्ध्वे तु कल्पयेन्मान्त्रमासनम् ।
अनन्तं कल्पयित्वोर्ध्वे अर्घ्यगन्धादिनार्चयेत् ॥ २३३ ॥
View Verse
द्विषट्कार्णेन बिम्बस्य अर्घ्यं पाद्यं तथैव च ।
आचामं वासितं गन्धमुपवीतोत्तरीयके ॥ २३४ ॥
View Verse
भूषणानि च माल्यानि दीपं धूपं यथाक्रमम् ।
दत्वा कृत्वा घृतारोपं संस्मरेत् संहृतिक्रमम् ॥ २३५ ॥
View Verse
संहारस्य क्रमं वक्ष्ये समाकर्णय सांप्रतम् ।
आत्मानं सर्वगं ध्यात्वा सर्वज्ञं विष्णुमव्ययम् ॥ २३६ ॥
View Verse
कुर्याद्भावान्वितो विष्णोरधिवासनमुत्तमम् ।
प्रणवेन समारोप्य जीवमर्चाभिमानिनम् ॥ २३७ ॥
View Verse
उत्क्रम्यात्मैकतां कृत्वा स्वस्मिन् सर्वेश्वरे हरौ ।
संशोष्य मरुता पृथ्वीं दग्ध्वा बीजान्विताग्निना ॥ २३८ ॥
View Verse
अद्भिः संप्लाव्य तां वायुशुष्कां वह्नौ विलाप्य च ।
संहृत्य वायुना वह्निं वायुमाकाशतां नयेत् ॥ २३९ ॥
View Verse
आध्यात्मिकाधिदेवैस्तु करणैर्विषयैः सह ।
तन्मात्रासंस्थितान्येवं क्रमात् संहृत्य देशिकः ॥ २४० ॥
View Verse
नभो मनसि संहृत्य मनोऽहङ्कति तत्पुनः ।
महत्यात्मनि तं चापि नयेदव्याकृतैकताम् ॥ २४१ ॥
View Verse
शान्तानन्ते परे व्योम्नि निष्कले ज्ञानविग्रहे ।
तं ध्यायेत् परमानन्दे संस्थितं शान्तविग्रहम् ॥ २४२ ॥
View Verse
यस्मिन्नव्याकृतं लीनं स्वस्थं यत् स्वस्वरूपकम् ।
वासुदेवोऽपि विज्ञेयः सर्वात्मा सर्वकृत् प्रभुः ॥ २४३ ॥
View Verse
तस्मिन्नेव तुसंहृत्य पृथिव्यादीनि देशिकः ।
एवं ध्यात्वा यथान्यायं बिम्बं वस्त्रेण वेष्टयेत् ॥ २४४ ॥
View Verse
स्थगयित्वांशुकैर्दिव्यैर्दर्भैः सर्वैः स्रगादिभिः ।
आचार्यो मूर्तिपैर्मन्त्रान् व्यापकांश्चतुरोपि च ॥ २४५ ॥
View Verse
पठद्भिः शाकुनं सूक्तं तथा चान्यैस्त्रयीमयैः ।
आम्नायोद्धोषणपरैः सार्धमादाय तीरतः ॥ २४६ ॥
View Verse
तद्बिम्बं जलमध्ये तु पीठोर्ध्वे शाययेत् स्वयम् ।
अम्भस्येति च मन्त्रेण प्राङ्मूर्धानमुदङ्मुखम् ॥ २४७ ॥
View Verse
दुन्दुभीर्विविधाकारा नादयित्वा दिशो दश ।
जयशब्दैश्च गीताद्यैः सपुण्याहपुरस्सरम् ॥ २४८ ॥
View Verse
आत्मन्यासं क्रमात् कृत्वा दिशोस्त्रेणावबध्नियात् ।
अवलोक्य च नेत्रेण कवचेनावकुण्ठयेत् ॥ २४९ ॥
View Verse
लोकपालान् बहिर्ध्यात्वा स्थानादस्मात् समन्ततः ।
तीरदेशमथ प्राप्य कुम्भं सूत्रेण वेष्टयेत् ॥ २५० ॥
View Verse
वेष्टितं नववस्त्राभ्यां सापिधानं सपल्लवम् ।
संस्थाप्य तद्दक्षिणतः करकं च तथैव हि ॥ २५१ ॥
View Verse
इन्द्रादीशानपर्यन्तं कलशान् परितो न्यसेत् ।
सवस्त्रान् सापिधानांश्च सहिरण्यान् सकूर्चकान् ॥ २५२ ॥
View Verse
कुम्भे विशाखयूपं तु करके च सुदर्शनम् ।
आवाह्यार्घ्यादिनाभ्यर्च्य इन्द्रादीन् कलशाष्टके ॥ २५३ ॥
View Verse
बिम्बस्य शिरसोद्देशे कुम्भं च करकं न्यसेत् ।
अर्चितं परितश्चाष्टौ कलशान् विन्यसेत् क्रमात् ॥ २५४ ॥
View Verse
कोणेषु पालिका न्यस्त्वा अनिर्वाणैश्च दीपकैः ।
दर्शयेच्चक्रमुद्रां च रक्षामुद्रां तथैव च ॥ २५५ ॥
View Verse
अत ऊर्ध्वं न वै कुर्याद्ग्राम्यधर्मं तु तज्जले ।
दारुलोहशिलोत्थानां बिम्बानां जलवासनम् ॥ २५६ ॥
View Verse
साक्षाद्भवेत्तदन्यत्र भवेच्छायाधिवासनम् ।
विधानं तत्र वक्ष्यामि यथा तदवधारय ॥ २५७ ॥
View Verse
स्नानमाकारशुद्ध्यर्थं द्र्पणे तु समाचरेत् ।
अन्यच्च सकलं विप्र प्राग्वद्बिम्बे समाचरेत् ॥ २५८ ॥
View Verse
अग्रतो देवबिम्बस्य छायाधिवसनार्थतः ।
जलद्रोणीं कटाहं वा स्थापयेल्लोहनिर्मितम् ॥ २५९ ॥
View Verse
मृण्मयं दारुजं वापि भाजनं धान्यसञ्चये ।
पूरयेद्गन्धतोयेन शुद्धस्फटिकवर्चसा ॥ २६० ॥
View Verse
पूर्ववद्विष्टरं कृत्वा दर्भमञ्जरिजं शुभम् ।
अष्टाविंशतिदर्भोत्थं कूर्चं कृत्वा द्विजोत्तम ॥ २६१ ॥
View Verse
देशिकेन्द्रो विधानेन तत्रावाह्य जगद्गुरुम् ।
अर्घ्यगन्धादिनाभ्यर्च्य स्मृत्वा वै संहृतिक्रमम् ॥ २६२ ॥
View Verse
विष्टरं जलमध्ये तु प्राङ्मूर्धानं तु शाययेत् ।
चक्रमुद्रां प्रदर्श्याथ कुम्भादीन् पूर्ववन्न्यसेत् ॥ २६३ ॥
View Verse
शक्तीनामपि विप्रेन्द्र पूर्ववद्विष्टरं भवेत् ।
अथवा तु त्रिभिर्दर्भैः कूर्चं कुर्याद्विधानतः ॥ २६४ ॥
View Verse
छायाधिवासमात्रं तु तासामपि पृथक् पृथक् ।
सर्बाङ्गं नववस्त्रेण प्रतिमायाः समन्ततः ॥ २६५ ॥
View Verse
झादयित्वा समन्ताच्च सिद्धार्थान् विकिरेत् क्षितौ ।
रक्षोहणेति मन्त्रेण रक्षां कुर्यात् समन्ततः ॥ २६६ ॥
View Verse
अनुक्तमत्र यत् किञ्चित् प्राग्वत्तत् सर्वमाचरेत् ।
मृण्मये भित्तिसंस्थे च बिम्बे छायाधिवासनम् ॥ २६७ ॥
View Verse
अन्तः प्रविश्य प्रासादे देशिकेन्द्रः समाचरेत् ।
अन्येषां यागगेहस्य प्राग्वत् कृत्वा तु मण्टपम् ॥ २६८ ॥
View Verse
कुटीं वा तत्र कुर्वीत छायाधिवसनं गुरुः ।
दारुलोहशिलोत्थानां बिम्बानां विभवे तदा ॥ २६९ ॥
View Verse
जलद्रोण्यादिके पात्रे तोयाधिवसनं चरेत् ।
तदापि जलवासं तु आचरेन्मण्टपान्तरे ॥ २७० ॥
View Verse
यद्वा स्नानार्थकं क्लृप्तमण्डपे वा समाचरेत् ।
अथवा यागसदने स्नानभूमौ तु तद्भवेत् ॥ २७१ ॥
View Verse
एवं जलवाधिवासं तु कृत्वा वै देशिकोत्तमः ।
उपयोग्यं प्रतिष्ठाया यद्यद्द्रव्यमुपार्जितम् ॥ २७२ ॥
View Verse
तत् सर्वं समुपाहृत्य प्रासादं शोधयेत्ततः ।
मार्जनालेपनाद्यैश्च ततो यागनिकेतने ॥ २७३ ॥
View Verse
अकृतं यदलङ्कारं कारयेत् सकलं तु तत् ।
नास्तिकान् भिन्नमर्यादान् देवब्राह्नणनिन्दकान् ॥ २७४ ॥
View Verse
पापरोगयुतानन्यान् निन्दितान् पिशुनांस्तथा ।
पाषण्डिनो हीनवृत्तीन् प्रतिलोमान् समत्सरान् ॥ २७५ ॥
View Verse
लुब्धान् मूर्खानविदुषो बलान्निर्वासयेत्ततः ।
कर्माहाद्वासरे विप्र अपराह्णे गुरुः स्वयम् ॥ २७६ ॥
View Verse
जलाधिवासदेशं तु संप्राप्य सह मूर्तिपैः ।
उत्थाप्य बिम्बमुदकात् कुम्भं च कलशानपि ॥ २७७ ॥
View Verse
उद्बास्य देवतास्तत्स्थास्तद्बिम्बं तीरविष्टरे ।
प्राङ्मुखं समवस्थाप्य वारिभिः क्षालयेत्ततः ॥ २७८ ॥
View Verse
लोहजं चेद्विशुद्ध्यर्थं तित्रिणीफलवारिणा ।
प्राग्वत् सृष्टिक्रमं कृत्वा विधानेन महामते ॥ २७९ ॥
View Verse
वस्त्राभरणपुष्पाद्यैरङ्कृत्य मनोहरैः ।
यानमारोप्य तद्बिम्बं शङ्खभेर्यादिसंयुतम् ॥ २८० ॥
View Verse
ग्रामं प्रदक्षिणीकृत्य ह्यालयं वा समानयेत् ।
यागगेहं तु यानादेरवरोप्य निवेशयेत् ॥ २८१ ॥
View Verse
स्थाने पूर्वोदिते पश्चादारभेत् स्नपनं गुरुः ।
लेख्यादौ संप्रविश्याथ प्रासादं मूर्तिपैः सह ॥ २८२ ॥
View Verse
प्राक् चाधिवासितं कूर्चं जलात्तस्मात् समुद्धरेत् ।
बिम्बाच्च वस्त्राभरणमाल्यान्यपनयेत् ततः ॥ २८३ ॥
View Verse
पीठे तु स्नानकुम्भानां स्थापनार्थं तु कल्पिते ।
पूर्वोदितं स्थूलपरं स्नपनं स्थापयेद्द्विज ॥ २८४ ॥
View Verse
पूर्वादिपश्चिमाशान्तं पृथक् स्नपनमण्डपम् ।
विहितं यत्न तत्रैव देवदेवस्य वामतः ॥ २८५ ॥
View Verse
यातुधानपदं यावदग्निकोणादितो न्यसेत् ।
स्नपनं स्थूलपराख्यं स्थूलसूक्ष्मं तु पृष्ठतः ॥ २८६ ॥
View Verse
ईशकोणात् समारभ्य यावदाग्नेयगोचरम् ।
देवस्य दक्षिणे पार्श्वे ईशानाद्वायुपश्चिमम् ॥ २८७ ॥
View Verse
स्थूलस्थूलाभिधं स्नानं स्थापयेत् क्रमयोगतः ।
अधिवासदिने कुर्यात् स्नानं स्थूलपराभिधम् ॥ २८८ ॥
View Verse
प्रतिष्ठादिवसे कुर्यात् स्नपनं स्थूलसूक्ष्मकम् ।
चतुर्थे दिवसे स्नपनं स्थूलस्थूलाभिधं भवेत् ॥ २८९ ॥
View Verse
तदा तत्तद्दिने तत्तत् स्नपनं स्नापयेद्गुरुः ।
एवं हि स्नानकलशान् क्रमात् संस्थाप्य पूर्ववत् ॥ २९० ॥
View Verse
तदर्पणावसानेऽथ शयनं कल्ययेद्द्विधा ।
नयनोन्मीलनार्थं तु शयनं कल्पयेत् पुरा ॥ २९१ ॥
View Verse
द्वादशाक्षरमन्त्रेण पीठं संप्रोक्षयेत्ततः ।
प्रागग्रानुदगग्रान् वा दर्भानास्तीर्य पुष्कलान् ॥ २९२ ॥
View Verse
पञ्चभारमितान् शालीनथवा चार्धसंमितान् ।
वृत्तं वा चतुरश्रं वा कम्बलानुपरि न्यसेत् ॥ २९३ ॥
View Verse
उपधानानि चित्राणि शयनाङ्गानि कल्पयेत् ।
मङ्गल्यकुम्भान् संस्थाप्य दिगष्टकसमाश्रितान् ॥ २९४ ॥
View Verse
ततो बिम्बाधिवासार्थं शयनं परिकल्पयेत् ।
तदर्धं वेदिकौर्ध्वे तु कुर्यात् स्वस्तिकमण्डलम् ॥ २९५ ॥
View Verse
रजसा कुसुमैर्वाथ चतुर्वर्मऐर्महोज्वलैः ।
प्रागग्रानुदगग्रांश्च दर्भान् संस्तीर्य तत्परम् ॥ २९६ ॥
View Verse
पञ्चभारप्रमाणेन शालींस्तत्र विनिक्षिपेत् ।
तदर्धं तण्डुलं शुद्धं तदर्धं तु तिलं तथा ॥ २९७ ॥
View Verse
उपर्युपरि निक्षिष्य लाजानूर्ध्वे तु विन्यसेत् ।
काष्ठजं सुदृढं स्निग्धं चतुर्गात्रसमन्वितम् ॥ २९८ ॥
View Verse
चतुष्पादसमायुक्तं चतुरश्रायतं ततम् ।
खट्वासंज्ञितपयङ्कं तदूर्ध्वे स्थापयेत्ततः ॥ २९९ ॥
View Verse
दुकूलं मृदुतल्पं च विन्यसेत् सोपरिच्छदम् ।
केवलं तल्पमात्रं वा विन्यसेदथवा द्विज ॥ ३०० ॥
View Verse
खट्वातूले विवर्ज्याथ लाजोर्ध्वे रत्नकम्बले ।
न्यसेदभिनवं पश्चाद्वस्त्रं कार्पासजं नवम् ॥ ३०१ ॥
View Verse
क्षौमवस्त्रं न्यसेन्मध्ये चित्रवस्त्रं ततोपरि ।
शिरोपधानसंयुक्तं पादगण्डूकसंयुतम् ॥ ३०२ ॥
View Verse
सर्वानभिनवान् शुभ्रान् सकपोलोपधानकान् ।
सुगन्धधूपितान् वस्त्रान् कुसुमामोदसंमितान् ॥ ३०३ ॥
View Verse
इन्द्रादीशानपर्यन्तं कलशान् सूत्रवेष्टितान् ।
तोयपूर्णान् समान् स्निग्धान् सापिधानान् सवस्त्रकान् ॥ ३०४ ॥
View Verse
सुरत्नपल्लवैर्युक्तान् धान्यराशिषु निक्षिपेत् ।
शङ्खचक्रगदापझध्वजैश्चेन्द्रादिषु क्रमात् ॥ ३०५ ॥
View Verse
श्रीवत्सं गरुडं कूर्मं सौवर्णं तेषु निक्षिपेत् ।
मध्ये मध्ये च कुम्भानां धान्योर्ध्वे मङ्गलान् न्यसेत् ॥ ३०६ ॥
View Verse
वस्त्रैराच्छादितास्तद्वन्न्यसेत् कोणेषु पालिकाः ।
एवं शयनयुग्मं तु प्रकल्प्य तदधो यजेत् ॥ ३०७ ॥
View Verse
सर्वाधारमनन्तं तु तदूर्घ्वे सर्वगं प्रभुम् ।
प्रभवाप्यययोगेन यजेत् प्रागादियोगतः ॥ ३०८ ॥
View Verse
पाठयेत् सर्पसामादिसंज्ञां ज्ञानबलात्मिकाम् ।
हुत्वा शताष्टसंख्यं तु मूलं तदनुकल्पयेत् ॥ ३०९ ॥
View Verse
मण्डलं पावनै रागैः सिताद्यैर्माङ्गलीयकैः ।
तदूनाधिकशान्त्यर्थं हुत्वा कुण्डगणं ततः ॥ ३१० ॥
View Verse
संस्कुर्यात् प्रतिकुण्डस्य निकटे कुम्भमध्यगम् ।
प्रभवाप्यययोगेन चातुरात्म्यं तु संयजेत् ॥ ३११ ॥
View Verse
ह्रदादि यद्वा दिक्स्थेषु विदिक्स्थेषु तदस्त्रपम् ।
दत्त्वा तदर्थं पूर्णां तु पूर्णात्पूर्णं च पाठयेत् ॥ ३१२ ॥
View Verse
एकायनान् यजुर्मयानाश्रावितमनन्तरम् ।
एवं सर्वं समापाद्य प्रयायाद्बिम्बसन्निधिम् ॥ ३१३ ॥
View Verse
विम्बमर्घ्यादिनाभ्यर्च्य गुरुः स्नपनमारभेत् ।
अथास्त्रमन्त्रेण पुरा मङ्गल्यकलशाम्भसा ॥ ३१४ ॥
View Verse
संसेच्य बिम्बं तदनु स्नापयेत्तन्मृदम्भसा ।
पाठयेत्तत्र कूश्माण्डान् बलमन्त्राननन्तरम् ॥ ३१५ ॥
View Verse
ततो गोमयकुम्मेन इह गावः प्रपाठयेत् ।
भूतिस्तमति नन्त्रेण पाठ्यनानेन भूतिना ॥ ३१६ ॥
View Verse
पञ्चगव्येन तदनु पाठये च्छाव्करं ततः ।
पूर्ववच्च ततोऽभ्यर्च्य विधिवच्चमसाम्वुना ॥ ३१७ ॥
View Verse
क्षालयित्वा जलैः शुद्धैरभिषिच्य ततोऽर्चयेत् ।
शिल्पदोषविनाशार्थं स्नानमेतदुदाहृतम् ॥ ३१८ ॥
View Verse
परिधाय ततो विप्र वाससी अधरोत्तरे ।
नयनोन्मीलनार्थं तु शयनं यत् प्रकल्पितम् ॥ ३१९ ॥
View Verse
तत्र पूर्वशिरस्कं च बिम्बं प्रस्वापयेद्द्विज ।
ततः समन्ताद्बिम्बं तु छादयेत् कम्वलादिभिः ॥ ३२० ॥
View Verse
सौवर्णं राजनं चैव पात्रमाढकपूरणम् ।
धान्यराशौ निधायाग्रे पूरयेत यथाक्रमम् ॥ ३२१ ॥
View Verse
मधुना सर्पिषा चैव ततस्तु मधुपात्रके ।
अर्कमण्डलमध्यस्थं मार्ताण्डायुतसन्निभम् ॥ ३२२ ॥
View Verse
ध्यात्वा मन्त्रेशमभ्यर्च्य तदन्यस्मिन् भहामते ।
चन्द्रमण्डलमध्यस्थं धेनुमुद्रासमन्वितम् ॥ ३२३ ॥
View Verse
मन्त्रै वै सौरभीयं च स्फुरदिन्दुशतप्रभम् ।
तदन्तरस्थ मन्त्रेशं हिमाचलनिभं स्मरेत् ॥ ३२४ ॥
View Verse
तत्स्रुतैरमृतौघैश्च शशिजैर्धेनुजैरपि ।
सुभावितं स्मरेद्बिम्बं मधुवातेति मन्त्रतः ॥ ३२५ ॥
View Verse
घृतादि मन्त्रयेत् पश्चाद्वस्त्रेणाच्छादयेत्तु तत् ।
अष्टाङ्गुला च सौवर्णी शलाका राजती तथा ॥ ३२६ ॥
View Verse
केवला वापि सौवर्णी शलाका स्याद्विजोत्तम ।
अष्टधान्यानि परितः पात्रेषु विनिवेशयेत् ॥ ३२७ ॥
View Verse
गाः कन्यकाः शुभाकारा भूषणैश्चापि भूषिताः ।
आनीय स्थापयेत् पार्श्वे ब्रह्नघोषेण घोषेयेत् ॥ ३२८ ॥
View Verse
स्वयं शलाकां सौवर्णीं कृत्वा नेत्राभिमन्त्रिताम् ।
मध्वक्तां च तया नेत्रं दक्षिणं त्वीषदुल्लिखेत् ॥ ३२९ ॥
View Verse
संस्मरन् परमं ज्योतिर्नेत्रमन्त्रेण देशिकः ।
आज्याक्तया तया वापि राजत्या वाममुल्लिखेत् ॥ ३३० ॥
View Verse
तन्मन्त्रितेन शस्स्त्रेण शिल्पी स्नातोऽवलोकितः ।
यथावत् प्रकटीकुर्याद्विधिदृष्टेन वर्त्मना ॥ ३३१ ॥
View Verse
वारुणं पाठयेत् साम सह चान्द्रेण सामगान् ।
पूरयेन्मधुसर्पिर्भ्यां नेत्रयुग्मं क्रमेण तु ॥ ३३२ ॥
View Verse
वौषडन्तेन मूलेन तेनैव जुहुयात्ततः ।
तन्मुर्ध्नि शशिबिम्बं तु ध्येय तापादिशान्तये ॥ ३३३ ॥
View Verse
सिञ्चन्तममृतौघं तु हृदा द्यन्तेन सेचयेत् ।
व्यपोह्याच्छादनपटं दर्शयेन्मधुसर्पिषी ॥ ३३४ ॥
View Verse
अष्टधान्यानि गाश्चैव कन्यकाः पुरतः स्थिताः ।
मध्वाज्ये च शलाके च प्रदद्याच्छिल्पिने द्विज ॥ ३३५ ॥
View Verse
अष्टधान्यानि गाश्चैव शय्योपकरणं तथा ।
प्रदद्याद्देशिकेन्द्राय साधकः सिद्धिलालसः ॥ ३३६ ॥
View Verse
यद्वा मध्वादिसकलमाचार्याय निवेदयेत् ।
यथाशक्ति तथान्येषां मूर्तिपानां च दक्षिणाः ॥ ३३७ ॥
View Verse
मृण्मये मूलबिम्बे तु भित्तिस्थेऽथ प्रविश्य तु ।
प्रासादं तत्र कुर्वीत नयनोन्मीलनक्रियाम् ॥ ३३८ ॥
View Verse
एवं श्रियादिशक्तीनां नयनोन्मीलनं भवेत् ।
एवं नेत्रे समुन्मील्य बिम्बस्य तु ततः परम् ॥ ३३९ ॥
View Verse
दहनाप्यायने कुर्याद स्त्रेण हृदयेन च ।
आमूर्ध्नो द्वादशार्णं तु मूर्त्यर्थं पूर्ववन्न्यसेत् ॥ ३४० ॥
View Verse
स्नानार्थतः पुरा क्लृप्ते पीठे बिम्बं नयेत्ततः ।
व्याप्तिसत्तासमायुक्ते संस्कृते प्रोक्षणादिना ॥ ३४१ ॥
View Verse
आधारादिक्रमोपेते समालब्धे सुपूजिते ।
पीठेऽवतार्य संवेष्ट्य वाससी ह्यधरोत्तरे ॥ ३४२ ॥
View Verse
अथ क्रमोदितैः कुम्भैः द्विषट्कावर्तितैर्हृदा ।
स्नापयेत् पाठयेद्विप्रानो षधीनामिति श्रुतिम् ॥ ३४३ ॥
View Verse
या ओषधय इत्यादि ऋग्वेदांस्तदनन्तरम् ।
एवं दशावशिष्टान्तैः सेचिते कलशैः सति ॥ ३४४ ॥
View Verse
ततः कुम्भचतुष्के तु चतुर्भिर्मूर्तिधारकैः ।
ऋक्सामपूर्वैर्विधिवत् स्नपनीयं तु पाठयेत् ॥ ३४५ ॥
View Verse
उदुत्तमं हि ऋग्वेदान् पाठयेदद्रविणं यजुः ।
ततस्तु वारुणं साम सामज्ञोऽथर्वणस्ततः ॥ ३४६ ॥
View Verse
अयं ते वरुणश्चेति पवित्रं तेततो ऋचम् ।
वसोः पवित्रंहि यजुः पाठयेत् सुमहांस्ततः ॥ ३४७ ॥
View Verse
पवित्रं तेहि यत् साम संयोज्यैकायनांस्ततः ।
मूर्तिपान् समुदायेन पावमानीश्चतुष्टयम् ॥ ३४८ ॥
View Verse
तदन्ते परमं मन्त्रं व्यूहीयं भगवानिति ।
पवित्रमन्त्रं तदनुइदं विष्णुर्विचक्रमे ॥ ३४९ ॥
View Verse
ततो विभवमन्त्रैस्तु सर्वैः संमन्त्रितेन च ।
कुम्भेन सेचयित्वा तु व्यूहमन्त्रैः परेण तु ॥ ३५० ॥
View Verse
स्नापयित्वार्चयित्वा च जुहुयात् साधिकं शतम् ।
यथावत् प्रणवेनाथ व्याप्तिं कृत्वा च पाठयेत् ॥ ३५१ ॥
View Verse
माप्रगामे ति ऋग्वेदान् अग्ने नायुर्यजुर्मयान् ।
प्राणापानं हि यत् साम ततः प्राणाय बै नमः ॥ ३५२ ॥
View Verse
यातव्येति परं मन्त्रं विप्रानेकायनांस्ततः ।
ध्यानयुक्तो धिया सम्यक् पठेदाराधकस्ततः ॥ ३५३ ॥
View Verse
आवाहयाम्यमरबृन्दनताङ्घ्रियुग्मं ।
लक्ष्मीपतिं भुवनकारणमप्रमेयम् ।
आद्यं सनातनतनुं प्रणवासनस्थं ।
पूर्णेन्दुभास्करहुताशसहस्रदीप्तिम् ॥ ३५४ ॥
View Verse
ध्येयं परं सकलतत्वविदां च वेद्यं ।
वाराहकापिलनृकेसरिसौम्यमूर्तिम् ।
श्रीवत्सकौस्तुभमहामणिभूषिताङ्गं ।
कौमोदकीकमलशङ्करथाङ्गहस्तम् ॥ ३५५ ॥
View Verse
सर्वत्रगोऽसि भगवन् किल यद्यपि त्वां ।
आवाहयामि हि यथा व्यजनेन वायुम् ।
गूढो यथैव दहनो मधनादुपैति ।
आवाहितोऽपि हि तथा त्वमुपैषि चार्चाम् ॥ ३५६ ॥
View Verse
मालाधराच्युत विभो परमार्थमूर्ते ।
सर्वज्ञनाथ परमेश्वर सर्वशक्ते ।
आगच्छ मे कुरु दयां प्रतिमां भजस्व ।
पूजां गृहाण मदनुग्रहकाम्ययाद्य ॥ ३५७ ॥
View Verse
ततो विमृज्य वस्त्रेण भोगैः पूर्वेदितैर्यजेत् ।
अर्घ्याद्यैर्दक्षिणान्तैस्तु पाठयेदृङ्भयांस्ततः ॥ ३५८ ॥
View Verse
अर्चामि तेति मन्त्रं वै सामगांश्चार्चत त्विति ।
भगवानिति तज्ज्ञांस्तु अग्नौ सन्तर्पयेत्तः ॥ ३५९ ॥
View Verse
स्वकुण्डे देशिकेन्द्रस्तु समिधां सप्तकं हुनेत् ।
पश्चाच्छताष्टसंख्यं च साज्यैस्तु तिलतण्डुलैः ॥ ३६० ॥
View Verse
तर्पयित्वा तु पूर्णान्तमुद्धृत्याग्निकणं ततः ।
दिक्कुण्डेषु विनिक्षिप्य संस्कृतेषु पुरैव हि ॥ ३६१ ॥
View Verse
तथैव च विदिक्स्थेषु उद्धृत्याभ्यर्च्य वै क्रमात् ।
ततः प्रभवयोगेन चतुर्दिक्षु निवेशयेत् ॥ ३६२ ॥
View Verse
चतुरो वासुदेवादिनाम्ना एकायनान् द्विजान् ।
स्वाभिः स्वाभिरसंख्यं च तैः कार्यमभिधादिभिः ॥ ३६३ ॥
View Verse
समित्सप्तकपूर्वैस्तु साज्यैस्तु तिलतण्डुलैः ।
एवमप्यययोगेन वाय्वादीशावसानकम् ॥ ३६४ ॥
View Verse
ऋग्वेदाद्यांस्तु चतुरः संस्कृत्यादौ तथा न्यसेत् ।
अथवा विन्यसेत्तांस्तु ईशाद्वायुपदावधि ॥ ३६५ ॥
View Verse
तैरप्यच्युतलिङ्गैस्तु स्वशाखोक्तैश्च पावनैः ।
हवनं विधिवत् कार्यं भक्तियुक्तेन चेतसा ॥ ३६६ ॥
View Verse
एवं क्रमेण कुण्डांस्तु सर्वान् हुत्वा ततो गुरुः ।
द्वार्स्थादीनां पुरोक्तानां दिक्पतीनां समाचरेत् ॥ ३६७ ॥
View Verse
हवनं विधिवत् कुण्डे तदर्थं पूर्वनिर्मिते ।
स्तुत्वा जितंत्वामन्त्रेण सामज्ञान् पाठयेत् पुनः ॥ ३६८ ॥
View Verse
सह गायत्रिसाम्ना तु यद्रथन्तरसंज्ञकम् ।
प्रजप्य द्वादशार्णं तु मुद्रां बध्वा प्रणम्य च ॥ ३६९ ॥
View Verse
अष्टाङ्गेनाथ विज्ञाप्यो भगवान् भूतभावनः ।
मूर्तिभेदेन रूपेण अनेनैव हि साम्प्रतम् ॥ ३७० ॥
View Verse
लोकानज्ञाततत्वांस्तु समाह्रादय नागरान् ।
येनान्तः संप्रविष्टेन ईषत्कालवशात्तु वै ॥ ३७१ ॥
View Verse
जन्मान्तरसहस्रोत्थान्मोक्षमायान्ति किल्बिषात् ।
एवमर्थ्यो हि भगवान् लोकानुग्रहकृत् प्रभुः ॥ ३७२ ॥
View Verse
दत्वार्घ्यगन्धस्रग्धूपदीपनैवेद्यमेव च ।
निवेद्याचमनं चार्घ्यं कुर्यान्नीराजनं ततः ॥ ३७३ ॥
View Verse
पुण्याहजयघोषेण वेदध्वनियुतेन च ।
शङ्खवादित्रनिर्घोषपटहैर्गीतिभिः सह ॥ ३७४ ॥
View Verse
करावङ्घ्रिगतौ कृत्वा देवदेवस्य देशिकः ।
पाठयेदृङ्भयं मन्त्रं उतिष्ठेति ततः सह ॥ ३७५ ॥
View Verse
यात्रोपकरणैर्मन्त्रं कृत्वा ब्रह्नरथे स्थिरे ।
सुयन्त्रितेति क्षीराज्यदध्योदनसमन्विते ॥ ३७६ ॥
View Verse
सुभिक्षक्षेमशान्त्यर्थं परमान्नफलैर्युते ।
पाठयेदस्य वामीयमृङ्भयं तदनन्तरम् ॥ ३७७ ॥
View Verse
तन्मयान् वलमन्त्रं तु दशार्धे ति महामते ।
स्वयमाद्यन्तसंरुद्धं हृदा तु कवचं जपेत् ॥ ३७८ ॥
View Verse
भ्रामयेद्बलिदानं च क्रियमाणं तु सर्वदिक् ।
पझकाञ्चनवज्राणां पूर्ववत् क्षेपमाचरेत् ॥ ३७९ ॥
View Verse
दिव्याद्यायतनानां च कार्या पूजा यथोचिता ।
पञ्चरात्रविदां चैव यतीनां ब्रह्नचारिणाम् ॥ ३८० ॥
View Verse
षट्कर्मनिरतानां च दानं दीनजनेष्वपि ।
रथस्थे मन्त्रबिम्बे तु यावत्पदशतं व्रजेत् ॥ ३८१ ॥
View Verse
तद्रथं तूर्यघोषेण तावत् क्रतुशतं फलम् ।
आप्नोत्याराधकः शश्वत् सकामो नियतव्रतः ॥ ३८२ ॥
View Verse
ततस्तोरणदेशस्थं रथं कृत्वाऽर्चयेत् प्रभुम् ।
पाद्यार्घ्यपुष्पधूपैश्च नमस्कृत्य च पाठयेत् ॥ ३८३ ॥
View Verse
उत्तिष्ठेति द्विषट्कार्णं सजितंतंतु चाखिलम् ।
संपठन् पौरुषं सूक्तं यागवेश्म प्रवेशयेत् ॥ ३८४ ॥
View Verse
शय्यायां प्राक्शिरोबिम्बं शाययेद्धृदयेन तु ।
देशिको मूर्तिपैः सार्धं यात्राहोमं समा येत् ॥ ३८५ ॥
View Verse
ततस्तच्छिरसोद्देशे चक्राकारस्थिते घटे ।
पूर्वोक्तलक्षणे नेत्रमस्त्रसंपुटितं यजेत् ॥ ३८६ ॥
View Verse
पूजयेन्मड्गलान्यष्टौ प्रागादौ तु स्वनामभिः ।
अष्टासु तत्र कुम्भेषु पुरैव स्थापितेषु च ॥ ३८७ ॥
View Verse
वासुदेवादयः पूज्याः प्रभावाप्यययोगतः ।
ह्रदादि यद्वा दिक्स्थेषु विदिक्स्थेषु तदस्त्रपम् ॥ ३८८ ॥
View Verse
यद्वा प्राच्यां तु वाराहो नारसिंहस्तु दक्षिणे ।
प्रतीच्यां श्रीधरो देवो हयवक्त्रस्तथोत्तरे ॥ ३८९ ॥
View Verse
आग्नेय्यां भार्गवो रामो नैरृते राम एव च ।
वायव्ये वामनश्चापि विष्णुरीशानगोचरे ॥ ३९० ॥
View Verse
स्वनाम्ना पूजयित्वैतानर्घ्यगन्धादिभिस्ततः ।
पूजयित्वार्घ्यपुष्पाद्यैः शयनस्थं विभुं ततः ॥ ३९१ ॥
View Verse
वर्मणाच्छादनपटं दत्वा धूपाधिवासितम् ।
मूलेन शयनस्थस्य कुर्यादाप्यायनं ततः ॥ ३९२ ॥
View Verse
देवाङ्घ्रिनिकटोद्देशे उपविष्टस्तु देशिकः ।
मन्त्रविद्देवबिम्बस्य मन्त्रन्यासं समाचरेत् ॥ ३९३ ॥
View Verse
लेख्यादौ मन्त्रबिम्बे तु प्रासादस्थे द्विजोत्तम ।
उत्सवं कर्मबिम्बे तु विष्टरे वा प्रकल्प्य तु ॥ ३९४ ॥
View Verse
प्रस्वाप्य शयने प्राग्वत् प्रासादं संप्रविश्य च ।
मन्त्रन्यासादिकं कुर्याद्वक्ष्यमाणविधानतः ॥ ३९५ ॥
View Verse
सुविस्तृतं तद्विधानमिदानीवधारय ।
पीठे पुष्पाञ्चलिं कृत्वा गन्धयुक्तं च साक्षतम् ॥ ३९६ ॥
View Verse
आमूर्ध्नश्चरणान्तं तु द्वादशार्णं तु विन्यसेत् ।
अङ्गोपाह्गस्थितिं कुर्यात् स्थानेषु हृदयादिषु ॥ ३९७ ॥
View Verse
हृदि मूर्ध्नि शिखायां तु स्कन्धयोः करमध्यतः ।
नेत्रयोरुदरे पृष्ठदेशे बाहुद्वये ततः ॥ ३९८ ॥
View Verse
ऊरुभ्यां जानुयुग्मेऽथ पादयोस्तदनन्तरम् ।
देवस्य दक्षिणे हस्ते चक्रं शङ्खं तु वामतः ॥ ३९९ ॥
View Verse
वामहस्ते गदाखडगौ ह्यथवा दक्षवामयोः ।
क्रमाल्लाञ्छनमन्त्रांस्तु चक्रादीन् लाञ्छनान् न्यसेत् ॥ ४०० ॥
View Verse
किरीटं शिरसोद्देशे श्रीवत्सं च गलादधः ।
वक्षसोऽवामभागे तु विन्यसेत्तदनन्तरम् ॥ ४०१ ॥
View Verse
कौस्तुभं हृदये न्यस्य वनमालां च कण्ठतः ।
श्रियं दक्षिणभागे तु पुष्टिमुत्तरतो न्यसेत् ॥ ४०२ ॥
View Verse
ऊरुमूले वैनतेयमथेदानीं निबोध मे ।
ब्चतुर्मुजस्य देवस्य चक्रादेर्विनिवेशनम् ॥ ४०३ ॥
View Verse
मुख्यदक्षिणहस्तेऽब्जं गदां वामकरे न्यसेत् ।
अपरे दक्षिणे चक्रं शङ्खं वामकरे परे ॥ ४०४ ॥
View Verse
अन्यान् लाञ्छनमन्त्रास्तु यथायोगं तु विन्यसेत् ।
अन्येषु षड्भुजाद्येषु मुख्यदक्षादितः क्रमात् ॥ ४०५ ॥
View Verse
सर्वान् लाञ्छनमन्त्रांस्तु यथास्थानगतान् न्यसेत् ।
संस्थाप्य भगवन्मूर्तिर्धत्ते चक्रादिलाञ्छनम् ॥ ४०६ ॥
View Verse
हस्ते येन क्रमेणैव लाञ्छनानि न्यसेत्तथा ।
मन्त्रान् किरीटपूर्वांश्च प्राग्वत् सर्वत्र विन्यसेत् ॥ ४०७ ॥
View Verse
पादादिद्वादशाङ्गेषु ततो दामोदरादिकान् ।
तच्छक्तिकांस्तथा मन्त्रान् प्राग्वद्व्यापकलक्षणान् ॥ ४०८ ॥
View Verse
ऐश्वरेणाथ बीजेन यथावस्थेन भावयेत् ।
पादादितन्मयेनैव तद्वन्मन्त्रवरेण तु ॥ ४०९ ॥
View Verse
प्राग्वदप्यययुक्त्या तु ह्यान्तर्ज्योतिर्मयात्मना ।
विभुना वाक्स्वरूपेण तदेवाथ परं पदम् ॥ ४१० ॥
View Verse
सुशान्तं सर्वगं बुद्ध्वा निस्तरह्गमिवोदधिम् ।
विद्याङ्गदामित्याद्यं यतु पाठयेत् पाञ्चरात्रिकान् ॥ ४११ ॥
View Verse
देहसान्यासिकं मन्त्रं धारणाख्यमनन्तरम् ।
जीमूतस्येति ऋघ्वेदान् नासदासीति पाठयेत् ॥ ४१२ ॥
View Verse
क्रमेणानेन हुत्वा तु पादार्धशतसंख्यया ।
तिलानां च तथा मन्त्रैराज्यस्यैभिर्महामते ॥ ४१३ ॥
View Verse
दत्वा पूर्णाहुतिं प्राग्वदुपसंहारलक्षणाम् ।
ततस्तत् परर्म ब्रह्न ह्युदितं पूर्ववत् स्मरेत् ॥ ४१४ ॥
View Verse
सर्वशक्तिमयेनैव स्वभावेन स्वकेन तु ।
ओजोबलात्मना यद्वद्गन्धो द्रव्यात्मना तु वै ॥ ४१५ ॥
View Verse
बीजं तरुस्वरूपेण समुद्रो बुद्बुदात्मना ।
एवमव्यपदेश्या या शक्तिः स्वे शक्तिदर्पणे ॥ ४१६ ॥
View Verse
स्थितमादाय विश्वेशं स्वातन्त्र्याच्च महामते ।
मन्त्ररूपां तनुं धत्ते सम्यगाराधनाय च ॥ ४१७ ॥
View Verse
नानात्वमुपयातस्य प्रसरं तस्य च स्वयम् ।
निष्प्रभत्वं प्रयातस्य चिद्बीजनिचयस्य च ॥ ४१८ ॥
View Verse
आविष्कृतस्य भेदेनाप्यमूर्तेन वलियसा ।
अज्ञानगहनेनैव नित्यानित्यामलात्मना ॥ ४१९ ॥
View Verse
स्मृत्वैवं मूलमन्त्रं तु बिम्वहृत्पझगं स्मरेत् ।
षट्छक्तिकिरणोपेतं तैस्तद्द्रव्यमयीं तनुम् ॥ ४२० ॥
View Verse
संस्मरेत् संहरन्तं च प्रागुक्तेनैव वर्त्मना ।
स्वरूपममलं भूयः स्मरेन्मूर्त्यात्मना तु तत् ॥ ४२१ ॥
View Verse
नयन्तं पूर्वविधिनाप्येवं स परमेश्वरः ।
मन्त्रात्मना स्वतन्त्रत्वमूपयातो यदा तदा ॥ ४२२ ॥
View Verse
सहस्रशिरसं देव मिति सर्वांस्तु चोदयेत् ।
पाठयेद्ब्राह्नणान्धातर्यध्यक्षेति च मन्त्रपम् ॥ ४२३ ॥
View Verse
यो विश्वतश्चक्षुरिति यातव्यो भवतीति च ।
द्वासुपर्णेति तदनु अतो देवेति वै ततः ॥ ४२४ ॥
View Verse
ऋङ्भयान् पौरुषं सूक्त ततः परतमां त्विति ।
शाश्वता च ततः कालकलेति समुदाहरेत् ॥ ४२५ ॥
View Verse
एषा बुद्धिः सप्तधेति अत्रेदानीं च पाठयेत् ।
एवं मन्त्रानुसन्धानं कथितं च पराभिधम् ॥ ४२६ ॥
View Verse
सूक्ष्मसंज्ञं मुनिश्रेष्ठ विध्यन्तरमथोच्यते ।
वैभवं देवताचक्रं व्यूहाख्यं तदनन्तरम् ॥ ४२७ ॥
View Verse
सूक्ष्मं चापि मुनिश्रेष्ठ पादयोर्हृदि मूर्धनि ।
प्रपूज्य पुष्पधूपाद्यैर्मुद्राभिः प्रणमेदथ ॥ ४२८ ॥
View Verse
गत्वा कुण्डसमीपं तु व्यापारेष्वखिलेषु च ।
होमं कुर्याद्यथाशक्ति तिलाद्यैः शतपूर्वकम् ॥ ४२९ ॥
View Verse
स्मृत्वैकैकं तु वै कर्म कर्ता मन्त्रोदितेन च ।
हृन्मन्त्रेण समूलेन दत्त्वा पूर्णाहुतिं ततः ॥ ४३० ॥
View Verse
आप्रभाताच्च तत् कालं कर्मणां पूरणाय च ।
ततः शान्त्युदकं मूर्घ्नि होमान्ते चात्मनो द्विज ॥ ४३१ ॥
View Verse
दत्वा तु बिम्बशिरसि मूलेनोदकमेव तत् ।
जपं च कर्ममन्त्राणां यथाशक्ति समाचरेत् ॥ ४३२ ॥
View Verse
भूतानां वलिदाने च कृते कुण्डेषु मूर्तिपाः ।
स्वैः स्वैर्मन्त्रैः सहस्रं वा शतं वाष्ट तु होमयेत् ॥ ४३३ ॥
View Verse
तैश्च शान्त्युदकं मूर्ध्नि बिभ्बे वै दापयेद्गुरुः ।
अथाधिवासनं कुर्याद्विधिदृष्टेन कर्मणा ॥ ४३४ ॥
View Verse
ध्यानाख्यं निष्कलं शुद्धं येन सन्निहितः सदा ।
मन्त्रो ह्यर्चागतो विप्र स्यात् पटस्थोऽथवा मुने ॥ ४३५ ॥
View Verse
न चोपसंहृतो यावद्गुरुणा तत्ववेदिना ।
प्राक्सर्वमुपसंहृत्य संहारक्रमयोगतः ॥ ४३६ ॥
View Verse
स्वरूपे विकृते शुद्धे गुरुरास्ते द्विजोत्तम ।
स्वहृद्रश्मिमये पझे स्थितिं कृत्वा पुरात्मनः ॥ ४३७ ॥
View Verse
एवमेवाविनाशं च निरस्तावयवं यथा ।
बोधविज्ञानदेहं च बिम्बं संभाव्य वै तथा ॥ ४३८ ॥
View Verse
द्वौ सुषुम्नात्मकौ मार्गौ प्रज्वलद्भास्कराकृती ।
हृत्पझगोलकाच्चैव एकदेशसमुत्थितौ ॥ ४३९ ॥
View Verse
मणिप्रभेव चोर्ध्वाधो व्यापकत्वेन संस्थितौ ।
यथात्मनि तथा देवे तथाऽत्मनि विभाव्य च ॥ ४४० ॥
View Verse
ततो यायाद्दक्षिणेन घ्राणान्वयपथा मुने ।
स्वदेहाद्धृदयं देवं वाममार्गेण संविशेत् ॥ ४४१ ॥
View Verse
यथात्मनाऽत्मा हृदये ह्यनुभूतो ह्यनूपमः ।
तथा तद्धृदयान्तस्थं स्मरेद्विज्ञानगोलकम् ॥ ४४२ ॥
View Verse
दृष्ट्वा स्वरश्मिखचितमानन्दापूरितं महत् ।
गमागमैकनिष्ठं तु शक्तो ब्रह्नण्यथात्मनि ॥ ४४३ ॥
View Verse
देवदेहस्थितेनैव विज्ञानेन सहैकता ।
निष्पाद्या यावदस्पन्दकालमानं स्वदेहकम् ॥ ४४४ ॥
View Verse
परं यदात्मना विप्र केवलेनानुभूयते ।
स्पन्दप्रवर्तितेनाथ कालेनैकात्मना द्विधा ॥ ४४५ ॥
View Verse
यथाऽत्मनि तथा देवे निष्क्रामेदथ साधकः ।
देवं दक्षिणमार्गेण विशेद्वामेन चात्मनः ॥ ४४६ ॥
View Verse
हृदयं भासुराकार ज्ञानामृतपरिप्लुतम् ।
योगोऽयं मुनिशार्दूल बिम्बस्य द्रव्यजस्य च ॥ ४४७ ॥
View Verse
आपादान्मूर्धपर्यन्तं नाडीबृन्दस्य व्यञ्जकः ।
येन सर्वेशिता विप्र बिम्बस्यास्य प्रजायते ॥ ४४८ ॥
View Verse
तं योगमधुना वच्मि एकाग्रमवधारय ।
हृत्पुण्डरीकमध्यस्थः साधको वृत्तिवर्जितः ॥ ४४९ ॥
View Verse
मन्त्रोच्चारप्रयोगेण प्राग्वत् पदमनामयम् ।
यायादूर्ध्वप्रवाहेण तस्माज्ज्ञेयः प्रवर्तते ॥ ४५० ॥
View Verse
अव्युच्छिन्नोऽव्यथेऽक्षुब्धो स्वेच्छया क्षोभमेति च ।
यथा सन्नतरो दीपो ह्नकम्पः कम्पमेति च ॥ ४५१ ॥
View Verse
कोशकारो यथा तन्तुं गृहीत्वा संप्रवर्तते ।
विज्ञानशक्तिमालम्ब्य एवम्भूतो हृदम्बुजम् ॥ ४५२ ॥
View Verse
स्वकीयमाययाऽचार्यः पूर्ववत् संविशेत्ततः ।
देवस्य हृदयाम्भोजं विलोक्य सह तेन वै ॥ ४५३ ॥
View Verse
भावयित्वाथ विज्ञानं बोधशक्त्या ततो व्रजेत् ।
तद्द्वादशान्तमागत्य ज्ञेयाख्यं न च नासिकम् ॥ ४५४ ॥
View Verse
तत्पादात् पूर्वयुक्त्या तु दैवं हृदयमाश्रयेत् ।
ततो वै देवहृदयात् प्रविश्य हृदयं स्वकम् ॥ ४५५ ॥
View Verse
मध्यमार्गेण हृदयादेत्य स्वं नेत्रगोलकम् ।
एवं देवेऽनुसन्धाय निरीक्ष्य च परस्परम् ॥ ४५६ ॥
View Verse
देवालोकेन वात्मानमनुविद्धं च संस्मरेत् ।
आत्मालोकेन देवेशं भिन्नं सर्वत्र भावयेत् ॥ ४५७ ॥
View Verse
एतदीश्वरसन्धानं भिन्नमेकात्मलक्षणम् ।
सर्वैश्वर्यप्रदं विद्धि सर्वदा प्रतिमासु वै ॥ ४५८ ॥
View Verse
अथ शब्दानुसन्धानमेकेकाद्भतदर्शनम् ।
वक्ष्यामि येन वै मन्त्रो बिम्बेनैकात्मतां व्रंजेत् ॥ ४५९ ॥
View Verse
निष्कम्पबोधसामान्यरूपो भूत्वा पुनः स्वयम् ।
ये शब्दजनिता भावाः सूक्ष्मैः सूक्ष्मतराऽखिलाः ॥ ४६० ॥
View Verse
सामान्यबोधशब्देन तान् पश्यन्नेकतां गतान् ।
सङ्कल्पपूर्वं सर्वोत्थशब्दमात्रेण वर्जितान् ॥ ४६१ ॥
View Verse
स चाभिमुखमायाति सङ्कल्पादुत्थितस्य च ।
शब्दरूपपदार्थस्य शब्दस्य परमौजसः ॥ ४६२ ॥
View Verse
सङ्कल्पपदवीरूढः स्फुरत्यन्तस्थितः स्फुटम् ।
पदार्थोपरि यः शब्दो मध्यमं विद्धि तन्मुने ॥ ४६३ ॥
View Verse
हृत्पझकर्णिकासंस्थः प्रयत्नपदवीषु च ।
विद्यासु करणोत्थासु यश्चाभिव्यक्तिमेति च ॥ ४६४ ॥
View Verse
वाच्यवाचकरूपेण स शब्दः स्थूल उच्यते ।
अतिस्थूलपरत्वेन स च वाग्विषये पुनः ॥ ४६५ ॥
View Verse
दृश्यादृश्येषु भावेषु अभिव्यक्तिं प्रयाति च ।
स हि स्थूलतरः शब्दो व्यवहारेऽखिले स्थितः ॥ ४६६ ॥
View Verse
तस्माच्छम्दमयो देह इति चेतसि वै पुरा ।
निष्कम्पं साधकः कृत्वा बिम्बं भाव्यं तदात्मकम् ॥ ४६७ ॥
View Verse
शब्दसंहारयोगेन सबिम्बं ब्रह्नसंयुतम् ।
निष्कम्पयोगयुक्तात्मा यो गुरुः संप्रविश्यति ॥ ४६८ ॥
View Verse
पूर्वोक्तक्रमयोगेन शब्दब्रह्न ह्यनागतम् ।
पश्येत् परिणतं विप्र क्रमाद्विश्वात्मना तु वै ॥ ४६९ ॥
View Verse
तेन संस्थापितं बिम्बं भुक्तिमुक्तिफलप्रदम् ।
एवं शब्दानुसन्धानं कृत्वा बिम्बस्य सत्तम ॥ ४७० ॥
View Verse
ततो वै मन्त्रसन्धानमारभेत प्रयत्नतः ।
अशब्ददेहः शब्दात्मा नित्योदितमनामयम् ॥ ४७१ ॥
View Verse
स्वहृत्पझस्थितं मन्त्रैर्व्याप्तिं तथाखिलैः ।
मन्त्रात्मानं जगन्नाथं बिम्बहृत्पझमध्यगम् ॥ ४७२ ॥
View Verse
स्फुरत्तारकरूपं च मन्त्रैर्व्याप्तिं तथाखिलैः ।
मन्त्रात्मानं जगन्नाथं बिम्बहृत्पझमध्यगम् ॥ ४७३ ॥
View Verse
संस्मरेत् सृष्टिसंहारौ कुर्वन्तं साधकोत्तमः ।
परः स एव वोद्धव्यः सुसूक्ष्मः स च निष्कलः ॥ ४७४ ॥
View Verse
सकलं चैव बोद्धव्यमुभयात्मकमित्यपि ।
विज्ञानरजनीमध्ये ज्ञेयं निद्रारसास्थितम् ॥ ४७५ ॥
View Verse
तत्वग्रामप्रभातेऽथ संभोगमिव सोदये ।
प्रबुद्धं संस्मरेद्देवमवतीर्णं परात् पदात् ॥ ४७६ ॥
View Verse
सर्वाध्वभोगपीठं तत्तेनाक्रान्तं च भावयेत् ।
भोगभूसंस्थितं देवं स्थितिमन्तं विभाव्य च ॥ ४७७ ॥
View Verse
स्थितिराधारशक्तिर्वै विभोर्मन्त्रात्मकस्य च ।
तस्माद्ब्रह्नशिलापीठं बिम्बमेकीकृतं स्मरेत् ॥ ४७८ ॥
View Verse
नानाधिवासयोगेन पूजयेत्तदनन्तरम् ।
मन्त्रन्यासं पुरा कृत्वा त्रिधा पूर्वक्रमेण तु ॥ ४७९ ॥
View Verse
हस्तन्यासं विना विप्र लययुक्त्यानु चाखिलम् ।
कथितं सूक्ष्मसन्धानं स्थूलं विध्यन्तरं श्रृणु ॥ ४८० ॥
View Verse
संस्कृतं देवदेवस्य त्वर्चादेहं सुलक्षणम् ।
संस्मरेच्च सुसंपूर्णं मणिरत्नमयैर्विना ॥ ४८१ ॥
View Verse
स्वदेहवदुपादेयैर्नाडीव्यूहैः सवायवैः ।
धातुभिः सोमसूर्याग्निसहज्ञानादिकैर्गुणैः ॥ ४८२ ॥
View Verse
गुणकारणतः क्ष्मान्तं यदन्यत्तत्वसंग्रहम् ।
द्रव्यमाश्रित्य वै बिम्बं वर्तते यदसन्महत् ॥ ४८३ ॥
View Verse
तत्र हृत्कमलाकाशे मन्त्रं रत्नप्रभोज्ज्वलम् ।
ब्रह्नभावनया न्यस्तं यच्छति प्रातिमं फलम् ॥ ४८४ ॥
View Verse
श्रद्धापराणआं कर्तॄणां फलतोऽभ्येति च स्थिराम् ।
प्रतिपत्तिं परां ब्राह्नीमाकारं प्रति सर्वदा ॥ ४८५ ॥
View Verse
प्राप्नोति यद्वशादन्ते ज्ञानमात्मप्रकाशकम् ।
उक्तमेतत्तु सकलमाकर्णय सुविस्तृतम् ॥ ४८६ ॥
View Verse
पूर्ववद्धारणाभिस्तु संहारक्रमयोगतः ।
तद्विम्बमुपसंहृत्य स्वरूपेऽविकृते परे ॥ ४८७ ॥
View Verse
ततः क्रमेण वै सृष्ट्वा बिम्बं ज्योतिर्मयं स्मरेत् ।
एवं पूर्वोदितं ध्यात्वा नाडीबृन्दस्य व्यञ्जकम् ॥ ४८८ ॥
View Verse
ततस्तासां तु नाडीनां ध्यायेद्व्यक्तिं सुविस्तृताम् ।
द्वासप्ततिसहस्रं तु नाडयः परिकीर्तिताः ॥ ४८९ ॥
View Verse
दशप्रधानास्तासां तु वायवश्च तथा दश ।
इडा च पिङ्गला चैव सुषुम्ना च तथा परा ॥ ४९० ॥
View Verse
गान्धारी हस्तिजिह्वा च पूषा चैव यशस्विनी ।
अलम्बुसा कुहूश्चैव कौशिकी दशमा स्मृता ॥ ४९१ ॥
View Verse
प्राणापानसमानाश्च व्यानोदानौ तथैव च ।
नागः कूर्मश्च कृकरः देवदत्तो धनंजयः ॥ ४९२ ॥
View Verse
आनीय त्रितयं कुर्याद्दैवे पूरककुम्भकौ ।
पूरके नाडिकाः सर्वाः पूर्यन्ते नात्र संशयः ॥ ४९३ ॥
View Verse
ततो हृदयपझं च विकासमुपयास्यति ।
कुम्भकेन निरुद्धं तद्भवेदूर्ध्वमुखं द्विज ॥ ४९४ ॥
View Verse
सवायूनां च नाडीनां स्थितिं स्मृत्वा ततः परम् ।
रसलोहितमांसानां मेदोमज्जास्थिनां तथा ॥ ४९५ ॥
View Verse
धातूनां शुक्लधात्वन्तं स्मृत्वान्तः संस्थिति क्रमात् ।
स्मृत्वा हृदयपझे तु सोमसूर्याग्निमण्डलान् ॥ ४९६ ॥
View Verse
आपादात् ब्रह्नरन्ध्रान्तं सर्विबंबेषु सत्तम ।
प्रकृतीनां च तत्वानां कुर्यात् सम्यङ्निवेशनम् ॥ ४९७ ॥
View Verse
आपादाद्ब्रह्नरन्ध्रान्तमव्यक्तान्तं क्रमेण तु ।
क्षित्यादिकानां पादान्तमव्यक्तं वा धरान्तिकम् ॥ ४९८ ॥
View Verse
मूर्ध्नि भ्रूमध्यपर्यन्तं प्रधानं भावयेद्द्विज ।
सिन्दूरपुञ्जसंकाशां तालुमध्ये धियं स्मरेत् ॥ ४९९ ॥
View Verse
सितेन्दुरश्मिवर्णाभं खद्योतमिव खेचरम् ।
तालुमूले त्वहंकारं कुसुम्भरससन्निभम् ॥ ५०० ॥
View Verse
संस्मरेन्मानसं तत्वं तालुकण्ठान्तरे द्विज ।
राजोपलद्युतिमुषं कदम्बकुसुमोपमम् ॥ ५०१ ॥
View Verse
कण्ठाद्धृत्पझपर्यन्तं स्मरेत् पञ्चपदे समे ।
श्रोत्रादीनथ वै पञ्च प्रस्फुरत्तारकोज्ज्वलान् ॥ ५०२ ॥
View Verse
पझस्थानाच्च नाभ्यन्तं प्राग्वत् पञ्चपदान्तरे ।
वागादीन् वै स्थितान् पञ्च क्रमेण विनिवेशयेत् ॥ ५०३ ॥
View Verse
आनाभेर्वस्तिशीर्षान्तं सुसमे पदपञ्चके ।
शब्दतन्मात्रपूर्वाणि गन्धमात्रावसानतः ॥ ५०४ ॥
View Verse
स्वैः स्वैर्गुणैश्च युक्तानि भास्वज्ज्योतिः प्रभाणि तु ।
ऊरुमूले तथा मध्ये सन्धिदेशे ततस्त्वधः ॥ ५०५ ॥
View Verse
दण्डे मर्मावसाने तु सर्वस्मिंश्चरणे क्रमात् ।
खं वाय्वगन्युदकक्ष्मान्तं चिन्तयेद्भूतपञ्चकम् ॥ ५०६ ॥
View Verse
नीरूपाञ्जनवर्णं तु संस्मरेद्व्योमगोलकम् ।
वायव्यं नीलपीतं च तैजसं मधुपिङ्गलम् ॥ ५०७ ॥
View Verse
मुक्ताफलनिभं चाप्यं रक्तपीतं तु पार्थिवम् ।
अथवा तत्वविन्यासमेवमेव समाचरेत् ॥ ५०८ ॥
View Verse
प्रकृतिं हृदये न्यस्त्वा धीमनोममतां तथा ।
कण्टहृन्नाभिषु न्यस्त्वा तन्मात्रं शब्दसंज्ञितम् ॥ ५०९ ॥
View Verse
स्वभूतयुक्तं शिरसि तालोः कण्ठान्तकं तथा ।
स्पर्शाख्यं वायुना सार्धं रूपाख्यं वह्निना सङ ॥ ५१० ॥
View Verse
कण्ठात् प्रभृति नाभ्यन्तं रसाख्येन जलं सह ।
नाभेर्जान्वन्तरं यावज्जानोः पादान्तकं न्यसेत् ॥ ५११ ॥
View Verse
धरां गन्धेन तत्पश्चात् स्वे स्वे स्थाने तु विन्यसेत् ।
बुद्ध्यक्षाणि क्रमेणैव तथा कर्मेन्द्रियाण्यपि ॥ ५१२ ॥
View Verse
यद्वा प्रधानमामूर्ध्नो यावद्वक्षःस्थलं न्यसेत् ।
नाभौ बुद्धिमहङ्कारं कटिमूलाश्रितं स्मरेत् ॥ ५१३ ॥
View Verse
ऊरुभ्यां शब्दतन्मात्रं स्पर्शाख्यं स्पर्शाख्यं सन्धिदेशगम् ।
जङ्घाभ्यां रूपतन्मात्रं गुल्फयो रससंज्ञितम् ॥ ५१४ ॥
View Verse
पादाभ्यां गन्धसंज्ञं तु स्वबीजध्यानसंयुतम् ।
अथवा सप्तधा तत्वक्लृप्तौ स्थानक्रमं श्रऋणु ॥ ५१५ ॥
View Verse
गुल्फजानुकटीवक्षःकण्ठभ्रूकावटावधि ।
बुद्ध्यन्तानां धरादीनां क्रमादवनिसप्तकम् ॥ ५१६ ॥
View Verse
आपादनाभिदेशं वा महाभूतैर्धरादिकैः ।
व्याप्तं चतुर्भिर्वाय्वन्तैस्तदूर्ध्वं नभसा पुनः ॥ ५१७ ॥
View Verse
पूरितं हृदयान्तं च तदुद्देशाच्छिखावधि ।
विभाव्यं मनसा व्याप्तं तदूर्ध्वे द्वादशान्तकम् ॥ ५१८ ॥
View Verse
प्रधानापरपर्यायं बुद्धितत्वं तु विन्यसेत् ।
अथ द्वेधा तत्वक्लृप्तौ विधानमवधारय ॥ ५१९ ॥
View Verse
आमूर्ध्नो नाभिपर्यन्तं प्रधानं परिभावयेत् ।
आनाभेः पादपर्यन्तं स्मरेत्तन्मात्रकं गणम् ॥ ५२० ॥
View Verse
यद्वा व्यक्तौ प्रधानं तु व्यापकं देवरूपधृक् ।
सर्वतत्वमयं मन्त्रं तस्य वा केवलं हृदि ॥ ५२१ ॥
View Verse
प्राधानिकं योजनीयमभिन्नं तत्वकारणम् ।
एवमिच्छानुरूपेण तत्वविन्यासमाचरेत् ॥ ५२२ ॥
View Verse
ज्ञानादिगुणषट्कं च हृदयादिषु विन्यसेत् ।
प्राग्वदीश्वरसन्धानमाचरेन्मुनिपुङ्गव ॥ ५२३ ॥
View Verse
ततः शब्दानुसन्धानं प्रागुक्तं तु समाचरेत् ।
तथैव वर्णभेदेन स्थानभेदे च विन्यसेत् ॥ ५२४ ॥
View Verse
कदम्बकुसुमाकार मकारं विनय्सेद्द्विज ।
शिखायां शिखारोद्देशे आकारं कुङ्कमप्रभम् ॥ ५२५ ॥
View Verse
तप्तचामीकराकारमिकारं मुखमण्‍डले ।
ईकारं कण्ठदेशे तु कुन्देन्दुसदृशप्रभम् ॥ ५२६ ॥
View Verse
उकारं जत्रुभागे तु शुद्धस्फटिकवर्चसम् ।
ऊकारं वक्षसि तथा सिन्दूरसदृशाकृतिम् ॥ ५२७ ॥
View Verse
ऋकारं हृदये न्यस्येच्छुक्लवर्णं महाप्रभम् ।
ऋकारं जाठरे भागे लाक्षारससमद्युतिम् ॥ ५२८ ॥
View Verse
लृकारं नाभिभागे तु तप्तकाञ्चनसन्निभम् ।
लृकारं लिड्गदेशस्थं विन्यसेदसितप्रभम् ॥ ५२९ ॥
View Verse
एकारं द्रुतहेमाभमूरुयुग्मं समाश्रितम् ।
ऐकारं जानुयुग्मे तु सन्ध्याजलदसन्निभम् ॥ ५३० ॥
View Verse
ओकारं जङ्घयोस्तद्वच्छुक्लवर्णं द्विजोत्तम ।
औकारं रक्तवर्णं च गुल्फद्वयगतं तथा ॥ ५३१ ॥
View Verse
अङ्गारं पादयोर्ब्रह्नन्नयस्कान्तसमप्रभम् ।
अः कारं चरणाङ्गुष्ठे पझरागसमप्रभम् ॥ ५३२ ॥
View Verse
ककारं तु ललाटस्थं रक्तवर्णं तु विन्यसेत् ।
खकारं पीतलनिभं भ्रुवोर्मध्यमदेशगम् ॥ ५३३ ॥
View Verse
गकारं नासिकायां तु तुषारसदृशाकृतिम् ।
घकारं सितवर्णं तु दशनस्थानसंश्रितम् ॥ ५३४ ॥
View Verse
ङकारं चिबुकोद्देशे शरद्गगनसन्निभम् ।
चकारं रक्तवर्णं च कृकाटीगोचरे न्यसेत् ॥ ५३५ ॥
View Verse
छकारं पृष्ठभागे तु ज्वलितानलसन्निभम् ।
जकारं कटिदेशस्थं काञ्चनाद्रिसमप्रभम् ॥ ५३६ ॥
View Verse
झकारमूरुमूले तु शुद्धस्फटिकसन्निभम् ।
ञकारं पादगुल्फाग्रे पझरागसमप्रभम् ॥ ५३७ ॥
View Verse
टकारं भ्रूयुगगतं तुषारसदृशाकृतिम् ।
ठकारं नेत्रयोर्ब्रह्नन् रक्तवर्णं महाप्रमम् ॥ ५३८ ॥
View Verse
डकारं गण्डयोश्चैव पीतवर्णं महाद्युतिम् ।
ढकारं हनुयुग्मस्थमिन्द्रनीलसमप्रभम् ॥ ५३९ ॥
View Verse
णकारं कुचयुग्मे तु हरितालसमद्युतिम् ।
तकारं श्रवसोर्युग्मे प्रवालोपलसन्निभम् ॥ ५४० ॥
View Verse
थकारं स्कन्धयुगले चम्पकप्रसवाकृतिम् ।
दकारं भुजयोर्मध्ये ज्वलितानलसन्निभम् ॥ ५४१ ॥
View Verse
धकारं तु प्रकोष्टस्थं खद्योतचयदीधितिम् ।
नकारं करयोर्न्यस्य पझपत्रसमद्युतिम् ॥ ५४२ ॥
View Verse
पकारं रोमकूपस्थं पलाज्ञदलसन्निभम् ।
फकारं कक्षभागस्थं सन्ध्याभ्रसदृशप्रभम् ॥ ५४३ ॥
View Verse
बकारं पार्श्वयुग्मे तु पूर्णचन्द्रसमप्रभम् ।
भकारं सक्थिदेशस्थं नीलाञ्जनचयोपमम् ॥ ५४४ ॥
View Verse
मकारं पिण्डिकासंश्थं शरद्घगनसन्निभम् ।
यकारं पाञ्चजन्ये तु धूम्रवर्णं च विन्यसेत् ॥ ५४५ ॥
View Verse
रकारं च सहस्रारे रक्तपङ्कजसन्निभम् ।
लकारं च गदायां वै सौदामिनिसमप्रभम् ॥ ५४६ ॥
View Verse
वकारमरविन्दे तु शारदाभ्रसमप्रभम् ।
शकारं शोणिते न्यस्य अमृताभासविग्रहम् ॥ ५४७ ॥
View Verse
षकारमस्थिनिचये शशशोणितसन्निभम् ।
सकारं मांसदेशे तु हिमकुन्दसमप्रभम् ॥ ५४८ ॥
View Verse
हकारं प्राणदेशस्थं शुद्धस्फटिकविग्रहम् ।
क्षकारं सर्वतोव्याप्तं सूर्यवैश्वानरप्रभम् ॥ ५४९ ॥
View Verse
अथवा मातृकान्यासमेवमेव समाचरेत् ।
अकारं तालौ विन्यस्य मुखे चाकारमेव च ॥ ५५० ॥
View Verse
इङ लोचनयोर्न्यस्य उऊ श्रवणयोस्तथा ।
ऋऋ नासापुटे चैव लृलृ गण्डद्वये तथा ॥ ५५१ ॥
View Verse
एऐ दशनपङ्क्तौ च ओ औ ओष्ठगतौ स्मरेत् ।
अं इत्येव ललाटे तु विसर्गं रसने तथा ॥ ५५२ ॥
View Verse
यकारं त्वग्गतं न्यस्य रेफं चक्षुषि विन्यसेत् ।
लकारं नासिकायां तु वकारं दशनाग्रतः ॥ ५५३ ॥
View Verse
श्रोत्रे शकारं विन्यस्य षकारमुदरे तथा ।
सकारं कटिदेशे तु हकारं हृदये तथा ॥ ५५४ ॥
View Verse
क्षकारं नाभिदेशे तु विन्यसेदद्विजसत्तम ।
पवर्गो बाहुरेकस्तु तवर्गस्तु द्वितीयकः ॥ ५५५ ॥
View Verse
टवर्गश्च चवर्गश्च जङ्घाद्वयमुदाहृतम् ।
कवर्गोङ्गुलयः सर्वा विज्ञातव्या द्विजोत्तम ॥ ५५६ ॥
View Verse
एवं हि वर्णसन्धानं कृत्वा चैव ततः परम् ।
आमूर्ध्नश्चरणान्तं च विन्यसेद्द्वादशाक्षरम् ॥ ५५७ ॥
View Verse
अङ्गोपाङ्गस्थितिं कुर्यात् स्थानेषु हृदयादिषु ।
चक्रादिवैनतेयान्तं प्राग्वन्न्यस्त्वा क्रमेण तु ॥ ५५८ ॥
View Verse
सर्वान् लाञ्छनमन्त्रांस्तु ततो दामोदरादिकान् ।
तच्छक्तिकांस्तथा मन्त्रान् पूर्ववद्विनिवेशयेत् ॥ ५५९ ॥
View Verse
उपसंहृतिपूर्वान्तं सर्वं कृत्वा क्रमेण तु ।
ततस्तत्परमं ब्रह्न हृदिस्थं पूर्ववत् स्मरेत् ॥ ५६० ॥
View Verse
ततस्तु मन्त्रसन्धानं कृत्वा पूर्वोक्तवर्त्मना ।
सहस्रशिरसं दैवमित्यादीन् पाठयेत् क्रमात् ॥ ५६१ ॥
View Verse
एवं स्थूलानुसन्धानमेतत्ते कथितं मया ।
एषु प्रोक्तेषु विप्रेन्द्र सन्धानेषु परादिषु ॥ ५६२ ॥
View Verse
सन्धानमेकं कृत्वा तु गुरुरिच्छानुरूपतः ।
ततोऽर्चयित्वा देवेशं शयने बिम्बवृत्तिकम् ॥ ५६३ ॥
View Verse
सांस्पर्शिकैरासनाद्यैर्विविधैरौपचारिकैः ।
हृदयङ्गमसंज्ञैश्च मधुपर्कादिभिर्द्विज ॥ ५६४ ॥
View Verse
परमान्नादिभिश्चान्नैः पवित्रैः पानकैस्तथा ।
अन्यैश्च विविधैर्भोगैर्यथा चानुक्रमेण तु ॥ ५६५ ॥
View Verse
सर्वं तु संप्रदानान्तं कृत्वा पश्चात्तु मण्डले ।
सन्निधीकृत्य संपूज्य महता विभवेन तु ॥ ५६६ ॥
View Verse
अग्नौ सन्तर्पयेत् साङ्गं समित्सप्तकपूर्वकम् ।
जुहुयुर्मूर्तिपाश्चापि स्वे स्वे कुण्‍डे यथाक्रमम् ॥ ५६७ ॥
View Verse
प्रागादिदिक्षु कुण्डेषु क्रमेण समिधः स्मृताः ।
पलाशवक्षखदिरबिम्वोदुम्बरभूरुहाम् ॥ ५६८ ॥
View Verse
आग्नेयादिविदिक्षु स्युः पिप्पलप्लक्षसंभवाः ।
न्यग्रोधप्रभवाश्चैव काश्मर्यप्रभवास्तथा ॥ ५६९ ॥
View Verse
पलाशसमिधोऽन्यत्र भूयसां परिकल्पने ।
उक्ताभावे तु सर्वत्र पालाश्यः समिधो मताः ॥ ५७० ॥
View Verse
चतस्रो धेनवः स्थाप्या दक्षिणस्यामुदङ्मुखाः ।
गङ्गासरस्वतीगोदायमुनारूपधारिणी ॥ ५७१ ॥
View Verse
दुग्धैस्तदीयैः श्रपणं चरूणामाहुतीस्तथा ।
श्रपयेत् पयसा पूर्वे शालितण्डुलमाढकम् ॥ ५७२ ॥
View Verse
कृसरैर्दक्षिणाग्नौ तु पाश्चात्ये गुलमिश्रितम् ।
उदीच्याग्नौ हरिद्रान्नं शुद्धान्नमितराग्निषु ॥ ५७३ ॥
View Verse
प्रत्येकं शतमष्टौ च होमाः स्युः समिदादिभिः ।
तदर्धं वाथ पादं वा देशकालानुरूपतः ॥ ५७४ ॥
View Verse
तिलशालियवावेणुर्होमवीजान्यनुक्रमात् ।
तिलैरितरकुण्डेषु तैर्वा सर्वत्र कल्पयेत् ॥ ५७५ ॥
View Verse
स्वमूर्तिकुम्भान्मन्त्रेण जलमुद्धृत्य भाजने ।
बिम्बमूर्ध्नि क्रमाद्देयं सर्वैरेकायनादिकैः ॥ ५७६ ॥
View Verse
चतुर्दर्भकृतनैव कूर्चेन तु ततो द्विज ।
पलाशखदिराश्वत्थबिल्वशाखाभिरम्बुभिः ॥ ५७७ ॥
View Verse
सिञ्चेयुर्मूर्तिपाः सम्यग्वेदिकाकलशैः स्थितैः ।
आचार्यः कोणदेशस्थैस्तोयैर्वेतसशाखया ॥ ५७८ ॥
View Verse
सन्तर्पयित्वा तदनु मन्त्रं सपरिवारकम् ।
आज्यादिना प्रभूतेन दत्वा पूर्णाहुतिं ततः ॥ ५७९ ॥
View Verse
दीक्षाविधिक्रमेणैवं सकलां तत्वपद्धतिम् ।
संशोध्य परभागस्थस्त्वाचार्यः सुसमाहितः ॥ ५८० ॥
View Verse
भगवन्तं कृते त्वेवं बिम्बस्थं श्रावयेत् क्रमात् ।
मनसा सुविशुद्धेन इदं मन्त्रमुपस्थितः ॥ ५८१ ॥
View Verse
त्वया सन्निहितेनात्र भवितव्यमधोक्षज ।
मत्पूर्वाणां हि भक्तानां सिद्धिहेतोर्निरञ्जन ॥ ५८२ ॥
View Verse
ततः स भगवान्मन्त्रः प्रबुद्धः कमलेक्षणः ।
बिम्बमुत्थापयन् ध्यायेदाचार्येण तु संमुखम् ॥ ५८३ ॥
View Verse
कृत्वा तु पादपतनं अष्टाङ्गेन तु साधकः ।
बिम्बात्मना प्रयातानां क्ष्मादीनामङ्गरूपिणाम् ॥ ५८४ ॥
View Verse
आपादनेऽपि पूर्णार्थं पिण्डीभूतार्थमेव च ।
आरम्भादेव जातानां छिद्राणां शमने तु वै ॥ ५८५ ॥
View Verse
आप्यायनार्थं मन्त्राणां द्रव्यैर्होमं समाचरेत् ।
द्विषट्केनाहुतीनां च एकैकेन चतुर्हृदा ॥ ५८६ ॥
View Verse
आचाङ्घ्रेर्जानुपर्यन्तं स्पृष्ट्वाज्यं होमयेत् पुरा ।
आनाभिजानुदेशाच्च तथैव जुहुयाद्दधि ॥ ५८७ ॥
View Verse
नाभेराकण्ठतः क्षीरामामूर्ध्नः कण्ठतो मधु ।
संमिश्रय जुहुयात् सर्वं स्पृष्ट्वा देहं तु चाखिलम् ॥ ५८८ ॥
View Verse
दत्वा घृतेन वै पश्चात् पूर्णां मूलेन तत्परम् ।
संस्कृत्य बिम्बवत् पीठं भिन्नं ब्रह्नशिलां तथा ॥ ५८९ ॥
View Verse
प्राणाभिमानदेवं वा यस्य यो विहितस्तु वै ।
वेष्ठयित्वाम्बरैश्चित्रैस्चक्रमन्त्रेण वै ततः ॥ ५९० ॥
View Verse
कार्यो ब्रह्नशिलाहोमः शताष्टाधिकसंख्यया ।
गायत्रीभिस्तदर्धं च बह्वृचाद्यैः पृथक् पृथक् ॥ ५९१ ॥
View Verse
अजस्य नाभावित्यादिमन्त्रैरेकायनैस्ततः ।
अध्वादि भूतमूर्तिं तु भोग्यं वाप्यपृथक् स्थितम् ॥ ५९२ ॥
View Verse
देवतानां त्वधिष्ठानं पीठं कृत्वा तु बुद्धिगम् ।
होतव्यं प्रणवेनैव स्वयं व्याहृतिभिस्ततः ॥ ५९३ ॥
View Verse
अपरैर्बलमन्त्रेण प्रणवान्तेन लाङ्गलिन् ।
ततो हवनमन्त्रेण तर्पणीयं तदेव हि ॥ ५९४ ॥
View Verse
स्वनाम्ना प्रणवेनैव स्वाहान्तेनापरैस्तथा ।
संरोधस्तर्पितानां च कार्यः पूर्णान्तमेव हि ॥ ५९५ ॥
View Verse
साम्मसा विष्टरेणैव भावेन सजपेन तु ।
सर्वैः स्वकस्य देवस्य स्वकीयासु च मूर्तिषु ॥ ५९६ ॥
View Verse
शब्दात्मिकासु मूर्तासु तद्वच्छुतिमयस्य च ।
प्रासादस्याथ परितः कुण्डेष्वष्टासु च क्रमात् ॥ ५९७ ॥
View Verse
कुण्डसंस्कारपूर्वं तु सर्वं कृत्वा तु मूर्तिपैः ।
हवनं विधिवत् कुर्याद्द्रव्यैः पूर्वोदितैः क्रमात् ॥ ५९८ ॥
View Verse
कृत्वैवं च तदा दिक्षु मूर्तिपान् विनिवेश्य च ।
पार्श्वदेशे तु कुण्डानां तर्पयेत् पायसेन तु ॥ ५९९ ॥
View Verse
दक्षिणां च यथाशक्ति दद्याद्धेमादिकीं ततः ।
गृहीत्वा दक्षिणां मन्त्रः प्रीणनीयस्तु तैस्ततः ॥ ६०० ॥
View Verse
बिम्वस्य निकटे स्थित्वा इमं मन्त्रमुदीरयेत् ।
प्राप्ते लग्नोदये विप्र सन्निरोद्ध्य जगद्गुरुम् ॥ ६०१ ॥
View Verse
क्षणं क्षमस्व भगवन् सर्वज्ञ करुणात्मक ।
निवेशयामि ते यावत् प्रासादे ब्रह्नपीठिकाम् ॥ ६०२ ॥
View Verse
अथ निद्रायमाणं तु देवं स्तुत्वावकुण्ठ्य च ।
अर्चयित्वा नमस्कृत्य तत्र सर्वान् प्रवेशयेत् ॥ ६०३ ॥
View Verse
विप्रानेकायनान् वापि तथा वै भवृचादिकान् ।
स्वस्वशाखोत्थितान् मन्त्रान् पाठयेत् क्रमयोगतः ॥ ६०४ ॥
View Verse
स्तुतिपाठकपूर्वांश्च नृत्तगीतपरायणान् ।
वीणावेणुमृदङ्गादीनितरांश्च प्रवेशयेत् ॥ ६०५ ॥
View Verse
विदिक्स्थान् प्रणवे जापे मूर्तिपांस्तु निवेदयेत् ।
दिक्स्थितान् मूर्तिपान् विप्र द्वादशार्णे निवेदयेत् ॥ ६०६ ॥
View Verse
रक्षामुद्रां ततः कृत्वा दर्शयेत् सर्वदिक्ष्वथ ।
शाययेद्दर्भशय्यायां यजमानमुपोषितम् ॥ ६०७ ॥
View Verse
स्थण्डिले स्वप्नसिद्ध्यर्थं प्राकशिरस्कं ततो द्विज ।
एवं कृत्वाधिवासं तु जागरेण नयेद्गुरुः ॥ ६०८ ॥
View Verse
प्रभातायां तु शर्वर्यां कृत्वा स्नानादिकाः क्रियाः ।
प्रतिष्ठामारभेत् पश्चाद्देशिकः शास्त्रवित्तमः ॥ ६०९ ॥
View Verse
प्रबुद्धं यजमानं तु स्वप्नं पृच्छेच्छुभाशुभम् ।
तत्राशुभोपशान्त्यर्थं तदानीं जुहुयाद्गुरुः ॥ ६१० ॥
View Verse
शतं सहस्रं साष्टं वा यथाशक्त्यथवा द्विज ।
मध्वाज्यक्षीरसंमिश्रान् सफलांश्च तिलानपि ॥ ६११ ॥
View Verse
अस्त्रसंपुटितेनैव नाम्ना स्वाहान्वितेन च ।
दोषं जहि जहीत्येव पदं नामानसानकम् ॥ ६१२ ॥
View Verse
केवलेनाथवाज्येन सिंहमन्त्रेण होमयेत् ।
एवं दुःस्वप्नशान्तिं तु कृत्वा स्थापनमाचरेत् ॥ ६१३ ॥
View Verse
प्रासादं दर्भशाखाभिर्बहिरन्तश्च मार्जयेत् ।
विकीर्य साक्षतं पुष्पं गुग्गुलुं धूपयेत् पुनः ॥ ६१४ ॥
View Verse
सहमूर्तिधरैर्विप्र शिल्पिभिश्चाथ देशिकः ।
सार्घ्यपुष्पाक्षतकरः प्रासादान्तं व्रजेत्ततः ॥ ६१५ ॥
View Verse
हन्यात् सिद्धार्यकैस्तत्स्थान् विघ्नानस्त्राभिमन्त्रितैः ।
प्राङ्भध्ये विधिनानेन श्वभ्रं वा साम्प्रतं खनेत् ॥ ६१६ ॥
View Verse
तदर्थं गर्भगेहं तु सूत्रपातैर्विभाजयेत् ।
तद्विधानं मुनिश्रेष्ठ यथावदवधारय ॥ ६१७ ॥
View Verse
प्रासाद एकद्वारे तु गर्भमानं विनिश्चितम् ।
द्वारात् पश्चिमभित्त्यंतं दक्षिणोत्तरमायतम् ॥ ६१८ ॥
View Verse
सप्तधा विभजेत् सम्यक् पैशाचः प्रथमः स्मृतः ।
द्वितीयो मानुषो भागस्तृतीयो देवसंज्ञितः ॥ ६१९ ॥
View Verse
व्राह्नश्चतुर्थो विज्ञेयः क्रमादन्ये त्रयस्तथा ।
देवमानुषपैशाचा विज्ञेया द्विजसत्तम ॥ ६२० ॥
View Verse
अथवा नवधा कुर्याद्दक्षिणोत्तरमायतम् ।
पैशाचः प्रथमो भागो द्वितीयो मानुषः स्मृतः ॥ ६२१ ॥
View Verse
तृतीयश्च चतुर्थश्च भागौ दैविकसंज्ञकौ ।
ब्राह्नस्तु पञ्चमो भागो वेदितव्यस्ततः परम् ॥ ६२२ ॥
View Verse
दैवमानुषपैशाचाश्चत्वारोऽन्ये क्रमेण तु ।
प्रासादे तु चतुर्द्वारे चतुर्दिक्षु समैः पदैः ॥ ६२३ ॥
View Verse
विभजेत् सप्तधा मध्ये भागः स्याद्ब्राह्नसंज्ञितः ।
दिव्यमानुषपैशाचाः क्रमात् पङ्क्तिक्रमेण तु ॥ ६२४ ॥
View Verse
अथवा चाष्टधा कृत्वा मध्ये ब्राह्नं चतुष्पदम् ।
दिव्यादिसंज्ञितं विप्र क्रमात् पङ्तित्रयं भवेत् ॥ ६२५ ॥
View Verse
अथवा नवधा गर्भं विभजेत् सर्वदिक्पदैः ।
मध्यमं तु भवेद्ब्राह्नं दिव्यं पङक्तिद्वयेन वा ॥ ६२६ ॥
View Verse
दिव्यब्राह्नं भवेत् पङ्क्त्या पङ्क्त्या दैविकसंज्ञितम् ।
मानुषं तद्बहिः पङ्क्त्या पैशाचं तद्बहिर्भवेत् ॥ ६२७ ॥
View Verse
यद्वा द्विरष्टधा भङ्क्त्वा ब्राह्नमध्ये चतुष्पदम् ।
दिव्यब्राह्नं बहिः पङक्त्या दिव्यं पङ्क्तित्रयेण च ॥ ६२८ ॥
View Verse
पङ्क्तिद्वयं मानुषं स्यात् पैशाचं पङ्क्तिजं भवेत् ।
एकद्वारेऽपि भवने एवं वा परितो स्रजेत् ॥ ६२९ ॥
View Verse
चतुर्द्वीरेऽपि भवने ब्राह्नाख्ये मध्यमे पदे ।
चतुर्दिग्वीक्षमाणस्य स्थापनं चतुरात्मनः ॥ ६३० ॥
View Verse
प्रासाद एकद्वारे तु एकबेरं द्विजोत्तम ।
ब्राह्नदैविकभागाभ्यां दैवमानुषयोस्तु वा ॥ ६३१ ॥
View Verse
ब्राह्ने वा दैविके वाथ तस्मिन् दिव्याश्रिते तु वा ।
मानुषाश्रितदैवे वा स्थापयेत् फलभेदतः ॥ ६३२ ॥
View Verse
चतुर्द्वारे तु भवने बहुबेरं निवेशयेत् ।
विबुधब्रह्नभागाभ्यां दिव्यमानुषयोस्तु वा ॥ ६३३ ॥
View Verse
ब्राह्नादिमानुषान्तेषु त्रिषु भागेषु वा द्विज ।
ब्राह्नाश्रिते तु दिव्ये वा तस्मिन् वा मानुषाश्रिते ॥ ६३४ ॥
View Verse
सपीठबिम्बमानानां बृहत्वस्यानुरूपतः ।
चतुर्द्वारे तु भवने ब्राह्न एव भवेत् सदा ॥ ६३५ ॥
View Verse
ब्राह्नादिमानुषान्तेषु त्रिषु भागेषु चोत्तमम् ।
शयनं ब्राह्नदिव्याब्यां मध्यमं त्वधमं स्मृतम् ॥ ६३६ ॥
View Verse
दिव्यमानुषभागाभ्यामेवं विद्धि त्रिधा स्थितम् ।
ब्राह्ने वा ब्राह्नदिव्ये वा दिव्ये वा ब्रह्नसंश्रिते ॥ ६३७ ॥
View Verse
दिव्यमानुषयोर्वापि दिव्ये वा मानुषाश्रिते ।
आसनं विहितं विप्र स्थानेऽप्येवं विधीयते ॥ ६३८ ॥
View Verse
यानगं स्थापयेद्ब्राह्ने दिव्यमानुषयोस्तु वा ।
एकबेरविधाने तु तदग्रे भागयोर्द्वयोः ॥ ६३९ ॥
View Verse
आराधनार्थतो वेदिं स्थापयेन्मुनिपुङ्गव ।
यदा चोत्सवबिम्बादिबिम्बानां संस्थितिस्तदा ॥ ६४० ॥
View Verse
अग्रपीठोपगं भागं तृतीयं वा समैः पदैः ।
सप्ताष्टनबधा वापि भजेद्भित्तिद्वयान्तरे ॥ ६४१ ॥
View Verse
द्विरष्टधा वा मध्ये तु क्रमाद्भागत्रयं त्यजेत् ।
चतुष्कं त्रितयं षट्कं ततः शेषेषु दक्षिणे ॥ ६४२ ॥
View Verse
स्थापयेदौत्सवं बिम्बं देवीयुक्तं तु वामतः ।
भागेषु क्रमशो विप्र तीर्थबिम्बसमन्वितम् ॥ ६४३ ॥
View Verse
बिम्बं नित्योत्सवार्थं च तथा शयनकौतुकम् ।
निमित्तस्नपनार्थं च बिम्ब तंरुणकौतुकम् ॥ ६४४ ॥
View Verse
आराधनार्थं देवस्य मध्ये भागद्वयोरपि ।
स्नपने मूलबिम्बस्य क्रियमाणे बहूदकैः ॥ ६४५ ॥
View Verse
यथा चौत्सवबिम्वाद्याः स्नानीयजलबिन्दुभिः ।
न स्पृश्यते तथा तेषां स्थापनं तु समाचरेत् ॥ ६४६ ॥
View Verse
संकटे सति तद्देशे बाह्ये तु मुखमण्डपे ।
स्थापयेत् सर्वबिम्बानि तत्रापि सति संकटे ॥ ६४७ ॥
View Verse
प्रथमावरणे वापि द्वितीयावरणेऽपि वा ।
स्थानं सुविस्तृतं कृत्वा प्रासादाग्रं च वर्ज्यदिक् ॥ ६४८ ॥
View Verse
दिक्त्रयेऽभिमते कुर्याद् विदिक्ष्वभिमतेषु वा ।
खलूरिकाप्रदेशे वा सुदेशे सुपरीक्षिते ॥ ६४९ ॥
View Verse
स्थापयेद्विधिना यात्राबिम्बं देवीसमन्वितम् ।
अन्यानि सर्वबिम्बानि बहि र्न स्थापयेत् व्कचित् ॥ ६५० ॥
View Verse
शास्त्रज्ञो देशिकेन्द्रस्तु बहुबेरविधावपि ।
निमित्तस्नपनादौ तु योग्ये बृहति सत्तम ॥ ६५१ ॥
View Verse
स्थापिते मूलबिम्बे तु एवमेव समाचरेत् ।
विना वै कर्मबिम्बं च बिम्बं नित्योत्सवार्थतः ॥ ६५२ ॥
View Verse
उभयं स्थापयेन्नित्यं प्रासादाभ्यन्तरे व्कचित् ।
अयोग्ये मूलबिम्बे तु सदा स्नपनकर्मणि ॥ ६५३ ॥
View Verse
यात्राबिम्बादिबिम्बानि सदा गर्भगृहान्तरे ।
सर्वाणि स्थापनीयानि न बाह्ये तु कदाचन ॥ ६५४ ॥
View Verse
बहुबेरविधौ भागे तदग्रे सप्तभाजिते ।
भागमेकं परित्यज्य दक्षिणेऽथ पदद्वये ॥ ६५५ ॥
View Verse
स्थापयेदौत्सवं बिम्बं चतुर्थे स्नपनास्पदम् ।
कर्मबिम्बं च तद्वामे तीर्थबिम्बादियोजनम् ॥ ६५६ ॥
View Verse
वेदिः स्थाप्या तदन्यस्मिन् भागे भागद्वयोऽपि वा ।
पैशाचमथवाप्यग्रे त्यक्त्वा भागद्वयोरपि ॥ ६५७ ॥
View Verse
स्थाप्य बिम्बं तदूर्ध्वे तु कर्मबिम्बस्य चास्पदम् ।
तस्य दक्षिणपार्श्वे तु यात्रामूर्तिं तु विन्यसेत् ॥ ६५८ ॥
View Verse
वामपार्श्वे ततोऽन्येषां स्थापनं विहितं भवेत् ।
अष्टधा नवधा भाक्ते स्थापयेतं पञ्चमे पदे ॥ ६५९ ॥
View Verse
कर्मबिम्बं तु नवमे पदे षोडशभाजिते ।
अन्येषां सर्वबिम्बानां प्राग्वत् स्थापनमाचरेत् ॥ ६६० ॥
View Verse
मूलबिम्बे शयाने तु विशेषः कथ्यते श्रृणु ।
सप्तभाक्तेऽग्रभभागे तु प्राग्वद्भित्तिद्वयान्तरे ॥ ६६१ ॥
View Verse
दत्त्वा दक्षिणभागे तु भागानां तु चतुष्टयम् ।
स्थापयेत् पञ्चमे वापि चतुर्थे कर्मकौतुकम् ॥ ६६२ ॥
View Verse
अष्ठधा नवधा भाक्ते षष्ठे वा पञ्चमेऽपि वा ।
अग्रे द्विरष्टधा भाक्ते द्वादशैकादशे तु वा ॥ ६६३ ॥
View Verse
दशमे नवमे वापि स्थापयेत् कर्मकौतुकम् ।
दक्षिणोत्तरयोः प्राग्वदन्येषां न्यसनं भवेत् ॥ ६६४ ॥
View Verse
आराधनार्थतो वेदिः स्थापनीया तु पूर्ववत् ।
परितः सप्तधा भक्ते नवधाष्टद्विरष्टधा ॥ ६६५ ॥
View Verse
मूलबिम्बाग्रतः पङ्क्त्या द्वितीयायामथापि वा ।
सर्वेषां कर्मबिम्बानां प्राग्वत् स्थापनमाचरेत् ॥ ६६६ ॥
View Verse
स्थापनीया च विप्रेन्द्र प्राग्वदर्चनवेदिका ।
पीठोपर्यपि वा देवं यं त्वाराधयते सदा ॥ ६६७ ॥
View Verse
मध्ये रत्नोपलं पीठे न्यस्त्वोर्ध्वे स्थापयेत्तु ताम् ।
देवीसमन्वितं यत्र सथापनं भवति द्विज ॥ ६६८ ॥
View Verse
मूलबिम्बस्य पार्श्वे तु पीठदेशं विसृज्य च ।
सपीठानां तु देवीनां स्थापनं तु समाचरेत् ॥ ६६९ ॥
View Verse
एका सव्ये दक्षिणे वा स्थाप्या द्वे दक्षवामयोः ।
चतस्रस्तु क्रमेणैव स्थाप्या दक्षिणवामयोः ॥ ६७० ॥
View Verse
प्रासादे चलबिम्बं तु स्थाप्यते यत्र सत्तम ।
मध्ये वेदिं तु संस्थाप्य तदूर्ध्वे स्थापयेत्तु तत् ॥ ६७१ ॥
View Verse
यद्वा दिव्ये मानुषे वा पीठं स्थाप्य तदूर्ध्वतः ।
सन्निवेश्य च तद्बिम्बं पूजाकाले ह्युपस्थिते ॥ ६७२ ॥
View Verse
मध्ये भद्रासनं न्यस्त्वा तदूर्ध्वे विनिवेश्य च ।
तत् पूजयित्वानुदिनं भूयः पीठोपरि न्यसेत् ॥ ६७३ ॥
View Verse
स्वयंव्यक्ते विमानादौ स्थाने सिद्धप्रतिष्ठिते ।
मुनिमुख्यैस्तु तत्रैवं विशेषं श्रृणु सत्तम ॥ ६७४ ॥
View Verse
सपीठं भगवद्बिम्बं मूलाख्यं स्थापितं पुरा ।
देशे यावति तद्देशद्वारयोरन्तरं तु यत् ॥ ६७५ ॥
View Verse
तत् त्रिधा सुसमं कृत्वा आरभ्य द्वारपार्श्वतः ।
पैशाचं मानुषं दिव्यं क्रमाद्भागत्रयं भवेत् ॥ ६७६ ॥
View Verse
दक्षभित्तेः समारभ्य दिव्यभागं भजेत् समम् ।
सप्तधा वामभित्त्यन्तं ततो वै दक्षिणादितः ॥ ६७७ ॥
View Verse
पञ्चमे वा चतुर्थे वा स्थापयेत् कर्मकौतुकम् ।
तस्य दक्षिणपार्श्वे तु लक्षमीपुष्टिसमन्वितम् ॥ ६७८ ॥
View Verse
स्थापयेदौत्सवं बिम्बं वामपार्श्वे नियोजयेत् ।
अन्यानि सर्वबिम्बानि यथावत् क्रमयोगतः ॥ ६७९ ॥
View Verse
द्वारात् पश्चिमभित्यन्तं यद्वा कृत्वा तु सप्तधा ।
सन्त्यज्य द्वारपार्श्वे तु भाजयेद् द्वितयं पुनः ॥ ६८० ॥
View Verse
तृतीयं दैविकं सप्त कृत्वा भित्तिद्वयान्तरे ।
कर्मबिम्बादिबिम्बानां पूर्ववत् स्थापनास्पदम् ॥ ६८१ ॥
View Verse
तत्रापि शयने विप्र विधानमवधारय ।
पञ्चमे षष्ठभागे वा कर्मबिम्बं नियोजयेत् ॥ ६८२ ॥
View Verse
अन्येषां सर्वबिम्बानां पूर्ववत् स्थापनं भवेत् ।
स्वयंव्यक्ते चतुर्द्वारे परितः सप्तधा भजे त् ॥ ६८३ ॥
View Verse
पैशाचं मानुषं त्यक्त्वा तृतीये दैविके पदे ।
अग्रभागे तु सौम्ये वा ईश्वरप्राग्वशेन तु ॥ ६८४ ॥
View Verse
ईशानदिव्यभागे वा कर्मबिम्बं नियोजयेत् ।
यत्र प्रासादगर्भे तु एकस्मिन् न्यस्य पीठके ॥ ६८५ ॥
View Verse
चतुरो वासुदेवाद्यानथवा केशवादिकान् ।
प्रादुर्भावसमूहं वा पङ्क्तिरूपेण योजयेत् ॥ ६८६ ॥
View Verse
दिव्यक्रमेण तत्रायं विशेषः कथ्यते श्रृणु ।
द्वारादिभित्तिपर्यन्तं दक्षिणोत्तरमायते ॥ ६८७ ॥
View Verse
विभक्ते सप्तधा गर्भे ब्राह्नादिषु पदेषु च ।
स्थापयेत् पङ्क्तिरूपेण पूर्वोक्तेनैव वर्त्मना ॥ ६८८ ॥
View Verse
तत्रापि दक्षिणाशादिस्थापयेदुत्तरान्तिमम् ।
यत्र चावृतिरूपेण स्थापयेत्तत्र सप्तधा ॥ ६८९ ॥
View Verse
विभक्ते परितो गर्भे मध्ये ब्राह्ने नियोजयेत् ।
प्रधानमूर्तिं परितो दिव्ये वा मानुषे द्वयोः ॥ ६९० ॥
View Verse
अन्याश्च सकला मूर्तीः स्थापयेदावृतिक्रमात् ।
चतुर्व्यूहप्रतिष्ठायां वासुदेवं तु मध्यमे ॥ ६९१ ॥
View Verse
तद्बहिर्दिव्यपङ्क्तौ तु संकर्षणं तु दक्षिणे ।
प्रद्युम्नं पश्चिमे भागे अनिरुद्धं तथोत्तरे ॥ ६९२ ॥
View Verse
स्वस्वकारणसंयुक्तं मूर्त्यन्तरगतस्य च ।
चातुरात्म्यचतुष्कस्य एवमेव नियोजयेत् ॥ ६९३ ॥
View Verse
चातुरात्म्येषु नवसु नवमूर्तिमयेषु च ।
आद्ये मध्ये वासुदेवं प्रागाद्ये दिक्चतुष्टये ॥ ६९४ ॥
View Verse
वासुदेवादिचत्वारः स्थापनीयाः क्रमेण तु ।
पञ्चमूर्तिप्रतिष्ठाख्ये द्वितये मध्यमे पदे ॥ ६९५ ॥
View Verse
वासुदेवं ततो दिव्ये संस्थाप्या दिक्चतुष्टये ।
नारायणान्ताश्चत्वारः संकर्षणपुरस्सराः ॥ ६९६ ॥
View Verse
एवं क्रमात् प्रतिष्ठानमाचरेत् सप्तकेऽपि च ।
नवमूर्तिप्रतिष्ठायां वासुदेवं तु मध्यमे ॥ ६९७ ॥
View Verse
तद्वहिर्दिव्यभागस्थपदेष्वष्टासु च क्रमात् ।
अष्टौ संकर्षणाद्याश्च वराहान्ताश्च मूर्तयः ॥ ६९८ ॥
View Verse
केशवादिप्रतिष्ठायां बासुदेवं तु मध्यमे ।
विभज्य दिव्यभागं तु द्वादशारोक्तवर्त्मना ॥ ६९९ ॥
View Verse
प्रागादि स्थापयेद्देवान् केशवाद्यांस्तु द्वादश ।
यद्वा मानुषपङ्क्तौ तु कोणभागचतुष्टयम् ॥ ७०० ॥
View Verse
संत्यक्त्वाऽन्येषु भागेषु प्रागादि स्थापयेत् क्रमात् ।
संकटे सति वै कुर्याद्दिव्यमानुषयोरपि ॥ ७०१ ॥
View Verse
एकबेरे समुदितस्थानभेदात् फलं श्रृणु ।
ब्राह्नभागे तु मोक्षः स्याद्दिव्ये स्थानाभिवृद्धिकृत ॥ ७०२ ॥
View Verse
भोगमोक्षफलावाप्तिर्व्राह्ने दिव्यसमाश्रिते ।
दिव्यभागफलावाप्तिर्मानुषाश्रितदैविके ॥ ७०३ ॥
View Verse
दैवमानुषभागाच्च त्वैहिकामुष्मिकं फलम् ।
विबुधब्रह्नभागाच्च सैहिकं तु गुणाष्टकम् ॥ ७०४ ॥
View Verse
बहुबेरविधाने तु फलभेदं श्रृणु द्विज ।
ज्ञानादिगुणषट्कस्य प्राप्तिर्ब्रह्नपदे भवेत् ॥ ७०५ ॥
View Verse
सर्वकामफलप्राप्तिर्दैविके ब्रह्नसंश्रिते ।
विबुधब्रह्नभागे च दिव्यमानुषयोरपि ॥ ७०६ ॥
View Verse
मानुषाश्रितदिव्ये च पूर्वमेवोदितं फलम् ।
ब्राह्नादिमानुषान्तेषु भागेषु स्थापने सति ॥ ७०७ ॥
View Verse
स्थानस्य यजमानस्य वृद्धिः स्याद्राजराष्ट्रयोः ।
कर्मार्चास्थापने विप्र फलभेदस्तु कथ्यते ॥ ७०८ ॥
View Verse
ब्राह्ने सप्तविभक्ते तु चतुर्थे स्थापनं भवेत् ।
मोक्षदं पञ्चमे भागे तत्सामीप्यफलप्रदम् ॥ ७०९ ॥
View Verse
अष्टधा प्रविभक्ते तु पञ्चमे तु गुणाष्टकम् ।
स्थापनं षष्ठभागे तु तत्सालोक्यफलप्रदम् ॥ ७१० ॥
View Verse
नवधा प्रविभक्ते तु एवमेव भवेत् फलम् ।
तस्मिन् षोडशधा भक्ते नवमे गुणषट्कदम् ॥ ७११ ॥
View Verse
दशमे स्थापनं विप्र द्वादशैकादशेपि च ।
विण्णुलोकपदावासमचिरात् संप्रयच्छति ॥ ७१२ ॥
View Verse
दैविके सप्तभक्ते तु चतुर्थे स्थापनं द्विज ।
सद्विवेकं च धर्मं च सौमनस्यं प्रयच्छति ॥ ७१३ ॥
View Verse
स्थापनं षष्ठभागे तु पुष्टिसौभाग्यवर्धनम् ।
अपमृत्युजयं दद्याद्बलोत्साहसमृद्धिकृत् ॥ ७१४ ॥
View Verse
विभक्ते नवधा त स्मिन्नेवमेव भवेत् फलम् ।
द्विरष्टधा विभक्ते तु नबमे स्थापनं द्विज ॥ ७१५ ॥
View Verse
दिव्यभोगफलावाप्तिं प्रयच्छत्यचिरेण तु ।
दशमैकादशे भागे द्वादशे च नियोजनम् ॥ ७१६ ॥
View Verse
धनधान्यसमृद्धिं च भूमिप्राप्तिं ददाति च ।
एवं तु परितो भक्ते ब्राह्नभागे नियोजनम् ॥ ७१७ ॥
View Verse
शश्वत् कैवल्यफलदं अग्रदिव्यपदे तु तत् ।
भोगप्रदं तथा चैव वलोत्साहसमृद्धिकृत् ॥ ७१८ ॥
View Verse
ईशानदिव्यभागे तु स्थापनं संप्रयच्छति ।
आयुरारोग्यमैश्वर्यं राज्ञां विजयमेव च ॥ ७१९ ॥
View Verse
स्थानस्य महतीं वृद्धिं तथा जनपदस्य च ।
स्थापनं सौम्यदिव्ये तु भोगमोक्षफलप्रदम् ॥ ७२० ॥
View Verse
दिव्यब्रह्नाख्यपङ्क्तौ तु दिव्यवत् स्थापनं भवेत् ।
यत्र यत्र पदे प्रोक्तं बिम्बानां सन्निवेशनम् ॥ ७२१ ॥
View Verse
तत्तत्समं द्विधाकृत्वा स्थापने ह्यमृतांशके ।
फलान्युक्तानि सिध्यन्ति आग्नेये विपरीतकृत् ॥ ७२२ ॥
View Verse
प्रासादस्यान्तरे विप्र यात्राबिम्बस्य योजनम् ।
स्थानस्य यजमानस्य राज्ञो जनपदस्य च ॥ ७२३ ॥
View Verse
ददाति महतीं लक्ष्मीं तेजश्चापि दिने दिने ।
एतदेव फलं विप्र मध्यमं मुखमण्डपे ॥ ७२४ ॥
View Verse
प्रथमावरणादौ च स्थाने मन्दफलं भवेत् ।
एवमेव फलं विप्र अन्येषां स्थापनेऽपि च ॥ ७२५ ॥
View Verse
मूलबिम्बादिबिम्बानां सर्वेषां च महामते ।
प्रमादाद्बुद्धिपूर्वाद्वा स्वं स्वं स्थानं यथोदितम् ॥ ७२६ ॥
View Verse
परित्यज्य तदन्यस्मिन् स्थाने संस्थापिते सति ।
स्थानं च यजमानश्च राजा राष्ट्रं विनश्यति ॥ ७२७ ॥
View Verse
तद्देशवासिनः सर्वे जना व्याध्यादिपीडिताः ।
भवेयुः स्यादनावृष्टिर्दुर्भिक्षं शत्रुपीडनुम् ॥ ७२८ ॥
View Verse
तस्माद्धितैषी राष्ट्रस्य स्वस्य राज्ञस्तथैव च ।
तथा यथोदितस्थानव्यत्ययं न समाचरेत् ॥ ७२९ ॥
View Verse
प्रमादालस्यपूर्वेण दोषेण स्थापनेऽपि च ।
व्यत्ययादचलं बिम्बं वर्जयित्वा तु जङ्गमम् ॥ ७३० ॥
View Verse
स्वे स्वे यथोदिते स्थाने संस्थाप्य परिंपूजयेत् ।
विशेषेण स्वयंव्यक्ते सिद्धाद्यैश्च प्रतिष्ठिते ॥ ७३१ ॥
View Verse
प्रासादे चलबिम्बं तु स्वे स्वे स्थाने निवेशयेत् ।
भिन्ने प्रेक्षावशान्मध्ये सति भूयः समाचरेत् ॥ ७३२ ॥
View Verse
क्षालितेऽस्त्राम्बुना लिप्ते हृदा वै चन्दनादिना ।
श्वब्रेऽधोघटरुद्धानां मन्त्राणां च निरोधनम् ॥ ७३३ ॥
View Verse
पूर्वोक्तेन विधानेन धिया स्वे स्वेऽयने तथा ।
कृत्वार्चनं यथोद्दिष्टं पूर्णान्तं तत्र विनय्सेत् ॥ ७३४ ॥
View Verse
बाहुल्येन तु षट्पञ्चचतुर्गोलकसंमिताम् ।
पीठाद्विनिर्गतां किञ्चिद्भूतले सुस्थिरां शिलाम् ॥ ७३५ ॥
View Verse
ग्रस्तां पीठेन मुक्त्यर्थं नवरन्ध्रकृतां पुरा ।
स्वमन्त्रेण तु तत्रापि प्रतिष्ठासीति पाठयेत् ॥ ७३६ ॥
View Verse
प्रागादौ प्राभवेनाथ पञ्चकं पञ्चकं न्यसेत् ।
शिलावटेषु द्रव्याणां तत्र वज्रं च हाटकम् ॥ ७३७ ॥
View Verse
हरितालमुशीरं च ब्रीहयो दक्षिणे त्वथ ।
इन्द्रनीलमयश्चैव कासीसं चन्दनं तिलाः ॥ ७३८ ॥
View Verse
मुक्ताफलं च रजतं पारदं चाप्यदिक् तथा ।
सहोशीराश्च वै मुद्गाः पझरागमथोत्तरे ॥ ७३९ ॥
View Verse
कांस्यं च राजपाषाण राजेन्द्रं चणकैः सह ।
विंशकं विनय्सेन्मध्ये पूर्वमेव ततो बहिः ॥ ७४० ॥
View Verse
विदिक्ष्वप्यययोगेन त्वेवमन्यत् पृथक् पृथक् ।
लोहं वैडूर्यपूर्वं तु चक्राङ्कं चाभ्रकं तथा ॥ ७४१ ॥
View Verse
षाष्टिकं त्वीशदिग्वायोः पुष्यरागो हरीतका ।
गैरिकं शारिकात्रैव मसूराण्यथ यातुदिक् ॥ ७४२ ॥
View Verse
महानीलं च वङ्गं च तथा पाषाणमाक्षिकम् ।
यबाः सागरुकाश्चैव आग्नेय्यां स्फटिकं तथा ॥ ७४३ ॥
View Verse
ताम्रं मनश्शिला चैव गोधूमाः शङ्खपुष्पिकाः ।
मध्ये सर्वाणि तदनु ततो गर्तगणं तु तत् ॥ ७४४ ॥
View Verse
लेपैराच्छादितं कृत्वा साङ्गं मन्त्रं पदे पदे ।
पूजयित्वा यजुर्वेदांश्चमषट्कांश्च पाठयेत् ॥ ७४५ ॥
View Verse
तदूर्ध्वे विन्यसेत् पीठं तच्छ्वभ्रे विनिवेश्य च ।
अष्टलोहमयं चक्रं तदूर्ध्वे तु महामते ॥ ७४६ ॥
View Verse
द्वादशाख्याविशेषोक्त आधारो यस्य यः स्वकः ।
हैमं तदूर्ध्वे कमलं तज्जं वा ताम्ररमेव वा ॥ ७४७ ॥
View Verse
यथाक्रमस्थितं ह्येतत् पञ्चकं चतुरात्मनि ।
न्यसेदनन्तं चक्रस्य मीनकूर्मौ तु तस्य वै ॥ ७४८ ॥
View Verse
कूर्मानन्तौ तु मीनस्य मीनानन्तौ तु तस्य च ।
सर्वस्य विहितं पझं तस्यानन्तं तु विन्यसेत् ॥ ७४९ ॥
View Verse
लक्ष्म्यादीनां च शक्तीनां चक्रं स्थापनकर्मणि ।
न्यस्य पूर्णान्तिकं कृत्वा कर्मण्यत्र च तर्पणम् ॥ ७५० ॥
View Verse
ब्मण्‍डपे तु खगेशस्य एवमेव समाचरेत् ।
सह मूर्तिधरैः प्राग्वत् कार्या दर्भोदकक्रिया ॥ ७५१ ॥
View Verse
अथ विध्यन्तरं वक्ष्ये समाकर्णय साम्प्रतम् ।
पुरैव संस्कृतां विप्र न्यसेद्ब्रह्नशिलां ततः ॥ ७५२ ॥
View Verse
किञ्चित्पीठतलान्न्यूनां समां श्लक्ष्णां दृढां द्विज ।
कृत्वा नवपदां पूर्वं पझं तस्याः पदे पदे ॥ ७५३ ॥
View Verse
विलिख्य रेखया सम्यक् खनेत् सर्वेषु कर्णिकाम् ।
गर्भमध्ये शिलामानबाहुव्यायामयोः खनेत् ॥ ७५४ ॥
View Verse
तत्पूर्वसूत्रमार्गेण संचाल्योत्तरदिङ्नयेत् ।
श्वभ्रं तत्रापि मद्ये तु शुभं कुर्यात् षडङ्गुलम् ॥ ७५५ ॥
View Verse
तस्मिंस्तु रत्नसंपूर्णं हेमजं वाथ ताभ्रजम् ।
चतुरङ्गुलमात्रं तु कलशं कम्बुरूपिणम् ॥ ७५६ ॥
View Verse
हृन्मन्त्रेण तु संमन्त्र्य गायत्र्या विनिवेश्य च ।
सापिधानं तु तं कृत्वा सुधालेपं तथोपरि ॥ ७५७ ॥
View Verse
दत्वा ब्रह्नशिलां न्यस्येत् प्राङ्नन्त्रपरिभाविताम् ।
व्यापकत्वं समालम्ब्य स्वयमेव तथा गुरुः ॥ ७५८ ॥
View Verse
तां शिलां व्यापिकां ध्यायेदाधाराधेयविग्रहाम् ।
तत्र सर्वाध्वगन्यासं मूलमन्त्रेण भावयेत् ॥ ७५९ ॥
View Verse
एवं तत्सन्निधिं कृत्वा पश्चात्तदुपरि द्विज ।
न्यासं रत्नादिकं कुर्याद्यथा तदवधारय ॥ ७६० ॥
View Verse
हैममग्निं तथानन्तं राजतं हेमजां धराम् ।
अष्टलोहमयं पझं मध्ये ब्रह्नशिलोपरि ॥ ७६१ ॥
View Verse
प्राच्यादौ पझगर्भेषु क्रमादीशानगोचरम् ।
वज्रं च सूर्यकान्तं च इन्द्रनीलं तथैव च ॥ ७६२ ॥
View Verse
महानीलं मुनिश्रेष्ठ मुक्ताफलमतः परम् ।
पुष्यरागं ततश्चैव पझरागमतः परम् ॥ ७६३ ॥
View Verse
ऐशान्ये न्यस्य वैडूर्यं मध्यतः स्फटिकम् न्यसेत् ।
प्रागादौ रजतं ताम्रं त्रपु वङ्कं च रीतिकम् ॥ ७६४ ॥
View Verse
लोहं तथायसं कांस्यं मध्ये हेमं निवेश्य च ।
तालं मनश्शिलां छिन्नपिष्टकं कुष्ठमेव च ॥ ७६५ ॥
View Verse
स्रोतोञ्जनं तु दरदं सौराष्ट्री हेमगैरिके ।
मद्ये तु राजपाषाणं पारदं चापि सर्वतः ॥ ७६६ ॥
View Verse
गोधूमांश्च यवान् वन्यान् मुद्गमाषांस्तथैव च ।
चणकान् मुनिशार्दूल कुलुत्थं च मसूरकम् ॥ ७६७ ॥
View Verse
क्रमादष्टासु विन्यस्य मध्ये सिद्धार्थकांस्तिलान् ।
ह्रीबेरं रजनीं मांसीं सहदेवीं वचां तथा ॥ ७६८ ॥
View Verse
विण्णुक्रान्तां बलां मोटां श्यामाकं शङ्खपुष्पिकाम् ।
प्रागादौ मद्यपर्यन्तं विनय्सेन्मूलसन्ततिम् ॥ ७६९ ॥
View Verse
रत्नानामप्यलाभे तु शस्तं मुक्ताफलं भवेत् ।
लोहानामप्यभावे तु सुवर्णं शस्यते परम् ॥ ७७० ॥
View Verse
धातूनामप्यलाभे तु हरितालं विशिष्यते ।
अलाभे सर्वबीजानां शालिबीजं प्रशश्यते ॥ ७७१ ॥
View Verse
अलाभे सर्ववस्तूनां हेमं सर्वत्र विन्यसेत् ।
तदभावे तु रजतं न्यसेन्मुक्ताफलानि वा ॥ ७७२ ॥
View Verse
घृतेन पयसा चाथ भावितेन पुरैव तु ।
प्रदद्याल्लेपनं विप्र सर्वगर्तेषु चैव हि ॥ ७७३ ॥
View Verse
अहतं सुसितं पश्चात्तत्रोपरि दुकूलकम् ।
अन्तः श्लक्ष्णं सुधालेपं दत्वा पीठं तु विन्यसेत् ॥ ७७४ ॥
View Verse
सन्धाय पूर्ववत्तच्च शिलया ब्रह्नसत्तम ।
पीठश्वभ्रेऽथ विन्यस्य सौवर्णं गारुडं महत् ॥ ७७५ ॥
View Verse
क्षीरं दधिघृतं लाजान्मधुपुष्पफलानि च ।
सर्वगन्धानि विप्रेन्द्र सर्वौषधियुतानि च ॥ ७७६ ॥
View Verse
भावयेत् पूर्ववत् पीठं धर्माद्यैरखिलैर्युतम् ।
चिदासनमयीं व्याप्तिं पुनस्तत्रोपरि न्यसेत् ॥ ७७७ ॥
View Verse
हृदा तु विष्णुगायत्र्या एकैकमभिमन्त्र्य च ।
विनय्स्य कुर्याद्धवनं यस्मिन् यस्मिंस्तु कर्मणि ॥ ७७८ ॥
View Verse
पीठन्यासावधिं यावत्ततः पूर्णां जुहेद्गुरुः ।
चतुर्गुणितसूत्रेण वेष्टयेद्देवमन्दिरम् ॥ ७७९ ॥
View Verse
च्छादयेन्नववस्त्रेण तथा वै दर्भमालया ।
ततस्तु मूर्तिपैः सार्धं प्रविशेद्यागमण्डपम् ॥ ७८० ॥
View Verse
प्रतीक्षेल्लग्नकालं तु यावत् कालं न याति च ।
तावद्विनोदैर्होमैश्च हास्यैः पाठैश्च संक्षिपेत् ॥ ७८१ ॥
View Verse
प्राप्ते लग्नोदये विप्र शयनस्थं प्रबोधयेत् ।
अर्घ्यालभनमाल्याद्यैरर्चयित्वा त्विमं पठेत् ॥ ७८२ ॥
View Verse
मन्त्रात्मन् रूपमात्मीयमाग्नेयमुपसंहर ।
समाश्रयस्व सौम्यत्वं स्थित्यर्थं परमेश्वर ॥ ७८३ ॥
View Verse
नमस्तेस्तु हृषीकेश उत्तिष्ठ परमेश्वर ।
मदनुग्रहहेत्वर्थं पीठभूमिं समाक्रम ॥ ७८४ ॥
View Verse
उद्धृत्य हृदयेनाथ त्यक्तनिद्रं च मन्त्रपम् ।
उत्थाप्य मूर्तिमन्त्रेण सहमूर्तिधरैर्बलात् ॥ ७८५ ॥
View Verse
कुम्भं समुद्धरेत् सास्त्रं स्वकुण्डनिकटे स्थितम् ।
उद्धरेयुर्दिशाहोमकर्तारो मड्गलैः सह ॥ ७८६ ॥
View Verse
अष्टौ विद्येश्वरान् कुम्भानाचार्यः पुरतो व्रजेत् ।
शलाकामात्रयाऽच्छिन्नधारया कुम्भमुद्वहन् ॥ ७८७ ॥
View Verse
यद्वा प्रक्षिपमाणस्तु रत्नांश्च विविधान् बहून् ।
नानाविधैस्तु कुसुमैर्लाजाद्यान् मिश्रितान् बहून् ॥ ७८८ ॥
View Verse
प्रतिमामुद्वहन्तो ये मूर्तिधारास्त्वनन्तरम् ।
अन्ये यथा न गच्छेयुरन्तराचार्यबिम्बयोः ॥ ७८९ ॥
View Verse
अष्टकुम्भधराश्चान्ये ये च मङ्गलधारकाः ।
परितस्तेऽपि गच्छेयुः पठन्तः शाकुनं तथा ॥ ७९० ॥
View Verse
वाग्यतो यजमानस्तु कुशपाणिः प्रणामवान् ।
तेषां वै पृष्ठतस्त्वन्ये गच्छेयुः परिचारकाः ॥ ७९१ ॥
View Verse
तोरणेन च निष्क्रम्य प्रदक्षिणचतुष्टयम् ।
कुर्यात् प्रासादपीठस्य द्वाराग्रे सन्निरोध्य च ॥ ७९२ ॥
View Verse
पाद्यार्घ्याचमनं दत्वा हृन्मन्त्रेण प्रवेशयेत् ।
शाखाद्यमस्पृशन्तं च पाठयेत्तद्विदस्ततः ॥ ७९३ ॥
View Verse
चतुश्चक्रेति तदनु पुरमेकादशेति यत् ।
वर्माभिमन्त्रितेनाथ दुकूलेन सितेन च ॥ ७९४ ॥
View Verse
पादाम्बुरुहनालं प्राक् शिखामन्त्रेण वेष्टयेत् ।
अग्नीषोमऔ समीकृत्य प्रणवाद्यन्तकेन नु ॥ ७९५ ॥
View Verse
मूलमन्त्रेण पीठोर्ध्वे बिम्बं संस्थापयेत् स्थिरम् ।
द्वारमध्यं न सन्त्याज्यं देवस्थापनकर्मणि ॥ ७९६ ॥
View Verse
न ततश्चाग्रतः स्थाप्यं न पार्श्वे न च पृष्ठतः ।
वामतो मारुतं पश्चात् सन्त्यजेद्देशिकोत्तमः ॥ ७९७ ॥
View Verse
प्रतिष्ठालिङ्गशब्दौ च द्वौ मन्त्रौ पाठयेत् क्रमात् ।
शान्तं ब्रह्नमयं रूपं स्वकं समवलम्ब्य च ॥ ७९८ ॥
View Verse
यत्रापि केवले ब्राह्ने स्थापनं समुदीरितम् ।
तत्रापि वामतः किञ्चिद्दिव्यभागं समाश्रयेत् ॥ ७९९ ॥
View Verse
यतो हितार्थं सर्वेषां निर्गतः षड्गुणात्मना ।
अतो ब्रह्नपदादीषत् देवभागे समानयेत् ॥ ८०० ॥
View Verse
मोक्षादिफलसिद्धीनां प्राप्तये ह्यविचारतः ।
करस्थमथ मोक्तव्यं कौतुकं हृदयेन तुं ॥ ८०१ ॥
View Verse
सर्वाङ्गमर्घ्यं मन्त्रेण दत्वा मूलमनुस्मरेत् ।
हृदास्त्रपरिजप्तेन वज्रालेपेन वै ततः ॥ ८०२ ॥
View Verse
बिम्बपीठशिलानां चाप्येकत्वेनाऽचरेत् स्थितिम् ।
ओङ्कारं पूर्वमुच्चार्य गुरुः प्रणतमस्तकः ॥ ८०३ ॥
View Verse
आराधितोऽसि भगवन् साधकानां हिताय च ।
त्वयाप्यनुग्रहार्थं च वस्तव्यमिह सर्वदा ॥ ८०४ ॥
View Verse
त्वं तिष्ठसि प्रभो यत्र तत्र सिद्धिर्न दूरतः ।
भवेद्वै साधकेन्द्राणामित्युक्तं पुरा त्वया ॥ ८०५ ॥
View Verse
तस्माद्ध्रुवः सदा तुष्टः सानुकम्पः परो महान् ।
सदाप्यनुग्रहपरस्तिष्ठस्वाचन्द्रतारकम् ॥ ८०६ ॥
View Verse
एवमुक्ता ततो दद्यादर्घ्यं शिरसि पादयोः ।
मूलबिम्बे मुनिश्रेष्ठ मृदादिद्रव्यनिर्मिते ॥ ८०७ ॥
View Verse
कर्मार्चायां विष्टरे वा दर्भमञ्जरिजे द्विज ।
प्रवोधनं च वै कर्म तथा प्रादक्षिणक्रियाम् ॥ ८०८ ॥
View Verse
प्रासादे सम्प्रवेशं च कृत्वान्यत् सर्वमाचरेत् ।
मूलमिम्बे क्रमेणैव देशिकेन्द्रः समाहितः ॥ ८०९ ॥
View Verse
कुर्यात्ततोऽनुवेधं च आधाराच्च शिखावधि ।
सामर्थ्यशक्तिसूत्रेण ऐश्वरेण क्रमेण तु ॥ ८१० ॥
View Verse
सति येन विलुप्तेऽपि बिम्बाद्यैरयनस्य च ।
न जहाति च मन्त्रौघस्तस्य कालान्तरेण च ॥ ८११ ॥
View Verse
अप्रबुद्धः प्रबुद्धो वा तस्मिन्नायतने पुमान् ।
निवेशयति यो बिम्बमपरद्रव्यजं तु वै ॥ ८१२ ॥
View Verse
तद्विज्ञानानुविद्धं च जायते समनन्तरम् ।
एवं विधस्य स्थानस्य त्रैलोक्येऽस्मिन् सहामते ॥ ८१३ ॥
View Verse
प्रतीत्यायतनत्वेन भवत्याचन्द्रतारकी ।
मूलमन्त्रं तु वै ध्यात्वा संशान्तब्रह्नलक्षणम् ॥ ८१४ ॥
View Verse
आधारादिध्वजाग्रान्तं व्याप्तं तेनाखिलं स्मरेत् ।
इति सामान्यसन्धानं कृत्वाऽध्वव्याप्तिमाचरेत् ॥ ८१५ ॥
View Verse
भुवनाध्वमयीं व्याप्तिं कुर्यात् प्रासादपीठगाम् ।
अनुविद्धां पदाध्वाद्यैरन्यैः सत्तास्वरूपकैः ॥ ८१६ ॥
View Verse
परस्परं हि सर्वत्र व्यापकैः परलक्षणैः ।
भूलोकांशं विना ब्रह्नन् तथान्यैरुज्झितं हि तत् ॥ ८१७ ॥
View Verse
रजस्तमोमहत्वाच्च ईषत् सत्वगुणात्तु वै ।
सत्वैकगुणरूपाणामन्येषामत एव हि ॥ ८१८ ॥
View Verse
भूर्लोकश्च पृथक्संस्थः पदाद्यध्वगणस्य च ।
कूर्मे ब्रह्नादिसंज्ञायां शिलायां च पदत्रयम् ॥ ८१९ ॥
View Verse
न्यस्तव्यं जाग्रदाद्यन्यद्रत्नन्यासे कृते सति ।
तुर्यब्रह्नसमोपेतं मन्त्राध्वा प्रतिमासने ॥ ८२० ॥
View Verse
नाभ्यन्तं पादतो न्यस्य तत्वाध्वा द्विजसत्तम ।
आनाभेर्मूर्धपर्यन्तं कलाध्वा भावयेत्ततः ॥ ८२१ ॥
View Verse
तद्ब्रह्नरन्ध्रकमले वर्णब्रह्नपदक्षितौ ।
कर्णिकायां परं ब्रह्न सामान्यं शाश्वतं विभुम् ॥ ८२२ ॥
View Verse
एवं कृत्वाध्वकीं व्याप्तिं मूलमन्त्रं तु भावयेत् ।
स्थूलसूक्ष्मपरत्वेन स्थूलं षोढा शिलान्तगम् ॥ ८२३ ॥
View Verse
पिंण्डिकायांतथा सूक्ष्मं तत्परं बिंबविग्रहे ।
विन्यासं पीठमूलेऽथ देवतानां समाचरेत् ॥ ८२४ ॥
View Verse
भवोपकरणीयानां एतासां तु महामते ।
विन्यासं मन्त्रबिम्बे तु न कदाचित् समाचरेत् ॥ ८२५ ॥
View Verse
पीठोर्ध्वे तु मुनिश्रेष्ठ प्रतिष्ठेयं विनैव तु ।
न्यसेद्विभवदेवांस्तु ह्युपर्युपरि पूर्ववत् ॥ ८२६ ॥
View Verse
घटोद्देशात् समारब्य परमर्चागतं ततः ।
एवं हि सर्वदेवानां विनिवेशवशात्तु वै ॥ ८२७ ॥
View Verse
चिन्तामणिमयो न्यासः कृतो भवति सिद्धिदः ।
तत्वसंस्थापनं कुर्यात् प्रकृतिस्थापनादनु ॥ ८२८ ॥
View Verse
विज्ञानानन्दकल्लोलैर्ज्ञेयभासा यथा रवेः ।
अनेकाह्लादजनितैराधारात्तच्छिरोवधि ॥ ८२९ ॥
View Verse
पश्येन्मन्त्रमयं बिम्बमनेकाद्भुतविग्रहम् ।
एवं सर्वसमुत्पत्तिस्थानं संकल्पसिद्धिदम् ॥ ८३० ॥
View Verse
बिम्बं मन्त्रमयं वृक्षं प्रतिष्ठाप्यामलात्मना ।
तद्विज्ञानमयीं शाखां प्रवरा यतिनोन्नताम् ॥ ८३१ ॥
View Verse
अनन्तगगनाक्रान्तां भावयेत् साधको द्विज ।
प्रसृतेन तु वै तस्मादनौपम्यामृतेन तु ॥ ८३२ ॥
View Verse
मन्त्रबिम्बमयं वृक्षं सरसं भावयेत् सदा ।
यथा भौमेन तोयेन गगनोत्थेन नारद ॥ ८३३ ॥
View Verse
मन्दारपुष्पविटपस्तद्वदेव हि नान्यथा ।
मन्त्रन्यासं ततः कुर्याद्बिम्बस्य च यथाविधि ॥ ८३४ ॥
View Verse
सृष्टिसंस्थितिसंहारन्यासं कुर्यात् त्रयं विभोः ।
स्थितेपि च तथासीने शयाने यानगेऽपि च ॥ ८३५ ॥
View Verse
एतेष्वपि च सर्वेषु कुर्यान्नयासत्रयं द्विज ।
यद्वा स्थिते स्थितिन्यासमासीने सृष्टिसंज्ञितम् ॥ ८३६ ॥
View Verse
शयाने संहृतिन्यासमाचरेद् द्विजसत्तम ।
अङ्गोपाङ्गस्थितिं कुर्यात् स्थानेषु हृदयादिषु ॥ ८३७ ॥
View Verse
अन्यानि लाञ्छनादीनि संस्थाप्या गरुडान्तिमम् ।
ततः संपूजयेत्तत्र लययागेन चाखिलम् ॥ ८३८ ॥
View Verse
पीठस्थं भोगयागेन मन्त्रचक्रं यजेत् पुनः ।
पीठीयं मन्त्रसंघं च विलोमेनाथ पूजयेत् ॥ ८३९ ॥
View Verse
आधारशक्तिपर्यन्तं सृष्टिन्यासेन सत्तम ।
स्वनाम्नि स्वामिशब्दं तु समारोप्य परं तु वा ॥ ८४० ॥
View Verse
हरिकेशवपूर्वं तु ततस्तारसमन्वितम् ।
प्रब्रूयुर्मुर्तिपाद्या वैः सुप्रतिष्ठितमस्त्विति ॥ ८४१ ॥
View Verse
पुष्पाक्षताञ्जलिं पूर्णं क्षिपमाणाश्च सर्वतः ।
सर्वे वदेयुस्तत्रस्थाः सुप्रतिष्ठितमस्त्विति ॥ ८४२ ॥
View Verse
आत्बा हार्षे ति सहवै प्रतिष्ठासीति पाठयेत् ।
विश्वस्य मित्रमित्यादि मन्त्रमेकायनान् द्विज ॥ ८४३ ॥
View Verse
ॐ नमोऽस्तु नमश्चातो ऋग्वेदाद्यैस्तु तैः सह ।
ॐ नमो ब्रह्नणेऽभीक्ष्णं जितं ते त्येवमेव हि ॥ ८४४ ॥
View Verse
जयशब्दसमोपेतं स्तोत्रं श्रोत्रमनोहरम् ।
देशिकः सह सर्वैस्तु वाग्भिरुच्चाभिरुच्चरेत् ॥ ८४५ ॥
View Verse
जीवभूतेन चैतेन विभुना मन्त्रमूर्तिना ।
प्रतिष्ठितेन विप्रेन्द्र विद्धि सर्वं प्रतिष्ठितम् ॥ ८४६ ॥
View Verse
पूर्वं कृत्वाधिवासादि मूलबिम्बेन वै सह ।
स्थापयेत् कर्मबिम्बादीन् स्वे स्वे स्थाने यथोदिते ॥ ८४७ ॥
View Verse
लक्ष्म्यादीश्च तथा शक्तीः स्थापयेत्तु विधानतः ।
प्रासादेऽपि च पूर्वोक्त लोकाद्यं स्थापयेत् क्रमात् ॥ ८४८ ॥
View Verse
स्थितेपि तन्मुहूर्तांशे स्थापनीयश्च पक्षिराट् ।
स्नातोऽनुलिप्तो मन्त्रेण स्वेन यः संस्कृतः पुरा ॥ ८४९ ॥
View Verse
ज्ञशक्त्या सह बिम्बेन यस्माद्भिन्नेषु वस्तुषु ।
बिम्बसन्निकटस्थेषु अथवान्यत्र सत्तम ॥ ८५० ॥
View Verse
तत्कालमड्गभावत्वं व्रजमानेषु सर्वदा ।
हवनान्तं च निःशेषं ध्यानार्चनपुरस्सरम् ॥ ८५१ ॥
View Verse
स्वयमेवानुरूपेण कर्मसामान्यतां व्रजेत् ।
तस्मात्तद्यागभवनादुत्थाप्यादाय बिम्बबत् ॥ ८५२ ॥
View Verse
देवं प्रदक्षिणीकृत्य प्राग्वत् संस्थापनापदे ।
एकस्मिन् मद्यरन्ध्रे तु वज्राद्यं पञ्चकं न्यसेत् ॥ ८५३ ॥
View Verse
एकमेव तदूर्ध्वेऽथाप्याधारो य उदीरितः ।
प्राग्वन्निवेशनीयश्च तत्पीठेऽध्वा च भौवनः ॥ ८५४ ॥
View Verse
भावनीयं शरीरे च विशेषं विज्ञप्तिलक्षणम् ।
पाठयेद्ब्राह्नणांस्तद्वत् सुपर्णोसीतिमन्त्रराट् ॥ ८५५ ॥
View Verse
तमेवास्त्रार्चितं कृत्वा त्वथ प्राक् शाङ्करे ततः ।
सोमेशानान्तरे वापि अङ्कणे वापि तत्पदे ॥ ८५६ ॥
View Verse
अथवा मूर्तिपीठस्थं भवनाभ्यन्तरेपि च ।
खगोक्तेन विधानेन विष्वक्सेनं निवेश्य च ॥ ८५७ ॥
View Verse
द्वारस्थानखिलान् देवांस्तथा चावरणस्थितान् ।
पूर्वोदितान् क्रमेणैव स्थापयेद्देशिकोत्तमः ॥ ८५८ ॥
View Verse
संप्रोक्ष्य कुम्भतोयेन यायाद्देवनिकेतनम् ।
कलशैः पृष्ठभागस्थैः स्नापनीयस्ततो विभुः ॥ ८५९ ॥
View Verse
सहमूर्तिधरैः सर्वैर्यथा चानुक्रमेण तु ।
सहाघमर्षणेनैव गायत्र्यावर्तितेन तु ॥ ८६० ॥
View Verse
प्रागृङ्भयस्तु तदनु चतुर्धावर्तितैः स्वयम् ।
हृदाद्यावर्तितैः षड्भिः यजुर्ज्ञस्तेन सेचयेत् ॥ ८६१ ॥
View Verse
भूयः स्वयं तथा कुम्भैः सामवित् स्नपयेत्ततः ।
षड्भिरन्यैः स्वयं पश्चात्तेनैवाथर्वणस्ततः ॥ ८६२ ॥
View Verse
पवित्रावर्तितैरेवं कलशैरन्तरान्तरा ।
सह वैकायनीयैस्तु स्नपनीयमनन्तरम् ॥ ८६३ ॥
View Verse
चतुर्मूर्तिमयैर्मन्त्रैर्बहुशः परिमभावितैः ।
स्त्रापयेत् कलशेनाथ शेषमादाय वै घटम् ॥ ८६४ ॥
View Verse
तच्छतावर्तितं कृत्वा समूलेनाद्य मूर्तिना ।
सार्घ्यं वै देवदेवस्य मूर्ध्नि चोत्कीर्य पाठयेत् ॥ ८६५ ॥
View Verse
जितन्त इति वै सर्वांस्ततश्चास्त्रोदकेन तु ।
प्रासादं शोधयित्वा तु गत्वा वै कुम्भसन्निधिम् ॥ ८६६ ॥
View Verse
तत्र संपूज्य देवेशं पूर्वोक्तेन क्रमेण तु ।
मण्डले पूजयित्वाथ प्रयायाद्बिम्बसन्निधिम् ॥ ८६७ ॥
View Verse
तत्र संपूज्येद्देवं स्नानवर्जं विशेषतः ।
सांस्पर्शिकैरासनाद्यैर्विविधैरौपचारिकैः ॥ ८६८ ॥
View Verse
हृदयङ्गमसंज्ञैश्च पायसाद्यैश्चतुर्विधैः ।
अन्नैः प्रबूतैरन्यैस्तु भक्ष्यभोज्यादिभिस्तथा ॥ ८६९ ॥
View Verse
सम्प्रदानावसानान्तं क्रमात् कृत्वा द्विजोत्तम ।
सदक्षिणं विशेषेण गुरौ मूर्तिधरेषु च ॥ ८७० ॥
View Verse
समित्सप्तकपूर्वं तु वह्नौ सन्तर्प्य वै क्रमात् ।
देवं प्रणम्य विज्ञाप्य कर्मणा मनसा गिरा ॥ ८७१ ॥
View Verse
त्वमर्चान्तर्गतो देव मया यच्चानलादिषु ।
नीतोऽसि चाभिमुख्यं तु क्षन्तव्यं तन्ममाच्युत ॥ ८७२ ॥
View Verse
एवं प्रणम्य विज्ञाप्य क्षान्त्वा निष्क्रम्य संमुखम् ।
आमूलाद् ध्वजपर्यन्तं प्रासादो यः पुरा कृतः ॥ ८७३ ॥
View Verse
देवं प्रदक्षिणीकृत्य अष्टाङ्गेन प्रणम्य च ।
गृहीत्वा चार्घ्यपात्रं तु यायाद्देवगृहाद्बहिः ॥ ८७४ ॥
View Verse
स्नानादिना समभ्यर्च्य वाहनं भगवन्मयम् ।
पूर्वोदितानां द्वार्स्थानां दिक्पतीनां तथैव च ॥ ८७५ ॥
View Verse
पूर्ववत्तु बलिं दद्यात् क्रमेण च ततः परम् ।
प्रभूतानां च भूतानां बलिदानं समा रभेत् ॥ ८७६ ॥
View Verse
गृह्णन्तु भगवद्भक्ता भूताः प्रासादबाह्यगाः ।
बलीरत्र पवित्राश्च तेषामनुचराश्च ये ॥ ८७७ ॥
View Verse
एवं क्रमाद्बलिं दत्त्वा सर्वेषां पाठयेत्ततः ।
ऋग्विद्धिरण्यगर्भेति यादेवास्त्विति वै क्रमात् ॥ ८७८ ॥
View Verse
सामज्ञश्चान्नसामानि सह धेनुमयेन च ।
सर्वेष्वावरणेष्वेवं बल्यर्थं तु प्रदक्षिणम् ॥ ८७९ ॥
View Verse
कृत्वा तु देशिकः पश्चादाचम्य भवनं विशेत् ।
न्यूनातिरिक्तशान्त्यर्थं पूर्णान्तं जुहुयाच्छतम् ॥ ८८० ॥
View Verse
हृन्मन्त्रेण तु सास्त्रेण दत्त्वा पूर्णाहुतिं ततः ।
जपेदाद्यन्तसंरुद्धं चक्रमन्त्रेण तद्बहिः ॥ ८८१ ॥
View Verse
मण्डले चाग्रतोर्चायाः सर्वच्छिद्रप्रपूरणे ।
ततः संश्रावयेद्देवं कृताञ्जलिपुटः स्थितः ॥ ८८२ ॥
View Verse
प्रासादद्वारदेशस्थो भूमौ कृत्वा तु जानुनी ।
त्वच्छक्त्या प्रेरितेनाद्य यदिदं वै मया कृतम् ॥ ८८३ ॥
View Verse
तेन चैवाभिषेक्तव्यः कर्ता कलशवारिणा ।
दद्याद्दिनचतुष्कं तु होमदानपुरस्सरम् ॥ ८८४ ॥
View Verse
प्रारम्भदिनदानेन हवनेनार्चितेन तु ।
लोकत्रयं तु भूराद्यं तृप्तिमभ्येति चाखिलम् ॥ ८८५ ॥
View Verse
चतुर्भिर्महदाद्यं तु अतो दिनचतुष्टयम् ।
कलशे मण्डलेऽग्नौ च प्राग्वत् कुर्यात् समर्चनम् ॥ ८८६ ॥
View Verse
भूराद्यं सत्यलोकान्तं सप्तकं तृप्तिमेति च ।
सप्तकेन दिनानां तु दानहोमार्चनादिना ॥ ८८७ ॥
View Verse
प्राप्तेऽहनि चतुर्थे तु अपनीय स्रगादिकम् ।
कलशान्मण्डलाद्बिम्बात् ततो यागगृहेऽर्चनम् ॥ ८८८ ॥
View Verse
होमावसानं मन्त्रस्य कृत्वा पूर्वं यथा पुरा ।
आचम्य च बलिं दत्वा यायाद्देवगृहं ततः ॥ ८८९ ॥
View Verse
तत्रासनादिकैरिष्ट्वा स्नानान्तैः पूर्ववत् प्रभुम् ।
अपनीताम्बरैः कुम्भैर्धान्यपीठोपरि स्थितैः ॥ ८९० ॥
View Verse
हृन्मन्त्रपूजितैर्भूयः सलिलेन प्रपूरितैः ।
सहमूर्तिधरैः प्राग्वदन्तरान्तरयोगतः ॥ ८९१ ॥
View Verse
कार्यं वै स्नानकर्मादि विधिदृष्टेन कर्मणा ।
निरोदकेऽथ प्रासादे पुनराराध्य पूर्ववत् ॥ ८९२ ॥
View Verse
भोगैरासनपूर्वैस्तु संप्रदानान्तमच्युतम् ।
मुद्रां बध्वा जपेन्मन्त्रं स्तुत्वा क्षान्त्वा बहिर्ब्रजेत् ॥ ८९३ ॥
View Verse
शतं सहस्रं साष्टं वा जुहुयान्मन्त्रराट् स्वयम् ।
साङ्गं सपरिवारं च संहितोच्चारयुक्तितः ॥ ८९४ ॥
View Verse
मूर्तिपैः प्रणवाद्याभिर्गायत्रीभिः शतं शतम् ।
एकायनैरभिज्ञाभिः स्वकीयाभिश्च तत्समम् ॥ ८९५ ॥
View Verse
प्रदापयेत्ततः पूर्णामृग्वेदाद्यांस्तु मूर्तिपान् ।
एकायनांस्तदन्ते तु क्रमात्तान् पाठयेत्ततः ॥ ८९६ ॥
View Verse
पूर्णात्पूर्णेति वा मन्त्रमाद्यात् पूर्णमसीति यत् ।
सनमस्केन मन्त्रेण स्वयं साङ्गेन निक्षिपेत् ॥ ८९७ ॥
View Verse
बलिभिस्तु ततःसर्वान् भूतपूर्वां तु तर्पयेत् ।
प्रविश्याचम्य तदनु क्षान्त्वा देवं तु कुम्भगम् ॥ ८९८ ॥
View Verse
पूर्ववन्मण्डलस्थं तु कुण्डस्थं तदनन्तरम् ।
विष्वक्सेनं यजेत् प्राग्वदिष्टशिष्टैः क्रमेण तु ॥ ८९९ ॥
View Verse
भूषयेद्गुरुपूर्वांस्तु मूर्तिंपान् कटकादिकैः ।
गुरोर्वा गुरुपुत्रस्य यागद्रव्यं निवेदयेत् ॥ ९०० ॥
View Verse
स्वयं वाथ प्रतिष्ठानमाचार्यस्त्वाचरेद् द्विज ।
ततो विभजनीयं तन्मूर्तिपादिष्वनुक्रमात् ॥ ९०१ ॥
View Verse
एवं सर्वेषु यागेषु कर्तव्यं देशिकेन तु ।
सिद्धेरभीप्सितार्थं च स्नायादवभृथेन च ॥ ९०२ ॥
View Verse
इत्येतत् साधकस्योक्तं मन्त्राराधनकाङ्क्षिणः ।
मन्त्रमूर्तिप्रतिष्ठानं यत्रस्थः सिद्धिमाप्नुयात् ॥ ९०३ ॥
View Verse
स्थापने यजमानस्य फलं वक्ष्ये समासतः ।
आदेवालयभूभागाद् ध्वजान्ताच्चापि मण्डपात् ॥ ९०४ ॥
View Verse
सर्वोपकरणोपेताम् सर्वेष्वावरणेषु च ।
समन्तात् परमाणूनां सर्वेषां द्विजसत्तम ॥ ९०५ ॥
View Verse
यावती जायते संख्या तावत् कर्ता स्मावसेत् ।
भोगभुग्विष्णुलोके च यात्यन्ते परमं पदम् ॥ ९०६ ॥
View Verse
कर्ता वै ब्राह्नणो विप्र सर्वविद्याधिपो भवेत् ।
क्षत्रियो यजमानस्तु सर्वदेशाधिपो भवेत् ॥ ९०७ ॥
View Verse
वैश्यस्तु यजमानः स्याद्धनधान्यसमृद्धिमान् ।
शूद्रस्तु यजमानः स्यान्मोदते बन्धुभिः सह ॥ ९०८ ॥
View Verse
स जन्मना च ज्ञानेन एवमेव भवेत् स्त्रियः ।
पुत्रार्थी पुत्रमाप्नोति राज्यार्थी राज्यमाप्नुयात् ॥ ९०९ ॥
View Verse
यद्यत् कामयते कर्ता तत्तत् सर्वं समाप्नुयात् ।
अकामानां तु भक्तानां भक्तिरव्यभिचारिणी ॥ ९१० ॥
View Verse
यच्चापि शाश्वतं ज्ञानं भवेत्तद्धर्मणा सह ।
स्वयं कृतानां बिम्बानां स्थापनं संप्रकीर्तितम् ॥ ९११ ॥
View Verse
एवं बिम्बं प्रतिष्ठाप्य प्रासादे स्वगृहे तु वा ।
ततः प्रभृति तामर्चां पूजयेत् प्रतिवासरम् ॥ ९१२ ॥
View Verse
जीर्णोद्धारावधिर्यावत्तावत्कालं विधानतः ।
प्रमादाद्बुद्धिपूर्वाद्वा पूजालोपं न कारयेत् ॥ ९१३ ॥
View Verse
तत्तद्बिम्बस्य विहितं कर्म वापि न लोपयेत् ।
कर्मणां स्नपनादीनां यत् कर्म विहितं द्विज ॥ ९१४ ॥
View Verse
यस्मिन् वै कर्मबिम्बे तु तत्रैव तु समाचरेत् ।
तत्तत्कर्मार्थबिम्बे तु विभवे सहिते सति ॥ ९१५ ॥
View Verse
तत्तत्कर्मविशेषाणां व्यत्ययं न समाचरेत् ।
असन्निधाने तेषां तु राष्ट्रभङ्गादिदोषतः ॥ ९१६ ॥
View Verse
तद्देशकालानुगुणं तत्र सन्निहितं भवेत् ।
यद्यत्कर्मार्थबिम्बं तु तत्र सर्वं समाचरेत् ॥ ९१७ ॥
View Verse
स्नपनद्वितयं चैव नित्यनैमित्तिकात्मकम् ।
नित्योत्सवविधानं च तथा नैमित्तिकोत्सवम् ॥ ९१८ ॥
View Verse
तीर्थयात्राविधानं च एवं कर्माणि पञ्च वै ।
शयनोत्थापनं कर्म तदा कूर्चे समाचरेत् ॥ ९१९ ॥
View Verse
यद्वा शोभार्थबिम्बे तु पूज्यमाने प्रतिष्ठिते ।
एवं कथितमेकस्मिन् बिम्बे सन्निहिते सति ॥ ९२० ॥
View Verse
बिम्बद्वये सन्निहिते तत्तत्कर्मविभेदतः ।
कृत्वा तदन्यत् सकलं यथायोगं समाचरेत् ॥ ९२१ ॥
View Verse
एवमभ्यूह्य कर्तव्यं तत्तद्विम्बे प्रकाशिते ।
सर्वेषु कर्मबिम्बेषु तत्र सन्निहितेषु वै ॥ ९२२ ॥
View Verse
तदा तेषां तु बिम्बानां व्यत्ययं न समाचरेत् ।
तदा शोभार्थबिम्बे तु प्राप्त उत्कृष्टलोहजे ॥ ९२३ ॥
View Verse
वर्णऐर्मृत्स्थापिते तत्र खकुलोद्धारणाय च ।
अड्गबिम्बोदितं कर्म न कदाचित् समाचरेत् ॥ ९२४ ॥
View Verse
यद्याचरेत् प्रमादेन राजा राष्ट्रं विनश्यति ।
विशेषेण स्वयंव्यक्ते दिव्ये सैद्धेऽपि चार्षके ॥ ९२५ ॥
View Verse
स्थाने तु कर्मबिम्बानां व्यत्ययं न समाचरेत् ।
तानि बिम्बानि विप्रेन्द्र यादृशानि भवन्ति हि ॥ ९२६ ॥
View Verse
लक्षणैश्च प्रमाणैश्च युक्तानि रहितानि वा ।
उत्कृष्टलोहजातानि अपकृष्टोत्थितानि वा ॥ ९२७ ॥
View Verse
तादृशानि भवन्त्येव न कुर्यादन्यथा बुधः ।
न लक्षणान्तरं कुर्यान्न प्रमाणान्तरं तथा ॥ ९२८ ॥
View Verse
न तु द्रव्यान्तरं चैव न तु कुर्यात् क्रियान्तरम् ।
मन्त्रान्तरं न युञ्जीत सर्वं कुर्याद्यथापुरम् ॥ ९२९ ॥
View Verse
कुर्याच्चेल्लक्षणादीनां विपर्यासं महामते ।
राज्ञो राष्ट्रस्य नाशः स्यात् तत्रापि सहसन्ततेः ॥ ९३० ॥
View Verse
न कुर्यान्मूलबिम्बेऽपि लक्षणादिविपर्ययम् ।
तस्मात् पौराणिके स्थाने न विपर्यासमाचरेत् ॥ ९३१ ॥
View Verse
एवं स्थाने मानुषेऽपि लक्षणादिविपर्ययम् ।
जीर्णाख्यस्य विधेः पूर्वं न कदाचित् समाचरेत् ॥ ९३२ ॥
View Verse
स्वयंव्यक्तादिके वापि स्थाने मनुजनिर्मिते ।
अजीर्णे नाङ्गहीने वा धाम्नि बिम्बेऽथवा द्विज ॥ ९३३ ॥
View Verse
प्राकस्थितस्योपमर्देन कुर्याद्धामान्तरं न च ।
न तु बिम्बान्तरं कुर्याद्व्यामोहाद्यदि कल्पयेत् ॥ ९३४ ॥
View Verse
आत्महीनो भवेत् कर्ता राजा च सहसन्ततिः ।
महद्भयं भवेत्तस्य राष्ट्रस्य सनृपस्य च ॥ ९३५ ॥
View Verse
अथ जीर्णविधानं तु समासात् कथ्यतेऽधुना ।
मनुष्यनिर्मिते स्थाने तावज्जीर्णविधिं श्रृणु ॥ ९३६ ॥
View Verse
धातुमृच्छैलदारूत्थो वस्त्रादिष्ववतारितः ।
यो यो भगवदाकारस्तस्य तस्य महामुने ॥ ९३७ ॥
View Verse
जीर्णत्वे वाङ्गभङ्गे वा क्षते वा तत्र तत्र च ।
सन्धानयोग्यं सन्धेयमयोग्यं तु परित्यजेत् ॥ ९३८ ॥
View Verse
परित्यक्तं तु तद्विम्बं धातुद्रव्योद्भवं विना ।
जलाशये ह्यगाधे वा समुद्रे विधिना क्षिपेत् ॥ ९३९ ॥
View Verse
भूमौ वा निखनेद्विप्र देशकालानुरूपतः ।
विधिवत् प्रतिपत्तौ तु जातायामादितोन्त्यतः ॥ ९४० ॥
View Verse
अङ्गभङ्गादिदोषेषु सम्यग्भूतेषु सत्स्वपि ।
सति सन्धानयोग्यत्वे न कदाचित् परित्यजेत् ॥ ९४१ ॥
View Verse
तस्य त्यागो विनाशश्च ह्युपर्युपरि बाधकृत् ।
बिम्बादीनां तु बृहतां परित्यागो न युज्यते ॥ ९४२ ॥
View Verse
उत्कृष्टानां हेम तारताम्रजानां विशेषतः ।
नोचितः स्यात् परित्यागस्तस्मात् सन्धानमाचरेत् ॥ ९४३ ॥
View Verse
प्रयत्नेनाप्ययोग्यत्वे परित्यागं समाचरेत् ।
द्रव्येण तज्जातीयेन कुर्याद्बिम्बान्तरं ततः ॥ ९४४ ॥
View Verse
धातुद्रव्यमयोद्भूतैः पूर्वलोहैर्द्विजोत्तम ।
तैस्तैरमूर्ततां नीतैस्तत्तज्जातीयलोहजैः ॥ ९४५ ॥
View Verse
तत्तज्जातीयलोहैर्वा समुत्कृष्टैर्महामते ।
अथवा राजतं बिम्बं हैमं चोत्कृष्टताम्रजम् ॥ ९४६ ॥
View Verse
संदध्यात्तु प्रयत्नेन न कदाचित् परित्यजेत् ।
हीनताम्रमयं यत्तदारकूटमयं तु तत् ॥ ९४७ ॥
View Verse
सन्धानकरणायोग्यं तद्द्वयं तु परित्यजेत् ।
परित्यक्तं तु तद्बिम्बं क्षिपेत् पूर्वेण वर्त्मना ॥ ९४८ ॥
View Verse
ततो बिम्बान्तरं कुर्याद्राजतं वा सुवर्णजम् ।
उत्कृष्टतत्तज्जातीयद्रव्यजं वा महामते ॥ ९४९ ॥
View Verse
कर्मबिम्बेषु सर्वेषु ह्येवमेव तु कारयेत् ।
मृत्काष्ठोपलजे बिम्बे तथा रत्नमयेऽपि च ॥ ९५० ॥
View Verse
केनापि हेतुना भग्ने कृत्वा बालगृहादि तत् ।
त्यक्त्वा तदन्यत् संपाद्य बिम्बसंस्थापनं चरेत् ॥ ९५१ ॥
View Verse
दिव्यसिद्धादिके स्थाने विशेषमवधारय ।
मृण्मये मूलबिम्बे तु जीर्णे वाथ जलादिभिः ॥ ९५२ ॥
View Verse
हीनाङ्गे वा तदा कुर्यात् संधानं तु प्रयत्नतः ।
एवं वर्णविहीनेपि सन्धानं तु समाचरेत् ॥ ९५३ ॥
View Verse
मृत्तिकाशूलरज्ज्वादीन्न कदाचित् परित्यजेत् ।
बिम्बे धातुमये जीर्णे सन्दध्यात् स्वर्णपूर्वकैः ॥ ९५४ ॥
View Verse
जीर्णे लोहमये बिम्बे सन्दध्यात् काञ्चनेन तु ।
एवं रत्नमये बिम्बे सन्धानं च समाचरेत् ॥ ९५५ ॥
View Verse
जीर्णं तु यद्यत् त्याज्यं स्यात् तत्तत् त्यक्त्वा ततः परम् ।
सन्दध्यात्तु ततो विप्र न कुर्यादन्यथा पुनः ॥ ९५६ ॥
View Verse
न बालगेहं तद्बिम्बं तत् कर्मापि समाचरेत् ।
नित्यनैमित्तिकाद्येषु वर्तमानेषु कर्मसु ॥ ९५७ ॥
View Verse
प्रागुक्तं सकलं कुर्याद्यथावित्तानुसारतः ।
लक्षणादिष्वपि तथा न कुर्यादन्यथा पुनः ॥ ९५८ ॥
View Verse
येषु व्यक्तेषु चिह्नानि नाभिव्यक्तानि सत्तम ।
तान्यपि स्वानि चिह्नानि ललाटे वांसपट्टके ॥ ९५९ ॥
View Verse
पृष्ठे वाप्यङ्गपट्टे वा पाणिपादतलेषु वा ।
मूर्घ्नि वा दधते तस्मात् तत्र तत्र निरीक्षयेत् ॥ ९६० ॥
View Verse
तस्मादलक्षणा व्यक्तिर्विद्यते न कदाचन ।
एवं तदीया विप्राश्च क्षत्रिया वैश्यजातयः ॥ ९६१ ॥
View Verse
मौद्गल्याद्यास्तथान्ये च न तच्चिह्नविवर्जिताः ।
भवेयुः सर्वथा तस्माच्चक्रशङ्खगदाम्बुजैः ॥ ९६२ ॥
View Verse
लोहैरनलसन्तप्तैस्तत्तन्मन्त्राधिवासितैः ।
पूजितैरर्घ्यगन्धाद्यैरङ्कितव्याः क्षणेन तु ॥ ९६३ ॥
View Verse
त्रैविद्या ज्ञानसम्पन्ना यथोक्ताचारनिष्ठिताः ।
विप्राद्यास्तेऽपि शूद्राश्च यदैवं कृतलक्षणाः ॥ ९६४ ॥
View Verse
तदा तु योग्या विज्ञेयाः समयश्रवणादिषु ।
शास्त्रोदितासु सर्वासु सामग्रीषु महामते ॥ ९६५ ॥
View Verse
यागोपकरणान्येवमर्घ्यपात्रादिकान्यपि ।
संयोज्यानि यथायोगं शङ्खचक्रादिलक्षणैः ॥ ९६६ ॥
View Verse
तथा यानासनादीनि विभोः सर्वाणि यत्नतः ।
स्वात्मोपकरणं सर्वमासनादिविवर्जितम् ॥ ९६७ ॥
View Verse
अङ्गुलीयकपर्यन्तं भूषणं कटकादिकम् ।
उत्तमाङ्गसमुद्धार्यं सर्वमुष्णीषपूर्वकम् ॥ ९६८ ॥
View Verse
चक्रादिलाञ्छितं कुर्यात् तदीयाश्च गवादयः ।
विप्रादिवल्लाञ्छितव्यास्तदीया भूरुहादयः ॥ ९६९ ॥
View Verse
लाञ्छितव्या यथायोगं चक्रशङ्खादिलक्षणैः ।
आराधकाद्याः कर्मण्या एवं चक्रादिलाञ्छिताः ॥ ९७० ॥
View Verse
देवतान्तरचिह्नैस्तैरकर्मण्यास्तु लाञ्छिताः ।
यत्र वा भगवन्मूर्तौ लाञ्छनं न प्रदृश्यते ॥ ९७१ ॥
View Verse
तत्रापि लक्षणन्यासं न कुर्यात् स्वेच्छया द्विज ।
यथास्थितैव सा व्यक्तिः पूज्या व्यापकमन्त्रतः ॥ ९७२ ॥
View Verse
तदन्ये लाञ्छितव्याः स्युः सर्वे पूर्वमलाञ्छिताः ।
इति सम्यक् प्रतिष्ठानं देवस्य परिकीर्तितम् ॥ ९७३ ॥
View Verse
स्थानसंरक्षणार्थं तु तस्मिन् कालेऽन्यदा तु वा ।
प्रासादाग्रेऽथवा विप्र प्राङ्कणे यत्र कुत्रचित् ॥ ९७४ ॥
View Verse
चक्रं संस्थापयेत्तत्र अमूर्तं शिखरोपरि ।
मूर्तमङ्कणदेशे तु षोडशाष्टभुजं तु वा ॥ ९७५ ॥
View Verse
अमूर्तं द्वादशारं तु अष्टारं षडरं तु वा ।
शङ्खादीन्यायुधान्येवं विदध्यादङ्कणादिके ॥ ९७६ ॥
View Verse
द्वितीयावरणे वापि तृतीयावरणेऽपि वा ।
चक्रादिबिम्बनिर्माणमुत्तरत्र प्रवक्ष्यते ॥ ९७७ ॥
View Verse
सह संस्थापने प्राग्वत् कर्मभेदो न विद्यते ।
पृथक् संस्थापने कुर्यात् सर्वकर्म यथाविधि ॥ ९७८ ॥
View Verse
तत्तत्स्थापनकाले तु तत्तत्संज्ञामनुं जपेत् ।
विद्यां गदामित्याद्यं यत् पाठयेत्तद्विदो जनान् ॥ ९७९ ॥
View Verse
चमूषच्छयेन इति च प्नविष्णो इति त्वृचौ ।
पाठयेद्बहवृचान् पश्चाच्छाकुनं सूक्तमेव च ॥ ९८० ॥
View Verse
धृतोर्ध्वपुण्ड्रः कृतचक्रे इति मन्त्रं कठान् परम् ।
पवित्रं ते विततमित्येतान् मन्त्रान् यजुर्मयान् ॥ ९८१ ॥
View Verse
आरोहेति च सामज्ञान् पवित्रं ते अग्निरित्यपि ।
एभिर्वयमुरुक्रमस्येत्याथर्वणान् द्विजान् ॥ ९८२ ॥
View Verse
एभिः संस्थाप्य विधिवन्नवभिः कलशैस्ततः ।
स्नपयेद्ब्रह्नसूक्तस्थैर्मन्त्रैरष्टाभिरेव च ॥ ९८३ ॥
View Verse
सर्वस्य वशिनं देवमिति प्राक् स्थापितेन तु ।
बहिरावरणे नास्ती त्यग्निदिक्संस्थितेन तु ॥ ९८४ ॥
View Verse
यन्नाभिपझादभवदिति याम्यस्थितेन तु ।
धृतोर्ध्वपुण्ड्र इति च यातुधानगतेन तु ॥ ९८५ ॥
View Verse
दक्षिणे तु भुजे विप्र इति पश्चिमगेन तु ।
विष्णुनाक्तमश्रन्तीति वायुदिक्संस्थितेन च ॥ ९८६ ॥
View Verse
पुंप्रधानेश्वरो विष्णुरिति सोमगतेन वै ।
इमं महोपनिषदमितीशानगतेन तु ॥ ९८७ ॥
View Verse
मन्त्रैरेतैः समस्तैस्तु मध्यकुम्भेन सेचयेत् ।
प्रासादाग्रस्थिते चक्रे प्रोक्षणं तु समाचरेत् ॥ ९८८ ॥
View Verse
महोपनिषदन्तस्थानष्टौ मन्त्रान् पुरोदितान् ।
यद्वा पुरुषसूक्तं तु सर्वशान्त्यै ततो जपेत् ॥ ९८९ ॥
View Verse
अत्रानुक्तं तु सकलं पूर्वोक्तं तु समाचरेत् ।
सम्यगुक्तं प्रतिष्ठानं किमन्यच्छ्रोतुमिच्छसि ॥ ९९० ॥
View Verse
सनकः ।
कथितं नित्यपूजादौ त्वया नीराजनं पुरा ।
तद्विधानं मुनिश्रेष्ठ प्रब्रूहि मम विस्तरात् ॥ ९९१ ॥
View Verse
शाण्डिल्यः ।
नीराजनविधानं तु समाकर्णय साम्प्रतम् ।
नित्ये नैमित्तिके विप्र तथा काम्येऽपि पूजने ॥ ९९२ ॥
View Verse
अन्ततः स्नानभोगानां कुर्यान्नीराजनं विभोः ।
सर्वदोषप्रशान्त्यर्थं सर्वरक्षार्थमेव हि ॥ ९९३ ॥
View Verse
अलंकारासनोक्तानां भोगानामन्ततोऽपि वा ।
उभयत्रापि वा कुर्याद्विभवेच्छानुसारतः ॥ ९९४ ॥
View Verse
यद्वा प्रदोषवेलायां तत् कुर्यात् प्रतिवासरम् ।
सायं पूजासमारम्भात् पूर्वमेव द्विजोत्तम ॥ ९९५ ॥
View Verse
अथवा पूजने कुर्याद्दीपदानात् पुरैव तु ।
यद्वा नैवेद्यपर्यन्ते पूजायां तत् समाचरेत् ॥ ९९६ ॥
View Verse
तदपि त्रिविधं प्रोक्तं सात्विकादिविभेदतः ।
स्नानान्ते भोगयज्ञान्ते द्वितयं सात्विकं भवेत् ॥ ९९७ ॥
View Verse
सायंकाले प्रतिदिनं कुर्याद्राजससंज्ञितम् ।
पूजायां दीपदानाग्रे नैवेद्यान्तेपि तामसम् ॥ ९९८ ॥
View Verse
कुर्यात् प्रासाद एकस्मिंस्तेषामेकं न तु त्रयम् ।
स्वयंव्यक्ते तथान्यैस्तु विबुधैस्च प्रतिष्ठिते ॥ ९९९ ॥
View Verse
प्रासादे मुनिमुख्यैश्च सात्विकाश्यं समाचरेत् ।
ब्राह्नणैः क्षत्रियैर्वैश्यैः स्थापिते राजसं भवेत् ॥ १००० ॥
View Verse
शूद्रैस्तु स्थापिते स्त्रीभिस्तामसाख्यं समाचरेत् ।
एतेषां सात्विकादीनां श्रृणु सम्यग् विधिं क्रमात् ॥ १००१ ॥
View Verse
स्ननानावशिष्टतोयेन संपूर्णं कलशं द्विज ।
सौवर्णं राजतं वापि ताम्रजं मृण्मयं तु वा ॥ १००२ ॥
View Verse
सुपिष्टै रूर्ध्वतो लिप्तं हरिद्राशालितण्डुलैः ।
स्रजा चाश्वत्थपत्रेण युतं वा कण्ठदेशतः ॥ १००३ ॥
View Verse
तं कृत्वा वामपाणौ तु अपरस्मिंस्तु मल्लकम् ।
पुष्पप्रकरसंपूर्णं धूपपात्राग्निना युतम् ॥ १००४ ॥
View Verse
धूमायमानं सिद्धार्थैर्धूपद्रव्येण वा सह ।
एकधा देवदेवस्य भ्रामयित्वा तु मूर्द्धनि ॥ १००५ ॥
View Verse
दीक्षितेन जनेनैव परिचर्यापरेण तु ।
शुद्धया योषिता वा तद् द्वारबाह्ये विसर्जयेत् ॥ १००६ ॥
View Verse
कल्पयेत् स्नाननभोगान्ते एतन्नीराजनं सदा ।
कृतं पूवोदितैर्द्रव्यैः कुम्भमापूर्य वारिभिः ॥ १००७ ॥
View Verse
अर्घ्यपात्रोद्धृतैर्यद्वा केवलैर्गालितैः पुनः ।
अन्तः सिद्धार्थकान् क्षिप्त्वा कण्ठे कुर्यादलंकृतिम् ॥ १००८ ॥
View Verse
अश्वत्थपल्लवैः स्रग्भिश्चन्दनेनाक्षतैरपि ।
अन्यत्र रजनीपिष्टैर्लेपयेत् सर्वतो द्विज ॥ १००९ ॥
View Verse
तदास्ये मल्लकं पुष्पसंपूर्णं तु नियोजयेत् ।
संस्कृताग्निसमुद्भूतान् पुरा दीपान् प्रदीप्य तु ॥ १०१० ॥
View Verse
विभवेच्छानुरूपेण चतुर्विंशादिकान् द्विज ।
पाकस्थानात्तु वै दीपादुच्छ्रितां चतुरङ्गुलैः ॥ १०११ ॥
View Verse
प्रदीपं मल्लके कृत्वा सकुम्भं विनिवेशयेत् ।
अग्रतो देवदेवस्य सदाधारोपरिस्थितम् ॥ १०१२ ॥
View Verse
तमर्घ्यगन्धस्रग्धूपैर्हृन्मन्त्रेण तु पूजयेत् ।
केवलं सार्घ्यपुष्पेण साधकस्तदनन्तरम् ॥ १०१३ ॥
View Verse
दद्यादाचमनान्तेऽर्घ्यं मन्त्रेशस्याथवा द्विज ।
अर्घ्यालभनमाल्यानि धूपं चाप्यर्घ्यमेव वा ॥ १०१४ ॥
View Verse
दीपकुम्भं तु पाणिभ्यामुद्धृतं परिचारिणा ।
देवस्य दक्षिणं पादमारभ्येतरपश्चिमम् ॥ १०१५ ॥
View Verse
भ्रामयेत् सर्वतोऽङ्गानि एकधा वा द्विधा त्रिधा ।
जपन् वै नेत्रमन्त्रं तु हृन्मन्त्रं वा यथारुचि ॥ १०१६ ॥
View Verse
एवं कुम्भं परिभ्राम्य पूर्ववत्तु विसर्जयेत् ।
ततस्तु देवदेवस्य दद्यादर्घ्यं तु मूर्द्धनि ॥ १०१७ ॥
View Verse
पाकस्थानात्तदर्थं तु दीप अनीयते यदा ।
तदानीं तद्विधानं तु समाकर्णय साम्प्रतम् ॥ १०१८ ॥
View Verse
दीक्षिताः सुविनीताश्च सुस्त्राताः परिचारकाः ।
वदनं नासिकारन्ध्रे स्थगयित्वाम्बरेण तु ॥ १०१९ ॥
View Verse
सितोष्णीषधराः सर्वे सितचन्दनरूषिताः ।
सौवर्णानि च पात्राणि विततानि यथारुचि ॥ १०२० ॥
View Verse
राजतान्यथ ताम्राणि आरकूटमयानि वा ।
कांस्यानि वापि संपाद्य यथा वित्तानुसारतः ॥ १०२१ ॥
View Verse
एकत्रिपञ्चसप्तापि नवैकादश वा तथा ।
द्वि षट् षोडश वा यद्वा चतुर्विंशतिसंख्यया ॥ १०२२ ॥
View Verse
पाकालयं समासाद्य तत्राग्नेः संस्कृतात् पुरा ।
तेषां मध्ये वर्तिदीपान् पात्राणां तु महामुने ॥ १०२३ ॥
View Verse
चतुरङ्गुलिकोत्सेधान् सघृतान् दीपयेत् पुनः ।
अद्धृत्य तानि पात्राणि करैस्तु परिचारकाः ॥ १०२४ ॥
View Verse
वहेयुः पङ्क्तिबन्धेन तदग्रे गणिकाजनाः ।
गच्छेयुर्भगवद्भक्ताः कुर्वन्तो नृत्तगीतके ॥ १०२५ ॥
View Verse
तदग्रे शङ्खभेर्यादिसमुद्धोषणतत्पराः ।
तदग्रे वेत्रिणोऽस्पृश्यजनोत्सारणतत्पराः ॥ १०२६ ॥
View Verse
गच्छेयुः परितस्तेषां दीपिकाधारिणो जनाः ।
एवं क्रमात् समासाद्य तिष्ठेयुर्देवसन्निधौ ॥ १०२७ ॥
View Verse
अथान्यो दीक्षितो विप्रः कुम्भमापाद्य पूर्ववत् ।
समल्लकं तदूर्ध्वे तु तेष्वेकस्मात् प्रदीप्य तु ॥ १०२८ ॥
View Verse
पाकस्थानादाहृतेषु प्रदीपं विनिवेश्य च ।
सदाधारस्थितं कुर्यात् ततः साधकसत्तमः ॥ १०२९ ॥
View Verse
कुम्भं प्राग्वत् समभ्यर्च्य देवेशं च ततः परम् ।
भ्रामयेत् पूर्ववत् कुम्भं तस्मिन् काले द्विजोत्तम ॥ १०३० ॥
View Verse
ऋगाद्यध्ययनं कुर्याद्द्विजाः प्रागादिदिकस्थिताः ।
सन्निधौ देवदेवस्य नृत्यं तु गणिकास्तदा ॥ १०३१ ॥
View Verse
मङ्गलानि च गीतानि सर्वे गायन्तु गायकाः ।
स्वरेणोच्चतरेणैव स्तुवन्तु स्तोत्रपाठकाः ॥ १०३२ ॥
View Verse
भेरीमृदङ्गशङ्खादीन् घोषयेषुः समन्ततः ।
एवं सर्वत्र वै कुर्यादृगाद्यध्ययनादिकम् ॥ १०३३ ॥
View Verse
कुम्भमेवं परिभ्राम्य दत्वा तं परिचारिणः ।
हस्तेऽथ दीपपात्राणि दर्शयेदितराणि च ॥ १०३४ ॥
View Verse
दृष्ट्वा सम्यक् ततो दद्यादर्घ्यं देवस्य मूर्धनि ।
कुम्भपूर्वाणि पात्राणि वहन्तः परिचारकाः ॥ १०३५ ॥
View Verse
प्रदक्षिणक्रमात् सार्धं पूर्ववद्गणिकादिभिः ।
क्षिपेयुर्द्वारबाह्ये वा बाह्यद्वारस्य बाह्यतः ॥ १०३६ ॥
View Verse
अथवा विनियुक्तानि तानि संगृह्य योषितः ।
सुस्नाता धौतवसना द्विजातिभावितात्मनः ॥ १०३७ ॥
View Verse
ललाटे तिलकं दत्वा सर्वालंकारभूषिताः ।
क्षिपेयुरुदितेनैव वर्त्मना द्विजसत्तम ॥ १०३८ ॥
View Verse
अथवा विनियोगात्तु पूर्वं पाकालयादपि ।
योषितो दीपपात्राणि गृहीत्वा प्रोक्तवर्त्मना ॥ १०३९ ॥
View Verse
आनयेयुर्विभोरग्रे कर्तुरिच्छानुरूपतः ।
एवं नीराजनं कुर्यादलंकारासनान्ततः ॥ १०४० ॥
View Verse
अथवा भ्रामयेत् कुम्भं दीपाष्टकसमन्वितम् ।
यद्वा तत्रापि वै कुम्भं साग्निमल्लकसंयुतम् ॥ १०४१ ॥
View Verse
धूमायमानं सिद्धार्थैर्ब्रामयेद्दीपवर्जितम् ।
एवं नीराजनं प्रोक्तमेकमूर्तेर्द्विजोत्तम ॥ १०४२ ॥
View Verse
अनेकमूर्तिपूजायां मुख्यमूर्त्यादितः क्रमात् ।
सर्वासामपि मूर्तीनां दत्वार्घ्याद्यं पृथक् पृथक् ॥ १०४३ ॥
View Verse
एकैकेन तु कुम्मेन प्रत्येकं अथवा द्विज ।
सर्वासामपि कुम्भेन प्राग्वन्नीराजनं चरेत् ॥ १०४४ ॥
View Verse
एवं नीराजनं येन कृतं भगवतो विभोः ।
अनुतिष्ठन्ति साहाय्यं तस्मिन् कर्मणि ये जनाः ॥ १०४५ ॥
View Verse
रजस्तमोविनिर्मुक्ता भवेयुस्ते न संशयः ।
अयोग्यजनसंस्पृष्टे कुम्भे तं परिहाय तु ॥ १०४६ ॥
View Verse
कुम्भान्तरं समापाद्य तेन तत्तु समाचरेत् ।
दीपेनष्वेकतमो दीपो यायादुपरतिं यदि ॥ १०४७ ॥
View Verse
प्रमादाद्वातवेगाद्यैः पुरस्ताद्विनिवेदनात् ।
श्रीभङ्गो जायते पश्चाद्यदि व्याध्यादिपीडनम् ॥ १०४८ ॥
View Verse
तस्मात् प्रदीप्य सहसा मूलमष्टोत्तरं जपेत् ।
शङ्खाद्यैर्नृत्तगीताभ्यां विना नीराजनं कृतम् ॥ १०४९ ॥
View Verse
यदि स्यान्निष्फलं तत् स्यात् तस्मात्तैः सार्धमाचरेत् ।
एवं नीराजनं प्रोक्तं सात्विकं नाम नामतः ॥ १०५० ॥
View Verse
राजसं नाम विप्रेन्द्र नीराजनमथोच्यते ।
प्राग्वत् पात्राणि सम्पाद्य योषितः सुविभूषिताः ॥ १०५१ ॥
View Verse
कच्छबन्धेन संयुक्ताः परिचारकपूर्वकाः ।
पाकस्थानं समासाद्य तेषु दीपान् प्रदीप्य तु ॥ १०५२ ॥
View Verse
करैरुद्धृत्य पात्राणि निर्गताश्च महानसात् ।
श्रेणीबन्धाः समासाद्य प्राग्वद्गीतादिभिः सह ॥ १०५३ ॥
View Verse
अग्रतो देवदेवस्य विन्यसेयुर्महीतले ।
आधारेषु ततोऽर्घ्याद्यैस्तानि पात्राणि पूजयेत् ॥ १०५४ ॥
View Verse
मूलबिम्बादिबिम्बानां न्यासं कत्वा विधानतः ।
अर्घ्यालभनपुष्पाद्यैरर्घ्यपाद्यादिभिस्तु वा ॥ १०५५ ॥
View Verse
साधको देवदेवस्य पूजां कृत्वा क्रमेण तु ।
उद्धृत्य दीपपात्राणि पूजकः सुसमाहितः ॥ १०५६ ॥
View Verse
मूलमूर्तेस्तु वै पूर्वमापादान्मूर्धपश्चिमम् ।
त्रिधा संभ्रामयेत्तेषामेकैकं वा त्रयं त्रयम् ॥ १०५७ ॥
View Verse
अन्यासामपि मूर्तीनामेवमेव समाचरेत् ।
एवं नीराजनं देव्योर्लक्ष्मीपुष्ट्योः पृथक् पृथक् ॥ १०५८ ॥
View Verse
ऋगाद्यध्ययनाद्यं तु पूर्ववत्तु समाचरेत् ।
निवेदितानि विप्रेन्द्र भूयः संगृह्य योषितः ॥ १०५९ ॥
View Verse
क्षिपेयुः प्राग्विधानेन बलिपीठेषु वा द्विज ।
एवं नीराजनं विप्र सायंकाले समाचरेत् ॥ १०६० ॥
View Verse
यद्वा पूर्वोदितं कुम्भं वर्तिदीपसमन्वितम् ।
समत्स्यमांसबलिभिरन्वितं भ्रामयेत् तदा ॥ १०६१ ॥
View Verse
यद्वा कुम्भं परिभ्राम्य दीपमल्लकसंयुतम् ।
तत् पश्चादन्नपिण्डानां पञ्चानां भ्रमणं चरेत् ॥ १०६२ ॥
View Verse
एवं नीराजनं प्रोक्तं त्रिविधं राजसाभिधम् ।
नीराजनं तामसाक्यमिदानीमवधारय ॥ १०६३ ॥
View Verse
पाकस्थानं समासाद्य योषिद्वा परिचारकः ।
पात्रमेकं समादाय पूर्वोक्तद्रव्यनिर्मितम् ॥ १०६४ ॥
View Verse
अन्नपिण्डानि चत्वारि दूर्वामुष्टिचतुष्टयम् ।
तस्मिन् पात्रे चतुर्दिक्षु विनिवेश्याथवा द्विज ॥ १०६५ ॥
View Verse
पृथक् चतुर्षु पात्रेषु तानि चत्वारि विन्यसेत् ।
प्रागुक्तवर्त्मनासाद्य देवदेवस्य सन्निधिम् ॥ १०६६ ॥
View Verse
आधारोपरि वै पात्रं विन्यसेत्तत्र तत्परम् ।
तत् पात्रमर्घ्यपुष्पेण हृदा संपूज्य साधकः ॥ १०६७ ॥
View Verse
अर्घ्यं पाद्यं तथाऽचामं देवस्य विनिवेद्य च ।
ततोन्नपिण्डमैन्द्रस्थं दूर्वामुष्टिं तथैव च ॥ १०६८ ॥
View Verse
चक्रमन्त्रेण संभ्राम्य देवस्य शिरसोपरि ।
तत्पुनर्देवदेवस्य प्राच्यां दिशि विनिक्षिपेत् ॥ १०६९ ॥
View Verse
एवं दक्षिणदिक्संस्थं भ्राम्य दक्षिणतः क्षिपेत् ।
पस्चिमस्थं परिभ्राम्य पश्चिमस्यां दिशि क्षिपेत् ॥ १०७० ॥
View Verse
उत्तरस्थं परिब्राम्य उत्तरस्यां दिशि क्षिपेत् ।
देवस्य तिलकं कुर्याद्दीपपात्रोत्थभस्मना ॥ १०७१ ॥
View Verse
एवं नीराजनं कुर्याद्दीपदानात् पुरैव तु ।
हेमादि द्रव्यजं पात्रं षड्विंशाङ्गुलविस्तृतम् ॥ १०७२ ॥
View Verse
कृत्वा सुवृत्तं तन्मध्ये पझं कुर्यात् सकर्णिकम् ।
पत्राष्टके कर्णिकायां दीपगर्तं प्रकल्पयेत् ॥ १०७३ ॥
View Verse
दीपान् प्रज्वालयेत्तत्र षडङ्गुलसमुच्छ्रितान् ।
ब्सिद्धार्थदधिदूर्वादिबीजैश्च परिपूरितम् ॥ १०७४ ॥
View Verse
पूजितं गन्धपुष्पाद्यैः पात्रमादाय साधकः ।
त्रिः प्रदक्षिणमावर्त्यं पाणिभ्यां देवमूर्धनि ॥ १०७५ ॥
View Verse
प्राकारावरणाद्बाह्य दिवा सोमदिशि क्षिपेत् ।
प्रागन्नपिण्डभ्रमणादन्ते धूपोत्थभस्मना ॥ १०७६ ॥
View Verse
रक्षया संपुटीकुर्यादेवं नीराजनं द्विज ।
एवं नीराजनं कुर्यान्निवेद्यान्ते विभोः सदा ॥ १०७७ ॥
View Verse
एवं नीराजनं प्रोक्तं द्विविधं तामसाह्वयम् ।
गीतनृत्तादिकं सर्वं प्राग्वदत्र समाचरेत् ॥ १०७८ ॥
View Verse
कुर्यात् स्नानावसानेऽपि ऋगाद्यध्ययनादिकम् ।
अर्घ्यादिभोगैर्यजनं वर्जयेत् तत्र सर्वदा ॥ १०७९ ॥
View Verse
सायंकालं विनान्यत्र नीराजनविधौ द्विज ।
न कुर्याद्देवदेवस्य मन्त्रन्यासं कदाचन ॥ १०८० ॥
View Verse
नीराजनं सात्विकाख्यं प्रवृत्तं यत्र तत्र तु ।
राजसं तामसं वापि न कदाचित् समाचरेत् ॥ १०८१ ॥
View Verse
राजसं तामसं वापि प्रवृत्तं यत्र तत्र वै ।
नीराजनं सात्विकाख्यं कुर्यादिच्छानुरूपतः ॥ १०८२ ॥
View Verse
संपूर्णं भगवद्यागात् फलमिच्छन् महामते ।
उक्तमार्गविपर्यासं न कदाचित् समाचरेत् ॥ १०८३ ॥
View Verse

Chapter 16

श्रीः ।
०२ षोडशोऽध्यायः ।
सनकः ।
स्थापनं मन्त्रबिम्बानां परिज्ञातं यथाविधि ।
महोत्सवविधानं तु श्रोतुमिच्छामि सांप्रतम् ॥ १ ॥
View Verse
शाण्डिल्यः ।
महोत्सवं प्रवक्ष्यामि यथावन्मुनिपुङ्गव ।
सव इत्युच्यते दुःखं विद्वद्भिः समुदाहृतम् ॥ २ ॥
View Verse
उद्गतः स सवो यस्मात् तस्मादुत्सव उच्यते ।
नित्यो नैमित्तिकः काम्यस्त्रिविधः स महोत्सवः ॥ ३ ॥
View Verse
वत्सरे वत्सरे यस्तु क्रियते स तु नित्यकः ।
भूमिकंपे दिशां दाहे महोत्पातेषु सत्सु च ॥ ४ ॥
View Verse
दुर्भिक्षे व्याधिते राष्ट्रे तथा वै शत्रुसंकटे ।
अनावृष्टौ च सर्वत्र नक्षत्रपतने च खात् ॥ ५ ॥
View Verse
हसने भगवन्मूर्तेरङ्गानां चलने सति ।
रोदने चासनाद्बिम्बे परिभ्रमति सत्तम ॥ ६ ॥
View Verse
व्यत्यासे शशि सूर्यस्य तथान्येष्वेवमादिषु ।
शान्त्यर्थं यत् प्रकुर्वीत स नैमित्तिक उच्यते ॥ ७ ॥
View Verse
चतुर्णां पुरुषार्थानामुद्दिश्यान्यतमं फलम् ।
उत्सवोऽनुष्ठितः काम्यः संकल्पितफलप्रदः ॥ ८ ॥
View Verse
एकैकमुत्सवं विद्धि त्रिविधं मुनिपुंगव ।
उत्तमादिविभेदेन तत्र चोत्सवकौतुके ॥ ९ ॥
View Verse
क्रियते हयुत्सवो यस्तु स उत्तम उदाहृतः ।
नित्यः स्नपनबिंबे यः स मध्यम उदीर्यते ॥ १० ॥
View Verse
बिम्बे नित्योत्सवार्थे तु यः स्यात् स तु कनीयसः ।
कुम्भे वा विष्टरे चक्रे यः स आभाससंज्ञितः ॥ ११ ॥
View Verse
अन्येनापि प्रकारेण भूयस्त्रैविध्यमुच्यते ।
परिभ्रमणकाले तु यात्राबिंबस्य पूर्वतः ॥ १२ ॥
View Verse
कुमुदाद्यैस्तु भूतेशैः पटेषु लिखितैर्द्विज ।
सध्यानंसिद्धये यद्वा हेमादिद्रव्यनिर्मितैः ॥ १३ ॥
View Verse
विभवस्यानुगुण्येन रक्षार्थं हेतिना तथा ।
सर्वसंपूरणार्थं तु गरुडेनापि वै सह ॥ १४ ॥
View Verse
ग्रामादौ बलिदानं तु यत्र नित्यं समाचरेत् ।
स एष उत्सवो विप्र भवेदुत्तमसंज्ञितः ॥ १५ ॥
View Verse
परिभ्रमसमारम्भात् पूर्वमेव महामते ।
नित्योत्सवार्थबिंबस्य सन्निधावन्नमूर्तिना ॥ १६ ॥
View Verse
सार्धं च चक्रराजेन अथवा केवलस्य तु ।
सन्निधौ बलिबिंबस्य बलिं दत्वा विधानतः ॥ १७ ॥
View Verse
प्रासादे बलिबिंबादि प्रवेश्य तदनन्तरम् ।
यत्र यात्रार्थबिंबस्य परिभ्रमणमाचरेत् ॥ १८ ॥
View Verse
ग्रामे वा नगरे वापि स तु मध्यमसंज्ञितः ।
सन्निधौ चक्रराजस्य बलिं दत्वा पुरैव तु ॥ १९ ॥
View Verse
देवयात्रा भवेद्यत्र भवेत् स तु कनीयसः ।
मुख्यानुकल्पभेदाच्च द्विविधः परिकीर्तितः ॥ २० ॥
View Verse
कलशे मण्डले बिंबे वह्नौ च यजनं विभोः ।
नित्यशः क्रियते यत्र मुख्यकल्पः स कीर्तितः ॥ २१ ॥
View Verse
बिंबे वह्नौ च यजनं यत्र स्यात् सोनुकल्पकः ।
परसूक्ष्मस्थूलभेदादेकैकस्त्रिविधः स्मृतः ॥ २२ ॥
View Verse
एकत्रिपच्चसप्ताहो नवाहश्च परः स्मृतः ।
द्वादशाहोऽर्धमासश्च एकविंशतिवासरः ॥ २३ ॥
View Verse
सूक्ष्मः स्थूलः सप्तविंशद्दिनो मासस्तथा ऋतुः ।
षण्मास अभ्दमेवं हि उत्सवास्तु त्रयोदश ॥ २४ ॥
View Verse
भूयो मुख्यादिबेदेन द्विविधः स तु कीर्तितः ।
उत्सवाहर्गणात् पूर्वं यथोक्ते वासरे द्विज ॥ २५ ॥
View Verse
ध्वजस्यारोहणं कृत्वा तत्पश्चात् क्रियते तु यः ।
मुख्यकल्पमिदं विद्धि दैवाद्वा मानुषात्तु वा ॥ २६ ॥
View Verse
कुतश्चित् कारणाद्विप्र पूर्वमुक्ते तु वासरे ।
न कल्पिते ध्वजारोहे तूत्सवारम्भवासरे ॥ २७ ॥
View Verse
ध्वजस्यारोहणं कृत्वा तत्पश्चात् क्रियते तु यः ।
अनुकल्पमिदं विद्धि ह्येष तु त्रिविधः स्मृतः ॥ २८ ॥
View Verse
ध्वजारोहणपूर्वस्तु देवताह्वानपूर्वकः ।
अह्कुरार्पणपूर्वस्तु तथा च मुनिपुंगव ॥ २९ ॥
View Verse
ध्वजारोहणपूर्वस्तु राजराज्यसुखप्रदः ।
देवताह्वानपूर्वस्तु स्वर्गभोगफलप्रदः ॥ ३० ॥
View Verse
अङ्कुरार्पणपूर्वस्तु सर्वेषां मोक्षदो भवेत् ।
उत्सवारंभदिवसे दिवारोप्य ध्वजं निशि ॥ ३१ ॥
View Verse
भेरीताडनमन्वक् च पालिकास्वंकुरान् क्षिपेत् ।
ध्वजारोहणपूर्वस्तु ह्येष उत्सव उच्यते ॥ ३२ ॥
View Verse
आघोष्य भेरीं प्रथमं ध्वजारोहणमन्वतः ।
ततोंकुरार्पणं ह्येष देवताह्वानपूर्वकः ॥ ३३ ॥
View Verse
अङ्कुरारोपणं विप्र पूर्वं तु रजनीममुखे ।
ततोन्वक् स्याद्ध्वजारोहो भेरीताडनमन्वतः ॥ ३४ ॥
View Verse
अह्कुरारोपपूर्वस्तु ह्येष उत्सव उच्यते ।
उत्सवं हयुत्तमं विद्धि त्रिवारं प्रतिवत्सरम् ॥ ३५ ॥
View Verse
द्विवारं मध्यमं प्रोक्तं ह्येकवारं कनीयसम् ।
चतुर्वारं पञ्चवारं षड्वारं विभवे भवेत् ॥ ३६ ॥
View Verse
मन्त्रमूर्तिप्रतिष्ठानकाल एव महामते ।
प्रासादस्य शिखाग्रे तु स्थापितः खगराड्ध्वजः ॥ ३७ ॥
View Verse
हेतिराजसमायुक्तौ यत्र तत्र सदा द्विज ।
विना त्वन्यध्वजारोहमुत्सवं परिकल्पयेत् ॥ ३८ ॥
View Verse
तत्राप्यन्यध्वजारोहं कुर्याद्वा विभवे सति ।
कुर्यादुत्सवमन्यत्र ध्वजारोहणपूर्वकम् ॥ ३९ ॥
View Verse
तीर्थयात्रानुगुण्येन ध्वजारोहं प्रकल्पयेत् ।
उत्सवेषु च सर्वेषु तीर्थयात्रादिनं श्रृणु ॥ ४० ॥
View Verse
चैत्रादिषु च मासेषु श्रवणर्क्षेऽयनद्वये ।
विषुवद्वितये वापि चन्द्रसूर्योपरागयोः ॥ ४१ ॥
View Verse
द्वादश्यां पौर्णमास्यां च दर्शे च नवमीतिथौ ।
मासर्क्षेपि च रोहिण्यां तथा चोत्तरफलगुने ॥ ४२ ॥
View Verse
पुनर्वस्वाख्यनक्षत्रे प्रतिष्ठादिवसे तथा ।
नगरग्रामजन्मर्क्षे प्रासादारम्भवासरे ॥ ४३ ॥
View Verse
राज्ञां जन्मदिने वापि अबिषेकदिने तथा ।
एकस्मिन्नेषु सर्वेषु तीर्थयात्रां समाचरेत् ॥ ४४ ॥
View Verse
एतेषु यस्मिन्नक्षत्ते तीर्थयात्रा प्रकल्पिता ।
यदा तु तत् स्याद्द्विगुणं मासि ह्युत्सवकल्पिते ॥ ४५ ॥
View Verse
तदा कुर्यात् तीर्थयात्रां मासान्तस्थे तु तद्दिने ।
फाल्गुणादिषु सर्वेषु मासेष्वेवं प्रकल्पयेत् ॥ ४६ ॥
View Verse
पञ्चाहात्तु समारभ्य एकत्रिंशद्दिनान्तिमम् ।
तीर्थयात्रादिनादर्वागेकविंशतिमे दिने ॥ ४७ ॥
View Verse
द्वजस्यरोहणं कुर्यादुत्सवार्थं प्रयत्नतः ।
यद्वा कल्याणदिवसं त्रिगुणीकृत्य तावताम् ॥ ४८ ॥
View Verse
आदौ दिनानां कर्तव्यो ध्वजारोहो द्विजोत्तम ।
सप्तविंशतिमे ब्रह्नन् उत्सवारम्भवासरात् ॥ ४९ ॥
View Verse
पूर्वं दिने तु तत्संख्ये ध्वजमारोहयेत् सुधीः ।
त्रिंशद्दिने तु तत्संख्ये दिने पूर्वे समाचरेत् ॥ ५० ॥
View Verse
ऋतूत्सवादित्रितये ह्युत्सवारंभवासरात् ।
एकोनविंशतिदिने ध्वजारोहणमाचरेत् ॥ ५१ ॥
View Verse
अष्टादशदिने वापि द्वादशाहेथवा भवेत् ।
एकविंशद्दिनाद्ये वमुत्सवानां त्रिकेपि च ॥ ५२ ॥
View Verse
एवमेव ध्वजारोहमाचरेद्देशिकोत्तमः ।
अंकुरानर्पयित्वा हि पुण्ये पूर्वं यथोदिते ॥ ५३ ॥
View Verse
ध्वजमारोहयेत् पश्चान्मङ्गलं मङ्गले दिने ।
यस्मिन् दिने ध्वजारोहं कुर्यात् तत्पूर्वमेव तु ॥ ५४ ॥
View Verse
द्वादशाहे नवाहे वा सप्ताहे पञ्चमेहनि ।
तृतीयेऽहनि वा कुर्यादंकुरारोपणं द्विज ॥ ५५ ॥
View Verse
तद्विधानं हि विस्तारात् समाकर्णय सांप्रतम् ।
त्रिविधानि च पात्राणि मंगलांकुररोपणे ॥ ५६ ॥
View Verse
पालिका घटिकाश्चेति शरावाश्चेतिभेदतः ।
पालिकानामथोच्छ्रायः पच्चविंशांगुलो भवेत् ॥ ५७ ॥
View Verse
तदाननस्य विस्तारो भवेद्वै षोडशांगुलः ।
अष्टांगुलस्तदुच्छ्रायो ह्यं गुलं वलयं ततः ॥ ५८ ॥
View Verse
भवेत् कण्ठबिलं विप्र ततोष्टांगुलविस्तृतम् ।
आरभ्य वक्त्रवलयात् यावत्कण्ठबिलं द्विज ॥ ५९ ॥
View Verse
ह्रासयेदनुपातेन तन्नालं द्वादशांगुलम् ।
उच्छ्रायादथ विस्तारान्मध्यतस्तु षडंगुलम् ॥ ६० ॥
View Verse
अधस्तादंगुलानां तु चतुष्कं विस्तृतं भवेत् ।
ततः कण्ठबिलाच्चैव ह्रासयेदनुपाततः ॥ ६१ ॥
View Verse
पादपीठमधोत्सेधाद्विज्ञेयं चतुरंगुलम् ।
दशांगुलस्तद्विस्तारस्तत्संधिश्चांगुलो भवेत् ॥ ६२ ॥
View Verse
तत्सन्धेश्च भवेन्नाहं सार्धमेकांगुलं द्विज ।
उन्मत्तकुसुमाकारं वक्त्रं पझाकृतिर्भवनेत् ॥ ६३ ॥
View Verse
पालिकोत्सेधतुल्यास्तु घटिकाः समुदाहृताः ।
अंगुलत्रयहीना वा तदूर्ध्वं कलशाकृतिः ॥ ६४ ॥
View Verse
घटिकाः पञ्चवक्त्राः स्युरेतासां मध्यमं मुखम् ।
षडंगुलं च विस्तीर्णं चतुर्दिक्षु चतुष्टयम् ॥ ६५ ॥
View Verse
चतुरंगुलविस्तारं कलशोदरविस्तृतिः ।
षोडशांगुलमानोत्था शेषं प्राग्वत् समाचरेत् ॥ ६६ ॥
View Verse
यदांगुलत्रयन्यूनास्तदा सप्तांगुलोच्छ्रितम् ।
तदाननं तु तन्नालं अर्धोत्तरदशांगुलम् ॥ ६७ ॥
View Verse
सार्धत्रयांगुलं पीठं प्राग्वत् सर्वत्र विस्तरः ।
शरावाः पालिकोत्सेधतुल्याः पञ्चभिरंगुलैः ॥ ६८ ॥
View Verse
हीना वा वक्त्रविस्तारात् समारभ्य महामते ।
पादपीठस्य विस्तारं यावत्तावत्क्रमेण तु ॥ ६९ ॥
View Verse
पूर्वोक्तात् पादहीना तु भवेत् सर्वत्र विस्तृतिः ।
भवेत् त्रिपादहीना तु पादपीठस्य विस्तृतिः ॥ ७० ॥
View Verse
यदा शरावा हीनाः स्युरंगुलैः पञ्चभिस्तदा ।
मुखं षडंगुलोच्छ्रायं तन्नालं तु दशांगुलम् ॥ ७१ ॥
View Verse
त्र्यंगुलं पादपीठं स्यात् प्राग्वत् सर्वत्र विस्तृतिः ।
तदुत्तममानं तु पात्राणां कथितं द्विज ॥ ७२ ॥
View Verse
एतदेव मुनिश्रेष्ठ पादहीनं तु मध्यमम् ।
अर्धहीनं तु तन्मानमधमं परिकीर्तितम् ॥ ७३ ॥
View Verse
अतो न्यूनं न कर्तव्यं कदाचित् सिद्धिकांक्षिभिः ।
हेमादिलोहजाः सर्वे मृण्मया वा यथावसु ॥ ७४ ॥
View Verse
प्रत्येकं पालिकादीनां द्विषट्कं चोत्तमं भवेत् ।
द्विरष्टकं वा षट्त्रिंशद्विभवे सति कल्पयेत् ॥ ७५ ॥
View Verse
प्रत्यष्टकं मध्यमं स्याच्चतुष्कमधमं भवेत् ।
सर्वार्थे पालिकाः प्राग्वत् षोडशाष्टौ यथाबलम् ॥ ७६ ॥
View Verse
चतस्रो वा ततस्तासु मंगलांकुरकल्पनम् ।
अयुग्मा मानुषे कार्ये दैवे युग्मास्तु पालिकाः ॥ ७७ ॥
View Verse
महोत्सवे ध्वजारोहे ह्युत्सवावसरेऽथवा ।
पवित्रारोहणे चैव तथा स्थापनकर्मणि ॥ ७८ ॥
View Verse
जीर्णोद्धारविधौ चापि सहस्रकलशे तथा ।
त्रिवर्गपालिका यद्वा भवेदुत्तमसंख्यया ॥ ७९ ॥
View Verse
भवेन्मध्यमया वापि नान्यथा द्विजसत्तम ।
कर्मस्वन्येषु सर्वेषु यथावित्तं यथारुचि ॥ ८० ॥
View Verse
अंकुरावापनस्थानमण्टपं परिकलपयेत् ।
प्रथमावरणे वापि द्वितीयावरणेपि वा ॥ ८१ ॥
View Verse
तृतीयावरणे वापि चतुर्थावरणेपि वा ।
शुभे विविक्तेऽभिमते देशे वै देशिकोत्तमः ॥ ८२ ॥
View Verse
चतुर्दिक्षु चतुर्द्वारं चतुर्वन्दनमालिकम् ।
दर्भमालापरिक्षिप्तं मुक्तादामविराजितम् ॥ ८३ ॥
View Verse
विततक्षौमसंछन्नं गोमयालिप्तभूतलम् ।
प्रदीपमालाविततमक्षतैश्चापि सर्वतः ॥ ८४ ॥
View Verse
सुधाचूर्णैश्च धवलैः चित्रिताभ्यन्तरस्थलम् ।
मण्टपं कल्पयित्वैवं यद्वा स्नपनमण्टपे ॥ ८५ ॥
View Verse
यागाख्यमण्डपे वापि कुर्यादंकुररोपणम् ।
अंकुरानर्पयेद्रात्रौ य इच्छेद्राष्ट्रवर्धनम् ॥ ८६ ॥
View Verse
बीजानामधिपः सोम ओषधीशोऽमृतात्मकः ।
न प्रीणाति सदा ब्रह्नन् अंकुरार्पणमह्नि चेत् ॥ ८७ ॥
View Verse
तस्मात् सर्वप्रयत्नेन रात्र्यामेवांकुरार्पणम् ।
कुर्यात् सम्यग्विधानेन भगवद्भक्तिसंयुतः ॥ ८८ ॥
View Verse
तस्मिन् जगत्प्रिये प्रीते शीतांशौ प्राणिजीवने ।
तद्देशे सर्वसस्यानां संपत्तिर्महती भवेत् ॥ ८९ ॥
View Verse
गवां च लोकमातॄणां नॄणामपि च सर्वशः ।
अज्ञानादह्नि कुर्याच्चेदंकुराणामथार्पणम् ॥ ९० ॥
View Verse
अशोभनं भवेद्राष्ट्रं असमृद्धजनान्वितम् ।
सद्यः कालीनके विप्र कर्मणि स्याद्दिवापि च ॥ ९१ ॥
View Verse
यद्यदत्रोपयोग्यं स्यात्तत् सर्वं तु समार्जयेत् ।
संभृत्य सर्वसंभारानाचार्यो मूर्तिपैः सह ॥ ९२ ॥
View Verse
स्नातः कृताह्निकश्चैव सोत्तरीयः स्वलंकृतः ।
नूतनक्षौमवसनः सोष्णीषः सांगुलीयकः ॥ ९३ ॥
View Verse
सुरभीकृतसर्वांगः स्रग्वी संमृष्टकुण्डलः ।
श्वेतया मृत्स्नया सम्यक् परिक्लृप्तोर्ध्वपुण्ड्रकः ॥ ९४ ॥
View Verse
पवित्रपाणिर्नियतः प्राणायामपरायणः ।
कृताचामः कृतन्यासो जपन् वै द्वादशाक्षरम् ॥ ९५ ॥
View Verse
तदर्थमर्थयित्वा तु यजमानसमन्वितः ।
भगवन्तं जगद्योनिं पूजयित्वा विधानतः ॥ ९६ ॥
View Verse
कलशे मण्डले बिंबे वह्नौ सन्तर्प्य वै क्रमात् ।
बिंबेऽग्ना वथ बिंबे वा उत्तमादिव्यपेक्षया ॥ ९७ ॥
View Verse
ततस्त्वभिनवे पात्रे सौवर्णे राजतेऽथवा ।
तिलसर्षपनीवारशालिमाषप्रियंगवः ॥ ९८ ॥
View Verse
कुलुत्थमुद्गनिष्पावयवगोधूमवेणवः ।
बीजानि द्वादशैतानि ष्टथक् पात्रेषु वा द्विज ॥ ९९ ॥
View Verse
संभृत्य तु मुनिश्रेष्ठ स्थापयित्वा तु मूर्धनि ।
दीक्षितस्य तु विप्रस्य पुष्पाक्षतकरांजलिः ॥ १०० ॥
View Verse
आचार्यः प्रविशेत् सार्धं साधकैर्भगवन्मयैः ।
प्रासादाभ्यन्तरं विप्र तत्राधारोपरि न्यसेत् ॥ १०१ ॥
View Verse
बीजपात्रं ततोऽर्घ्येण गन्धैः पुष्पैश्च धूपकैः ।
संपूज्य मूलबिंबस्थं तथा चोत्सवबिंबगम् ॥ १०२ ॥
View Verse
बीजपात्रं ततोऽभ्यर्च्य देवाय विनिवेदयेत् ।
सह शंखनिनादैश्च मंगलैर्गीतनिस्वनैः ॥ १०३ ॥
View Verse
तूर्यनादैश्च विविधैः श्रुतिघोषैः समन्ततः ।
ततो विज्ञापयेन्मन्त्रमिममुच्चस्थया गिरा ॥ १०४ ॥
View Verse
देवदेव जगन्नाथ यात्रोत्सवनिमित्ततः ।
ध्वजार्थमंकुरारोपं करिष्यामि प्रसीद ओम ॥ १०५ ॥
View Verse
इति विज्ञाप्य देवस्य तत्रानुज्ञामवाप्य च ।
स्थापयित्वा तु तत् पात्रं दीक्षितस्यैव मूर्धनि ॥ १०६ ॥
View Verse
साधकैः सहितो विप्र बहिर्निर्गत्य देशिकः ।
विष्वक्सेनं तु वा तार्क्ष्यं हनुमत्प्रमुखं तु वा ॥ १०७ ॥
View Verse
हेतीशं वापि वस्त्राद्यैरलङ्कृत्य विशेषतः ।
यानादिकं समारोप्य प्रक्षाल्याद्भिः खनित्रकम् ॥ १०८ ॥
View Verse
नवेन वाससाच्छाद्य भूषयित्वा तु माल्यकैः ।
देशिको वाहयेद्विप्रैः शूद्रैर्वा दीक्षितैर्द्विज ॥ १०९ ॥
View Verse
च्छत्रध्वजपताकाभिः सार्धमंकुरपात्रकैः ।
त्रिविधैः पालिकाद्यैश्च शंखतूर्यादिभिः सह ॥ ११० ॥
View Verse
आम्नायोद्धोषणपरैर्भक्तैर्भागवतैर्विभोः ।
गायकैर्गणिकाभिश्च तथान्यैर्मङ्गलैः सह ॥ १११ ॥
View Verse
क्रमात् प्रदक्षिणीकृत्य सर्वेष्वावरणेषु च ।
दिशं प्राचीमुदीचीं वा अथवा प्रागुदग्दिशम् ॥ ११२ ॥
View Verse
अदूरं समनुप्राप्य तत्रोद्याने मनोहरे ।
केवले वा शुचौ देशे मृदं शुद्धां समाहरेत् ॥ ११३ ॥
View Verse
अस्त्रमन्त्रेण धरणीं संप्रोक्ष्य प्रथमं गुरुः ।
महीसूक्तेन संस्पृश्य ध्यायन्नेकाग्रचेतसा ॥ ११४ ॥
View Verse
मूर्तिं देवस्य वाराहीमभ्यर्च्य कुसुमैर्भुवम् ।
अस्त्रांबुना प्रोक्षितेन पुष्पैरभ्यर्चितेन च ॥ ११५ ॥
View Verse
खनित्रेण खनेद्भूमिं प्राङ्मुखः क्रोडमन्त्रतः ।
लोहजे भाजने मृत्स्नां वेत्रजे वा यथारुचि ॥ ११६ ॥
View Verse
गृहीत्वा मूलमन्त्रेण वेष्टयित्वा च वाससा ।
प्रत्यग्रेण तथा नद्या वालुकां गोमयं तथा ॥ ११७ ॥
View Verse
गोकुलात् पूर्ववत् पात्रे गृहीत्वाऽच्छाद्य वाससा ।
यानादिके समारोप्य यद्वा दीक्षितमूर्धनि ॥ ११८ ॥
View Verse
गत्वा प्रदक्षिणं ग्रामं प्रविशेन्मण्टपं ततः ।
मण्टपं शोधयित्वा तु स्नपनोदितवर्त्मना ॥ ११९ ॥
View Verse
ततो मण्टपमध्ये तु सूत्राण्यास्फालयेत् क्रमात् ।
प्रागायतानि प्रथमं क्रमात् सप्तदश क्षिपेत् ॥ १२० ॥
View Verse
उदगायतसूत्राणि चतुर्दश निपातयेत् ।
सूत्रात् सूत्रादन्तरालं षोडशांगुलसम्मितम् ॥ १२१ ॥
View Verse
त्रयाधिकदशैव स्युः पूर्वपश्चिमपङ्क्तयः ।
एवं षोडशसंख्याता दक्षिणोत्तरपङ्क्तयः ॥ १२२ ॥
View Verse
बीजपात्रप्रतिष्ठार्थं पूर्वपश्चिमपङ्क्तिषु ।
मध्ये पङ्क्तित्रयं स्थाप्य वीध्यर्थं द्वितयं मृजेत् ॥ १२३ ॥
View Verse
भूयश्च पङ्क्तित्रितयं स्थापयेत् पाश्वयोर्द्वयोः ।
दक्षिणोत्तरमध्ये तु स्थाप्यं पङ्क्तिचतुष्टयम् ॥ १२४ ॥
View Verse
द्वितयं द्वितयं पार्श्वे वीथ्यर्थं विमृजेत् पुनः ।
चतुश्चतुश्च पङ्क्तीनां स्थापयेत् क्रमयोगतः ॥ १२५ ॥
View Verse
अशास्वष्टासु मध्ये च शराबघटपालिकाः ।
द्वादश द्वादश स्थाप्या शतमष्टोत्तरं भवेत् ॥ १२६ ॥
View Verse
आग्नेये दक्षिणे भागे नैरृतेपि च पालिकाः ।
घटिका वारुणे ब्राह्ने तथा पौरन्दरेपि च ॥ १२७ ॥
View Verse
शरावा मारुते सौम्ये त्वीशाने च यथाविधि ।
प्रत्येकं पालिकादीनां षोडशत्वेन कल्पयेत् ॥ १२८ ॥
View Verse
दक्षिणोत्तरगं सूत्रपञ्चकं विनिवेशयेत् ।
प्रागायतानि सूत्राणि पूर्ववद्विनिवेशयेत् ॥ १२९ ॥
View Verse
आचरेत् पूर्ववद्विप्र प्राक्प्रत्यक्पङ्क्तिकल्पनम् ।
तत्र दक्षिणतः पङ्क्तिचतुष्के स्थापयेत् क्रमात् ॥ १३० ॥
View Verse
पालिकाः षोडश पुरो मध्ये पङ्क्तिचतुष्टये ।
घटिकाः षोडश न्यस्य उत्तरे विनिवेशयेत् ॥ १३१ ॥
View Verse
शरावानपि तत्संख्यानथ द्वादशकल्पने ।
दक्षिणोत्तरसूत्राणि चत्वार्यत्र विनिक्षिपेत् ॥ १३२ ॥
View Verse
पूर्वापराणि सूत्राणि पूर्ववद्विनिपातयेत् ।
अष्टाधिकानि कोष्ठानि चत्वारिंशद्भवन्ति हि ॥ १३३ ॥
View Verse
याम्ये द्वादश कोष्ठानि स्थापयित्वा ततो मृजेत् ।
वीथ्यर्थं भागषट्कं तु मद्यतः स्थापयेत् ततः ॥ १३४ ॥
View Verse
भागद्वादशकं पश्चात् भागषट्कं विलोपयेत् ।
भूयश्चोत्तरदिकस्थाप्यं कोष्ठद्वादशकं क्रमात् ॥ १३५ ॥
View Verse
न्यसेत्तु पालिकादीनि भागद्वादशकत्रये ।
आग्नेयादीशपर्यन्तं दक्षिणाशादितः क्रमात् ॥ १३६ ॥
View Verse
प्रत्येकं पालिकादीनामष्टसंख्याप्रकल्पने ।
दक्षिणोत्तरसूत्राणि त्रितयं तु निपातयेत् ॥ १३७ ॥
View Verse
अन्यत् सर्वं भवेत् प्राग्वत् अथ प्रतिचतुष्टये ।
दक्षिणोत्तरगं सूत्रं त्रितयं विनिपातयेत् ॥ १३८ ॥
View Verse
पूर्वपश्चिमसूत्राणि ह्येकादश विनिक्षिपेत् ।
सर्वार्थे पालिकानां तु षोडशानां परिग्रहे ॥ १३९ ॥
View Verse
पञ्च दक्षिणसूत्राणि प्राक्सूत्राणि तथा क्षिपेत् ।
प्राक्सूत्रान् पञ्च चाष्टानां दक्षसूत्रत्रयं क्षिपेत् ॥ १४० ॥
View Verse
चतुर्विंशतिसंख्यानां पालिकानां परिग्रहे ।
पूर्वदक्षिणसूत्राणां सप्तकं पञ्चकं क्षिपेत् ॥ १४१ ॥
View Verse
चतुः परिग्रहे सूत्रत्रितयं त्रितय क्षिपेत् ।
पूर्ववत् सूत्रपातः स्यादाद्यः संख्यासु पञ्चसु ॥ १४२ ॥
View Verse
एवमास्फाल्य सूत्राणि विभवेच्छानुसारतः ।
पदेषु पालिकादीनां शालिभिर्व्रीहिभिस्तथा ॥ १४३ ॥
View Verse
आढकादिमितैः प्राग्वदुत्तमादिव्यपेक्षया ।
वृत्तां वा चतुरश्रां वा कल्पयेत् पीठिकां क्रमात् ॥ १४४ ॥
View Verse
पालिकादीनि पात्राणि क्षालयेन्मूलमन्त्रतः ।
सहदेवीं च दूर्वां च सार्धमश्वत्थपल्लवैः ॥ १४५ ॥
View Verse
शिरीषपल्लवैश्चापि निशापत्रैस्तथैव च ।
कण्ठेषु पालिकादीनां बन्धयेत्तदनन्तरम् ॥ १४६ ॥
View Verse
कुशकाशतृणैस्तेषां बिलमूलानि पूरयेत् ।
बिलानि प्रथमं मृद्भिर्वालुकाभिरनन्तरम् ॥ १४७ ॥
View Verse
करीषचूर्णैरुपरि समृद्धं पूरयेद्विलम् ।
यद्वा मृदादिकं विप्र सर्वं संमिश्र्य पूरयेत् ॥ १४८ ॥
View Verse
कोष्ठेषु विन्यसेत्तानि पालिकादीन्यनुक्रमात् ।
आग्नेयादीशपर्यन्तं प्रतिस्कन्धं द्विजोत्तम ॥ १४९ ॥
View Verse
द्वादशानां तु नवकं अष्टोत्तरशेतं न्यसेत् ।
ब्राह्नादीशानपर्यन्तमुदितक्रमयोगतः ॥ १५० ॥
View Verse
एवं सर्वं समापाद्य दीक्षितैः परिचारकैः ।
तत्तत् सर्वं समापाद्य यद्यत् प्रागनुपार्जितम् ॥ १५१ ॥
View Verse
समारभेत् ततः कर्म देशिकः प्राङ्मुखः पदे ।
पश्चिमे घटिकास्थानादुपाविश्यासने शुभे ॥ १५२ ॥
View Verse
न्यासमुद्दिश्य विधिना प्रोक्षणार्घ्यं प्रकल्पयेत् ।
देहविन्यस्तमन्त्राणां कुर्यादर्घ्यादिनार्चनम् ॥ १५३ ॥
View Verse
द्वारपालार्चनं कृत्वा विभवेच्छानुरूपतः ।
तोरणानि ध्वजांश्चैव द्वारकुंभांश्च पूजयेत् ॥ १५४ ॥
View Verse
सौवर्णं राजतं वापि ताम्रजं मृण्मयं तु वा ।
सुगन्धतोयैः संपूर्णमुपरिष्टाद्विभूषितम् ॥ १५५ ॥
View Verse
स्रक्चन्दनाक्षतैः कुम्भमाधारस्योपरि न्यसेत् ।
आत्मनस्त्वग्रतः पश्चाद् बह्वृचादीन् क्रमेण तु ॥ १५६ ॥
View Verse
वाचयेत् स्वस्तिपुण्याहं देशिकेन्द्रः स्वयं ततः ।
आचार्यैः साधकैश्चापि सार्धमर्घ्यादिपूजितैः ॥ १५७ ॥
View Verse
पुण्याहं वाचयेद्विप्र मङ्गलं कलशं वहन् ।
यजेदर्घ्यादिभिः पश्चात् पालिकाद्यधिदेवताः ॥ १५८ ॥
View Verse
अढ्जनाभं परं चैव पझनाभं ध्रुवं तथा ।
पात्रस्कन्धत्रिके विप्र क्रमेण परिपूजयेत् ॥ १५९ ॥
View Verse
पालिकानां द्वादशके वह्न्यादीशानपश्चिमम् ।
अनन्तादि द्वादशकं घटिकाद्वादशे ततः ॥ १६० ॥
View Verse
कूर्मादीनां द्वादशकं शरावाणां तु द्वादशे ।
द्विषट्कमेकश्रृंगाद्यं क्रमेण परिपूजयेत् ॥ १६१ ॥
View Verse
प्रत्येकं पालिकादीनां कृते षोडशकल्पने ।
अनन्ताद्यं च षट्त्रिंशत् पातालशयनान्तिमम् ॥ १६२ ॥
View Verse
लक्ष्म्यादिमतिपर्यन्तं शान्तिद्वादशकं यजेत् ।
प्रत्येकं पालिकादीनां षट्त्रिंशत् पातालशयनान्तिमम् ॥ १६३ ॥
View Verse
चतुष्टयं तु मूर्तीनां स्वप्नाख्यपदसंस्थितम् ।
प्रभवाप्यययोगेन जाग्रद्रूपं तथाष्टकम् ॥ १६४ ॥
View Verse
मूर्त्यन्तराणां द्वादशकं तच्छक्तीनां चतुस्त्रयम् ।
अनन्ताद्यं च्च षट्त्रिंशत् पातालशयनान्तिमम् ॥ १६५ ॥
View Verse
स्वधादीनां च शक्तीनां चतुस्त्रिंशच्च तत्परम् ।
चक्रशंखौ क्रमाद्भोगैरर्घ्यगन्धादिर्भियजेत् ॥ १६६ ॥
View Verse
अष्टके केशवाद्याश्च तदीयाः शक्तयो यजेत् ।
चतुष्के केशवाद्यांस्तु केवलान् द्वादशे यजेत् ॥ १६७ ॥
View Verse
सर्वार्थे पालिकानां तु क्रमात् षोडशके यजेत् ।
वासुदेवादिचतुरः केशवादींश्च द्वादश ॥ १६८ ॥
View Verse
अष्टके वासुदेवादीन् प्रभवाप्यययोगतः ।
चतुष्के वासुदेवादीन् प्रभवानुक्रमेण तु ॥ १६९ ॥
View Verse
एममिष्ट्वा क्रमेणैव बीजानि क्षालयेत् ततः ।
गव्येन पयसा सम्यङ्भन्त्रेण द्वादशात्मना ॥ १७० ॥
View Verse
बीजानां नामधेयैस्तु चतुर्थ्यन्ते पृथक् पृथक् ।
अर्घ्याद्यैः पूजयित्वा तु वाससा परिवेष्ट्य च ॥ १७१ ॥
View Verse
हुतावशिष्टमाज्यं तु तदन्यं वापि संस्कृतम् ।
आदाय लोहजे पात्रे मृण्मये वा यथारुचि ॥ १७२ ॥
View Verse
उभाभ्यां चैव हस्ताभ्यां दूर्वामादाय मूलतः ।
घृते निमज्य चाग्राणि पालिकादिषु सेचयेत् ॥ १७३ ॥
View Verse
हस्तव्यत्यासमार्गेण वह्व्यादीशानपश्चिमम् ।
प्रतिस्कन्धं घृतारोपे दूर्वाभेदः प्रकीर्तितः ॥ १७४ ॥
View Verse
एवं कृत्वा घृतारोपं भूयऋ स्कन्धादिदेवताः ।
प्रपूज्य सर्वबीजानि मन्त्रयेद्द्वादशात्मना ॥ १७५ ॥
View Verse
आचार्यादीननुज्ञाप्य देशिकेन्द्र उदङ्मुखः ।
प्राङ्मुखो वा मुहूर्ते तु शोभने पालिकादिषु ॥ १७६ ॥
View Verse
द्वादशाक्षरमन्त्रेण सर्वबीजानि वापयेत् ।
यद्वाजितन्तामन्त्रेण ह्युभयेनाथवा द्विज ॥ १७७ ॥
View Verse
आग्नेयादीशपर्यन्तं प्रतिस्कन्धं क्रमेण तु ।
शंखदुंदुभिनिर्घोषजयनादसमन्वितम् ॥ १७८ ॥
View Verse
बीजानि द्वादशोक्तानि वपेद्द्वादशसु क्रमात् ।
यद्वा सर्वाणि संमिश्य वपेदिच्छानुरूपतः ॥ १७९ ॥
View Verse
बीजानामप्यलाभे तु मुद्गमेकं तु वापयेत् ।
आचार्यानुमताश्चान्ये देशिकाः साधका अपि ॥ १८० ॥
View Verse
वपेयुर्ध्यानसंयुक्ताः केवलं गुरुरेव वा ।
हरिद्राचूर्णसंमिश्रैर्जलैः कुसुमवासितैः ॥ १८१ ॥
View Verse
बहुभिः सेचयेद्विप्र देशिकेन्द्रः क्रमेण तु ।
प्रतिस्कन्धोपरिष्टात्तु चन्द्रमण्डलमध्यगम् ॥ १८२ ॥
View Verse
तत्कान्तिसन्निभं देवं स्वदेहोत्थैर्निरन्तरैः ।
सिंचन्तममृतौघैश्तु बीजान्युप्तानि सर्वतः ॥ १८३ ॥
View Verse
ध्यात्वार्चयित्वा पात्राणि नवैस्तु सदृशौः शुभैः ।
आच्छादयित्वा वसनैः प्रतिस्कन्धं क्रमेण तु ॥ १८४ ॥
View Verse
वासुदेवं जगद्योनिं सर्वेषामूर्ध्वतो यजेत् ।
भूतक्रूरबलिं दद्यादष्टदिक्षु द्विजोत्तम ॥ १८५ ॥
View Verse
भूतानां कुमुदादीनां पूर्वादिक्रमयोगतः ।
तदाप्रभृति ते सर्वे रक्षन्ति कुमुदादयः ॥ १८६ ॥
View Verse
आचार्यांश्च गुरूपन् सर्वान् साधकान् वैष्णवानपि ।
प्रभूतैस्तु ततोद्दिष्टैस्ताम्बूलीसुमनःफलैः ॥ १८७ ॥
View Verse
गुरुं च तोषयेद्वित्तैर्यजमामानः प्रयत्नवान् ।
क्रमादुत्यद्धृत्य तान् सर्वान् सुगुप्ते स्थापयेत् ततः ॥ १८८ ॥
View Verse
मण्टपेशानकोणे वा देशेऽन्यत्र यथारुचि ।
तत्रापि पालिकादीनां परितोष्टासु दिक्षु च ॥ १८९ ॥
View Verse
भूतानां कुमुदादीनां ऐन्द्रादिक्रमयोगतः ।
बलिं तु मण्‍टपे दद्यात् भूतक्रूरविधानतः ॥ १९० ॥
View Verse
दीपान् बहूननिर्वाणान् परितः परिदीपयेत् ।
ऊनाधिक्योपशान्त्यर्थं शतमष्टोत्तरं हुनेत् ॥ १९१ ॥
View Verse
द्वादशाक्षरमन्त्रं तु जपेद्वा बिंबसन्निधौ ।
कुम्भादिस्थानगस्याथ विभोः कुर्याद्विसर्जनम् ॥ १९२ ॥
View Verse
परितः पालिकादीनां प्रतिरात्रं पृथक् पृथक् ।
दद्याद्दिवा रजन्यां वा बलिं कालद्वयेपि बा ॥ १९३ ॥
View Verse
प्रातः कर्मदिने दद्याद्बलिं देशिकसत्तमः ।
यदा चोप्तानि बीजानि तदाप्रभृति नित्यशः ॥ १९४ ॥
View Verse
न कश्चित् प्रविशेत् तत्र न स्पृशेद्वा कथंचन ।
आचार्य एव प्रविशेत् तच्छिष्यो वा समाहितः ॥ १९५ ॥
View Verse
उच्छिष्टादीनि सर्वाणि दूरतः परिवर्जयेत् ।
अदत्वा तु बलिं कांचिन्न कुर्यात् पालिकाक्रियाम् ॥ १९६ ॥
View Verse
हरिद्रावारिभिः सिञ्चेदङ्कुराण्यभिवृद्धये ।
अंकुरान् श्यामलान् रक्तान् कृष्णान् तिर्व्यग्गतांस्तथा ॥ १९७ ॥
View Verse
अप्ररूढान् मुनिश्रेष्ठ वर्जयेत्तु प्रयत्नतः ।
श्यामेषु द्रव्यनाशः स्याद्रक्तेषु कलहो भवेत् ॥ १९८ ॥
View Verse
कृष्णेषु मानसी पीडा रोगी तिर्यग्गतेषु च ।
अप्ररूढेषु मरणं भवेत् तत्र न संशयः ॥ १९९ ॥
View Verse
शुभं पीतेषु शुक्लेषु ऋजुष्वूर्ध्वगतेष्वपि ।
सर्वसंपत्समृद्धिश्च कर्तुः कारयितुर्भवेत् ॥ २०० ॥
View Verse
कर्मार्थमह्कुराण्यादौ यः समारोपयेदगुरुः ।
स एव कर्म कार्त्स्न्येन कुर्यात् प्राज्ञोपि नेतरः ॥ २०१ ॥
View Verse
अनुज्ञया वा तत्पुत्रः शिष्यो वा तत् समापयेत् ।
एवं सर्वेषु यागेषु अङ्कुरारोपणं भवेत् ॥ २०२ ॥
View Verse
देशं कालं यथा वित्तं ज्ञात्वा स्वाधीनतां तथा ।
उक्तं सर्वं समभ्यूह्य कुर्यात् कर्म प्रधानकम् ॥ २०३ ॥
View Verse
एवं कृत्वांकुरारोपं ध्वजार्थं पटमाहरेत् ।
यथावित्तानुसारेण क्रीतं वाऽभिनवं शुभं ॥ २०४ ॥
View Verse
दुकूलपट्टं देवाङ्गं चित्रक्षौममथापि वा ।
अथ कार्पासिकं वापि नीलरोमादिवर्जितम् ॥ २०५ ॥
View Verse
सुलक्षणं दृढं स्निग्धं हस्तमानमिहोच्यते ।
शिष्यदेशिककर्तृस्थैर्हस्तैर्मानं प्रकल्पयेत् ॥ २०६ ॥
View Verse
आद्यं द्वादशहस्तं स्यात् दशहस्तं तु मध्यमम् ।
अधमं चाष्टहस्तं स्यात् विस्तारं च चतुष्करम् ॥ २०७ ॥
View Verse
उत्तमं स्यात् त्रिहस्तं तु मध्यमर्धाधिकं भवेत् ।
त्रिहस्तमधमं विद्धि तत्राद्ये द्विजसत्तम ॥ २०८ ॥
View Verse
द्विहस्तं शिखरार्थं तु कल्पयेद्देशिकोत्तमः ।
तद्वत् पुञ्छं प्रकुर्वींत अधोभागे ध्वजस्य तु ॥ २०९ ॥
View Verse
मध्यतःसप्तहस्तेन लेखयेद्विनतासुतम् ।
शिरोदण्डनिवेशार्थं हस्तार्धं परिकीर्तितम् ॥ २१० ॥
View Verse
पाददण्डनिवेशार्थं तद्वन्मानं भवेद्द्विज ।
मध्यमस्याथ वक्ष्यामि समासादवधारय ॥ २११ ॥
View Verse
हस्तमर्धादिकं विप्र संयुक्तं त्रिभिरंगुलैः ।
कल्पयेच्छिखरार्थं तु तद्वत् पुच्छं प्रकीर्तितम् ॥ २१२ ॥
View Verse
मध्यतो हस्तषट्केण गरुडं तु समालिखेत् ।
दण्डद्वयनिवेशार्थं शेषं तु परिकल्पयेत् ॥ २१३ ॥
View Verse
अधमस्याथ वक्ष्यामि पटस्य मुनिपुंगव ।
पादाधिकेन हस्तेन शिखरं स्यात् तथा भवेत् ॥ २१४ ॥
View Verse
अधः पुच्छं तु हस्तार्थे दण्डद्वयनिवेशनम् ।
मध्यतः पञ्चहस्तेन वैनतेयं समालिखेत् ॥ २१५ ॥
View Verse
भूयो विध्यन्तरं वक्ष्ये विभवेच्छानुसारतः ।
आद्यं त्रिपञ्चहस्तं स्यान्मध्यमं तु त्रयोदशम् ॥ २१६ ॥
View Verse
एकादशकरायाममधमं परिकीर्तितम् ।
अर्धाधिकं चतुर्हस्तं विस्तारं चोत्तमं भवेत् ॥ २१७ ॥
View Verse
पादाधिकं मध्यमं स्यादधमं पादहीनकम् ।
पादाधिकं द्विहस्तं तु उत्तमे शिखरार्थतः ॥ २१८ ॥
View Verse
तद्वत् पुच्छं तु हस्तेन दण्डद्वयनिवेशनम् ।
मद्यतश्चाष्टभिर्हस्तैर्गरुडं तु समालिखेत् ॥ २१९ ॥
View Verse
मध्यमे शिखरं हस्तयुग्मं पुच्छमधस्तथा ।
दण्डद्वयनिवेशार्थं अष्टांशोनेन हस्ततः ॥ २२० ॥
View Verse
त्र्यंगुलोत्तरसप्तार्धैर्हस्तैर्गरुडमालिखेत् ।
अधमं त्वथ वक्ष्यामि पादोनात्तु करद्वयात् ॥ २२१ ॥
View Verse
शिखरं स्यात्तथा पुच्छं पादोनेन करेण तु ।
दण्डद्वयनिवेशः स्यात् पादोनकरसप्तके ॥ २२२ ॥
View Verse
गरुडं तु लिखेद्विद्वान् भूयो विध्यन्तरं श्रृणु ।
उत्तमं नवहस्तं तु सप्तहस्तं तु मध्यमम् ॥ २२३ ॥
View Verse
अथमं पञ्चहस्तं तु त्रिविधः पठ उच्यते ।
तदर्धं चैव विस्तारं तदर्धं शिखरं भवेत् ॥ २२४ ॥
View Verse
तत्समं पुच्छमप्युक्तं कर्णपुच्छं तथैव च ।
मूलबिंबसमायामं द्वारायाममथापि वा ॥ २२५ ॥
View Verse
आयामार्धेन विस्तीर्णं पादेन कृतशेखरम् ।
शिखरेण समं पुच्छं तदर्धं कर्णपुच्छकम् ॥ २२६ ॥
View Verse
पक्षद्वयेपि पूर्वोक्ते कर्णपुच्छेन कल्पयेत् ।
बालाख्यध्वजवस्त्रं तु पटाख्यपरिसम्मितम् ॥ २२७ ॥
View Verse
विस्तारं पटतुल्यं तु पूर्ववच्छिखरं भवेत् ।
निर्णेजितं खलीयुक्तं शोषितं लक्षणान्वितम् ॥ २२८ ॥
View Verse
पटं विचित्रयेद्विद्वान् शिल्पिना कुशलेन वै ।
च्छत्रं तु शिखरे कुर्यात् पार्श्वयोः श्वेतचामरे ॥ २२९ ॥
View Verse
अधोऽनेकदलं पझं तदधः पूर्णकुम्भकम् ।
कुम्भस्य पार्श्वे विलिखेत् सांकुरं पालिकागणम् ॥ २३० ॥
View Verse
दीपौ सुशोभनौ कुर्यात् पालिकानां तु पार्श्वयोः ।
ध्वजं तु गरुडाकारं एकमूर्तेस्तु सत्तम ॥ २३१ ॥
View Verse
सत्यः सुपर्णो गरुडस्तार्क्ष्यश्च चतुरात्मनः ।
पञ्चमूर्तेस्तु चत्वारो विहगेश्वरसंयुताः ॥ २३२ ॥
View Verse
सुपर्णतालमकरऋश्या वा चतुरात्मनः ।
तत ऊर्ध्वं तु सर्वेषां व्यूहानां गरुडो ध्वजः ॥ २३३ ॥
View Verse
पटमध्ये तु गरुडं द्विभुजं विधृताञ्जलिम् ।
पुष्पांजलिपुटं वाथ सुवर्णाचलसन्निभम् ॥ २३४ ॥
View Verse
गगने गमनारंभपक्षविक्षेपणान्वितम् ।
कुञ्चितो वामपादस्तु दक्षिणः पृष्ठतः स्थितः ॥ २३५ ॥
View Verse
किंचिदायतवृत्ताक्षं नीलदीर्घाग्रनासिकम् ।
अतीव शान्तवेषं तु तथा प्रहसिताननम् ॥ २३६ ॥
View Verse
बालचन्द्रसमाकारदंष्ट्राद्वयविराजितम् ।
कुटिलभ्रकुटीभंगं भंगुरालकशोभितम् ॥ २३७ ॥
View Verse
कम्बुग्रीवं बृहद्बाहुं पीनांसं दृढवक्षसम् ।
पृथूदरं निम्ननाबिं रोमराजिविराजितम् ॥ २३८ ॥
View Verse
सुवृत्तकनकस्तम्भपीवरो रुद्वयान्वितम् ।
हेमरंभासमाकारजंघाक्रान्तपदद्बयम् ॥ २३९ ॥
View Verse
करण्डमकुटाक्रान्तपुष्पापीडविराजितम् ।
वृत्तवैपुल्यमानेन लोचने पझपत्रवत् ॥ २४० ॥
View Verse
भ्रूयुग्मं नारसिंहोक्तं घ्राणाग्रं शुकतुण्डवत् ।
सिंहवन्मध्यदेशस्तु तद्वंशं गजपृष्ठवत् ॥ २४१ ॥
View Verse
तदेवं दैवदैर्घ्येण विस्तृतं हंसपक्षवत् ।
स्वपक्षमानाद्द्विगुणं तत्पुच्छं शतशाखिनम् ॥ २४२ ॥
View Verse
सर्वेषां विद्धि सामान्यं विशेषाख्यमथोच्यते ।
मकुटादिसपादान्तं नानारत्नेन शोभितम् ॥ २४३ ॥
View Verse
हारकेयूरकटकब्रह्नसूत्रविभूषितम् ।
प्रलंबकर्णपाशान्तविश्रान्तशुभकुण्डलम् ॥ २४४ ॥
View Verse
ललाटतिलकोपेतं पुष्पकर्णावतंसकम् ।
रत्नांगुलीयकोपेतं शिंजिनीरंञ्जितांघ्रिकम् ॥ २४५ ॥
View Verse
अन्यैराभरणैर्दिव्यैर्भूषितं सर्पभूषणम् ।
नीलांबरधरं नीलवारवाणविराजितम् ॥ २४६ ॥
View Verse
फुल्लरक्तोत्फलदलस्रग्भिर्मण्डितकन्धरम् ।
तथाविचित्रकुसुमस्रग्भिरन्याभिरुज्ज्वलम् ॥ २४७ ॥
View Verse
अनन्तो वामकटको यज्ञसूत्रं तु वासुकिः ।
तक्षकः कटिसूत्रं तु हारः कार्कोटकस्तथा ॥ २४८ ॥
View Verse
पझो पक्षिणकर्णे तु महापझस्तु वामतः ।
शंखः शिरः प्रदेशे तु गुलिकच भूजान्तरे ॥ २४९ ॥
View Verse
एतैरष्टोरगैराद्यैर्भूषितं भुजगोत्तमैः ।
अनन्तः शुक्लवर्णाभः रक्तवर्णस्तु वासुकिः ॥ २५० ॥
View Verse
तक्षकः पीतवर्णआभो धूम्रः कार्कोटकस्तथा ।
शंखस्तुहिनवर्णाभो गुलिकस्त्वलिसन्निभः ॥ २५१ ॥
View Verse
पझः पझसमानाभो महापझस्तु पिंगलः ।
पञ्चवर्णैर्लिखेदेवं देवं पञ्चायुधं तथा ॥ २५२ ॥
View Verse
चक्रं खङ्गं शरं चैव शंखं शार्ङ्गं गदां क्रमात् ।
पटोर्ध्वे हयुभये पार्श्वे विलिखेच्च यथाविधि ॥ २५३ ॥
View Verse
तदधो दक्षिणे भागे वह्विमण्डलमालिखेत् ।
तद्वल्लिखेद्वामभागे स्वस्तिकं लक्षणान्वितम् ॥ २५४ ॥
View Verse
लेपयेत् पटशेषं तु श्यामलेनासितेन वा ।
विचित्रपुष्पसंयुक्तपत्रवल्लीसमन्वितम् ॥ २५५ ॥
View Verse
एवं शिल्पिवरेणैव कारयेद्देशिकोत्तमः ।
शूद्रेण वा द्विजश्रेष्ठ दीक्षितेन यथाविधि ॥ २५६ ॥
View Verse
कुलालेनाथवा मन्त्री कारयेत् कुशलेन च ।
सामान्यलक्षणं ह्येतत् कीर्तितं द्विजसत्तम ॥ २५७ ॥
View Verse
अङ्गुलादिविभागेन विशेषणवधारय ।
अष्टाधिकशतैकांशाद्यद्बिंबेंऽगुलमीरितम् ॥ २५८ ॥
View Verse
तत्रैव मूलबिंबोत्थैरङ्गुलैः परिकल्पयेत् ।
तद्वाहनस्य मानं तु विभागमवधारय ॥ २५९ ॥
View Verse
तस्य बिंबसमुत्थेन तालेन मुखमण्डलम् ।
द्व्यंगुलं तु ललाटोर्ध्वं जटाबन्धो द्विलोचनम् ॥ २६० ॥
View Verse
द्व्यंगुलेनोन्नतं कण्ठं उरः पञ्चांगुलं स्मृतम् ।
अष्टांगुलं तदुदरं कटिः पञ्चांगुलोन्नता ॥ २६१ ॥
View Verse
नवांगुलोन्नतावूरू जानुनी द्व्यंगुले स्मृते ।
अष्टांगुलोच्छ्रिते जंधे द्व्यंगुले पादपिण्डिके ॥ २६२ ॥
View Verse
शममेकं कलाहीनं तद्ग्रीवायास्च वेष्टनम् ।
बिंबतुल्या परिज्ञेया सर्वदास्यांगविस्तृतिः ॥ २६३ ॥
View Verse
द्विषड्भागादिकं विद्धि वेष्टनं ह्युदरस्य वा ।
परिधिः कटिदेशस्य चतुर्णेत्राधिकस्तु वै ॥ २६४ ॥
View Verse
बिंबोक्तसदृशं बिद्धि तदूर्वोमूलवेष्टनम् ।
तदेव जंघामध्यस्य जंघानत्स्य तदेव हि ॥ २६५ ॥
View Verse
पादः पञ्चकलायामश्चतुरंगुलविस्तृतः ।
त्र्यंगुलं पार्ण्णिदेशाच्चाप्यंगुष्ठौ च कलासमौ ॥ २६६ ॥
View Verse
विज्ञेयास्त्वंघ्रिदैर्घ्या यवोनांगुलयः क्रमात् ।
नाभिरन्ध्रं सुविस्तीर्णं द्व्यर्धलोचनविस्तृतम् ॥ २६७ ॥
View Verse
तद्वाहुमस्तकं विद्धि उच्छ्रायेण द्विलोचनम् ।
भुजोपभुजयुग्मं यत् तद्द्वितालसमं स्मृतम् ॥ २६८ ॥
View Verse
मध्यमांगुलिपर्यन्तं मणिबन्धान्नवांगुलम् ।
त्रिकलः पाणिविस्तारस्तन्नखा निशितोन्नताः ॥ २६९ ॥
View Verse
कलार्धेनाधिकं बाहोस्तदर्धं बाहुवेष्टनम् ।
बिंबोक्तांशद्वयेनैव स्तनभूर्लोचनेन तु ॥ २७० ॥
View Verse
वृत्तवैपुल्यमानेन लोचने पझपत्रवत् ।
भ्रूयुग्मं नारसिंहोक्तं घ्राणाग्रं शुकचञ्चुवत् ॥ २७१ ॥
View Verse
कलार्धमानदीर्धं च तद्वंशं गजपृष्ठवत् ।
स्वायामदीर्धं तत्पक्षयुगलं कुक्षिदेशगम् ॥ २७२ ॥
View Verse
तदेव दैर्घ्यादर्धेन विस्तृतं हंसपक्षवत् ।
स्वपक्षमानाद्द्विगुणं तत्पुच्छं शतशाखिनः ॥ २७३ ॥
View Verse
सपक्षमेवमायामं सात्यं त्ववयबान्वितम् ।
सर्वेषां विद्धि सामान्यं विशेषाख्यमथोच्यते ॥ २७४ ॥
View Verse
ऊरु द्वयान्नयेद्ध्रासमङ्गुलानां त्रयं तथा ।
जंघाकाण्डोच्छ्रितेः कुर्याज्जङ्घाभ्यां चात्र वेष्टनम् ॥ २७५ ॥
View Verse
बिंबाख्यमणिबन्धस्य समं मूलान्महामते ।
जंघादेशात्तदर्देन सह चार्धाङ्गुलेन तु ॥ २७६ ॥
View Verse
पादे जालं परिज्ञेयं विस्तारेण षडंगुलम् ।
शेषं सत्योदित्तं सर्वं सर्वेषां विद्धि सर्वदा ॥ २७७ ॥
View Verse
किन्तु पादोत्थितौ पक्षौ दैर्घ्यात्तद्दलविस्तृतौ ।
एषां चोड्डीयमानानां सायामा पक्षविस्तृतिः ॥ २७८ ॥
View Verse
पञ्चानां च परिज्ञेया स्थितानामर्धलक्षणा ।
पटे तु लिख्यमाने तु पक्षदैर्घ्यं तु पार्श्वयोः ॥ २७९ ॥
View Verse
यावत् पटसमाप्तिः स्यात् पक्षास्त्वग्रसमन्विताः ।
संख्याताः संख्यया विप्र पच्च सप्ताद्ययुग्मया ॥ २८० ॥
View Verse
यद्वा बिंबोक्तमार्गेण अष्टोत्तरशतांगुलैः ।
सत्यादीनां तु पच्चानां अंगप्रत्यंगकल्पना ॥ २८१ ॥
View Verse
यद्वा मध्यांगुलैर्मध्यपर्वदैर्ध्यसमुत्थितैः ।
देशिकीयैरंगुलैस्तु सनैरष्टाभिरेव च ॥ २८२ ॥
View Verse
सत्यादीनां तु पञ्चानां मानं कुर्यात्तु देशिकः ।
मूलबिंबस्य बाह्वन्तो नाभ्यन्तो वा तदुच्छ्रयः ॥ २८३ ॥
View Verse
मानमेतत्तु कथितमुन्मानमवधारय ।
गरुडस्य पटस्थस्य सत्यादीनां तथा यदा ॥ २८४ ॥
View Verse
मद्यमांगुलमद्यस्थदीर्घपर्वेण कल्पयेत् ।
देशिखीयेन मानं तु अष्टोत्तरशतांगु लैः ॥ २८५ ॥
View Verse
शिरःप्रभृति पादान्तं तदाचोन्मानमुच्यते ।
अंगुलत्रितयं मूर्घ्नि मुखं षड्गोलकं भवेत् ॥ २८६ ॥
View Verse
कण्ठं त्र्यंगुलमानं स्यात् तदधो द्वादशांगुलम् ।
स्तनान्तरं समारभ्य नाभ्यन्तं षट्कलं भवेत् ॥ २८७ ॥
View Verse
तदधः कटिपर्यन्तं भवेदंगुलपञ्चकम् ।
तदधो योनिपर्यन्तं अंगुलानां च सप्तकम् ॥ २८८ ॥
View Verse
जान्वन्तं द्वादशकलं त्र्यंगुलं जानुमण्डलम् ।
तदधो गुल्फकान्तं तु भवेद्द्वादशगोलकम् ॥ २८९ ॥
View Verse
त्र्यंगुलं गुल्फमानं स्यात् प्रमाणं क्रमतः श्रृणु ।
मुखभागे ।़क्षिसूत्रान्तं उपरिष्टाद्द्विगोलकम् ॥ २९० ॥
View Verse
तथा नासापुटान्तं च चिबुकान्तं तथैव च ।
षट्कलः कर्णसूत्रान्तं मध्यतो मुखविस्तरः ॥ २९१ ॥
View Verse
नवांगुलो ह्यधोभागे ललाटांशे दशांगुलिः ।
केशभ्रूरेखयोर्मध्यमेकांगुलमिदं भवेत् ॥ २९२ ॥
View Verse
अक्षिभ्रुवोरन्तरं स्यात् सपादांगुलिविस्तरम् ।
नेत्रायामस्तु पादोनमंगुलत्रितयं भवेत् ॥ २९३ ॥
View Verse
तद्विस्तारस्तु पादोनमंगुलिद्वितयं भवेत् ।
एकांगुलं तारकं स्यान्नासाया मूलविस्तरः ॥ २९४ ॥
View Verse
द्व्यंगुलं मध्यतः सांशं तत् त्र्यंगुलमधो भवेत् ।
तदग्रायाम एकः स्यात् तदर्धं विस्तृतिर्भवेत् ॥ २९५ ॥
View Verse
आस्यायामो द्विगोलः स्यात् तद्विस्तारोंऽगुलो भवेत् ।
साधरोष्ठं तदोष्ठं स्याद्व्यायामो द्व्यंगुलं भवेत् ॥ २९६ ॥
View Verse
सपादो दंष्ट्रयोर्मघ्ये तयोरायाम ईरितः ।
सपादमंगुलं विप्र विस्तारोथांगुलो भवेत् ॥ २९७ ॥
View Verse
मूलदेशे तयोरग्रौ शितौ चन्द्रदलाग्रवत् ।
पंचांगुलं कण्ठदैर्घ्यं विस्तारो गोलकं भवेत् ॥ २९८ ॥
View Verse
पडंगुलं पाददैर्त्र्यं कर्णआधारश्चतुष्कलः ।
सार्धांगुलः स्यात्तदधोवक्षः पीठोर्ध्वदेशतः ॥ २९९ ॥
View Verse
अष्टादशकलस्तारो बाहुव्यासावधि द्विज ।
तदधः कक्षपर्यन्तं तारो द्वादशगोलकः ॥ ३०० ॥
View Verse
तदधोभागविस्तारः सांगुलं नवगोलकम् ।
उदरस्य तु विस्तार एकविंशांगुलो भवेत् ॥ ३०१ ॥
View Verse
तत्रैकांगुलिसन्नाहं नाभिवृत्तं सुशोभनम् ।
श्रोणीभागस्य विस्तारः सांगुलं नवगोलकम् ॥ ३०२ ॥
View Verse
ऊरुमूलस्य विस्तारस्त्रयोदशांगुलो भवेत् ।
तन्मध्ये विस्तृतिर्विप्र द्वादशांगुलसम्मिता ॥ ३०३ ॥
View Verse
सप्तांगुलमुपस्थं स्यात् त्रिकला जानुविस्तृतिः ।
अधः पञ्चांगुलं सार्धं पद्दैर्ध्यं सप्तगोलकम् ॥ ३०४ ॥
View Verse
अङ्गुष्ठाग्रावधिर्यावत् पार्प्ण्योः प्रभृति तत्र तत् ।
अङ्गुष्ठं त्र्यंगुलं सार्धं अन्या अंगुलयः क्रमात् ॥ ३०५ ॥
View Verse
अङ्गुलाष्टांशहीनाः स्युः अंगुष्ठस्य तु विस्तृतिः ।
सार्धांगुला तदन्यासां क्रमान्न्यूना तु पूर्ववत् ॥ ३०६ ॥
View Verse
अंगुष्ठनखदैर्व्यं तु सांशमेकाङ्गुलं भवेत् ।
तद्विस्तारस्त्रिपादः स्यात् तदन्या ह्रासयेत् क्रमात् ॥ ३०७ ॥
View Verse
कनीयो नखदैर्व्यं तु यदा चार्धांगुलं भवेत् ।
तद्विस्तारस्तदर्धं स्यादंगुलीमूलदेशतः ॥ ३०८ ॥
View Verse
चरणस्य तु विस्तारः सार्धपञ्चांगुलो भवेत् ।
पञ्च मध्ये पार्ष्णिभागे सार्धं तु चतुरंगुलम् ॥ ३०९ ॥
View Verse
शाखापार्श्वे तदुच्छ्रायस्त्र्यंगुलं परिकीर्तितम् ।
मध्यतस्तद्भवेत् सार्धं भुजयोरथ तच्छृणु ॥ ३१० ॥
View Verse
स्कन्धाग्रात् कूपरान्तं च चतुर्विंशाङगुलो भबेत् ।
भुजायामोस्य मूलस्य विस्तारः स्यात् षडंगुलम् ॥ ३११ ॥
View Verse
तदधः पञ्चकं सार्धं कूर्परान्नवगोलकम् ।
मणिबन्धावसानं स्याद्दैर्घ्यं कूर्परविस्तृतिः ॥ ३१२ ॥
View Verse
सार्धं षडङगुलं विप्र मणिबन्धादिकं भवेत् ।
अंगुलत्रयविस्तारं कराग्रं षट्कलायतम् ॥ ३१३ ॥
View Verse
विस्तारो द्विकलः प्रेक्तो वामे तु द्व्यंगुलं भवेत् ।
दृश्यं तिरोहितं चान्यद्द्वयं दक्षकरे तु वै ॥ ३१४ ॥
View Verse
मध्यमाङ्गुलदैर्घ्यं तु पञ्चांगुलविनिमितम् ।
अनामितर्जनीन्युनशाखानां तु क्रमेण तु ॥ ३१५ ॥
View Verse
अर्धार्धाङगुलहीनं स्यादंगुलं मध्यमार्धकम् ।
मध्यमाङष्ठयोस्तारः सार्धमेकाङ्लं भवेत् ॥ ३१६ ॥
View Verse
तर्जन्यनामयोरेकं कनीयस्यास्त्रिपादकम् ।
सार्धांगुलं नखायामं तदर्धं विस्तृतिर्भदेत् ॥ ३१७ ॥
View Verse
मकुटस्योच्छ्रयो विप्र भवेदष्टादशांगुलः ।
तन्मूलविस्तृतिर्विप्र षोडशांगुलसम्मिता ॥ ३१८ ॥
View Verse
ष्टकला मध्यतो ज्ञेया अग्रतस्त्रिकला भवेत् ।
शिखामणेः समुच्छ्रायं कल्पयेत् सार्धमङ्लम् ॥ ३१९ ॥
View Verse
विस्तारः स्यात् सपादस्तत्पक्षयाणं त्रितालकम् ।
यद्वा पटावसानं स्याद्यथाशोभानुरूपतः ॥ ३२० ॥
View Verse
एकैकपक्षतिस्तारं त्र्यंगुलं त्र्यंगुलं भवेत् ।
नागानामास्यदैर्घ्यं तु साधमेकाङ्गुलं भवेत् ॥ ३२१ ॥
View Verse
तद्विस्तारोङगुलं विप्र तत्सरोङगुलविस्तृतिः ।
द्व्यंगुलं तदधस्तात् स्यात् वालमर्धांगुलं तथा ॥ ३२२ ॥
View Verse
यथा क्रमेण हीनः स्यान्नागानां भोगविस्तरः ।
अनन्तस्य प्रधानस्य दैर्घ्यं द्व्यंगुलसम्मितम् ॥ ३२३ ॥
View Verse
तत्तारः सार्धमेकं स्याद्द्वयं तद्गलविस्तरः ।
तदधो द्वितयं सार्धं शीर्षाणीतरनागवत् ॥ ३२४ ॥
View Verse
वालाग्रमेकविस्तारं यथा स्यात् कल्पयेत् तथा ।
नागाना भोगदैघ्यस्य मानं कुर्याद्यथारुचि ॥ ३२५ ॥
View Verse
दैर्घ्यं विष्टरपझस्य पञ्चाशच्चतुरंगुलम् ।
षड्गोलकस्तद्विस्तारः कर्णिकायाः समायतिः ॥ ३२६ ॥
View Verse
एकविंशत् कलाःप्रोक्तास्तद्विस्तारस्त्रिगोलकः ।
अन्यच्च वैनतेयस्य मानं यद्यत् प्रकल्पितम् ॥ ३२७ ॥
View Verse
सुसमं यद्विभक्तव्यमष्टोत्तरशतांगुलम् ।
प्राग्वत् तदंगुलं कृत्वा उन्मानाद्यं प्रकल्पयेत् ॥ ३२८ ॥
View Verse
तदंगुलानुसारेण नागाद्यं चापि कल्पयेत् ।
आद्यपक्षे तु नागाद्यं कुर्यादाद्यानुसारतः ॥ ३२९ ॥
View Verse
पञ्चांगभूषणायुक्तं वस्त्रस्रग्गन्धवासितम् ।
एवं सर्वं समापाद्य देशिकःसुसमाहितः ॥ ३३० ॥
View Verse
ध्वजारोहणनक्षत्रात् पूर्वेद्युश्च निशामुखे ।
प्रयायात् कर्मशालां च सहितो मूर्तिधारकैः ॥ ३३१ ॥
View Verse
लिखितं पटमालोक्य लक्षणं सुपरीक्ष्य च ।
शंखदुन्दुभिनिर्घोषैः काहलध्वनिभिस्तथा ॥ ३३२ ॥
View Verse
गीतैश्च विविधै रम्यैः श्रुतिघोषैः पृथग्विधैः ।
सहध्वजपटं तस्मादानयेन्मुखमण्टपे ॥ ३३३ ॥
View Verse
प्रविश्याभ्यन्तरं मूलविंबस्थं परमेश्वरम् ।
अभिवाद्यार्घ्यगन्धाद्यैः पूजेयत् पुष्पधूपकैः ॥ ३३४ ॥
View Verse
विसृज्य शिल्पिनं पश्चात् संप्रोक्ष्यार्ध्यांभसा पटम् ।
सिद्धार्थकान्वितैः पुष्पैः ताडयेदस्त्रमन्त्रितैः ॥ ३३५ ॥
View Verse
दर्शयेद्देवदेवस्य सम्मुखं साधकोत्तमः ।
दहनाप्यायनं कुर्यात् विधिदृष्टेन कर्मणा ॥ ३२६ ॥
View Verse
भूयोर्ध्यगन्धपुष्पाद्यैः प्रपूज्य परमेश्वरम् ।
गिरोच्चया त्विमं मन्त्रं बद्धांजलिकरः पठेत् ॥ ३३७ ॥
View Verse
भगवन् पुण्डरीकाक्ष सर्वेश्वर जगन्मय ।
त्वया यथा तु कथितं तथा कर्तुं न शक्यते ॥ ३३८ ॥
View Verse
अस्वातन्त्र्यादसामर्थ्यात् श्रद्धादीनामभावतः ।
तस्मान्मानादिसर्वेषां न्यूनाधिक्योपशान्तये ॥ ३३९ ॥
View Verse
समालोकय नेत्राम्यां शीतलाभ्यां पटस्थितम् ।
सर्वदोषापहारिभ्यां वैनतेयं प्रसीद ओम् ॥ ३४० ॥
View Verse
दीक्षितानां ततो विप्र हस्ते दत्वा तु तं पटम् ।
चतुः प्रदक्षिणीकृत्य तेन सार्धं तु देशिकः ॥ ३४१ ॥
View Verse
प्रथमावरणे वापि द्वितीयावरणेपि वा ।
प्रविशेद्यजमानेन प्रासादाग्रस्थमण्डपम् ॥ ३४२ ॥
View Verse
तत्र न्यस्त्वा भद्रफीठं तदूर्ध्वे शालितण्डुलैः ।
वेदिं कृत्वा तु तत्पृष्ठे भद्राख्यं मण्डलं लिखेत् ॥ ३४३ ॥
View Verse
विभवे सति वस्त्रं तु समास्तीर्य तदूर्ध्वतः ।
तिलराशिं समुत्कीर्य तन्मध्ये स्वस्तिकं लिखेत् ॥ ३४४ ॥
View Verse
तस्योपरिष्टात् संस्थाप्य प्रासादाभिमुखं पटम् ।
उपविश्यासने पश्चादाचार्यः सुसमाहितः ॥ ३४५ ॥
View Verse
करशुद्ध्यादि पूर्वोक्तं स्वदेहार्चनपश्चिमम् ।
सर्वं खगेशमन्त्रेण सांगेन तु समाचरेत् ॥ ३४६ ॥
View Verse
द्वार्स्थतोरणकुंभादियजनं प्राग्वदाचरेत् ।
ततः पुण्याहघोषं तु कारयेत् पूर्ववद्द्विज ॥ ३४७ ॥
View Verse
गरुडस्याग्रतः प्राग्वत् कुम्भं करकसंयुतम् ।
भारमात्रोपक्लृप्ते तु धान्यपीठे तु विन्यसेत् ॥ ३४८ ॥
View Verse
जलद्रोण्यादिकं पात्रं गन्धतोयैः सुपूरितम् ।
दक्षिणे करकस्याथ विनिवेश्य च तत्र तु ॥ ३४९ ॥
View Verse
सद्यश्छायाचिवसनमाचरेद्गरुडस्य तु ।
स्नपनानां पुरोक्तानां पूर्वस्मिन्नवके द्विज ॥ ३५० ॥
View Verse
अधमाधममार्गेण स्नपनं तु समाचरेत् ।
अग्रतो वैनतेयस्य वेदिकोपरि संस्थिते ॥ ३५१ ॥
View Verse
दर्पणे तु ततः पश्चान्मुहूर्ते शोभने गुरुः ।
नयनोन्मीलनं कुर्यात् प्रागुक्तेनैव वर्त्मना ॥ ३५२ ॥
View Verse
सर्वेषामपि सर्पाणां नेत्रोन्मीलनमाचरेत् ।
प्राग्वत् संशुद्धदेहस्तु शिल्पी प्रकटतां नयेत् ॥ ३५३ ॥
View Verse
सर्वं तु पूर्ववत् कुर्यान्नेत्रयोः पूरणादिकम् ।
कुम्भे च करके चैव आसनं परिकल्प्य च ॥ ३५४ ॥
View Verse
कुम्भे गरुडमावाह्य करके मन्त्रमस्त्रपम् ।
पूजयित्वार्घ्यगन्धाद्यैस्ततो दिक्कलशाष्टकैः ॥ ३५५ ॥
View Verse
इन्द्रादिलोकपालांस्तु प्रादक्षिण्येन पूज्य च ।
भित्तिसंसेचनं कृत्वा भूयः संस्थाप्य तत्र तु ॥ ३५६ ॥
View Verse
ततो ध्वजपटे प्राग्वदासनं परिकल्प्य च ।
ततो गरुडमन्त्रं तु सहस्रादित्यभास्वरम् ॥ ३५७ ॥
View Verse
सर्वरोगप्रशमनं सर्वोपद्रवनाशनम् ।
सर्वसिद्धिप्रदं नॄणां सर्वदारिद्र्यनाशनम् ॥ ३५८ ॥
View Verse
हृदयाद्रेच्य विप्रेन्द्र पटस्थगरुडे न्यसेत् ।
सकलीकरणं कृत्वा सन्निधिं च समाचरेत् ॥ ३५९ ॥
View Verse
सन्निरोधं च साम्मुख्यं मुद्राबन्धं तथैव च ।
लययागं भोगयागं यथावद्द्विजसत्तम ॥ ३६० ॥
View Verse
सर्वं गरुडमन्त्रेण सांगेन तु समाचरेत् ।
कुम्भे च करके चैव पटे च क्रमयोगतः ॥ ३६१ ॥
View Verse
महता विभवेनैव पूजनं तु समाचरेत् ।
अलंकारासनान्तं च यथोक्तेन क्रमेण तु ॥ ३६२ ॥
View Verse
कृत्वा संपूजनं विप्र गरुडस्य ततः परम् ।
प्रासादाभ्यन्तरे विप्र देशिकानुमतेन तु ॥ ३६३ ॥
View Verse
अन्येन गुरुणा यद्वा साधकेन विशेषवत् ।
पूजनं कारयेत् सम्यङ्मूलमूर्तिगतस्य च ॥ ३६४ ॥
View Verse
यात्रामूर्तिगतस्यापि विभोर्दानान्तमेव च ।
स्नपनं गरुडस्थस्य विशेषार्चनपूर्वकम् ॥ ३६५ ॥
View Verse
तत्परं वैनतेयस्य भोज्यासनपुरस्सरैः ।
विविधैर्मधुपर्कान्तं हृद्यैः सकलमूलकैः ॥ ३६६ ॥
View Verse
अन्नैरतिप्रभूतैश्च तथान्यैर्विविधैरपि ।
भोगैरिष्ट्वा जपान्तं च पूर्ववत् क्रमयोगतः ॥ ३६७ ॥
View Verse
संप्रदानं पृथक् कुर्यात् कारिभ्यस्तु यथाविधि ।
मन्त्रास्त्रकुम्भयोर्दत्तमाचार्येभ्यो ददेत् ततः ॥ ३६८ ॥
View Verse
पटस्थस्यापि नैवेद्यं किंचिदादाय पात्रगम् ।
देशिकः स्वयमादद्याद् गुर्वादिभ्योपि वै ददेत् ॥ ३६९ ॥
View Verse
मूलबिंबस्थितस्यापि यात्राबिंबस्थितस्य च ।
देवस्य मधुपर्काद्यैर्नैवेद्यं विनिवेदितम् ॥ ३७० ॥
View Verse
दापयेद्देशिकादिब्यस्ततो होमं समाचरेत् ।
कुण्डं सलक्षणं कृत्वा प्राग्भागे गरुडस्य तु ॥ ३७१ ॥
View Verse
तत्रानलं च संस्कृत्य आवाह्य विहगेश्वरम् ।
समिधां सप्तकं हुत्वा शान्त्यर्थं तु तिलैर्घृतैः ॥ ३७२ ॥
View Verse
आहुत्यष्टोत्तरशतं हुत्वा पूर्णां निवेदयेत् ।
यद्वा नैमित्तिके कुण्डे होमं कुर्यात्तु देशिकः ॥ ३७३ ॥
View Verse
ततस्तु यजमानाय स्नानाद्यैः प्रयतात्मने ।
गरुहस्य पटस्थस्य नैवेद्यं यन्निवेदितम् ॥ ३७४ ॥
View Verse
तत्र किंचित् समादाय दत्वा वै देशिकः स्वयम् ।
तत्तच्छिष्टं तु नैवेद्यं कृत्वा तु कबलं पृथक् ॥ ३७५ ॥
View Verse
नारीणमप्रजानां तु नराणां रोगिणामपि ।
दद्याद्गरुडमन्त्रं तु ध्यायमानः समाहितः ॥ ३७६ ॥
View Verse
प्राङ्मुखं प्राशयित्वान्नं तत्तीर्थं त्वथ पाययेत् ।
एवं कृत्वाधिवासं तु जागरेण नयेन्निशाम् ॥ ३७७ ॥
View Verse
ततः प्रभाते सुस्नातस्वाचान्तो देशिकोत्तमः ।
नित्यार्चनं विभोः कृत्वा विशेषयजनं तथा ॥ ३७८ ॥
View Verse
वैनतेयं ततोऽभ्यर्च्य कुम्भपूर्वं यथाविधि ।
महाहविर्निवेद्याथ होमं कृत्वा तु पूर्ववत् ॥ ३७९ ॥
View Verse
ततश्चतुर्थावरणे अन्तरा गोपुरस्य तु ।
चतुर्हस्तं द्विहस्तं वा ध्वजपीठं समन्ततः ॥ ३८० ॥
View Verse
सार्धहस्तोच्छ्रितं विप्र हस्तोच्छ्रितमथापि वा ।
शिलाभिरिष्टकाभिश्च पव्काबिर्वा यथारुचि ॥ ३८१ ॥
View Verse
खातं कुर्यात्तु तन्मध्ये यावद्भूमितलं द्विज ।
तृतीयावरणे वापि बलिपीठाद्बहिर्द्विज ॥ ३८२ ॥
View Verse
द्वितीयावरणे वा तद्भवेत् कालानुरूपतः ।
उत्तरे ध्वजपीठस्य पूर्वस्यां दिशि वा द्विज ॥ ३८३ ॥
View Verse
शाययेत्तु ध्वजस्तंभं ध्वजयष्टिसमन्वितम् ।
पूर्वाग्रमुत्तराग्रं वा लक्षणाढ्यं सुशोभनम् ॥ ३८४ ॥
View Verse
अन्तस्सारो बहिस्सारो निस्सारश्च त्रिधा भवेत् ।
चंपको देवदारुश्च चन्दनः खदिरस्तथा ॥ ३८५ ॥
View Verse
सालवृक्षश्च बिम्वश्च ककुभालकौ यथा ।
इत्येवमादयो वृक्षा अन्तस्सारा उदाहृताः ॥ ३८६ ॥
View Verse
क्रमुको नालिकेरश्च हिन्तालस्ताल एव च ।
वेणुश्चापि बहिस्साराः प्रशस्ता ध्वजकर्मणि ॥ ३८७ ॥
View Verse
किंशुकाद्यास्तु ये विप्र निस्साराः समुदाहृताः ।
निस्सारं वर्जयेत् स्तंभं सर्वदा ध्वजकर्मणि ॥ ३८८ ॥
View Verse
आर्द्रं नवं ऋजुं स्निग्धं वक्रस्फोटनवर्जितम् ।
अयुग्मपर्वकं शुद्धं सत्वचं सुस्थिरं द्विज ॥ ३८९ ॥
View Verse
ग्राहयित्वा ध्वजस्तम्भं शास्त्रदृष्ट्या परीक्षयेत् ।
अशीतितालं मुख्यं स्यान्मध्यमं षष्टितालकम् ॥ ३९० ॥
View Verse
पञ्चाशत्तालमधमं पञ्चतालाधिकं तु वै ।
मद्यमोत्तममुद्दिष्टं पञ्चाशत्तालसम्मितम् ॥ ३९१ ॥
View Verse
पञ्चतालविहीनं तद्भवेन्मध्यममध्यमम् ।
मध्यमाधममुद्दिष्टं द्विंविंशत्तालसभ्मितम् ॥ ३९२ ॥
View Verse
सप्तत्रिंशच्च तालानां पञ्चत्रिंशत्तथैव च ।
द्वात्रिंशच्च त्रयं विप्र अधमोत्तमपूर्वकम् ॥ ३९३ ॥
View Verse
मात्रांगुलवशेनात्र प्रमाणपरिकल्पनम् ।
संभवे सति विप्रेन्द्र शततालं प्रकल्पयेत् ॥ ३९४ ॥
View Verse
अन्यच्च नवभेदं तु प्रमाणमधुनोच्यते ।
कराणां पञ्चविंशच्च त्रयोविंशत्तथैव च ॥ ३९५ ॥
View Verse
एकविंशच्च विंशच्च तदेकोनं च सत्तम ।
अष्टादश ततोन्यच्च तथा षोडशकं द्विज ॥ ३९६ ॥
View Verse
त्रिपञ्च च क्रमेणैव नवकं परिकीर्तितम् ।
मानांगुलेन मानं स्यात् त्रिविधेन यथावलम् ॥ ३९७ ॥
View Verse
तदभावे तु मानं स्यादत्र मात्रांगुलेन वा ।
प्रासादशिखराग्रोच्चं प्रासादोच्चमथापि वा ॥ ३९८ ॥
View Verse
कण्ठोच्चं गोपुरोच्चं वा यथावित्तानुरूपतः ।
ध्वजस्तंभस्य मूलान्तु नाहं तु नवधा भवेत् ॥ ३९९ ॥
View Verse
मूले द्वादशतालं तु नवतालं तु सप्तकम् ।
तन्मध्ये षष्ठतालं तु पञ्चतालं तथा भवेत् ॥ ४०० ॥
View Verse
तदग्रं पञ्चतालं तु चतुस्तालं द्वितालकम् ।
द्वादशांगुलमानेन नाहमष्टांगुलं भवेत् ॥ ४०१ ॥
View Verse
चतुर्विंशद्दशगुणं स्नंभनाहन वै दृढम् ।
त्रिधा विभज्य तत् स्तंभं त्रिधा कृत्वा तृतीयकम् ॥ ४०२ ॥
View Verse
अधोभागे ह्यधस्ताच्च मध्यभागे तु मध्यतः ।
अग्रतो हयूर्ध्वभागे तु यज्ञकाष्ठविनिर्मितम् ॥ ४०३ ॥
View Verse
मसूग्कत्रयं कृत्वा सुषिरत्रयसंयुतम् ।
दण्डयष्टिनिवेशार्थं सुवृत्तं पार्श्वयोर्द्विज ॥ ४०४ ॥
View Verse
फैणकाहस्तमानाच्च द्विनवांगुलिविस्तृताः ।
मूलदेशेग्रदेशे तु चतुरंगुलविस्तृताः ॥ ४०५ ॥
View Verse
द्वितालं सार्धतालं तु एकतालं तु वा द्विज ।
त्यक्त्वा स्तंभाग्रतो विप्र न्यसेदग्रमसूरकम् ॥ ४०६ ॥
View Verse
अन्यद्द्वयं समुदिते स्थाने सम्यङ्निवेश्य च ।
यद्वा स्तंभाग्रतः प्राग्वन्न्यसेदूर्ध्वमसूरकम् ॥ ४०७ ॥
View Verse
अधो हस्तद्वयं सार्धं त्यक्त्वा मध्यमसूरकम् ।
तदधस्तु तथा त्यक्त्वा न्यसेदन्यमसूरकम् ॥ ४०८ ॥
View Verse
एवं तालत्रयं त्यक्त्वा ततस्तस्मिन्निवेशयेत् ।
ध्वजयष्टिं दृढां ऋज्वीं लोहयन्त्रसमन्विताम् ॥ ४०९ ॥
View Verse
वेष्टयेद्दर्भमालाभिर्ध्वजदण्डं प्रदक्षिणम् ।
एवं कृत्वा ध्वजस्तम्भं प्रोक्षयेदस्त्रवारिणा ॥ ४१० ॥
View Verse
ध्वजपीठस्थिते गर्ते रत्नधान्यानि निक्षिपेत् ।
देशिकस्तार्क्ष्यमन्त्रेण ततो ब्राह्नणसत्तमैः ॥ ४११ ॥
View Verse
शूद्रैर्वा दीक्षितैर्विप्र देवदासैरथापि वा ।
शंखभेर्यादिनिर्धोषगीतवादित्रसंयुतम् ॥ ४१२ ॥
View Verse
स्थापयेत्तु ध्वजस्तंभं तस्मिन् गर्ते ऋजुस्थितम् ।
प्रासादाभिमुखं स्थाप्य वालुकाभिश्च पूरयेत् ॥ ४१३ ॥
View Verse
हस्तिपादादिभिः कृत्वा सुदृढं च यथा भवेत् ।
यद्वा रजन्यां पूर्वस्यां कृत्वा स्तंभाधिवासनम् ॥ ४१४ ॥
View Verse
अद्यत्वे स्थापयेत् पश्चाद गत्वा गरुडसन्निधिम् ।
रथे वा कुंजरे याने ध्वजमारोप्य यत्नतः ॥ ४१५ ॥
View Verse
प्रभया चित्रकुसुमैः कृतया भूषयेद् ध्वजम् ।
वासोविभूषणैः स्रग्भिर्विचित्राभिश्च पूजयेत् ॥ ४१६ ॥
View Verse
च्छत्रचामरपूर्वैश्च मायूरव्यजनैस्ततः ।
विचित्रैस्तालबन्तश्चै आतपत्रैर्मनोहरैः ॥ ४१७ ॥
View Verse
केतुदण्डेर्विचित्रैश्च दुकूलपटशोभितैः ।
चतुर्वेदमयोद्धोषैः स्तोत्रघोषसमन्वितैः ॥ ४१८ ॥
View Verse
गीतकैर्विविधैर्वाद्यैः शंखकाहलनिःस्वनैः ।
भेरीमृदङ्गपूर्वाणां धोषैरन्यैश्च मंगलैः ॥ ४१९ ॥
View Verse
ब्राह्नणैर्ध्रियमाणैश्च सांकुरैः पालिकागणैः ।
सुवेषगणिकासंधैस्तथा भक्तजनैः सह ॥ ४२० ॥
View Verse
क्ष्वेलितास्फोटितैर्युक्तं जयशब्दसमन्वितम् ।
प्रथमावृतिमारभ्य रथ्यावरणपश्चिमम् ॥ ४२१ ॥
View Verse
भ्रामयित्वा क्रमेणैव सर्वाण्यावरणानि च ।
ग्रामं प्रदक्षिणं नीत्वा ग्राममध्ये स्थितो ध्वजम् ॥ ४२२ ॥
View Verse
श्रावयेच्चतुरो वेदान् सेतिहासपुराणकान् ।
सौपर्यणर्माप वै सूक्तं तत्र संदर्शयेत् पुनः ॥ ४२३ ॥
View Verse
गेयं नृत्तं च वाद्यं च आतोद्यं च चतुर्विधम् ।
उपहारांश्च माल्यादीन् ताम्बूलान् विनिवेद्य च ॥ ४२४ ॥
View Verse
ततः प्रवेशयेद्विप्र प्रासादं गरुडध्वजम् ।
अंकुरार्पणपूर्वे तु उत्सवे द्विजसत्तम ॥ ४२५ ॥
View Verse
गरुडस्य पटस्थस्य पश्चाद्भागे यथाविधि ।
तद्रात्रौ बलिसंयुक्तं यात्राबिंबं परिभ्रमेत् ॥ ४२६ ॥
View Verse
साधनादेरसंपत्तेः पृथङनेतुमशक्यतः ।
तत्रापि सति योग्यत्वे पृथगेव परिभ्रमेत् ॥ ४२७ ॥
View Verse
अन्यत्र केवलं विप्र ध्जमेव नयेत् सदा ।
पत्तने नगरे वापि बलिभ्रमणसंयुतः ॥ ४२८ ॥
View Verse
उत्सवो विहितो यत्र तत्र वै गरुडध्वजम् ।
भ्रामयेद्द्वितये तस्मिन् यात्राबिंबसमन्वितम् ॥ ४२९ ॥
View Verse
तन्मात्राणां योग्यतायै पवित्रीकरणाय च ।
ग्रामे तेन च वै सार्धं भ्रामयेद्बिंबमौत्सवम् ॥ ४३० ॥
View Verse
एवं प्रदक्षिणं नीत्वा धाम ग्रामादिकं तथा ।
ध्वजं तु मण्डपे स्थाप्य न कृतं यदि पूर्वतः ॥ ४३१ ॥
View Verse
स्थापनं ध्वजदण्डस्य स्थापयित्वा तु तत्तदा ।
प्रासादं संप्रविश्याथ यात्राबिंबं वियेषतः ॥ ४३२ ॥
View Verse
विचित्रैर्वसनै रम्यैः भूषणैर्विविधैरपि ।
माल्यैश्च विविधै रम्यैरलंकृत्य ततः परम् ॥ ४३३ ॥
View Verse
शिबिकादौ समारोप्य सर्वसाधनसंयुतम् ।
बास्थानमण्डपे नीत्वा ध्वजपीठस्य सम्मुखम् ॥ ४३४ ॥
View Verse
सौवर्णे विष्टरे रम्ये तल्पाद्यंगोपशोभिते ।
विचित्रेण वितानेन उपरिष्टाद्विभूषिते ॥ ४३५ ॥
View Verse
सन्निवेश्य ततः पश्चादाचार्यः सुसमाहितः ।
साधकाद्यैः परिवृतो ह्यादाय गरुडध्वजम् ॥ ४३६ ॥
View Verse
सह शंखनिनादाद्यैः प्रादक्षिण्येन योगतः ।
ध्वजपीठे समानीय स्तंभं प्रक्षाल्य सज्जलैः ॥ ४३७ ॥
View Verse
विभवे सति वस्त्रेण संवेष्ट्य ध्वजदण्डकम् ।
गरुडं पूजयित्वा तु पुष्पांजलिपुरस्सरम् ॥ ४३८ ॥
View Verse
अर्घ्यं पाद्यं तथाचामं गन्धं माल्यं च धूपकम् ।
अपूपान् पृथुकांश्चापि पानकं तर्पणं तथा ॥ ४३९ ॥
View Verse
नालिकेरजलैर्युक्तमाचामं तदनन्तरम् ।
कर्पूरादिसमोपेतं दत्वा ताम्बूलमुत्तमम् ॥ ४४० ॥
View Verse
तन्मुद्रां दर्शयित्वा तु रज्जुमादाय वै दृढाम् ।
त्रिबृत्कृतैस्तु कार्पाससूत्रैरतिदृढैः कृताम् ॥ ४४१ ॥
View Verse
यष्ट्यग्रसंस्थिते यन्त्रे योजयित्वा तया ततः ।
ध्वजस्य शिखरं विप्र बन्धयेत् सुदृढं यथा ॥ ४४२ ॥
View Verse
बालध्वजेन सहितं घण्टया च समन्वितम् ।
पुण्याहं वाचयित्वा तु संप्रोक्ष्यास्त्रोदकेन तु ॥ ४४३ ॥
View Verse
महाकुम्भस्थतोयेन संप्रोक्ष्य गरुडं ततः ।
महाकुम्भस्थगरुडं पटस्थे तु निवेशयेत् ॥ ४४४ ॥
View Verse
स्तम्भमूले समुत्कीर्य सास्त्रकुम्भजलं ततः ।
कलशाष्टकतोयं च स्तम्भमूले विनिक्षिपेत् ॥ ४४५ ॥
View Verse
आचर्य मन्त्रन्यासं तु पुष्पांजलिपुरस्सरम् ।
सन्निधिं सन्निरोधं च साम्मुख्यं च समाचरेत् ॥ ४४६ ॥
View Verse
अस्माद्दिनात् समारम्य यावत्तीर्थदिनान्तिमम् ।
सन्निधिं कुरु पक्षीन्द्र राज्ञो जनपदस्य च ॥ ४४७ ॥
View Verse
ग्रामस्य यजमानस्य वैष्णवानां विशेषतः ।
तुष्टये पुष्टये चैव सर्वशत्रुजयाय च ॥ ४४८ ॥
View Verse
त्र्प्रपमृत्युजयार्थं च विहगेश प्रसीद ओम् ।
इति विज्ञाप्य पक्षीन्द्रं विकिरेते कुसुमांजलिम् ॥ ४४९ ॥
View Verse
पूर्वाह्ने वाथ मध्माह्ने मुहूर्ते शोभने गुरुः ।
रज्जुनारोहयेद्वीशं ध्वजस्थमनुचिन्तयन् ॥ ४५० ॥
View Verse
रज्जुं च बन्धयेत् स्तंभे प्रादक्षिण्यक्रमेण तु ।
प्रासादाभिमुखं स्तम्भे स्थापयेद्गरुडध्वजम् ॥ ४५१ ॥
View Verse
विहगेश्वरबिंबं च स्तम्भाग्रे योजयेन्न वा ।
सन्निधौ देवदेवस्य गत्वा पुष्पांजलिं क्षिपेत् ॥ ४५२ ॥
View Verse
ज्ञानतोऽज्ञानतो वापि यथोक्तं न कृतं मया ।
तत् सर्वं पूर्णमेवास्तु सुतृप्तो भव सर्वदा ॥ ४५३ ॥
View Verse
ओमच्युतक्ष जगन्नाथ मन्त्रमूर्ते जनार्दन ।
रक्ष मां पुण्डरीकाक्ष क्षमस्वाज प्रसीद ओम् ॥ ४५४ ॥
View Verse
इति विज्ञाप्य देवेशं यात्रामूर्तिगतं विभुम् ।
अन्यत्र मण्डपे नीत्वा विशेषार्चनपूर्वकम् ॥ ४५५ ॥
View Verse
प्रभूतान्नं निवेद्याथ सर्वं हवनपश्चिमम् ।
कृत्वा यथाक्रमेणैव प्रासादं तु प्रवेशयेत् ॥ ४५६ ॥
View Verse
ध्वजपीठोपरिष्टात्तु स्तंभमूले प्रकल्पयेत् ।
अष्टपत्रं तु कमलं चतुरावरणान्वितम् ॥ ४५७ ॥
View Verse
सकर्णिकं यथा स्तम्भः कर्णिकास्थो विराजते ।
चतुरंगुलविस्तारास्तावन्मानेन चोन्नताः ॥ ४५८ ॥
View Verse
कर्तव्या मेखलाः सर्वाश्चतुरश्रा द्विजोत्तम ।
स्तंभमानं विना पझं ष़डंगुलसमन्वितम् ॥ ४५९ ॥
View Verse
तावद्विस्तारसंयुक्तं मेखलोपरि विन्यसेत् ।
पीठोर्ध्वे तु प्रपां कुर्यात् चतुस्तंभसमन्विताम् ॥ ४६० ॥
View Verse
यद्वा स्तंभाष्टकोपेतां षोडशस्तंभसंयुताम् ।
चतुस्तोरण संयुक्तां दर्भमालापरिष्कृताम् ॥ ४६१ ॥
View Verse
भूषितां तु पताकाद्यैर्बाह्ये यवनिकान्विताम् ।
दीपान् प्रदीपयेत्तत्र अनिर्वाणान् समन्ततः ॥ ४६२ ॥
View Verse
तद्वासरात् समारभ्य पुष्पयागादिनान्तिमम् ।
त्रिसन्ध्यमर्चनं कुर्यात् सविशेषं जपान्तिमम् ॥ ४६३ ॥
View Verse
उत्सवारम्भदिवसात् त्रिसप्तदिनमाचरेत् ।
पूजालोपो न कर्तव्यो द्विगुणीकृत्य आचरेत् ॥ ४६४ ॥
View Verse
बलिकाले बलिं दद्यादस्यापि प्रतिवासरम् ।
प्रदोषे समनुप्राप्ते यात्रबिंबगर्त विभुम् ॥ ४६५ ॥
View Verse
अलंकृत्य यथान्यायं नयेदास्थानमण्टपम् ।
भद्रासने समारोप्य विभवेन तु पूर्ववत् ॥ ४६६ ॥
View Verse
कृत्वा होमावसानं तु भेरीताडनमाचरेत् ।
अग्रतस्तु विभोः स्थाप्य भेरीं वै धान्यविष्टरे ॥ ४६७ ॥
View Verse
तत्पूर्वे शंखनिकरं वह्नौ काहलसंचयम् ।
याम्ये तु मद्दलं तन्त्रीं वंशयुक्तां तु यातुदिक् ॥ ४६८ ॥
View Verse
वारुण्यां तु मृदंगं च डुड्डुकसंयुतम् ।
वायव्ये झल्लरीं न्यस्य कांस्यतालसमन्विताम् ॥ ४६९ ॥
View Verse
पटहं ह्रस्वपटहं सोमे डुड्डुकसंयुतम् ।
एशान्यां डुड्डुकां झल्लीं हस्तद्यंटासमन्वितात् ॥ ४७० ॥
View Verse
तेषां बाह्ये तु विप्रेन्द्र दक्षिणे गणिकाजनम् ।
न्यसेन्मंगलगानार्थं तत्पाश्वे मन्त्रगायकान् ॥ ४७१ ॥
View Verse
नर्तकानग्रतः स्थाप्य उत्तरे वन्दिबृन्दकान् ।
स्वे स्वे स्थानेषु संस्थाप्य अन्यान् वै वाद्यकोविदान् ॥ ४७२ ॥
View Verse
एवं क्रमेण संस्थाप्य संभवानुगुणं द्विज ।
वाससा वेष्टयेद्वापि भेरीं वित्तानुरूपतः ॥ ४७३ ॥
View Verse
शब्दविग्रहमाकाशं भेर्यां संस्मृत्य पूजयेत् ।
कोणं तद्दाक्षिणे स्थाप्य वायुं तत्र सुपूजयेत् ॥ ४७४ ॥
View Verse
ततः पारशवं स्नानं दर्भपाणिमलंकृतम् ।
उपवीतादिसंयुक्तं अग्रतःस्थाप्य वीक्षयेत् ॥ ४७५ ॥
View Verse
अस्त्रेण प्रोक्षयेत् पश्चादर्घ्यतोयेन तत्परम् ।
तेनैव ताडयेद्बैरीं गीतनृत्तपुरस्सरम् ॥ ४७६ ॥
View Verse
शंखवाद्यादि संयुक्तं मथवा देशिकः स्वयम् ।
मुहूर्ते शोभने प्राप्ते ताडयित्वा तु बेरिकाम् ॥ ४७७ ॥
View Verse
कोणेन प्रथमं ध्यायन् हयग्रीवं जनार्दनम् ।
त्रिस्थानादिषु देवानां त्रिधा वै तेन ताडयेत् ॥ ४७८ ॥
View Verse
ततः पारशवेनैव ताडयेत्तु यथेच्छया ।
देवतावाहनीं गाधां संस्कृतां प्राकृतां तु वा ॥ ४७९ ॥
View Verse
द्रामिडीं वा यथेच्छातस्तदा संश्रावयेद्विभुम् ।
तत्काले देवतानृत्तं तत्तद्गीतादिसंयुतम् ॥ ४८० ॥
View Verse
दर्शयेद्देवदेवस्य देवतानां सुतृप्तये ।
ततस्तु देवदेवेशं गर्भगेहे प्रवेशयेत् ॥ ४८१ ॥
View Verse
पायसं द्रोणमानं तु समादायाथ पात्रतः ।
तथार्घ्यगन्धमाल्यादि धूपं तांबूलमेव च ॥ ४८२ ॥
View Verse
प्रासादद्वारमारभ्य बहिर्द्वारावसानकम् ।
आवृतिष्वपि सर्वासु वीथ्यावरणपश्चिमम् ॥ ४८३ ॥
View Verse
बलिं प्रदाय विधिना गीतनृत्तादिसंयुतम् ।
ततः प्रविश्य ग्रामं तु पूर्वस्यां दिशि संस्थितः ॥ ४८४ ॥
View Verse
देवतावाहनं कुर्यात् प्राङ्मुखो देशिकः स्वयम् ।
तत्पुत्रस्तस्य शिष्यो वा स्वरेणोच्चतरेण तु ॥ ४८५ ॥
View Verse
आगच्छतामरगणाः प्रागाशां येऽधिशेरते ।
विरूपाश्च सुरूपाश्च सपर्यामुद्यतामिमाम् ॥ ४८६ ॥
View Verse
गृहीत्वा पान्तु नस्तृप्ताः कुमुदस्यानुयायिनः ।
महमिममुपयान्तु प्रीतास्तेभ्यो नमोऽस्तु वः ॥ ४८७ ॥
View Verse
अनेन मन्त्रेणावाह्य कुमुदं सगणं ततः ।
अर्घ्यालेपनमाल्यादि धूपं तोयं यथाक्रमम् ॥ ४८८ ॥
View Verse
पायसान्नं पुनस्तोयं ताम्बूलं च प्रदापयेत् ।
पश्चात् संतोषयेद्रम्यैर्महद्भिः शङ्खजै रवैः ॥ ४८९ ॥
View Verse
तदीयतालसङ्गीतनृत्तैश्चापि ततः परम् ।
आगच्छतामरगणाः येऽग्न्याशामधिशेरते ॥ ४९० ॥
View Verse
भीमाभीममुखा रौद्राः सपर्यामुद्यतामिमाम् ।
गृहीत्वा पान्तु नस्तृप्ताः कुमुदाक्षानुयानिनः ॥ ४९१ ॥
View Verse
महमिममुपयान्तु प्रीतास्तेभ्यो नमोऽस्तु वः ।
अनेन कुमुदाक्षं तु समाबाह्य गणाधिपम् ॥ ४९२ ॥
View Verse
प्राग्वत् सन्तोषयित्वा तु ततः संप्राप्य याम्यदिक् ।
आगच्छत पितृगणाः याम्याशानधिशेरते ॥ ४९३ ॥
View Verse
दारुणाऽदारुणाचाराः सपर्यामुद्यतामिमाम् ।
गृहीत्वा पान्तु नस्तृप्ताः पुण्डरीकानुयायिनः ॥ ४९४ ॥
View Verse
महमिममुपयान्तु प्रीतास्तेभ्यो नमोऽस्तु वः ।
अनेन पुण्डरीकाख्यं समावाह्य गणेश्वरम् ॥ ४९५ ॥
View Verse
क्रमेण पूजयित्वा तु गत्वा वै यातुधानदिक् ।
आगच्छत यातुगणाः यात्वाशां येधिशेरते ॥ ४९६ ॥
View Verse
क्रव्याशिनः क्रूरधियः सपर्यामुद्यतामिमाम् ।
गृहीत्वा पान्तु नस्तृप्ता वामनस्यानुयायिनः ॥ ४९७ ॥
View Verse
महमिममुपयान्तु प्रीतास्तेभ्यो नमोऽस्तु वः ।
इत्यावाह्य गणेशं तु वामनं पूजयेत् क्रमात् ॥ ४९८ ॥
View Verse
वारुणाशां ततो गत्वा शंकुकर्णं गणेश्वरम् ।
आगच्छताऽहिप्रथमाः प्रतीचीं येऽधिशेरते ॥ ४९९ ॥
View Verse
महद्विषा दन्दशूकाः सपर्यामुद्यतामिमाम् ।
गृहीत्वा पान्तु नस्तृप्ताः शंकुकर्णानुयायिनः ॥ ५०० ॥
View Verse
महमिममुपयान्तु प्रीतास्तेभ्यो नमोऽस्तु वः ।
इत्यावाह्य यजेत् प्राग्वत् पश्चात् संप्राप्य वायुदिक ॥ ५०१ ॥
View Verse
आयान्तु गन्धर्वगणाः वाय्वाशां येऽधिशेरते ।
सुदर्शना भीमवेगाः सपर्यामुद्यतामिमाम् ॥ ५०२ ॥
View Verse
गृहीत्वा पान्तु नस्तृप्ताः स र्वनेत्रानुयायिनः ।
महमिममुपयातु प्रीतास्तेब्यो नमोऽस्तु वः ॥ ५०३ ॥
View Verse
अनेनावाह्य सगणं सर्वनेत्रं तु तोषयेत् ।
ततःसोमदिशं गत्वा सुमुखं तु गणाधिपम् ॥ ५०४ ॥
View Verse
आगच्छत यक्षगणाः उदीचीं येऽधिशेरते ।
विरूपा दण्डहस्ताश्च सपर्यामुद्यतामिमाम् ॥ ५०५ ॥
View Verse
गृहीत्वा पान्तु नस्तृप्ताः सुमुखस्यानुयायिनः ।
महमिममुपयान्तु प्रीतास्तेभ्यो नमोऽस्तु वः ॥ ५०६ ॥
View Verse
इति मन्त्रेण चावाह्य तोषयेत् पूर्ववर्त्मना ।
ततस्त्वीशदिशं गत्वा गणेशं सुप्रतिष्ठितम् ॥ ५०७ ॥
View Verse
आयान्तु पिशाचगणाः ईशाशां येऽधिशेरते ।
सशूलायुधहस्ताश्च सपर्यामुद्यतामिमाम् ॥ ५०८ ॥
View Verse
गृहीत्वा पान्तु नस्तृप्ताः सुप्रतिष्ठानुयायिनः ।
महमिममुपयान्तु प्रीतास्तेभ्यो नमोऽस्तु वः ॥ ५०९ ॥
View Verse
मन्त्रेणावाह्य संपूज्य गत्वा वै ग्राममध्यतः ।
तत्र चावाहयेदूर्ध्वं पृश्निगर्भं गणेश्वरम् ॥ ५१० ॥
View Verse
आगच्छत सिद्धगणाः गगनं येऽधिशेरते ।
शुचिमतयः शुचयः सपर्यामुद्यतामिमाम् ॥ ५११ ॥
View Verse
गृहीत्वा पान्तु नस्तृप्ताः पृश्निगर्भानुयायिनः ।
महमिममुपयान्तु प्रीतास्तेभ्यो नमोऽस्तु वः ॥ ५१२ ॥
View Verse
आवाह्य तोषयित्वा तु अथस्तान्मानवं ततः ।
आगच्छताधरगणाः पृथिवीं येऽधिशेरते ॥ ५१३ ॥
View Verse
बहुरूपा बहुज्ञानाः सपर्यामुद्यतामिमाम् ।
गृहीत्वा पान्तु नस्तृप्ता मानवस्यानुयायिनः ॥ ५१४ ॥
View Verse
महमिममुपयान्तु प्रीतास्तेभ्यो नमोऽस्तु वः ।
आवाह्य तोषयेत् प्राग्वत् क्रमान्नृत्तावसानकम् ॥ ५१५ ॥
View Verse
तृप्तये सर्वभूतानां बलिशेषं ततः क्षिपेत् ।
बलिदाने तु पूर्वादिवैबस्वतदिगन्तिमम् ॥ ५१६ ॥
View Verse
आचार्यः प्राङ्मुखः स्थित्वा कुर्यादावाहनादिकम् ।
यात्वादिदिक्त्रये कुर्यात् पूर्वोदितमुदङ्मुखः ॥ ५१७ ॥
View Verse
सोमेशदिग्द्वये ग्राममध्येपि प्राङ्मुखो भवेत् ।
समतालस्तथाबद्धस्तालो वै भृङ्गिणी तथा ॥ ५१८ ॥
View Verse
मल्लतालो मंगलश्च जयतालस्तु भद्रकः ।
ढक्करीसंज्ञितस्तालो ब्रह्नतालस्तथैव च ॥ ५१९ ॥
View Verse
अनन्तताल इत्यते दश तालाः प्रकीर्तिताः ।
कुमुदादिगणेशानां दशानां क्रमशो द्विज ॥ ५२० ॥
View Verse
षडजर्षभौ च गान्धारौ मध्यमः पञ्चमस्तथा ।
धैवतश्चैव निषदो धैवतो मद्यमस्तथा ॥ ५२१ ॥
View Verse
पञ्चमश्च क्रमेणैव कथिताः स्युर्दश स्वराः ।
गान्धाररागः कौलयाख्यः कैशिको नट्टभाषिकः ॥ ५२२ ॥
View Verse
श्रीकामदश्च तत्केशी दक्षरागस्तथैव च ।
चोलापाण्यभिधो रागौ मेधरागश्च पश्चिमः ॥ ५२३ ॥
View Verse
इत्येते कुमुदादीनां दश रागाः प्रकीर्तिताः ।
विलासं सर्वतोभद्रं खेटकं चक्रमण्डलम् ॥ ५२४ ॥
View Verse
कान्तारकुट्टिमं पृष्ठकुट्टिमं कटिबन्धनम् ।
वामजानूध्वनत्तं च आदिमं च द्वयं पुनः ॥ ५२५ ॥
View Verse
एते नृत्तविशेषाश्च कुमुदानां क्रमात् स्मृताः ।
एते ह्यावृतिदेवानां क्रमात्तालादयः स्मृताः ॥ ५२६ ॥
View Verse
अन्येषां सर्वदेवानां तालो भद्रः प्रशस्यते ।
भवेद्गारूडतालस्तु पक्षीशस्य तु मध्यमः ॥ ५२७ ॥
View Verse
स्वरो रागस्तु गोडः स्यान्नृत्तं वै विष्णुकान्तकम् ।
विघ्नारेर्जयतालं स्यान्नृत्तं स्वस्तिकमुच्यते ॥ ५२८ ॥
View Verse
ऋषभस्तु स्वरः प्रोक्तो वराटीराग एव च ।
भेरीताडनपूर्वं तु देवतावाहनं चरेत् ॥ ५२९ ॥
View Verse
घोषयेद्गारुडं तालमन्तराले तु वै दिशाम् ।
तत्काले देशिकेन्द्रेण स्वयं संस्कृतगाधया ॥ ५३० ॥
View Verse
अन्ये चतुर्मुखमुखा आङूतव्या मरुद्गुणाः ।
देवस्योत्सवसेवार्थं तथान्ये भगवद्गणाः ॥ ५३१ ॥
View Verse
तथान्ये भगवद्भक्ता जनास्तत्पदवासिनः ।
यद्वा गुरोरनुमतैर्भगवद्भक्तिबृहितैः ॥ ५३२ ॥
View Verse
आहूतव्यास्तु तैर्विप्रैर्दिव्यया गाधया द्विज ।
एवं ग्रामं परिभ्राम्य प्रासादं संप्रविश्य तु ॥ ५३३ ॥
View Verse
गरुडस्थानमासाद्य तोषयित्वा खगघ्वजम् ।
तालादिकैस्ततस्त्वेनं विष्वक्सेनं तु तोषयेत् ॥ ५३४ ॥
View Verse
देवतावाहनं येऽत्र द्रष्टुकामाः समाहिताः ।
भेरीताडनशब्दं च तथा श्रृण्वन्ति ये जनाः ॥ ५३५ ॥
View Verse
तद्देशात्ते न गच्छेयुर्यावत्तीर्थदिनान्तिमम् ।
मोहेन यदि गच्छेयुस्ते भविष्यन्ति रोगिणः ॥ ५३६ ॥
View Verse
न कुर्युस्ते नदीतारं न यानं योजनात् परम् ।
याताश्चेत् पुनरागसत्य गरुडं संप्रपूज्य तु ॥ ५३७ ॥
View Verse
तीर्थयात्रां तु संसेव्य ते भविष्यन्ति नीरुजः ।
एवं तु ध्वजमुत्थाप्य गुरुः पश्चात् समाहितः ॥ ५३८ ॥
View Verse
देवानां केशवादीनां मन्त्रैर्द्वादशभिः क्रमात् ।
द्वादशाहं व्रतं कुर्यात् यात्रारंभदिनादितः ॥ ५३९ ॥
View Verse
स्नानार्चनादिकं कृत्वा पीत्वा तच्चरणोदकम् ।
कुशोदकसमायुक्तं जपेद्वै द्वादशाक्षरम् ॥ ५४० ॥
View Verse
नैवेद्यप्राशनं पूर्वं कुर्यान्नक्ताशनं द्विज ।
जपेद्द्वादशनामानि क्रमाद्वाच्यमनुस्मरन् ॥ ५४१ ॥
View Verse
अंकुरारोपणदिनाद्यावत्तु ध्वजवासरम् ।
दिनषट्केन विप्रेन्द्र प्रत्यहं व्रतमाचरेत् ॥ ५४२ ॥
View Verse
द्वादशाक्षरमन्त्रेण कुर्यादंकुरवासरे ।
द्वितीये तुर्यमन्त्रेण परे सुषुप्तिवाचकैः ॥ ५४३ ॥
View Verse
स्वप्नमन्त्रैश्चतुर्थे तु जाग्रन्मत्रैस्तु पञ्चमे ।
केशवादिषु योनीनां मूर्तीनां वाचकैः परैः ॥ ५४४ ॥
View Verse
उत्सवारम्भणदिनाद्यावत्तीर्थदिनान्तिमम् ।
वाचकैर्नवमूर्तींनां नवाहं व्रतमाचरेत् ॥ ५४५ ॥
View Verse
यद्वा द्विषट्कमन्त्रेण सर्वत्रापि व्रतं चरेत् ।
ध्वजार्थांकुरनक्षत्राद्यावत्तीर्थदिनान्तिमम् ॥ ५४६ ॥
View Verse
एवं व्रतसमायुक्त आचार्यः कृत्यमाचरेत् ।
संकल्प्योत्सवमादौ तु व्रतसंकल्पपूर्वकम् ॥ ५४७ ॥
View Verse
ध्वजार्थमंकुरारोपं कुर्याद्यो देशिकोत्तमः ।
कुर्याद्ध्वजावरोहान्तं सर्वं सर्म स एव तु ॥ ५४८ ॥
View Verse
प्राज्ञोपि नेतरः कुर्यात् यदि कर्ता विनश्यति ।
मृते वा व्याधिते तस्मिन् तदनुज्ञामवाप्य च ॥ ५४९ ॥
View Verse
नित्यानुष्टानलोपाच्च वैधुर्यादिविदूपिते ।
अभ्यनुझां गुरोस्तस्य संप्राप्य विधिपूर्वकम् ॥ ५५० ॥
View Verse
शेषं कुर्यात्तु तत्पुत्रस्तच्छिष्यो वा समाहितः ।
अन्यो वा यदि वा भ्राता प्रायश्चित्तपुरस्सरम् ॥ ५५१ ॥
View Verse

Chapter 17

श्रीः ।
सप्तदशोऽधयायः ।
शाण्डिल्यः ।
अथोत्सवविधानं तु वक्ष्यामि श्रृणु सत्तम ।
उत्सवारंभदिवसात् पूर्वस्मिन् पञ्चमेऽहनि ॥ १ ॥
View Verse
अंकुरारोपणं कुर्यात् पूर्वोक्तविधिना ततः ।
पूर्ववद्यागसदनं कल्पयित्बा विभूषयेत् ॥ २ ॥
View Verse
आचार्यान् देशिकेन्द्रस्तु चतुरो वरयेद्गुरुः ।
अथवाष्ट द्वादश वाविनीतान् संयतान् शुचीन् ॥ ३ ॥
View Verse
तत्तत्कर्मप्रयोगेषु कुशलान् शास्त्रकोविदान् ।
सोष्णीषैरुत्तरीयैश्च गन्धद्रव्यैश्च संयुतान् ॥ ४ ॥
View Verse
यजमानेन ते सर्वे शोभनीयाः प्रयत्नतः ।
केचिद्गुरुनियुक्तास्तु कुम्भमण्डलपूजनम् ॥ ५ ॥
View Verse
कुर्यु रन्ये बलिं दद्युरन्ये बिम्बगतं विभुम् ।
पूजयेयुर्यथायोगं स्वयं वापि समाचरेत् ॥ ६ ॥
View Verse
वरयेत् साधकान् वापि कञ्चकाद्यैस्तु भूषितान् ।
विनयादिगुणोपेतान् कुशलान् नयकोविदान् ॥ ७ ॥
View Verse
उत्सवारम्भदिवसात् पूर्वेद्युश्च निशामुखे ।
कृताह्निको देशिकेन्द्रः प्रासादं संप्रविश्य च ॥ ८ ॥
View Verse
मूलमूर्तिगतं देवमर्घ्याद्यैः संप्रपूज्य च ।
तत्पादगौ करौ कृत्वा दैवं विज्ञापयेदिदम् ॥ ९ ॥
View Verse
भगवन् पुण्डरीकाक्ष करिप्ये कौतकक्रियाम् ।
महोत्सवार्थं देवेश तदर्थं त्वं प्रसीद म् ॥ १० ॥
View Verse
इति विज्ञाप्य देवेशमावाह्योत्सवकौतुके ।
अर्घ्यगन्धादिनाभ्यर्च्य वासोभिर्विविधैः शुभैः ॥ ११ ॥
View Verse
भूषणैर्दिव्यगन्धैश्चाप्यलंकृत्य विशेषतः ।
सौवर्णं यानमारोप्य शङ्खभेर्यादिसंयुतम् ॥ १२ ॥
View Verse
छत्राद्यैश्च समायुक्तं प्रादक्षिण्यक्रमेण तु ।
आस्थानमण्टपं नीत्वा सौवर्णे भद्रविष्टरे ॥ १३ ॥
View Verse
तत्र मुक्तावितानाद्यैरुपरिष्टाद्विभूषिते ।
सर्वसाधनसंयुक्ते समारोप्य विधानतः ॥ १४ ॥
View Verse
पूजयित्वा जगन्नाथं प्रभूतान्नं निवेद्य च ।
कृत्वा संतर्पणान्तं च प्रासादं संप्रवेशयेत् ॥ १५ ॥
View Verse
ततस्तु हेमजं पात्रं राजनं वा समाहरेत् ।
शालिजैस्तण्डुलैर्विप्र भारमात्रैः सुपूजिते ॥ १६ ॥
View Verse
तदर्धैर्वापि तत्पादैः षडंशैर्वाष्टमांशकैः ।
तदूर्ध्वे हेमजं सूत्रं क्षौमं कार्पासमेव च ॥ १७ ॥
View Verse
पट्टजं पञ्चभिः सूत्रैश्चतुभिः सप्तर्भिस्तु वा ।
कृतं न्यस्य सतांबूल तत्पात्रं विन्यसेत्ततः ॥ १८ ॥
View Verse
गर्भाग्रमण्टपे पीठे शालिभिः परिकल्पिते ।
भारमानैस्तदर्धैर्वा एवं शालिविनिर्मिते ॥ १९ ॥
View Verse
पीठे पात्रान्तरं न्यस्येदापूपिकसमन्वितम् ।
अर्घ्यादिना समभ्यर्च्य सम्यगाच्छाद्य वाससा ॥ २० ॥
View Verse
पात्रद्वयं दीक्षितयोर्न्यस्त्वा शिरसि देशिकः ।
यानादिके वा संस्थाप्य विभवानुगुणं द्विज ॥ २१ ॥
View Verse
सह ताभ्यां तु पात्राभ्यां नृत्तगीतादिसंयुतम् ।
प्रदक्षिणं परिभ्रम्य सर्वेष्वावरणेष्वपि ॥ २२ ॥
View Verse
एकस्मिन् वा चतुः कृत्वा ग्रामादौ वा प्रदक्षिणम् ।
नीत्वैकधा ततो विप्र प्रविशेन्मूलमन्दिरम् ॥ २३ ॥
View Verse
यद्वा सुदर्शनोपेतं विष्वक्सेनं तु वा द्विज ।
खगेशं वा हनूमन्तं विभीषणसमन्वितम् ॥ २४ ॥
View Verse
यानादिके समारोप्य ब्रामयेत्तु यथारुचि ।
गर्भगेहं प्रविश्याथ देवदेवस्य सन्निधौ ॥ २५ ॥
View Verse
पात्रद्वयं तु विन्यस्य आधारोपरि पूजयेत् ।
द्वादशार्णेन मन्त्रेण अर्घ्यगन्धादिकैस्तथा ॥ २६ ॥
View Verse
कृत्वा पुण्याहघोषं च अर्घ्याद्यैर्देवमर्च्य च ।
प्रथमं देवदेवस्य मूलमूर्तिगतस्य च ॥ २७ ॥
View Verse
बन्धयेत् कौतुकं सूत्रैर्हेमजैः पट्टजैस्तु वा ।
हेमजं सूत्रमादाय गन्धेनालिप्य बन्धयेत् ॥ २८ ॥
View Verse
देवस्य दक्षिणे हस्ते यात्रामूर्तिगतस्य तु ।
जितन्ताख्येन मन्त्रेण शंखगीतादिसंयुतम् ॥ २९ ॥
View Verse
स्पृष्ट्वा दक्षिणहस्तेन सूत्रमस्त्रशतं जपेत् ।
श्रियो वामकरे कुर्यात् पट्टसूत्रेण कौतुकम् ॥ ३० ॥
View Verse
श्रीसूक्तमुच्चरन् वापि तन्मन्त्रेण द्विजोत्तम ।
पुष्ट्यास्तु बामहस्ते तु क्षौमसूत्रेण बन्धयेत् ॥ ३१ ॥
View Verse
कुर्यात् स्नपनबिंबस्य पट्टसूत्रेण कौतुकम् ।
कौतुकं देशिकेन्द्रस्तु कार्पासेन स्वदक्षिणे ॥ ३२ ॥
View Verse
करे तु द्वादशार्णेन बन्धयेच्च ततः परम् ।
देवमर्घ्यादिनाभ्यर्न्य अपूपान् विनिवेदयेत् ॥ ३३ ॥
View Verse
सर्वदोषप्रशान्त्यर्थं दर्पणआदि च दर्शयेत् ।
अनुक्तमत्र यत्किंचित् तत्सर्वं प्राग्वदाचरेत् ॥ ३४ ॥
View Verse
एवं हि देवदेवस्य कृत्वा कौतुकबन्धनम् ।
ततः समानयेद्देवं मण्टपे पुरतः स्थिते ॥ ३५ ॥
View Verse
ततो देवं समभ्यर्च्य यावदात्मनिवेदनम् ।
पूर्वोदितक्रमेणैव ततो वै स्नानविष्टरे ॥ ३६ ॥
View Verse
स्नानासनोदितैर्भोगैः सर्वैरिष्ट्वा तु पूर्ववत् ।
अलंकारासने नीत्वा पूजयेत् क्रमयोगतः ॥ ३७ ॥
View Verse
नैवेद्यमधुपर्काद्यैर्हृद्यैश्च विविधैस्ततः ।
प्राग्वदिष्ट्वा ततः स्तोत्रैः स्तुवीत पुरुषोत्तमम् ॥ ३८ ॥
View Verse
ततस्तु नूपुरान्तैस्च विविधैर्हेमभूषणैः ।
सद्रत्नघटितैश्चापि तथा मुक्तामयैर्द्विज ॥ ३९ ॥
View Verse
किरीटाद्यैरलंकृत्य प्रणामैः सप्रदक्षिणैः ।
यथोदितं प्रतिष्ठायां तथाशयनकल्पनम् ॥ ४० ॥
View Verse
बिंबं चोपरि विन्यस्य शयने स्थापयेच्छुभे ।
कोणेषु स्थापयेद्दीपान् पालिकाः सांकुरास्तथा ॥ ४१ ॥
View Verse
तूर्यघोषैस्तथा वेदैः स्तोत्रैः स्तुत्वा मधुद्विषम् ।
जागरेण निशां नीत्वा तस्मादुत्सवकौतुकम् ॥ ४२ ॥
View Verse
प्रवेशयेद्गर्भगेहं प्रभातसमये ततः ।
आचार्यः स्नानपूर्वं तु नित्यं निर्वर्त्य पूर्ववत् ॥ ४३ ॥
View Verse
यागार्थमण्डपे सर्वसंभारान् संप्रवेश्य च ।
अतीते याममात्रे तु पूर्वाह्ने देशिकः स्वयम् ॥ ४४ ॥
View Verse
आचार्यैः साधकैश्चापि यजमानेन चान्वितः ।
मुहूर्ते शोभने प्राप्ते प्रविश्य भगवद्गृहम् ॥ ४५ ॥
View Verse
अग्रतो देवदेवस्य स्थित्वा विज्ञापयेदिदम् ।
प्रसीद देवदेवेश उत्सवः क्रियते मया ॥ ४६ ॥
View Verse
अस्मात् काललावद्यावत्पुष्पयागदिनान्तिमम् ।
त्वत्प्रीतये जगन्नाथ यद्यत् कर्म करोम्यहम् ॥ ४७ ॥
View Verse
तत्सर्वमात्मसात्कृत्वा कृपया मे प्रसीद ओम् ।
इति विज्ञाप्य देवेशं मूलमूर्तिगतं विभुम् ॥ ४८ ॥
View Verse
अर्घ्यगन्धादिनाभ्यर्च्य यात्रामूर्तिगतं तथा ।
पूजयित्वा जगन्नाथं पादुके विनिवेद्य च ॥ ४९ ॥
View Verse
श्रुतिघोषैश्च पुण्याहधोषैर्मङ्गलनिस्स्वनैः ।
तथा जयजयारावैः शङ्खकाहलनिस्वनैः ॥ ५० ॥
View Verse
भेरीपटहवादित्रनृत्तगीतसमन्वितैः ।
लाजानां प्रकरैः सार्धं पुष्पप्रकरमिश्रितै ॥ ५१ ॥
View Verse
मूर्तिपैर्देवदेवेशं तस्मादानीय बाह्यतः ।
देवं प्रागाननं कृत्वा दर्शयित्वा समागतान् ॥ ५२ ॥
View Verse
पुरुषानुत्सवं द्रष्टुं यात्रोपकरणान्यपि ।
छत्रचामरपूर्वाणि विविधानि विशेषतः ॥ ५३ ॥
View Verse
यानमारोप्य देवेशं सौवर्णप्रभयान्विते ।
अर्घ्याद्यैरर्चयित्वा तु पृथुकानि निवेद्य च ॥ ५४ ॥
View Verse
वहेयुर्ब्राह्नणा यानं ध्यायन्तो विहगेश्वरम् ।
प्रथमावृतिमारभ्य रथ्यावरणपश्चिमम् ॥ ५५ ॥
View Verse
प्रदक्षिणक्रमेणैव परिभ्रमणमाचरेत् ।
व्राह्नणैर्ध्रियमाणैश्च कञ्चुकोष्णीषधारिभिः ॥ ५६ ॥
View Verse
मौलिकैरातपत्रैश्च मायूरैश्च सुशोभनैः ।
हेमदण्डसमायुक्तैस्तालवृन्तैस्तथाविधैः ॥ ५७ ॥
View Verse
पट्टजैर्विंविधैस्चापि चामरैश्च सितासितैः ।
केतुदण्डैश्च विविधैर्वैजयन्तीविभूषितैः ॥ ५८ ॥
View Verse
केवलै रत्नदण्डैश्च तथान्यैर्माङ्गलीयकैः ।
वन्दिबृन्दैश्च विविधैर्वीणावणुस्वनैस्तथा ॥ ५९ ॥
View Verse
सुवर्णश्रृंगघोषैश्च तथाऽन्यैर्मङ्गलस्वनैः ।
गणिकादेवदासीभिस्तथा नागरिकैर्जनैः ॥ ६० ॥
View Verse
विप्रैर्वेत्रलताहस्तैः कञ्चुकोष्णीषभूषितैः ।
अन्यैश्च भगवद्भक्तै र्ब्रह्णएः क्षत्रियादिभिः ॥ ६१ ॥
View Verse
राजोचितैः परिकरैरन्यैश्च विविधैः सह ।
एवं कृत्वा तु देवेशं नयेदास्थानमण्टपे ॥ ६२ ॥
View Verse
समारोप्य च सौवर्णे विष्टरे जगतांपतिम् ।
अर्घ्यं पाद्यं तथाचामं मन्धमाल्यैस्च धूपकम् ॥ ६३ ॥
View Verse
अथार्हणजलं स्वच्छमपूपान् पृथुकानपि ।
तर्पणं नारिकेलोत्थरसमाचमनं तथा ॥ ६४ ॥
View Verse
मुखवाससमोपेतं ताम्बूलं च क्रमेण तु ।
निवेद्य देवदेवाय उपहारांस्तु दर्शयेत् ॥ ६५ ॥
View Verse
ततस्तु मण्टपात्तस्मादानयेद्यागमण्टपे ।
तत्र देवेशमारोप्य सौवर्णे भद्रविष्टरे ॥ ६६ ॥
View Verse
भूषणादीनि सर्वाणि तत्काले तु विसर्जयेत् ।
स्नानपीठे समारोप्य नववस्त्रास्तृते विभुम् ॥ ६७ ॥
View Verse
ततो यात्राधिवासार्थमारभेन्मूलपूजनम् ।
कुम्भस्थानसमीपे तु उपविश्यासने शुभे ॥ ६८ ॥
View Verse
करशुद्ध्यादिपूर्वं तु सर्वं कृत्वा विधानतः ।
प्राग्वद्यजेद्वुभुं सास्त्रं कुम्भे च करकान्विते ॥ ६९ ॥
View Verse
स्थापनं तोरणादीनामर्चनं प्राग्वदाचरेत् ।
अर्चनं कुमुदादीनामाचरेत्तु समाहितः ॥ ७० ॥
View Verse
कुमुदादिद्वयोर्मध्ये गरुडं पूजयेत्ततः ।
पुण्डरीकादिमध्ये च चक्रं संस्थाप्य पूजयेत् ॥ ७१ ॥
View Verse
शंखं चक्रं तथा लक्ष्मीं कुम्भं श्रीवत्समेव च ।
दर्पणं स्वस्तिकं मत्स्ययुग्मं वै मंगलाष्टकम् ॥ ७२ ॥
View Verse
कुमुदादिसमीपे तु विन्यसेत् क्रमयोगतः ।
सवस्त्रधान्यपीठे तु यथावित्तानुरूपतः ॥ ७३ ॥
View Verse
एकभारैर्द्विभारैर्वा शालिभिः परिकल्पिते ।
प्रत्येकं तण्डुलैश्चापि तिलैर्युक्ते सवस्त्रके ॥ ७४ ॥
View Verse
अष्टमंगलवियासेप्येवं सर्वत्र कल्पयेत् ।
प्राग्वत् स्थले समावाह्य मन्त्रेशं पूजयेत्ततः ॥ ७५ ॥
View Verse
स्नपनाना पुरोक्तानां पूर्वस्मिन्नवके द्विज ।
अधमोत्तमसंत्रं तु स्वनापरिकल्पयेत् ॥ ७६ ॥
View Verse
मण्डलस्येन्द्रदिग्भागे तत्पश्चाद्बिंबसन्निधिम् ।
गत्वा समारभेत् पूजां यथोक्तविधिना द्विज ॥ ७७ ॥
View Verse
सर्वं कृत्वा क्रमेणैव यावदात्मनिवेदनम् ।
कृत्वा पुण्याहघोषं च कुर्यात् कौतुकबन्धनम् ॥ ७८ ॥
View Verse
स्नानासनादिभिर्भोगैरिष्ट्वा चामलकान्तिमम् ।
स्नपनं विधिवत् कृत्वा शिरः प्लोतादिकं तथा ॥ ७९ ॥
View Verse
दत्वा समानयेद्देवं प्राग्भागे मण्डलस्य तु ।
सौवर्णे विष्टरे तत्र यजेत् सर्वेश्वरं विभुम् ॥ ८० ॥
View Verse
अलंकारासनाद्यैश्च भोगैः परमपावनैः ।
प्रभूतमथ नैवेद्यं विनिवेद्य यथाक्रमम् ॥ ८१ ॥
View Verse
सर्वं द्विजप्रदानान्तं कृत्वा वै कुण्डसन्निधिम् ।
गत्वा संस्कारपूर्वं तु सर्वमापाद्य तत्र तु ॥ ८२ ॥
View Verse
पूर्णाहुत्यवसानं तु गत्वा वै बिंबसन्निधिम् ।
होमार्पणं समापाद्य संपूज्याज्यादिना ततः ॥ ८३ ॥
View Verse
पितॄणां संविभागं तु कृत्वा दत्वा बलिं क्रमात् ।
विष्वक्सेनं नयेत् सांगं ततस्तस्माज्जगत्पतिम् ॥ ८४ ॥
View Verse
आस्थानमण्टपे नीत्वा समारोप्य च विष्टरे ।
प्राप्तेऽपराह्नसमये कृत्वा संग्रहणं द्विज ॥ ८५ ॥
View Verse
पूर्ववत्तु मृदादीनां कृत्वा ग्रामप्रदक्षिणम् ।
पूर्वोदितविधानेन कुर्यादंकुररोपणम् ॥ ८६ ॥
View Verse
तत्काले देवदेवस्य विभवस्यानुगुण्यतः ।
विधिवत् पूजनं कृत्वा प्रभूतान्नं निवेदयेत् ॥ ८७ ॥
View Verse
स्थले भस्मनिभे पूर्वे पूजयेन्निष्फलं भवेत् ।
योजयित्वा तु कुम्भस्थे वर्तयेन्मण्डलं ततः ॥ ८८ ॥
View Verse
सिताद्यैः पावनै रागैस्ततः कुम्भे समर्पयेत् ।
यथावद्देवदेवेशं पूजयेन्मण्डलं ततः ॥ ८९ ॥
View Verse
यथोक्तेन विधानेन गत्वा वै बिंबसन्निधिम् ।
तत्र संपूजयेद्देवं महता विभवेन तु ॥ ९० ॥
View Verse
अग्नौ सन्तर्पणं कुर्यात् यथोक्तविधिना ततः ।
गत्वा विंवसमीपे तु कृत्वा होमनिवेदनम् ॥ ९१ ॥
View Verse
सर्वं तु संविभागान्तं क्रमात् कृत्वा ततः परम् ।
विभवे सति वै कुर्याद्भूयः संपूजनं विभोः ॥ ९२ ॥
View Verse
होमान्तमखिलं कृत्वा ततस्त्वास्थानमण्टपात् ।
नयेत्तु देवदेवेशं प्रासादमुखमण्डपे ॥ ९३ ॥
View Verse
प्रागाननं समारोप्य सौवर्णे भद्रविष्टरे ।
यात्रार्थं देवदेवस्य कुर्यात् कौतुकबन्धनम् ॥ ९४ ॥
View Verse
आदाय चरुपूर्वाणि बलिद्रव्याणि होमयेत् ।
प्रत्येकं मूलमन्त्रेण द्वाविंशत्परिसंख्यया ॥ ९५ ॥
View Verse
ध्यात्वा ध्यात्वा तु होतव्यं तत्तद्रात्र्यधिदैवतम् ।
भवेत् प्रथमरात्रं तु वासुदेवाधिदैवतम् ॥ ९६ ॥
View Verse
संकर्षदैवतं विद्धि द्वितीयं तु तृतीयकम् ।
प्रद्युम्नदैवतं चान्यदनिरुद्धाधिदैवतम् ॥ ९७ ॥
View Verse
भवेत् पञ्चमरात्रं यत् तन्नारायणदैवतम् ।
हयग्रीवाधिदैवं तु षष्ठरात्रमुदाहृतम् ॥ ९८ ॥
View Verse
सप्तमं वैप्णवं त्वन्यन्नरसिंहाधिदैवतम् ।
वराहदैवतं रात्रं नवमं द्विजसत्तम ॥ ९९ ॥
View Verse
एकाहमुत्सवं विद्धि वासुदेवाधिदैवतम् ।
त्र्यहं तु वासुदेवादिप्रद्युम्नान्ताधिदैवतम् ॥ १०० ॥
View Verse
पञ्चाहं वासुदेवादिपञ्चमूर्त्यधिदैवतम् ।
सप्ताहं वासुदेवादिसप्तमूर्त्यधिदैवतम् ॥ १०१ ॥
View Verse
द्वादशाहोत्सवं विप्र केशवाद्यधिदैवतम् ।
सर्वं पञ्चदशहादि वासुदेवाधिदैवतम् ॥ १०२ ॥
View Verse
दद्यात् प्रथमरात्रे तु बलिं बलिविधानवत् ।
पललै रजनीचूर्णैः सलाजदधिसक्तुभिः ॥ १०३ ॥
View Verse
दिनेष्वपि च सर्वेषु द्रव्यैरेभिर्बलिं ददेत् ।
यद्वा द्वितीयरात्रे तु दद्याच्च तिलतण्डुलैः ॥ १०४ ॥
View Verse
दद्यात् तृतीयरात्रौ तु धानास्त्वंबिकलाजकैः ।
दद्याच्चतुर्थरात्रे तु बलिं देशिकसत्तमः ॥ १०५ ॥
View Verse
नालिकेरपयःसक्तुशालिपिष्टैर्विमिश्रितैः ।
पञ्चमे तु बलिं दद्यात् पझबीजैः सहाक्षतैः ॥ १०६ ॥
View Verse
षष्ठरात्रे बलिं दद्यादपूपैश्चरुणा सह ।
अथवा सर्वरात्रेषु प्रदद्याच्चरुणा सह ॥ १०७ ॥
View Verse
तत्तद्दिनोदितैर्द्रव्यैर्बलिं तु द्विजसत्तम ।
सप्तमे तु गुलान्नेन पायसान्नेन चाष्टमे ॥ १०८ ॥
View Verse
नवमे कृसरान्नेन बलिं दद्याद्विचक्षणः ।
द्वादशाहोत्सवे विप्र माषान्नं दशमेऽहनि ॥ १०९ ॥
View Verse
शुद्धान्नमथवा विप्र मुद्गान्नं तु परेऽहनि ।
द्वादशे सर्वबलयः शुद्धान्नं शालिजं तु वा ॥ ११० ॥
View Verse
क्षीरं दध्याज्यसंयुक्तं गुलखण्डसमन्वितम् ।
इतः परं तु सर्वत्र शुद्धान्नं पायसं तु वा ॥ १११ ॥
View Verse
एकाहादिचतुष्के तु भवेत्तत्तद्दिनोदितम् ।
प्रत्येकमाढकं ग्राह्यं बलिद्रव्यं द्विजोत्तम ॥ ११२ ॥
View Verse
तदर्धं वाऽथ पादं वा यथावित्तानुरूपतः ।
एवं द्रव्याणि हुत्वा तु अलंकृत्य विशेषतः ॥ ११३ ॥
View Verse
यात्राबिंबगतं देवं विचित्रैर्वसनैस्तथा ।
विचित्रैर्भूषणैश्चापि माल्यैर्नानाविधैस्तथा ॥ ११४ ॥
View Verse
मुहूर्ते शोभने प्राप्ते सर्वमंगलसंयुतम् ।
त्यन्दनं वा गजं वापि यानं सौपर्णमेव वा ॥ ११५ ॥
View Verse
सपुष्पहेमप्रभया युक्तं पुष्पाद्यलंकृतम् ।
सौवर्णेन विमानेन युक्तं मायूरकेन वा ॥ ११६ ॥
View Verse
समानीय तु संप्रोक्ष्य ध्यात्वा गरुडरूपिणम् ।
तन्मन्त्रेण समब्यर्च्य यानमर्घ्यादिभिस्ततः ॥ ११७ ॥
View Verse
कृत्वा पुण्याहघोषं च श्रुतिघोषसमन्वितम् ।
शङ्खतूर्यादिसंयुक्तं प्रादक्षिण्यक्रमेण तु ॥ ११८ ॥
View Verse
याने तत्र समारोप्य यात्रामूर्तिगतं विभुम् ।
यात्रार्थं तत्र देवाय सार्घ्यं पाद्यं तथैव च ॥ ११९ ॥
View Verse
आचामं गन्धमाल्ये च दीपं धूपं तथैव च ।
अर्हणं मधुपर्कं च नैवेद्यं विविधं तथा ॥ १२० ॥
View Verse
पृथुकाद्यं पानकं च तर्पणाचमने तथा ।
ताम्बूलं विनिवेद्याथ जपं कृत्वा विधानतः ॥ १२१ ॥
View Verse
अग्नौ संतर्पणं कुर्मात् तत्काले वापि होमयेत् ।
बलिद्रव्याणि सर्वाणि यथाकालानुरूपतः ॥ १२२ ॥
View Verse
रथयाने विशेष तु समाकर्णय सांप्रतम् ।
मुक्ताप्रपावितानैश्च सौवर्णैर्माञ्जरीगणैः ॥ १२३ ॥
View Verse
मुक्तादामसमेतैश्च विचित्रैः पुष्पदामभिः ।
हैमेन च वितानेन प्रभया च विशेषतः ॥ १२४ ॥
View Verse
मध्यतो भद्रपीठेन सौवर्णेन तथैव च ।
ध्वजैश्च विविधै रम्यै पताकाभिश्च सर्वतः ॥ १२५ ॥
View Verse
भूषयेद्रथयानं तु तथा गरुडकेतुना ।
तत्र देवं समारोप्य पूजयेत् पूर्ववर्त्मना ॥ १२६ ॥
View Verse
आचार्याः साधकाश्चापि रथस्योर्ध्वतलस्थिताः ।
तस्याधस्तात् स्थले स्थाप्याः पश्चिमे छत्रधारकाः ॥ १२७ ॥
View Verse
तत्र तत्पार्श्वतः स्थाप्यौ मायूरच्छत्रधारिणौ ।
दक्षिणोत्तरपार्श्वस्थावग्रे चामरधारिणौ ॥ १२८ ॥
View Verse
सारथिस्तत्स्थले स्थाप्यस्त्वग्रतो मध्यदेशतः ।
ततस्तु गरुडाद्यैश्च चक्रेण गरुडेन वा ॥ १२९ ॥
View Verse
अष्टाभिर्मंगलैश्चापि दीक्षितैर्ब्राह्नणैर्धृतैः ।
अर्घ्यगन्धादिभिश्चैव सार्धं घण्टारवैस्तथा ॥ १३० ॥
View Verse
शङ्खभेर्यादिभिश्चैव छत्रेण दीपधारकैः ।
आचार्यः साधको वापि बलिं दद्याद्विधानतः ॥ १३१ ॥
View Verse
प्रासादद्वारमारभ्य ग्राममध्यान्तमेव च ।
प्रथमावृतिमारभ्य सर्वेष्वावरणेष्वपि ॥ १३२ ॥
View Verse
देवयानं परिब्रम्य प्रादक्षिण्यक्रमेण तु ।
रथ्यावरणपर्यन्तं तत्पश्चाद्भ्रामयेद्द्विज ॥ १३३ ॥
View Verse
ग्रामे वा नगरे वापि पत्तेन वा महामते ।
बृहति स्यन्दने याने यानेनान्येन वान्तरा ॥ १३४ ॥
View Verse
भ्रामयित्वा तु तत्पश्चाद्बृहति स्यन्दनादिके ।
देवेशं तु समारोप्य भ्रामयेद्ग्रामवीधिषु ॥ १३५ ॥
View Verse
देवस्य पुरतो दूराद्गच्छेयुर्बलिदायिनः ।
ध्वजदण्डधराः पश्चाच्छंखकाहलधारकाः ॥ १३६ ॥
View Verse
भेरीपटहपपूर्वाणां वाद्यानां घोषणोन्मुखाः ।
तत्पृष्टे गीतकाश्चापि वन्दिबृन्दास्तथैव च ॥ १३७ ॥
View Verse
सुवेषा भगवद्भक्तास्तथैव गणिकाजनाः ।
दासीगणाश्च तत्पृष्टे शोणदण्डवहा जनाः ॥ १३८ ॥
View Verse
लीलांगानि विचित्राणि धारयन्तस्तथैव च ।
वहन्तः पादुकादीनि ततो देवस्य पार्श्वतः ॥ १३९ ॥
View Verse
अग्रतः पृष्ठतश्चापि जनाश्चामरधारिणः ।
आतपत्रांश्च विविधान् तालवृन्तांस्तथैव च ॥ १४० ॥
View Verse
धारयन्तो द्विजाश्वापि ततो देवस्य दक्षिणे ।
कर्मारंभादि पठतो विप्रानेकायनान् न्यसेत् ॥ १४१ ॥
View Verse
ऋक्सामपूर्वान् वामेपि पृष्ठतो वा निवेशयेत् ।
सुमृष्टधूपपात्रांश्च वहन्तः पृष्ठतस्तथा ॥ १४२ ॥
View Verse
पुरतो ऽस्त्रं स्मरन् यायात् स्वयं विघ्नांस्तु सूदयन् ।
अनेकशतसंख्यांश्च दीपानतिसमुज्ज्वलान् ॥ १४३ ॥
View Verse
धारयन्तो जना विप्र देवस्योभयपार्श्वयोः ।
गच्छेयुः पङ्क्तिरूपेण यावन्तो बलिवाहकाः ॥ १४४ ॥
View Verse
सर्वाणि राजचिह्नानि वहन्तो देवसन्निधौ ।
गच्छेयुरन्ये भक्ताश्च ब्राह्नणाः क्षत्रियास्तथा ॥ १४५ ॥
View Verse
वैश्याः शूद्राश्च चत्वारो ह्याश्रमस्थास्तथैव च ।
सर्वशास्त्रेषु कुशला भगवद्भाविनस्तथा ॥ १४६ ॥
View Verse
सेवेरन् सर्वतोदिक्कं वीक्षमाणाः परं विभुम् ।
ग्रामस्यैन्द्रादियोगेन दिशासु विदिशासु च ॥ १४७ ॥
View Verse
मद्ये च कुमुदादीनां सगणानां क्रमेण तु ।
पीठिकासु बलिं दद्यान्निर्मितासु पुरैव तु ॥ १४८ ॥
View Verse
कुमुदादेर्गणानां तु नामानि क्रमशः श्रृणु ।
उत्कटः प्रकटश्चैव उन्मुखो विमुखस्तथा ॥ १४९ ॥
View Verse
अश्वग्रीवोऽश्ववदनः अश्वजिह्नस्तथैव च ।
हस्तिवक्त्रश्च कुमुदः हस्तिपादश्च केशवः ॥ १५० ॥
View Verse
वामनो नरकश्चापि नरो मर्दन एव च ।
मन्ददृष्टिश्च कन्तुश्च तथा कन्तुकलोचनः ॥ १५१ ॥
View Verse
पटहाक्षो विशालाक्षः क्षामकः क्षमकस्तथा ।
पाण्डरः पाण्डुपृष्ठश्च दुर्दिनः सुदिनस्तथा ॥ १५२ ॥
View Verse
वामदेवो महादेवो महाग्निर्मधुसूदनः ।
कनकः कालकश्चैव भावनो भवनस्तथा ॥ १५३ ॥
View Verse
भानुमान् बानुवेगश्च भास्करश्चाप्यभास्करः ।
विश्वसेनो विसेनश्च विष्वक्सेनो विसारणः ॥ १५४ ॥
View Verse
विस्तारो निस्तरश्चैव विदण्डी दण्ड एव च ।
कामदः कामुकश्चापि कामभृत् कामनाशनः ॥ १५५ ॥
View Verse
पञ्चाशच्च गणा ह्येत् प्राचीं दिशमुपाश्रिताः ।
एते पारिषदाः प्रोक्ताः कुमुदस्य वशानुगाः ॥ १५६ ॥
View Verse
शतं शतं गृहगणाः एकैकस्यानुयायिनः ।
एषां कुमुदपूर्वाणां क्रमेण च बलिं हरेत् ॥ १५७ ॥
View Verse
पार्श्वस्थमण्डलेष्वेवं गृहेभ्यस्तु बलिं हरेत् ।
देवा एते गृहाश्चापि ऐन्द्रे तु बलिभागिनः ॥ १५८ ॥
View Verse
आग्नेयो निधनस्चैव अग्निजिह्वो हुताशनः ।
अग्निरूपोऽग्निवर्णश्चाप्यग्निवर्णोऽहिरेव च ॥ १५९ ॥
View Verse
अग्निवक्त्रो महावक्त्रे महासेनो महोदरः ।
करालः काकजिह्वश्च काकवक्त्रोऽग्निवक्त्रकः ॥ १६० ॥
View Verse
मण्डुर्मण्डूकवक्त्रश्च देवो देवलकस्तथा ।
शर्वकः शमकश्चापि शंकुः शंकुश्रवास्तथा ॥ १६१ ॥
View Verse
मारीचो द्रोणमारीचो महिषो माहिषस्तथा ।
कुम्भनासो विनासश्च कुम्भकर्णो विकर्णकः ॥ १६२ ॥
View Verse
विदारी विक्रमश्चैव मस्करी मस्करस्तथा ।
सूकरः सूकरास्यश्च शशः शशमुखसस्तथा ॥ १६३ ॥
View Verse
सिंहः सिंहमुखश्चैव नरसिंहो नरस्तथा ।
कालधृक्कालसूत्रश्च सूत्रकः सूत्र एव च ॥ १६४ ॥
View Verse
विनाली नालकण्ठश्च आग्नेयीं दिशमाश्रिताः ।
कुमुदाक्षगणा ह्येते संयुक्ता आसुरैर्गणैः ॥ १६५ ॥
View Verse
आग्नेय्यां पीठिकायां तु कुमुदाक्षबलिं हरेत् ।
धर्मो धर्मधरो धर्मो धर्मराजो धनुर्धरः ॥ १६६ ॥
View Verse
विनयः प्रश्रयश्चैव निश्रेयो निर्गुणस्तथा ।
अलसः कुणपश्चैव क्रूरबाहुश्च कुंजरः ॥ १६७ ॥
View Verse
प्रांशुर्दमननिष्कोपौ निरनुक्रोशनिर्ममौ ।
विभवोऽविभवश्चैव हुताशो बहुरेव च ॥ १६८ ॥
View Verse
ऊर्ध्वरक्षणसंज्ञश्च एकलः पाकलस्तथा ।
कंकटः कटकश्चेव अवटः शंखचक्रिणौ ॥ १६९ ॥
View Verse
गदी खड्गी च शार्ङ्गी च तथा शार्ङ्गधरो मुने ।
वासुदेवोऽपि भद्रश्च केतुमान् केतुकस्तथा ॥ १७० ॥
View Verse
क्षमी च ज्वलनश्चापि किन्नरोऽश्वत्थ एव च ।
सुप्तः सुजपनश्चापि जपः पश्चिम एव च ॥ १७१ ॥
View Verse
कैक्षिकश्च तथा स्वजो बाडवश्चाक्षमी तथा ।
गणाः पञ्छाशादेते तु दक्षिणां दिशमाश्रिताः ॥ १७२ ॥
View Verse
पुण्डरीक वशाह्येते पितृगृहसमन्विताः ।
सर्वत्रैवं समृद्दिष्टाः पच्चाशच्छक्तिका गृहाः ॥ १७३ ॥
View Verse
प्रदद्यात् पुण्डरीकायएयैभिर्युक्ताय वै बलिम् ।
निष्कृतिः प्रकृतिश्चैव सुकृतिर्विकृतिस्तथा ॥ १७४ ॥
View Verse
दारुणो दमकश्चैव रक्षको लक्षकस्तथा ।
माधवो मांसकश्चैव निष्ठुरः खरभाषणः ॥ १७५ ॥
View Verse
प्रलंबो लम्बकश्चैव प्राणनः प्रणयस्तथा ।
वीरसेनोंगदश्चैव विभाषश्च विभीषणः ॥ १७६ ॥
View Verse
रक्ताक्षो लोहिताक्षश्च रक्तजिह्वो विजिह्वकः ।
विद्युत्केशो विशालाक्षो विक्षरो वीरहा तथा ॥ १७७ ॥
View Verse
अक्षरः प्राक्षरश्चैव कामरूपविरूपिणौ ।
सर्वगः सर्वविद्गौरः संभवः प्रभवस्तथा ॥ १७८ ॥
View Verse
वारुणो वसुरेवापि विमर्दो दमनस्तथा ।
वैकर्तनो विकर्ता च कपर्दी च प्रबुस्तथा ॥ १७९ ॥
View Verse
कन्दकी कन्दकश्रापि नाकी च वरुणोऽरुणः ।
गणा एते च पञ्चाशन्नैरृतिं दिशमाश्रिताः ॥ १८० ॥
View Verse
यातुगृहैस्तु संयुक्ता वामनस्यानुगा इमे ।
एभिर्युक्ताय विधिना वामनाय बलिं ददेत् ॥ १८१ ॥
View Verse
वरुणो वारुणश्चैव पाशी पाशधरो गुरुः ।
क्षेपणः क्षोभणश्चैव नारदः सर्वदो रविः ॥ १८२ ॥
View Verse
सुमना नामनो हंसो वैकुण्ठः परमः परः ।
हनुमान् वसुमान् भद्रो भद्रवः प्रभवस्तथा ॥ १८३ ॥
View Verse
महाकर्णो विकर्णश्च शशकः शलकः पिकः ।
वानरो नरकश्चैव कार्ष्णिः कर्णधरोंऽशुमान् ॥ १८४ ॥
View Verse
चक्रोऽग्रश्च तथा वज्री वज्रनाभो विनाभकः ।
करभः कुरभश्चैव दाक्षिणो दक्षिणः सुहृत् ॥ १८५ ॥
View Verse
दुर्गन्धः पूतिगन्धश्च तार्क्ष्यो गरुड एव च ।
विरोधो रोधको रोधः कंकणस्च वृकोदरः ॥ १८६ ॥
View Verse
एते गणाश्च पञ्चाशत् पश्चिमां दिशमाश्रिताः ।
शंकुकर्णवशा ह्येते पाशग्रहगणान्विताः ॥ १८७ ॥
View Verse
सहैभिः शंकुकर्णाय पीठिकायां बलिं ददेत् ।
मरुर्मारुतगो रुर्वी आखुर्वायुसुतोऽनिलः ॥ १८८ ॥
View Verse
गलर्तो वर्तकः कंको मार्गणः प्रांकणोऽचलः ।
बलो बलनिधिर्वीरो विरोधो रोधको विधिः ॥ १८९ ॥
View Verse
सिद्धवः सुयवश्चैव शंकरो धीरकस्तथा ।
माली मालाविधिर्वस्तुः समर्थः सुमहोत्सवः ॥ १९० ॥
View Verse
कर्कटः कटकश्चैव गन्धो गन्धवहः परः ।
सिक्तकः सिक्तरोगी च सेवकः सेवनः सवः ॥ १९१ ॥
View Verse
औषधो भेषजो वापि रोगी रोगभवस्तथा ।
कारणः करणः कर्ता गरवीरोऽखलस्तथा ॥ १९२ ॥
View Verse
वलश्च वाकुवाहश्च सुचारश्च तथैव च ।
गणाः पश्चाशदेते तु वायव्यां दिशमाश्रिताः ॥ १९३ ॥
View Verse
सर्वनेत्रानुगान् नित्यं गन्धर्वगृहसंयुताः ।
प्रदद्यात् सर्वनेत्राय एभिर्युक्ताय वै बलिम् ॥ १९४ ॥
View Verse
सोमः सोमकलः सोम्यः सामवित् सामनायकः ।
सुधा सुधाता धाता च सुराष्ट्रः काष्ठकः कलिः ॥ १९५ ॥
View Verse
कालधृक्कालचक्रश्च कालकूटविषो बल ।
अमृतोऽमृतनाथश्च केयूरी केबली बली ॥ १९६ ॥
View Verse
विष्णुः कृष्णपिशंगांगी रेखालेखः पिक शुकः ।
लूबकश्च शुकश्चैव श्येनः श्येनमुखस्तथा ॥ १९७ ॥
View Verse
मार्जारो मरुभृद्वालो गुल्मः कणवकः कणः ।
शेषो विशेष उच्छेषः कर्दमः पूतिविग्रहः ॥ १९८ ॥
View Verse
साम्बः संवत्सरश्चैव वेगी वेगधरो मरुत् ।
गणाः पञ्चाशदेते तु सोमस्य दिशमाश्रिताः ॥ १९९ ॥
View Verse
सुमुखस्य वशा ह्येते यक्षग्रहसमन्विताः ।
सुमुखाय बलिं दद्यादेभिः सह यथाविधि ॥ २०० ॥
View Verse
ईशान ईश्वरो व्यापी व्यसनो विनशो बुधः ।
धरो बको विशो वादः शकुनिः शकटो घटः ॥ २०१ ॥
View Verse
वृक्षः कक्षः क्षमी क्षान्तिर्मातृरोमा कपिंजलः ।
ब्रह्नण्यो ब्रह्नविद्ब्रह्नी व्रह्नात्मा व्रह्नसाधनः ॥ २०२ ॥
View Verse
वेदी वेदविदुद्वन्धः शंकरः शांकरस्तथा ।
धीमान् विसृष्टिरिष्टात्मा दुष्टात्मा दुष्टकर्मकृत् ॥ २०३ ॥
View Verse
विजेता विकचो वादी नोदी त्रिपक एकभुक् ।
सर्वभुक सर्वगः सर्वः सर्वभंगः सनातनः ॥ २०४ ॥
View Verse
गोविन्दो गोपतिश्चेव गोप्ता चेव महेश्वरः ।
पञ्चाशच्च गणा ह्येते ऐशानीं दिशमाश्रिताः ॥ २०५ ॥
View Verse
सुप्रतिष्ठवशा ह्येते पिशाचगृहसंयुताः ।
सुप्रतिष्ठितसंज्ञाय एभिः सार्धं वलिं ददेत् ॥ २०६ ॥
View Verse
सिद्धो धाता विधाता च धाता चैव प्रजापतिः ।
लोकेशो लोककृत् कर्ता स्रष्टा ब्रह्ना तथात्मभूः ॥ २०७ ॥
View Verse
सुतापश्च तुलश्चैव तथा वै रीतिवर्धनः ।
अव्यक्तो गुणवान् गौणो गुणभुक्च तथैवहि ॥ २०८ ॥
View Verse
उद्गीतः प्रणवश्चापि हिरण्यगर्भसंज्ञितः ।
विरिञ्चः पुष्करश्चैव भासनो भास एव च ॥ २०९ ॥
View Verse
विकर्णो विजयश्चैव तथा चैव रथंतरः ।
छन्दो यजुस्तथा ऋक् च अथर्वा च ततः परम् ॥ २१० ॥
View Verse
मरीचिरंगिराश्चैव पुलहः क्रतुरेव च ।
वसिष्ठश्च प्रचेताश्च शलभो भीष्म एव च ॥ २११ ॥
View Verse
हेमन्तः शिशिरश्चापि कुसुमाकरसंज्ञितः ।
कलहश्च विरागिश्च अमर्षो रोषणस्तथा ॥ २१२ ॥
View Verse
शोषणश्च गतिश्चैव हर्षणो वर्धनस्तथा ।
गणाः पञ्चाशदेते तु व्योमसिद्धगृहान्विताः ॥ २१३ ॥
View Verse
प्रदद्यात् पृश्निगर्भाय सार्धमेभिर्बलिं द्विज ।
मनुष्यो मानवश्चैव मण्डको मानवस्तथा ॥ २१४ ॥
View Verse
मकरश्च तथा चोरः कंपश्चैव प्रकंपनः ।
अलंपटश्च पटद योजको भजको ग्रहीः ॥ २१५ ॥
View Verse
रेचको रोचको मायो धारो वारो रसश्चलः ।
चापालिकः कपिर्बाणो ग्रजनो गर्जनो गुडः ॥ २१६ ॥
View Verse
तित्तरश्चटको ध्वाङ्क्षो बलीवर्दो महानटः ।
हर्षो धर्मप्रशास्ता च शमको दुन्दुभिः शठः ॥ २१७ ॥
View Verse
कुक्षिः कुमारः कायस्थो लावकोऽप्रशुनः शुनः ।
लवणो रवणो ऋद्धो राजसस्तामसोऽचलः ॥ २१८ ॥
View Verse
कल्याणो भगदत्तश्च पृथिवीतलसंस्थिताः ।
गणाः पञ्चाशदेते तु भूमिग्रहसमन्विताः ॥ २१९ ॥
View Verse
महाबला दुराधर्षा मानवस्य वशानुगाः ।
मानवाय बलिं दद्यादेभिर्युक्ताय साधकः ॥ २२० ॥
View Verse
एते पञ्चाशतः प्रोक्ता गणानामधिपा द्विज ।
ऐकैकस्य भवेदेषां गणाश्चान्ये शतं शतम् ॥ २२१ ॥
View Verse
एवं पञ्चाशत्सहस्रं एतेषां परिचारकाः ।
चत्वरे च चतुष्के च सभायां ग्राममध्यके ॥ २२२ ॥
View Verse
ग्रामद्वारेषु सर्वेषु तिष्ठन्ति विविधायुधाः ।
जनानयोग्यान् बाधन्ते तथा पाषण्डिनोपि च ॥ २२३ ॥
View Verse
नद्यादिषु च देशेषु संचरन्ति यथारुचि ।
दशानां कुमुदादीनां गणेशानां द्विजोत्तम ॥ २२४ ॥
View Verse
गणानामुत्कटादीनामुदितानां क्रमेण तु ।
प्रणवाद्यैर्नमोन्तैस्तु स्वैस्वैर्नामभिरेव च ॥ २२५ ॥
View Verse
अर्ध्यं गन्धं तथा माल्यं धूपं गन्धाम्बुपूर्वकम् ।
बलिं भूयो जलं चापि ताम्बूलं क्रमशो ददेत् ॥ २२६ ॥
View Verse
गीतनृत्तादिकं सर्वं पूर्ववत् परिकल्पयेत् ।
पञ्चाशतां सहस्राणां गणशो गणशो द्विज ॥ २२७ ॥
View Verse
नमः पारिषदेभ्यश्च इत्युक्त्वा वलिविस्तरम् ।
भूमौ प्रतिदिशं कुर्यात् सर्वशान्तिकरं शुभम् ॥ २२८ ॥
View Verse
पञ्चाशतां सहस्राणा एकैकस्य पृथक् पृथक् ।
शतं शतं परिवारा एते ग्रहगणाः स्मृताः ॥ २२९ ॥
View Verse
एषां ग्रहगणानां तु परिवाराः सहस्रशः ।
असंख्येयाश्चरन्तस्तु सर्वतः पृथिवीमिमाम् ॥ २३० ॥
View Verse
संचरान्ति ग्रहगणा उक्ता दशविधा महीम् ।
देवा दैत्याश्च पितरः राक्षसा नागनायकाः ॥ २३१ ॥
View Verse
गन्धर्वयक्षाः पैशाचाः सिद्धाश्चापि धरागणाः ।
एते दशविधा ब्रह्नन् दशदिक्षु स्थिताः सदा ॥ २३२ ॥
View Verse
उक्ताः पञ्चदशानां तु एतेषां नायका गणाः ।
तेषां तु पूजया सर्वे सुखं यान्ति न संशयः ॥ २३३ ॥
View Verse
पीठोर्ध्वे कुमुदादीनां बलिं दद्याद्विचक्षणः ।
भूतले गोमयाद्येन लेपिते वा यथारुचि ॥ २३४ ॥
View Verse
गणानामुत्कटादीनां बलिं तत्परितो ददेत् ।
अन्येषामापि सर्वेषां तद्बहिर्विकिरेद्बलिम् ॥ २३५ ॥
View Verse
अमुक्तानां च सर्वेषां ग्राममद्ये बलिं क्षिपेत् ।
कुमुदादिगणेशानाम् अनुकल्पे विधानतः ॥ २३६ ॥
View Verse
बलिं दत्वाऽवशिष्टानां सर्वेषामपि वै पृथक् ।
नमः पारिषदेभ्यश्चेत्युक्त्वा तस्माद्बलिं द्विज ॥ २३७ ॥
View Verse
अवशिष्टं बलिद्रव्यं ग्राममध्ये विनिक्षिपेत् ।
संतर्पणार्थं भूतानां सर्वदेशनिवासिनाम् ॥ २३८ ॥
View Verse
रात्र्यामावाहनं ब्रह्नन् ध्वजारोहणवासरे ।
न कृतं कुमुदादीनां सगणानां ततोद्य तु ॥ २३९ ॥
View Verse
तेषामावाहनं कुर्याद् बलिं दद्याद्विधानतः ।
ध्वजारोहदिने पूर्वं तेषामावाहने कृते ॥ २४० ॥
View Verse
तद्वासरात् समारब्य यावदुत्सववासरम् ।
पायसेन बलिं दद्याच्छुद्धान्नेनाथवा द्विज ॥ २४१ ॥
View Verse
दिवा वापि रजन्यां वा कालयोरुभयोस्तु वा ।
भवेत् कर्तुर्महान् दोष आहूतानामनर्चनात् ॥ २४२ ॥
View Verse
केनापि हेतुना यत्र वलिदानं न शक्यते ।
यात्रारंभदिने तत्र तेषामावाहनं चरेत् ॥ २४३ ॥
View Verse
एवन्तु बलिसंयुक्तं देवेशं भ्रामयेद्द्विज ।
प्रादक्षिण्येन वै ग्राणे नगरे वापि पत्तने ॥ २४४ ॥
View Verse
यात्रायां वर्तमानायां देवदेवाय भक्तितः ।
मुखवासं सताम्बूलं बहुशोऽथ निवेदयेत् ॥ २४५ ॥
View Verse
चन्दनं श्रमशान्त्यर्थं कर्पूराद्यैः सुभावितम् ।
प्रदद्याद्देवदेवाय माल्यानि विविधान्यपि ॥ २४६ ॥
View Verse
शीतलं तर्पणजलं नारिकेलजलान्वितम् ।
श्रमशान्तिनिमित्तानि अन्यान्यपि निवेदयेत् ॥ २४७ ॥
View Verse
दिगष्टके तु ग्रामादेस्तन्मद्ये च विशेषतः ।
गीतकैर्विविधैनर्त्तैस्तन्त्रीवाद्यसमन्वितैः ॥ २४८ ॥
View Verse
शंखभेरीमृदंगाद्यैर्देवेशं परितोषयेत् ।
एवं देवं परिब्राम्य ग्रामादौ बलिसंयुतम् ॥ २४९ ॥
View Verse
पुनः प्रदक्षिणं कृत्वा प्रासादावरणेषु च ।
प्रासादद्वारदेशे तु देवदेवस्य भक्तितः ॥ २५० ॥
View Verse
अर्घ्यं पाद्यं तथाचामं गन्धं माल्यं च धूपकम् ।
निवेद्य देवदेवेशं स्वस्थाने सन्निवेशयेत् ॥ २५१ ॥
View Verse
ततो यागगृहं गत्वा देशिकः सुसमाहितः ।
तिलैराज्यैश्च पूर्णआन्तं यात्राहोमं समापयेत् ॥ २५२ ॥
View Verse
एवं बलिसमायुक्तमन्येषु दिवसेष्वपि ।
अह्नि रात्रौ तु देवस्य परिब्रमणमारभेत् ॥ २५३ ॥
View Verse
तीर्थयात्रादिने कुर्यात् परिभ्रमणमह्नि वै ।
कुर्यात् स्नपनबिंबे च स्नपनं तु दिवानिशम् ॥ २५४ ॥
View Verse
आरम्भदिनमारभ्य यावदन्तिमवासरम् ।
तत्रापि चांकुरारोपं सप्तमे पञ्चमे तु वा ॥ २५५ ॥
View Verse
वासरे पूर्ववच्चापि कुर्यात् कौतुकबन्धनम् ।
द्वितीये वासरे प्राप्ते देवमास्थानमण्टपे ॥ २५६ ॥
View Verse
यागागारेऽथवानीय समारोप्य च विष्टरे ।
ततो यागगृहं गत्वा देशिको विधिना यजेत् ॥ २५७ ॥
View Verse
कलशे मण्डले चैव ततो गत्वा तु मण्डपम् ।
पूजयेद्देवदेवेशं महता विभवेन तु ॥ २५८ ॥
View Verse
ततो यागगृहे सम्यग्वह्वौ सन्तर्प्य पूर्वबत् ।
ततस्तस्मात् समानीय महदास्थानमण्टपम् ॥ २५९ ॥
View Verse
तत्र सम्यक् समब्यर्च्य देवं नीराजनान्तिमम् ।
महाहविर्निवेद्याथापूपादिसमन्वितम् ॥ २६० ॥
View Verse
तस्माद्देवं समानीय मण्टपे यागनिर्मिते ।
तत्र देवं समब्यर्च्य अर्घ्यपाद्यादिभिस्ततः ॥ २६१ ॥
View Verse
अग्नौ सन्तर्य्य विधिवत् पूर्णाहुत्यावसानिकम् ।
अलंकृतं तु देवेशं पूर्ववद्वसनादिकैः ॥ २६२ ॥
View Verse
यानादिके समारोप्य पूर्वोक्तक्रमयोगतः ।
भ्रमयित्वा तु बेवेशं ग्रामे त्वन्तः प्रवेशयेत् ॥ २६३ ॥
View Verse
मण्टपे देवदेवेशमानीय स्नानविष्टरे ।
समारोप्यार्घ्यपाद्यैश्च दद्यादाचमनं विभोः ॥ २६४ ॥
View Verse
गन्धं पुष्पं च धूपं च दीपं नीराजनान्तिमम् ।
वेदघोषैश्च गीताद्यैरर्हणोदपुरस्सरम् ॥ २६५ ॥
View Verse
कदलीफलसंयुक्तमपूपं गुलसंयुतम् ।
पानकं तर्पणजलं नालिकेररसान्वितम् ॥ २६६ ॥
View Verse
ताम्बूलं शशिसंयुक्तम् ततो यात्रार्थकल्पितम् ।
वसनाद्यं परित्यज्य स्नानशाटीं निवेद्य च ॥ २६७ ॥
View Verse
तैलेनाभ्यंजनं कृत्वा समुद्वर्त्य यथाविधि ।
शिरस्यामलकं दत्वा संस्नाप्य बहुभिर्जलैः ॥ २६८ ॥
View Verse
वर्णकेन समालिप्य क्षालयित्वा तु वारिणा ।
समालिप्य सुगन्धेन भक्तितश्चान्दनादिना ॥ २६९ ॥
View Verse
सहस्रधारया विप्र स्नानं कृत्वा ततः परम् ।
दत्वा सवन्दनं पश्चात् शिरः प्लोतादिशाटकम् ॥ २७० ॥
View Verse
दत्वा देवं समारोप्य तदन्यस्मिंस्तु विष्टरे ।
करशुद्व्यादि सर्वं तु कृत्वान्तर्यागपश्चिमम् ॥ २७१ ॥
View Verse
ततो यथाक्रमेणैव देवं संपूजयेद् द्विज ।
यद्वा दिनोत्सवे वृत्ते देवमानीय मण्टपे ॥ २७२ ॥
View Verse
वितते भद्रपीठे तु समारोप्याथ पूर्ववत् ।
अर्घ्यादि सकलं विप्र ताम्बूलान्तं निवेद्य च ॥ २७३ ॥
View Verse
वस्त्राद्यं पूर्वक्लृप्तं यत् क्रमात् सर्वं विसृज्य च ।
विनिवेद्य च वस्त्रं तु श्रमनिर्हरणार्थतः ॥ २७४ ॥
View Verse
समालब्य तु देवेशं सुगन्धैश्चन्दनादिकैः ।
ततस्तु विधिना पूज्य यावदात्मनिवेदनम् ॥ २७५ ॥
View Verse
स्नानार्थं देवदेवस्य विज्ञाप्य विनिवेद्य च ।
पादुके देवदेवेशं छत्राद्यैश्च समन्वितम् ॥ २७६ ॥
View Verse
तस्मादानीय पीठे तु स्नानार्थं परिकल्पिते ।
समारोप्य तदाद्यैस्तु भोगैः सर्वैस्तु पूर्ववत् ॥ २७७ ॥
View Verse
इष्ट्वा ताम्बूलदानान्तं स्कन्धशाटीं निवेदयेत् ।
ततस्तैलं समादाय कर्पूराद्यैः सुभावितम् ॥ २७८ ॥
View Verse
देवस्य केशानालोड्च हस्ताब्यां कंकतेन तु ।
अधिवास्य सुगन्यैस्तु धूपैरभ्यंजयेत् ततः ॥ २७९ ॥
View Verse
शिरो निष्पीड्य देवस्य वहुधा च ततः परम् ।
केशानाबघ्य मालाभिः सूक्ष्मेण प्लोतकेन तु ॥ २८० ॥
View Verse
ललाटोपरि बध्वा तु तथा मुखसरोरुहे ।
देवस्य तैलनिष्यन्दा नापतन्ति यथा द्विज ॥ २८१ ॥
View Verse
ततः स्कन्धप्रदेशात्तु यावत्पादावसानकम् ।
अब्यंजयेच्च तैलेन सर्वगात्राणि मर्दयेत् ॥ २८२ ॥
View Verse
तस्मिन् काले बहुविधैस्तालवृन्तैश्च चामरैः ।
तत्तापशमनार्थं तु वीजयेयुः समन्ततः ॥ २८३ ॥
View Verse
ततस्तु वाससोद्वर्त्य तथा चूर्णैः पुरोदितैः ।
चमषीं च खलिं दत्वा दद्यादुष्णोदकं ततः ॥ २८४ ॥
View Verse
चन्दनं मुखलेपार्थं घृष्टं कर्पूरभावितम् ।
ततस्त्वामलकं कल्कं गन्धद्रव्यैः सुसंस्कृतम् ॥ २८५ ॥
View Verse
दत्वा शिरसि देवस्य प्रक्षाल्य वहुभिर्जलैः ।
शनैः शनैः समालोड्य ततोऽर्घ्यं विनिवेद्य च ॥ २८६ ॥
View Verse
लोध्रं कालेयकं चैव क्षालनार्घ्यसमन्वितम् ।
दत्वा केशान् समाबध्य देवस्य प्लोतवाससा ॥ २८७ ॥
View Verse
अधः शटीं निवेद्याथ पात्रे कृत्वा तु वर्णकम् ।
कर्पूरचूर्णसंमिश्रं सम्यग्धूपाधिवासितम् ॥ २८८ ॥
View Verse
तेन देवस्य गात्राणि लेपयेत्तु शनैः शनैः ।
आकण्ठात् पादपर्यन्तं ततः प्रक्षालयेज्जलैः ॥ २८९ ॥
View Verse
अपास्याथ शिरःप्लोतम् दद्यादर्घ्यं तु मूर्धनि ।
ग्रन्थिपल्लवतोयादि सर्वरत्नोदकान्तिमम् ॥ २९० ॥
View Verse
संस्नाप्य सप्तभिस्तोयैः शिरःप्लोतं ददेद्विज ।
विनिवेद्याप्यधःशाटीं चन्दनेन सुगन्धिना ॥ २९१ ॥
View Verse
शशिचूर्णसमेतेन वासितेन हिमांबुना ।
धूपाधिवासितेनापि समालभ्य विशेषतः ॥ २९२ ॥
View Verse
गात्राणि देवदेवस्य तथा वै कुंकुमेन च ।
उपवीतं सोत्तरीयं दत्वा प्लोतमपास्य च ॥ २९३ ॥
View Verse
शिरस्यमथ केशांस्तु गन्धधूपाधिवासितान् ।
आबद्य विविधैर्माल्यैः स्रग्दामानि निवेद्य च ॥ २९४ ॥
View Verse
ततस्तु बहुभिस्तोयैः संस्कृतैश्चन्दनादिना ।
सहस्रधारया स्नानमाचरेद्देशिको विभोः ॥ २९५ ॥
View Verse
व्यापकान् चतुरो मन्त्रान् जपेदेकाग्रमानसः ।
तस्मिन् काले बह्वृचाद्या द्बिजाः प्रागादिदिक्स्थिताः ॥ २९६ ॥
View Verse
सृक्तानि पौरुषाद्यानि अधीयीरन् समाहिताः ।
शंखभेर्यादिकान् सम्यग् धोषयेयुः समन्ततः ॥ २९७ ॥
View Verse
मंगलानि च गीतानि तदा गायन्तु गायकाः ।
एवं स्नाने कृते पश्चात् देशिकेन्द्रः समाहितः ॥ २९८ ॥
View Verse
पूर्णकुम्भं समादाय विभोः स्नपनमाचरेत् ।
जपन् पवित्रमन्त्रं च तस्य निर्वचनं तथा ॥ २९९ ॥
View Verse
एवं स्नानं समापाद्य दद्यान्नीराजनं विभोः ।
सवन्दनाख्यं तत्पश्चच्छाटकं विनिवेद्य च ॥ ३०० ॥
View Verse
कचोदकापकर्षार्थमपरं देहवारिभृत् ।
अधरोत्तरवस्त्रेद्वे गन्धधूपाधिवासिते ॥ ३०१ ॥
View Verse
स्कन्धप्लोतं निवेद्याथ शिरः स्नानं निवेद्य च ।
चन्दनादि सुगन्दं समाल्यानि विनिवेद्य च ॥ ३०२ ॥
View Verse
पादुके विनिवेद्याथ तस्मात् स्थानात् समानयेत् ।
तृतीयं रत्नखचितं आसनं विनिवेद्य च ॥ ३०३ ॥
View Verse
तत्रस्थं देवदेवेशमर्घ्याद्यैः पूजयेत् क्रमात् ।
सर्वं होमावसानं च कृत्वा भूयः प्रपूज्य च ॥ ३०४ ॥
View Verse
महाहविर्निबेद्याथ सर्वं प्राग्वत् समाचरेत् ।
एवं प्रतिदिनं चैव यावत्तीर्थदिनान्तिमम् ॥ ३०५ ॥
View Verse
स्नपनं पूजनं चैव विभोः कुर्यादतन्द्रितः ।
नित्योत्सवादौ देवस्य स्नपनं तु समाचरेत् ॥ ३०६ ॥
View Verse
दिनोत्सवसमारम्भे नाचरेत् स्नपनं विभोः ।
यद्वोभयसमारम्भे कुर्यादिच्छानुरूपतः ॥ ३०७ ॥
View Verse
कलशे मण्डले चैव अह्नि रात्रौ च पूजनम् ।
कुर्यात् प्रतिदिनं सम्यगेकवारं यथाविधि ॥ ३०८ ॥
View Verse
बिंबंस्थं देवदेवेशमह्नि रात्रौ च पूजयेत् ।
एकवारं द्विवारं वा त्रिवारं वा यथारुचि ॥ ३०९ ॥
View Verse
प्रासादे मूलबिंबस्थं सविशेषं यजेत् सदा ।
पञ्चमे वासरे प्राप्ते पूर्वाह्ने तु दिनोत्सवम् ॥ ३१० ॥
View Verse
कृत्वा ततस्तु देवेशं महास्नपनपूर्वकम् ।
महता विभवेनैव लक्ष्मीपुष्टिसमन्बितम् ॥ ३११ ॥
View Verse
महाहविर्विधानेन विभवे सति पूजयेत् ।
षष्ठे दिने तु संप्राप्ते कुम्भाचनपुरस्सरम् ॥ ३१२ ॥
View Verse
अग्निसंतर्पणान्तं च पूजयित्वा विधानतः ।
पूर्ववद्देवदेवेशं लक्ष्मीपुष्टिसमन्वितम् ॥ ३१३ ॥
View Verse
यानादिके समारोप्य प्रासादस्य बहिः व्कचित् ।
उद्याने सुशुभे रम्ये पादपैर्वकुलादिभिः ॥ ३१४ ॥
View Verse
प्रोच्छ्रितैर्विविधैर्वापि समन्तात् परिशोभिते ।
पुष्पिताभिर्लताभिश्च सर्वतः परिभूषिते ॥ ३१५ ॥
View Verse
नीत्वा देवं समारोप्य यथार्हे विष्टरे पुरः ।
श्रीपुष्टिसहितं प्राग्वद्धोमान्तं परिपूजयेत् ॥ ३१६ ॥
View Verse
सूक्ष्मवस्त्रदुकूलानि सरत्नाभरणान्यपि ।
सुधाकस्तूरिकर्पूरदिव्यगन्धसमन्वितम् ॥ ३१७ ॥
View Verse
सर्वांङ्गदेवदेवेशं मृगस्नेहेन लेपयेत् ।
पुष्पापचयमाल्यादिभूषितानां विशेषतः ॥ ३१८ ॥
View Verse
परस्परं वा शक्तीनां क्रीडार्थं वाप्यलंकृताम् ।
गरुडारूढदेवाय पारिजातहरं स्मरन् ॥ ३१९ ॥
View Verse
प्राभृतान्यपि पुष्पाणि देवदेवाय दर्शयेत् ।
इदमस्मात् समायातं इत्युक्त्वा देशिकः स्वयम् ॥ ३२० ॥
View Verse
पुष्पापचयकर्मार्थमेवं कृत्वा निवेद्य च ।
तत्र वाऽन्यत्र वा स्थाने कर्तुरिच्छानुरूपतः ॥ ३२१ ॥
View Verse
ततस्तु देवदेवेशं लक्ष्मीपुष्टिसमन्वितम् ।
पूर्ववद्भ्रामयेत् ग्रामे शेषं प्राग्वत् समाचरेत् ॥ ३२२ ॥
View Verse
सप्तमे दिवसे प्राप्ते प्रासादं संप्रविश्य च ।
देशिकः साधकैः सार्धं प्रणिपत्य जगद्गुरुम् ॥ ३२३ ॥
View Verse
विज्ञापयेत्तु देवाय सम्यगुच्चस्थया गिरा ।
भगवन् पुण्डरीकाक्ष शरणागतवत्सल ॥ ३२४ ॥
View Verse
अस्मिन्नहनि कर्तव्या जलक्रीडा त्वया विभो ।
शुद्धये सर्वलोकानां देवानां प्रीतयेपि च ॥ ३२५ ॥
View Verse
यात्रा तदर्थं कर्तव्या मदनुग्रहकाम्यया ।
इति विज्ञाप्य देवाय प्रणम्य च पुनः पुनः ॥ ३२६ ॥
View Verse
यानादौ देवमारोप्य लक्ष्मीपुष्टिसमन्वितम् ।
नीत्वा मज्जनशालां तु स्नानोपकरणैर्युताम् ॥ ३२७ ॥
View Verse
तद्गतान् सर्वसंभारान् दर्शायित्वा विभोस्ततः ।
चन्दनाद्यैः समालभ्य देवं माल्यैर्विभूष्य च ॥ ३२८ ॥
View Verse
विनिवेद्य च ताम्बूलं मुखवाससमन्वितम् ।
समाहूय च तत्रस्थानाज्ञाप्य परिचारकान् ॥ ३२९ ॥
View Verse
प्राप्तेऽपराह्वसमये जलक्रीडा भविष्यति ।
तदर्थाः सर्वसंभाराः स्थापितव्यास्तु मण्डपे ॥ ३३० ॥
View Verse
इत्याज्ञाप्य ततस्तस्माद्धान्यागारं प्रविश्य च ।
दर्शयित्वा तु धान्यानि विभोस्तेषां समृद्धये ॥ ३३१ ॥
View Verse
उद्यानादौ समानीय विनिवेद्य च तत्स्थितान् ।
उपहारान् यथायोगं तत आस्थानमण्टपे ॥ ३३२ ॥
View Verse
पूजयेद्देवदेवेशं श्रीपुष्टिभ्यां समन्वितम् ।
सविशेषं ततो लक्ष्मीं पुष्टिमन्तः प्रवेशयेत् ॥ ३३३ ॥
View Verse
प्राग्वद्दिनोचितं सम्यक् कृत्वा पश्चात्तु मण्टपे ।
देवदेवं समानीय समारोप्य च विष्टरे ॥ ३३४ ॥
View Verse
अर्ध्यात् ताम्बूलपर्यन्तं सर्वं प्राग्वन्निवेद्य च ।
स्नानार्थं शाटिकां वापि विनिवेद्य जगत्पतेः ॥ ३३५ ॥
View Verse
मण्डपस्यैकदेशे तु शालितण्डुलनिर्मिते ।
विष्टरे तु जलद्रोणीं सौवर्णीं वापि राजतीम् ॥ ३३६ ॥
View Verse
ताम्रजं वा यथालाभं चतुस्त्रिद्विकरायताः ।
तदर्धविस्तृतामूर्ध्वे मूले तत्पादविस्तृताम् ॥ ३३७ ॥
View Verse
वृत्तायतामधोभागे प्रणालेन समन्विताम् ।
उन्मत्तकुसुमाकारसदृशामथवा द्विज ॥ ३३८ ॥
View Verse
बिंबमानानुरूपां तां सर्वलक्षणसंयुताम् ।
निवेश्य तां समापूर्य गालितेन जलेन तु ॥ ३३९ ॥
View Verse
कुंकुमक्षोदयुक्तेन चन्दनेनान्वितेन च ।
कर्पूरचूर्णयुक्तेन कुसुमैर्वासितेन च ॥ ३४० ॥
View Verse
तत्पार्श्वे देवमानीय चार्घ्याद्यैः परिपूज्य च ।
भेरीपटहवादित्रशंखघोपसमन्वितम् ॥ ३४१ ॥
View Verse
स्तुतिमंगलघोषैस्तु श्रुतिघोषसमन्वितम् ।
सूक्तेन पौरुषेणैव विभोः कृत्वावगाहनम् ॥ ३४२ ॥
View Verse
याने देवं समारोप्य सह स्नानार्द्रवाससा ।
कुंकुमेन समालिप्य आपादान्मस्तकावधि ॥ ३४३ ॥
View Verse
ब्रामयेत् प्रांकणं वीधीं प्रीतये वरुणस्य च ।
जनानामपि सर्वेषां पवित्रीकरणाय च ॥ ३४४ ॥
View Verse
तत्काले देवदेवेशं भक्त्या पश्यन्ति ये जनाः ।
ते सर्वे धूतपाप्मानो भवन्ति निरुपद्रवाः ॥ ३४५ ॥
View Verse
ततस्तु मण्डपे देवं विष्टरे विनिवेश्य च ।
स्नानवस्त्रादि सकलमाचार्यः स्वयमाहरेत् ॥ ३४६ ॥
View Verse
ततो निशोत्सवान्तं च सर्वं पूर्ववदाचरेत् ।
अष्टमे दिवसे प्राप्ते आचरेन्मृगयां विभोः ॥ ३४७ ॥
View Verse
प्रातरारभ्य पूर्वाह्वे देवमिष्ट्वा तु पूर्ववत् ।
अश्वरत्नं समानीय सर्वालंकारशोबितम् ॥ ३४८ ॥
View Verse
बहुभिस्तुरगैः सार्धं हस्तिनं वा तथाविधम् ।
स्वभावं कृत्रिणं वापि तत्रारोप्य जगत्पतिम् ॥ ३४९ ॥
View Verse
मृगयानुगुणैः सर्वैर्भूषणाद्यैर्विभूषितम् ।
आरोप्य याने सौवर्णे श्रियं च धरणीं तथा ॥ ३५० ॥
View Verse
ताभ्यां सह परिब्राम्य ग्रामादौ पूर्ववद्विभुम् ।
सैन्यैश्च विविधैः सार्धं भक्ताद्यैश्च तथैव हि ॥ ३५१ ॥
View Verse
ततो ग्रामस्य बाह्ये तु क्रोशमात्रान्तरीकृते ।
उद्याने वितते रम्ये विचित्रैः पादपैर्द्विज ॥ ३५२ ॥
View Verse
सरसीभिर्विचित्राभिः लताबन्दैश्च पुष्पितैः ।
शोभिते च समानीय देवं तन्मध्यसंस्थिते ॥ ३५३ ॥
View Verse
मण्टपे तु वितानाद्यैः सर्वतः परिभूषिते ।
सौवर्णे विष्टरे रम्ये समारोप्य जगत्पतिम् ॥ ३५४ ॥
View Verse
श्रीभूमिसहितं पश्चाच्छीतलैर्व्यजनानिलैः ।
चन्दनाद्यैः सुगन्धैश्च हिमतोयैस्च शीतलैः ॥ ३५५ ॥
View Verse
स्वेदशान्तिं समापाद्य विशेषाद्राजराजवत् ।
ततोऽर्घ्यादिबिरभ्यर्च्य दघ्यन्नं विनिवेदयेत् ॥ ३५६ ॥
View Verse
मरीचिचूर्णसंमिश्रं जीरकादिसन्वितम् ।
गुलखण्डयुतं शुद्धं पानकानि बहूनि च ॥ ३५७ ॥
View Verse
कदलीफलपूर्वाणि मधुराणि फलान्यपि ।
सर्वं ताम्बूलदानान्तं क्रमात् कृत्वा ततः परम् ॥ ३५८ ॥
View Verse
स्नानपूर्वं समभ्यर्च्य महता विभवेन तु ।
यथाक्रमेण देवेशं लक्ष्मीपुष्टिसमन्वितम् ॥ ३५९ ॥
View Verse
निवेद्य च प्रमूतान्नमलंकृत्य विशेषतः ।
तुरगादौ समारोप्य अस्तं याते दिवाकरे ॥ ३६० ॥
View Verse
दीपानेकशतैर्युक्तं ग्रामं नीत्वा प्रदक्षिणम् ।
देवं गेहे प्रवेश्याथ प्राग्वत् कुर्यान्निशोत्सवम् ॥ ३६१ ॥
View Verse
तद्रात्रौ तीर्थबिंबस्य कुर्यात् कौतुकबन्धनम् ।
आचार्यो यजमानेन साधकैश्च समन्वितः ॥ ३६२ ॥
View Verse
प्रासादं संप्रविश्याथ प्रणम्य च मुहुर्मुहुः ।
दण्डवत्प्रणिपातेन इमं मन्त्रमुदीरयेत् ॥ ३६३ ॥
View Verse
तीर्थयात्रा त्वया देव श्वः कर्तव्या सुरेश्वर ।
तत्र प्रतिसरारम्भं त्वमनुज्ञातुमर्हसि ॥ ३६४ ॥
View Verse
इति विज्ञाप्य देवस्य तीर्थबिंबं समानयेत् ।
तदलाभे मुनिश्रेष्ठ नित्यस्नपनकौतुकम् ॥ ३६५ ॥
View Verse
अलाभे त्वस्य बिंबस्य बलिबिंबं तु वा द्विज ।
मूलिबंबस्य पुरतः संस्थाप्यावाह्य पूज्य च ॥ ३६६ ॥
View Verse
प्रासादाब्यन्तरे कुर्याद्वेदिकां व्रीहिभिः शुभाम् ।
हस्तमात्रोन्नतायामविस्तारां पझसन्निभाम् ॥ ३६७ ॥
View Verse
वासोभिर्वेष्टयित्वा तां चतुरश्रायतां ततः ।
पालिकाः सांकुरा बाह्ये स्थापयेत् ककुभष्टके ॥ ३६८ ॥
View Verse
तद्बहिर्घटिकास्तद्वच्छरावांस्तद्वहिस्तथा ।
तद्र्ध्वे देवमारोप्य घृतारोपणमाचरेत् ॥ ३६९ ॥
View Verse
देवस्य पुरतः स्थाप्य पात्रं लोहविनिर्मितम् ।
घृतेनापूर्य तत् पात्रं प्राग्वत् संस्कृत्य देशिकः ॥ ३७० ॥
View Verse
उभाभ्यां चैव हस्ताभ्यां दूर्वामादाय मूलतः ।
घृते निमज्य चाग्राणि देवपादेषु सेचयेत् ॥ ३७१ ॥
View Verse
ततस्तु कण्ठपार्श्वे तु ततो देवस्य भूर्धनि ।
पाणिप्रक्षालनं कुर्यादन्तरान्तरयोगतः ॥ ३७२ ॥
View Verse
दूर्वाभेदस्तथा प्रोक्तो घृतारोपणकर्मणि ।
हस्तव्यत्यासमार्गेण घृतारोपणमाचरेत् ॥ ३७३ ॥
View Verse
पादे सुमंगलं चे ति कठे भद्रमिति द्विज ।
सुशोभनं तु शिरसि क्रमान्मन्त्रः प्रतिष्ठितः ॥ ३७४ ॥
View Verse
यद्वा सर्वस्य मन्त्रस्य द्वादशाक्षरसंज्ञितः ।
अक्षतस्यार्पणं कृत्वा कुर्यात् कौतुकबन्धनम् ॥ ३७५ ॥
View Verse
ऊर्णामयेन सूत्रेण क्षौमसूत्रेण तेन च ।
प्राग्विधानेन तत्पस्चाच्चामराद्यैश्च वीजयेत् ॥ ३७६ ॥
View Verse
दर्शयेद्दर्पणं छत्रमन्यानि मंगलान्यपि ।
निवेद्य पायसं पश्चाद्विभवानुगुणं ततः ॥ ३७७ ॥
View Verse
शिरसा शाययित्वा तु देवेशं शयनोपरि ।
गुग्गुल्वगरुधूपैश्च धूपयित्वा समन्ततः ॥ ३७८ ॥
View Verse
अनिर्वाणैः प्रदीपैस्तु रात्रिशेषं समापयेत् ।
आचार्यः प्रातरुथाय कृत्वा स्नानादिकं ततः ॥ ३७९ ॥
View Verse
देवमुत्सवबिंबस्थं प्राग्वत्पूज्य विधानतः ।
पूर्वाह्वे वाथ मध्याह्वे कृत्वा पूर्वं रथोत्सवम् ॥ ३८० ॥
View Verse
कारयेत्तीर्थपूर्वाह्ने अथ मध्याह्वपूर्ववत् ।
देवं गेहे समानीय स्वस्थाने सन्निवेशयेत् ॥ ३८१ ॥
View Verse
देवोपयुक्तमाल्यानि चन्दनादीन्यपि द्विज ।
प्रदद्याद्देशिकेन्द्राय सोपि तैः परिभूषितः ॥ ३८२ ॥
View Verse
कारयेत्तीर्थयात्रां चदेवेशस्य विधानतः ।
तीर्थबिंबगतं देवं शयनात् प्रतिबोध्य च ॥ ३८३ ॥
View Verse
पूजयित्वार्घ्यगन्धाद्यैरानीयास्थानमण्टपे ।
पूजयित्वार्घ्यपाद्याद्यैर्धृतारोपं तु पूर्ववत् ॥ ३८४ ॥
View Verse
कृत्वा पुरोदितानां तु स्नपनानां चतुर्थके ।
नवके स्नपनं स्थाष्य मद्यमद्यमसंज्ञितत् ॥ ३८५ ॥
View Verse
पुरतः स्थण्डिलं कृत्वोलूखलं तत्र विन्यसेत् ।
मुसलानि चतुर्दिक्षु विन्यस्योलूखलोपरि ॥ ३८६ ॥
View Verse
मुसरोलूखले गृह्य दूर्वाकाण्डानि बन्धयेत् ।
नववस्त्रेण संवेष्ट्य तत्र चूर्णं विनिक्षिपेत् ॥ ३८७ ॥
View Verse
सौवर्णरजनीचूर्णसंमिश्रं गन्धसंयुतम् ।
चतुर्भिर्वैष्णवैर्विप्रैर्वैष्णवीभिस्तु वा द्विज ॥ ३८८ ॥
View Verse
कारयेदवघातं तु गीयमानेपि मंगले ।
स्थापितस्नपनाद्विप्र प्राग्भागे वा तदुत्तरे ॥ ३८९ ॥
View Verse
तण्डुलैः पीठिकां कृत्वा तत्र कुंभं निवेश्य च ।
ससूत्रं तत्र निक्षिष्य चूर्णं वस्त्रेण वेष्ट्य च ॥ ३९० ॥
View Verse
अथवा पञ्च नव वा कलशांश्चूर्णपूरितान् ।
अर्चयित्वा तु मूलेन ततः संस्नापयेद्विभुम् ॥ ३९१ ॥
View Verse
तैलेनाभ्यज्य देवेशं समुद्वर्त्य च पूर्ववत् ।
ततः संस्नाप्य विधिना घृताद्यं मंगलान्तिमम् ॥ ३९२ ॥
View Verse
सहस्रधारया स्नानं कृत्वा संशुद्धवारिणा ।
अधरोत्तरवस्त्राभ्यां नवाभ्यां परिधाप्य च ॥ ३९३ ॥
View Verse
सूक्ष्माभ्यां धूपिताभ्यां च ततो देवं समर्च्य च ।
अर्घ्यालभनमाल्याद्यैर्हेमचूर्णादिपूरितम् ॥ ३९४ ॥
View Verse
कुम्भमादाय तेनैव चूर्णैः समभिषेचयेत् ।
अर्घ्याद्यैः पूजयित्वा तु बिंबं तु परिमृज्य च ॥ ३९५ ॥
View Verse
भुक्रावशिष्टं तच्चूर्णं भक्तानां मूर्ध्नि दापयेत् ।
गंगास्नानफलं चूर्णं सर्वपापप्रणाशनम् ॥ ३९६ ॥
View Verse
क्रीडया वापि तच्चूर्णं शिरसा धारयेन्नरः ।
तस्य देहगतं पापं तत्क्षणादेव नश्यति ॥ ३९७ ॥
View Verse
ततो देवं समभ्यर्च्य परमान्नं निवेद्य च ।
मुद्गान्नं चापि शुद्धान्नं तदन्यत्र विधानतः ॥ ३९८ ॥
View Verse
सर्वं द्विजप्रदानान्तं कृत्वा देशिकसत्तमः ।
यात्रावसानात् प्रागेव सर्वं चोक्तं समाचरेत् ॥ ३९९ ॥
View Verse
ततस्तु रजनीपिण्डं प्रबूतं कुंकुमान्वितम् ।
निवेद्य देवदेवाय दद्याद्वै देशिकोत्तमः ॥ ४०० ॥
View Verse
आचार्येभ्यः साधकेभ्यस्तथा चान्येभ्य एव च ।
तत्तत्कर्म नियुक्तेब्यस्तेऽपि पिण्डेन तेन वै ॥ ४०१ ॥
View Verse
आलब्य सर्वगात्राणि तथा संहृष्टमानसाः ।
उपतिष्टन्तु देवेशं प्रणामैः सप्रदक्षिणैः ॥ ४०२ ॥
View Verse
यात्रावाहनमानीय रथाद्येकतमं तु यत् ।
तत्र देवं समारोप्य ततोऽन्यस्मिंस्तु यानके ॥ ४०३ ॥
View Verse
आरोप्य चक्रं तार्क्ष्यं वा हनुमन्तं विभीषणम् ।
छत्रचामरशङ्खादिसर्वसाधनसंयुतम् ॥ ४०४ ॥
View Verse
प्रदक्षिणं परिभ्राम्य सर्वेष्वावरणेष्वपि ।
तीर्थपार्श्वे समासाद्य बिंबं पीठे निवेश्य च ॥ ४०५ ॥
View Verse
प्रभया पुष्पया चैव वितानाद्यैरलंकृते ।
प्रणामं दण्डवत् कृत्वा पुष्पांजलिपुरस्सरम् ॥ ४०६ ॥
View Verse
ततः संस्थाप्य देवेशं साधकस्यैव मूर्धनि ।
भूषितस्य च वस्त्राद्यैस्तीर्थमासाद्य तत्र तु ॥ ४०७ ॥
View Verse
नाभिदघ्ने जले स्थित्वा देशिकेन्द्रः समाहितः ।
तत्रीर्थे सर्वतीर्थानि समावाह्य द्विजोत्तम ॥ ४०८ ॥
View Verse
कृत्वा पुण्याहघोषं च अर्घ्याद्यैः संप्रपूज्य च ।
मुहूर्ते शोभने प्राप्ते रवौ मध्यन्दिनं गते ॥ ४०९ ॥
View Verse
शंखतूर्यादिसंयुक्तं देवमादाय देशिकः ।
वामहस्ततले कुर्यात् क्ष्मामण्डलगतं त्विव ॥ ४१० ॥
View Verse
विधृयान्मध्यभागे तु पाणिना दक्षिणेन तु ।
जपन् वै मूलमन्त्रं तु निमज्जेत् सह तेन वै ॥ ४११ ॥
View Verse
तार्क्ष्यादिमूर्तिभिः सार्धमाचार्यः साधकैस्तथा ।
स्वयंव्यक्तादिके स्थाने मध्याह्ने वाऽपराह्नके ॥ ४१२ ॥
View Verse
रजन्यां पूर्वभागे वा कुर्यादवभृथं विभोः ।
मुहूर्तातिक्रमप्राप्तदोषस्तत्र न विद्यते ॥ ४१३ ॥
View Verse
जलद्रोण्यादिके पात्रे गन्धतोयैः सुपूरिते ।
मुहूर्ते मज्जयेद्देवं अर्ग्याद्यैः संप्रपूज्य च ॥ ४१४ ॥
View Verse
तत्काले ये नराः स्नानं कुर्वन्ति विमलाशयाः ।
विमुक्तकल्मषास्ते वै प्राप्नुयुः परमां गतिम् ॥ ४१५ ॥
View Verse
ततस्तीरे समारोप्य विष्टरे हेमनिर्मिते ।
शाटकद्वितयं दत्वा स्नानवस्त्रे विसृज्य च ॥ ४१६ ॥
View Verse
देशिकः स्वयमादाय ते वस्त्रे मूर्घ्नि धारयेत् ।
अर्ध्याद्यैस्तु समभ्यर्च्य अलंकृत्य बिशेषतः ॥ ४१७ ॥
View Verse
याने देवं समारोप्य प्रासादं प्रविशेत् ततः ।
सुस्नाता धौतवसनास्तत्काले गणिकाजनाः ॥ ४१८ ॥
View Verse
जलेनापूरितं पात्रं दौपपात्रं च दर्पणम् ।
धारयन्त्योऽग्रतो विप्र गच्छेयुर्मंगलार्थतः ॥ ४१९ ॥
View Verse
अनुधारापदेनैव प्रादक्षिण्यक्रमेण तु ।
द्वितीयावरणद्वारं समासाद्याथवा द्विज ॥ ४२० ॥
View Verse
प्रथमावरणद्वारमन्तः कृत्वा तु मण्डलम् ।
सुवृत्तं गोमयेनैव सुधाचूर्णैरलंकृतम् ॥ ४२१ ॥
View Verse
आशासु दीपान् संस्थाप्य पालिका विदिशासु च ।
संपूर्णमंभसा कुंभं स्रगाद्यैः परिभूषितम् ॥ ४२२ ॥
View Verse
आधारस्योपरि स्थाप्य मध्ये पुष्पेण पूज्य च ।
सकृत् प्रणवजप्तेन ततो वै तज्जलेन तु ॥ ४२३ ॥
View Verse
अर्चयेद्देवदेवेशं पुष्पांजलिपुरस्सरम् ।
प्रासादद्वारदेशे तु अर्घ्याद्यैः संप्रपूज्य च ॥ ४२४ ॥
View Verse
देवं निवेश्य स्वस्थाने मूलबिंबे विसर्जयेत् ।
पश्चादुत्सवबिंबं तु स्नानाद्यैस्तु विधानतः ॥ ४२५ ॥
View Verse
पूर्ववत् पूजयेद्विप्र परिभ्रमणवर्जितम् ।
दशमेऽहनि संप्राप्ते देशिकेन्द्रः समाहितः ॥ ४२६ ॥
View Verse
प्रातस्नानादिकं कृत्वा वसनाद्यैर्विभूषितः ।
देशिकैः साधकैः सार्धं यजमानेन चैव हि ॥ ४२७ ॥
View Verse
प्रासादं संप्रविश्याथ प्रणम्य च मुहुर्मुहुः ।
देवेशस्याग्रतः स्थित्वा विज्ञापनमथाचरेत् ॥ ४२८ ॥
View Verse
भगवन् पुण्डरीकाक्ष शरणागतवत्सल ।
ध्वजार्थांकुरमारम्य उत्सवावभृथान्तिमम् ॥ ४२९ ॥
View Verse
यन्मयानुष्टितं कर्म तव संप्रीतये विभो ।
तथाऽन्यैर्मदनुज्ञातैर्देशिकैश्चापि यत् कृतम् ॥ ४३० ॥
View Verse
साधकैश्च तथान्यैश्च विविधैः परिचारकैः ।
तत्तत्संपूरणार्थं च न्यूनाधिक्योपशान्तये ॥ ४३१ ॥
View Verse
त्वामद्य वासरे यष्टुं चतुःस्थानस्थितं विभो ।
प्रवृत्तामनुजानीहि मदनुग्रहकाम्यया ॥ ४३२ ॥
View Verse
इति विज्ञाप्य देवस्य तत्रानुज्ञामवाप्य च ।
देवमुत्सवबिंबस्थं यानमारोप्य देशिकः ॥ ४३३ ॥
View Verse
आस्थानमण्टपं नीत्वा तत्र वै दर्भविष्टरे ।
देवमारोप्य तत्पश्चात् वेदाध्ययनतत्परान् ॥ ४३४ ॥
View Verse
इतिहासपुराणज्ञान् तथा मंगलगायकान् ।
नर्तकांश्च यथायोगं विनोदार्थं जगत्पतेः ॥ ४३५ ॥
View Verse
तत्तत्स्थाने समावेश्य ततो देशिकसत्तमः ।
तस्मिन् वा मण्टपे न्यस्य विस्तारस्यानुरूपतः ॥ ४३६ ॥
View Verse
यागगेहोदितैः सर्वैर्वितानाद्यैरलंकृते ।
तन्मध्यदेशमाश्रित्य कुर्याच्चक्राब्जमण्डलम् ॥ ४३७ ॥
View Verse
मातुलंगसमाकारैर्द्वादशारैः परिष्कृतम् ।
सपीठद्वारमार्गाद्यं पञ्चरंगपुरान्वितम् ॥ ४३८ ॥
View Verse
अथवा भूषितं विप्र पीठेन सपुरेण तु ।
पञ्चपुष्पोज्वलेनैव केवलेन पुरेण वा ॥ ४३९ ॥
View Verse
यथाकालोद्भवै रम्यैस्तत्तद्वर्णसमन्वितैः ।
स्वयं भगवता प्रोक्तः पौष्करे त्वस्य विस्तरः ॥ ४४० ॥
View Verse
एवं सर्वं समापाद्य साधकैश्चक्रपंकजम् ।
संप्राप्य साधकैः सार्धं देशिको देवसन्निधिम् ॥ ४४१ ॥
View Verse
विज्ञाप्य देवमानीय पश्चिमे मण्डपस्य तु ।
भद्रासने तु सौवर्णे मसूरकवरान्विते ॥ ४४२ ॥
View Verse
शुभास्तरणसंयुक्ते प्राङमुखं विवनिवेश्य च ।
यागपूर्वोक्तमार्गेण कलशे चक्रपंकजे ॥ ४४३ ॥
View Verse
गीतं नृत्तं च वाद्यं च चतुर्दिग्वेदघोषितम् ।
बिंबे च पूजनं कुर्याद्देशिकः सुसमाहितः ॥ ४४४ ॥
View Verse
सविशेषं यथावद्वै द्विजदानावसानकम् ।
तत्काले तु विशेषेण गुरोः संमानमाचरेत् ॥ ४४५ ॥
View Verse
वसनैश्च दुकूलाद्यैर्देवस्य प्राङ्निवेदितैः ।
विविधैः स्रग्वरैश्चापि सुगन्धैश्चन्दनादिकैः ॥ ४४६ ॥
View Verse
आचार्योपि समादाय दुकूलाद्यमनुत्तमम् ।
बद्ध्वा चोष्णीषवत् स्वस्मिन् शिरसि द्विजसत्तम ॥ ४४७ ॥
View Verse
माल्यादि च यथायोगं धारयन् प्रणिपत्य च ।
मुहुर्मुहुर्देवदेवं ततो यागनिकेतनम् ॥ ४४८ ॥
View Verse
संप्राप्य तत्र वैकुण्डे होमं कृत्वा यथापुरम् ।
गत्वा देवसमीपं तु कृत्वा होमसमर्पणम् ॥ ४४९ ॥
View Verse
संविभागं पितॄणां च यथावत् प्रतिपाद्य च ।
कुमुदादींश्च चक्रं च खगेशं गणनायकम् ॥ ४५० ॥
View Verse
इन्द्रादिलोकपालानां दापयित्वा बलिं क्रमात् ।
ततश्चैकायनीं शाखां त्रयीं चाथर्वसंयुताम् ॥ ४५१ ॥
View Verse
इतिहासं पुराणं च वैष्णवं स्तोत्रमद्भुतम् ।
गीतं नृत्तं च वाद्यं च शंखभेर्यादिकांस्तथा ॥ ४५२ ॥
View Verse
वन्दिमंगलशब्दांश्च तथा मंगलगीतकम् ।
श्रावयित्वा यथायोगं दर्शयित्वा विभोस्ततः ॥ ४५३ ॥
View Verse
कुम्भस्थं मण्डलस्थं च देवं हृदि विसृज्य च ।
विष्वक्सेनं समभ्यर्च्य प्राग्वन्मण्डलमध्यतः ॥ ४५४ ॥
View Verse
ततो देवं समारोप्य यानादौ हेमनिर्मिते ।
सर्वमंगलसंयुक्तं सर्वाण्यावरणानि च ॥ ४५५ ॥
View Verse
परिब्रम्य च बाह्यादि त्वन्तरावरणान्तिकम् ।
प्रथमावरणे वापि द्वितीयावरणेपि च ॥ ४५६ ॥
View Verse
मण्डपे देवदेवेशं विष्टरे विनिवेशयेत् ।
तत्काले यजमानस्तु अलंकृत्य तु देशिकम् ॥ ४५७ ॥
View Verse
वस्त्रस्रक्चन्दनाद्यैश्च समारोप्य च यानके ।
शंखकाहलवादित्रभेरीपटहसंयुतम् ॥ ४५८ ॥
View Verse
छत्रदीपसमायुक्तं गायकादिसमन्वितम् ।
देशिकं देववत् स्मृत्वा स्वगृहे संप्रवेशयेत् ॥ ४५९ ॥
View Verse
अथानुयागमाचार्यः कुर्याद्वन्धुसमन्वितः ।
अस्तंगते दिनकरे देवं संपूज्य वै क्रमात् ॥ ४६० ॥
View Verse
गुलखंडादिसंयुक्तं मुद्गान्नं तु निवेदयेत् ।
ततस्तु भगवद्भक्ताः देशान्तरनिवासिनः ॥ ४६१ ॥
View Verse
देवस्योत्सवसेवार्थं ये नराः पूर्वमागताः ।
तेषां स्वदेशयानार्थं देवानुज्ञापुरस्सरम् ॥ ४६२ ॥
View Verse
कृत्वा विसर्जनं पश्चात् देवं यागनिकेतने ।
नीत्वा तत्र समावेश्य विष्टरे शुभसंस्तरे ॥ ४६३ ॥
View Verse
कुम्भपूर्वं क्रमेणैव चतुः स्थानस्थितं विभुम् ।
यथाविधि समभ्यर्च्य प्रभूतान्नसमन्वितम् ॥ ४६४ ॥
View Verse
उत्सवान्तोदितं कृत्वा स्नपनं चापि कल्पयेत् ।
यात्राबिंबे द्विजश्रेष्ठ बिंबे वा स्नपनार्थतः ॥ ४६५ ॥
View Verse
एवं क्रमेण संपूज्य प्रदाप्य विधिना बलिम् ।
कुम्भमण्डलकुण्डस्थान् मन्त्रेशान् मन्त्रवित्तमः ॥ ४६६ ॥
View Verse
विसर्जयेद्यथावच्चयथोक्तविधिना ततः ।
विष्वक्सेनं यजेत् पश्चाद्देवमन्तः प्रवेशयेत् ॥ ४६७ ॥
View Verse
अर्घ्यगन्धादिनाभ्यर्च्य मूलबिंबे विसर्जयेत् ।
ग्रामे चावाहितान् विप्र कुमुदादीन् गणान्वितान् ॥ ४६८ ॥
View Verse
सन्तोष्य बलिदानेन सविशेषं विसर्जयेत् ।
ध्वजस्थानं समासाद्य कुम्भं संस्थाप्य पूर्ववत् ॥ ४६९ ॥
View Verse
पतत्रीशं समभ्यर्च्य ध्वजस्थं च विशेषतः ।
महाहविर्निवेद्याथ ध्वजस्थं विहगेश्वरम् ॥ ४७० ॥
View Verse
विसर्जयित्वा स्वहृदि कुम्भस्थे वा खगेश्वरे ।
ततोऽवरोहयेद्विप्र ध्वजं पूर्वक्रमेण तु ॥ ४७१ ॥
View Verse
कुम्भस्थं विहगेशं तु स्वस्मिन् हृदि विसर्जयेत् ।
यद्वा गरुडगेहं तु गत्वा कुम्भस्थवारिणा ॥ ४७२ ॥
View Verse
संप्रोक्ष्य गरुडं तत्र कुम्भस्थं तु विसर्जयेत् ।
ध्वजदण्डं ध्वजपटं तद्यष्टिं तत्प्रपां तथा ॥ ४७३ ॥
View Verse
आचार्यः स्वयमादद्याद् यागोपकरणान्यपि ।
अन्यथा चेन्महान् दोषः कर्तुर्देशाधिपस्य च ॥ ४७४ ॥
View Verse
निष्फलं स्यात् कृतं कर्म विहगेशोपि कुप्यति ।
यागकर्मणि पर्याप्ते तद्रात्रौ वाऽपरेहनि ॥ ४७५ ॥
View Verse
यजमानो गुरुं हैमैर्भूषणैः कटकादिभिः ।
वसनैर्गन्धपुष्पाद्यैः अलंकृत्याभिपूज्य च ॥ ४७६ ॥
View Verse
उत्तमां दक्षिणां दद्यात् खर्णनिष्कशतान्विताम् ।
ततोधिकां तु वा दद्यात् विभवस्यानुगुण्यतः ॥ ४७७ ॥
View Verse
तदर्धं मद्यमं विद्धि तत्पादं ह्यधमं भवेत् ।
यथावित्तानुरूपं तु यथाश्रद्धं तु वा ददेत् ॥ ४७८ ॥
View Verse
तदर्धं ऋत्विजां दद्यात् तदर्धं परिचारके ।
अन्यान् गायकपूर्वांस्तु यथावित्तानुसारतः ॥ ४७९ ॥
View Verse
यागस्तु दक्षिणाहीनो निष्फलः स्यान्न संशयः ।
तस्माद्वित्तानुगुण्येन देया चाल्पापि दक्षिणा ॥ ४८० ॥
View Verse
एवं तु गदितः सम्यक् यात्राख्योत्सवविस्तरः ।
तत्र यो यो विशेषस्तु तं तमाकर्णयाधुना ॥ ४८१ ॥
View Verse
देशिके साधके वापि एकस्मिन्नेव कल्पिते ।
स एव सकलं कर्म कुर्यात् पूर्वोदितं क्रमात् ॥ ४८२ ॥
View Verse
बहुष्वेतेषु क्लृप्तेषु त्वेकः कुर्याद्यथाक्रमम् ।
ध्वजांकुरं ध्वजारोपं उत्सवार्थांकुरार्पणम् ॥ ४८३ ॥
View Verse
उत्सवारम्भदिवसात् पूर्वेद्युः कौतुकक्रियाम् ।
उत्सवारम्भदिवसे अधिवासार्थमीरितम् ॥ ४८४ ॥
View Verse
चतुः स्थानार्चनं विप्र तथा तीर्थांकुरार्पणम् ।
तद्रात्रावपि यात्रार्थं चतुः स्थानार्चनक्रियाम् ॥ ४८५ ॥
View Verse
यात्राप्रतिसराबन्धं तथा चावभृधक्रियाम् ।
पुष्पयागदिने वापि चतुः स्थानार्चनं तथा ॥ ४८६ ॥
View Verse
कुम्भमण्डलकुण्डस्थमन्त्राणां च विसर्जनम् ।
ध्वजावरोहणं चैव प्रयत्नान्नियतव्रतः ॥ ४८७ ॥
View Verse
तदन्ये देशिकाः कुर्युः साधका वा यथाक्रमम् ।
अन्यानि सर्वकर्माणि यथायोगं समाचरेत् ॥ ४८८ ॥
View Verse
कुम्भस्थस्यार्चनं केचित् केचिद्बिं बस्य पूजनम् ।
अग्नौ संतर्पणं केचित् केचित् स्नपनकौतुके ॥ ४८९ ॥
View Verse
स्नपनाद्यर्चनं केचित् यथाकालं यथाविधि ।
यद्येकेनैव शक्यं स्याच्चतुः स्थानार्चनं द्विज ॥ ४९० ॥
View Verse
कर्तुं न कर्तृभेदः स्याच्चतुःस्थानार्चनाविधौ ।
एकस्मिन् पूजने विप्र वर्तमानेपि मध्यतः ॥ ४९१ ॥
View Verse
केनचिद्व्याधिना कर्तुरशाक्तिर्यदि संभवेत् ।
अंगादंगान्तरारम्भे आसनादासनस्य हि ॥ ४९२ ॥
View Verse
शेषमन्येन कर्तव्यं जष्त्वा मूलं सहस्तकम् ।
अन्यथासंभवेत्सा चेत् कर्तुरन्यस्तु पूजकः ॥ ४९३ ॥
View Verse
भूयश्चादित आरभ्य पूजनं तु समाचरेत् ।
दिनोदितेन मार्गेण कुर्याच्चेदन्यथा द्विज ॥ ४९४ ॥
View Verse
कर्तुः स्यान्मानसी पीडा पूजनं चापि निष्फलम् ।
यदोत्सवे नियुक्तं तु नित्यस्नपनकौतुकम् ॥ ४९५ ॥
View Verse
तदेकदैव कुर्वीत रात्रावहनि वोत्सवम् ।
यदा महोत्सवविधौ बलिबिंबं प्रयुज्यते ॥ ४९६ ॥
View Verse
कालयोरुभयोः कुर्यात् कर्तुरिच्छानुरूपतः ।
यात्राबिंबे नियुक्ते तु कुर्यात् कालद्बये सदा ॥ ४९७ ॥
View Verse
उत्सवं मुखयकल्पे तु अनुकल्पे महामते ।
दिवा वापि रजन्यां वा कुर्याद्यात्रोत्सवं द्विज ॥ ४९८ ॥
View Verse
कुम्भे वा विष्टरे चक्रे यदा कुर्यान्महोत्सवम् ।
तदानीं मूलबिंबे तु यात्रा बिंबोदितां क्रियाम् ॥ ४९९ ॥
View Verse
सर्वामपि क्रमात् कृत्वा परिभ्रमणवर्जितम् ।
कुम्भे वा विष्टरे वापि दर्भमंजरिजे शुभे ॥ ५०० ॥
View Verse
चक्रे वा देवमावाह्य अर्घ्याद्यैः परिपूज्य च ।
यानादिके समारोप्य सर्वसाधनसंयुतम् ॥ ५०१ ॥
View Verse
ग्रामादौ भ्रामयेत् प्राग्वत् बलिदानसमन्वितम् ।
ग्रामादि बलिदानोक्तकाले दद्यात् बलिं सदा ॥ ५०२ ॥
View Verse
कुमुदादि गणेशानां पालिकावसथेपि च ।
उत्सवे देवदेवेशं सदा सर्वत्र पूजयेत् ॥ ५०३ ॥
View Verse
वस्तुपुष्पादिकैर्भोगैः यथाभिमतदिङ्मुखः ।
आसीनो वा स्थितो बापि साधकस्तु यथारुचि ॥ ५०४ ॥
View Verse
एवं तु भ्रमणं कुर्यात् एकाहाद्युत्सवेष्वपि ।
एकाहे पूर्वरात्रे वा यात्रा बिंबाधिवासनम् ॥ ५०५ ॥
View Verse
तीर्थबिंबाधिवासं च तथा कर्मदिने ततः ।
प्रातर्ग्रामं परिभ्राम्य यात्राबिंबं तु पूर्ववत् ॥ ५०६ ॥
View Verse
तत्पश्चादाचरेत् प्राग्वत् तीर्थबिंबाधिवासनम् ।
अपरस्मिन् दिने कुर्यात् पुष्पयागं न वा द्विज ॥ ५०७ ॥
View Verse
त्रिवासरेपि पञ्चाहे सप्ताहे तूत्सवे द्विज ।
आरंभाहात्तु पूर्वेद्युः यात्रा बिंबाधिवासनम् ॥ ५०८ ॥
View Verse
तीर्थाहात् पूर्वरात्रौ तु तीर्थबिंबादिवासनम् ।
तीर्थाहादपरस्मिन् वै पुष्पयागं समाचरेत् ॥ ५०९ ॥
View Verse
एकाहात् सप्तरात्रान्तमुसवानां चतुष्टये ।
पुष्पापचयलीलां च मृगयामपि नाचरेत् ॥ ५१० ॥
View Verse
दशाहादिषु सर्वेषु नवाहोदितवर्त्मना ।
सर्वं कुर्याद्यथायोगं कर्तुरिच्छानुरूपतः ॥ ५११ ॥
View Verse
स्वयं व्यक्ते विमानादौ स्थाने तु न समाचरेत् ।
एकाहात् सप्तरात्रान्तमुत्सवानां चतुष्टयम् ॥ ५१२ ॥
View Verse
तथा तत्रानुकल्पोक्तमुत्सवं न समाचरेत् ।
स्वयं व्यक्ते जलक्रीडा भवेन्नान्यत्र कल्पयेत् ॥ ५१३ ॥
View Verse
एकाहाद्यास्तु सकला उत्सवा वत्सरीन्तिमाः ।
बहुबेरविधाने तु कर्तव्या द्विजसत्तम ॥ ५१४ ॥
View Verse
एकत्रिपञ्चसप्ताहनवाहद्वादशाहिकाः ।
एकबेरविधाने तु कर्तव्या नान्यथा भवेत् ॥ ५१५ ॥
View Verse
ग्रामे वा नगरे वापि प्रतिलोमानधिष्ठिते ।
अशून्ये पत्तने वापि रथ्यासु सुसमाचरेत् ॥ ५१६ ॥
View Verse
बलिदानादिकं सर्वं अन्यथा चेद् द्विजोत्तम ।
अन्तरावरणेष्वेव विभोः कुर्यान्महोत्सवम् ॥ ५१७ ॥
View Verse
देवस्य यात्राकर्मार्थं प्रवेशश्च विनिर्गमः ।
भवेत्तदग्रद्वारेण सर्वेष्वावरणेष्वपि ॥ ५१८ ॥
View Verse
प्रवेशनिर्गमऔ स्यातां ग्रामाद्यभिमुखेन वा ।
प्रधानैर्नेतरैर्द्वारैः कार्यौ वेशविनिर्गमौ ॥ ५१९ ॥
View Verse
नोपद्वौरैर्न शौभैस्च नोपशोभैः कदाचन ।
यदि कुर्यात् प्रमादेन तद्देशनृपतेर्भवेत् ॥ ५२० ॥
View Verse
प्रधानस्य विपर्यासः स्वस्थानप्रच्युतिस्तथा ।
ग्रामादावपि विप्रेन्द्र प्राकारादिपरिष्कृते ॥ ५२१ ॥
View Verse
यात्रा कर्मणि देवस्य प्रवेशश्चापि निर्गमः ।
उपद्वारैर्न कर्तव्यः कृते यात्रादि निष्फलम् ॥ ५२२ ॥
View Verse
ग्रामस्यापि विनाशः स्यात् ततो देशाधिपस्य च ।
चतुर्ष्वपि प्रधानेषु विशेषमवधारय ॥ ५२३ ॥
View Verse
देवागारस्य पूर्वस्यां दिशि ग्रामादिकं यदि ।
प्रत्यक्दिक्संस्थितद्वारा भवेत्तत्रोदितद्वयम् ॥ ५२४ ॥
View Verse
ग्रामादिकं भवेत् प्रत्यक् यदा देवगृहस्य तु ।
प्राग्द्वारेण तदा स्यातां प्रवेशश्च विनिर्गभः ॥ ५२५ ॥
View Verse
यदा ग्रामादिकं क्लृप्तं प्रासादस्य तु दक्षिणे ।
तदानीमुत्तरद्वारा प्राग्द्वारा वा पुरोदिता ॥ ५२६ ॥
View Verse
यदा देवगृहस्योदक् ग्रामाद्यं परिकल्पितम् ।
तदानीं दक्षिणद्वारा प्रत्यग्द्वारेण वा भवेत् ॥ ५२७ ॥
View Verse
प्रवेशाद्यं द्वयं यद्वा दक्षिणोत्तरदिक्स्थिते ।
ग्रामादावपि विप्रेन्द्र प्राक्प्रत्यक्द्वारदेशतः ॥ ५२८ ॥
View Verse
प्रवेशनिर्गमौ मुख्यकल्पे तु विहितौ द्विज ।
अनुकल्पे तदन्याभ्यां द्वाराभ्यां परिकीर्तितौ ॥ ५२९ ॥
View Verse
देवागारांगभूते तु तस्माद्दूरेण संस्थिते ।
ग्रामादौ देबदेवस्य यात्रायां वेशनिर्गमौ ॥ ५३० ॥
View Verse
कथितौ सन्निकृष्टेथ विधानमवधारय ।
प्रासादपूर्वदिक्संस्थे ग्रामे प्रागग्रवीधिषु ॥ ५३१ ॥
View Verse
मध्यवीथ्यग्रदेशेन पश्चिमश्थेन वै विभोः ।
प्रवेशनिर्गमौ स्यातां एतत्पश्चिमसंस्थिते ॥ ५३२ ॥
View Verse
मध्यवीथ्यग्रदेशेन पूर्वदिकसंस्थितेन च ।
दक्षिणोत्तरसंस्थे तु यथायोगं समाचरेत् ॥ ५३३ ॥
View Verse
ग्रामाद्यं न कृतं यत्र कृता रथ्यावृतिस्तदा ।
रथ्यावरणदेवानां बलिं दत्वा तु पूर्वतः ॥ ५३४ ॥
View Verse
पश्चाद्ग्रामोक्तदेवानां तत्रैव च बलिं ददेत् ।
सर्वेषां च क्रमादेवं देवयात्रां द्विराचरेत् ॥ ५३५ ॥
View Verse
ग्राममध्योदितं कुर्यान्मुख्यद्वारार्थदेशतः ।
रथ्यावृतिस्तु न कृता यदा ग्रामः कृतस्तदा ॥ ५३६ ॥
View Verse
यथ्यावृत्युक्तदेवानां न तत्र प्रददेद्बलिम् ।
तदर्थी देवयात्रापि न कर्तव्या महामते ॥ ५३७ ॥
View Verse
यदा तु वीथ्यावरणं ग्रामश्चापि न कल्पितः ।
तदा ग्रामोक्तदेवानां बहिरावरणे बलिम् ॥ ५३८ ॥
View Verse
तदुक्तदेवबल्यन्ते प्रदद्यात्तु दिने दिने ।
ग्रामोक्त देवयात्रां च तथा तत्र समाचरेत् ॥ ५३९ ॥
View Verse
ग्राममध्ये तु यत् कर्म विहितं तत् समाचरेत् ।
बलिषीठे तदा सर्वं यथोक्तविधिना द्विज ॥ ५४० ॥ ।
बाह्यावृत्यादौ न तदा कुर्यात्तत् प्रथमावृतौ ।
तदभावे तु तत् सर्वं प्रासादद्वारपूर्वतः ॥ ५४१ ॥
View Verse
यदा ग्रामादिके क्लृप्ता देवयात्रोत्सवक्रिया ।
राष्ट्रक्षोभादिविघ्नेन यदि कर्तुं न शक्यते ॥ ५४२ ॥
View Verse
एवमेव तदापि स्यात् देवयात्रोत्सवक्रमः ।
बलिदानोदिते काले बलिदानं समाचरेत् ॥ ५४३ ॥
View Verse
कुमुदादिगणेशानां प्रथमावरणेपि च ।
पालिकावसथे चापि मण्डपे यागनिर्मिते ॥ ५४४ ॥
View Verse
ग्रामादिकेपि विप्रेन्द्र नित्यं स्थानचतुष्टये ।
यदि रथ्यावृतिः क्लृप्ता तत्रापि च बलिं ददेत् ॥ ५४५ ॥
View Verse
ग्रामाद्ये सगणानां तु बलिं दद्याद्दिने दिने ।
अन्यस्थानचतुष्के तु केवलानां बलिं ददेत् ॥ ५४६ ॥
View Verse
ग्रामाद्यं पालिकावासं विनान्यत्र समाचरेत् ।
देवप्रागादियोगेन बलिं स्थानत्रयेपि च ॥ ५४७ ॥
View Verse
ग्रामादौ नोत्सवं कुर्याद्योजनात् परतः स्थिते ।
नद्यादिव्यवधानेपि क्लृप्ते वा योजनावधेः ॥ ५४८ ॥
View Verse
ग्रामादौ उत्सवं कुर्यात् स्वतन्त्रे वांग एव वा ।
देवतान्तरयात्रार्थं निर्मिंते नगरादिके ॥ ५४९ ॥
View Verse
न कुर्याद्देवदेवस्य विभोर्यात्रोत्सवक्रियाम् ।
विभोर्यात्रोत्सवार्थं तु कल्पिते नगरादिके ॥ ५५० ॥
View Verse
देबतान्तरयात्रां तु न कदाचित् समाचरेत् ।
ग्रामाद्यंगतया क्लृप्ते प्रासादे तु महमते ॥ ५५१ ॥
View Verse
तदंगिनं तु ग्रामाद्यं विनान्यत्र बलिक्रियाम् ।
न कल्पयेद्देवयात्रां तथैव न समाचरेत् ॥ ५५२ ॥
View Verse
देवतान्तरकल्याणे वर्तमाने कदाचन ।
देवतान्तरयात्रार्थं तोरणानि कृतान्यपि ॥ ५५३ ॥
View Verse
देवदेवस्य यागार्थं न स्बीकुर्यात् कदाचन ।
एकस्मिन्नुत्सवेनैव दद्याद् ग्रामद्वये बलिम् ॥ ५५४ ॥
View Verse
न कुर्याद्देवयात्रां च कृता चेन्निप्फला भवेत् ।
तथा ध्वजद्वयं न स्यात् भेदछिद्रादिदूषिते ॥ ५५५ ॥
View Verse
पटस्थे विहगेन्द्रे तु कुर्यात् सन्धानमेव तु ।
तच्चेदशक्यं तत्त्यकत्वा कृत्वान्यं प्राग्वदाचरेत् ॥ ५५६ ॥
View Verse
अन्यथा तत्परित्यागे दोषः स्याद्राजराष्ट्रयोः ।
एवं तु देवदेवस्य उत्सवं कल्पयेत्तु यः ॥ ५५७ ॥
View Verse
इह लोके सुखं भुक्त्वा चिरं भोगान् यथेप्सितान् ।
देहसन्यासकाले तु प्राप्नोति भगवत्पदम् ॥ ५५८ ॥
View Verse
यात्रायां वर्तमानायां अनुगच्छन्ति ये विभुम् ।
पदे पदे क्रतुफलं लभन्ते ते नरोत्तमाः ॥ ५५९ ॥
View Verse
ये तोषयन्ति ते काले देवदेवं जगत्पतिम् ।
विविधैरूपचारैस्तु छत्रचामरपूर्वकैः ॥ ५६० ॥
View Verse
ऐहिकामुप्मिकान् भोगान् प्राप्नोत्यभिभतान् सदा ।
इति सम्यङ्मुनिश्रेष्ठ कीर्तितो वत्सरोत्सवः ॥ ५६१ ॥
View Verse
एवं नैमित्तिकं चान्यं कुर्यादेकाहमुत्सवम् ।
ध्वजारोहादिपूर्वोक्तयात्रांगपरिवर्जितम् ॥ ५६२ ॥
View Verse
विभवानुगुणं विप्र विशेषस्नपनान्वितम् ।
महता हविषा युक्तं यथाश्रद्धानुरूपतः ॥ ५६३ ॥
View Verse
तस्मिन् प्रदाननक्षत्रे पत्रपुष्पफलान्विते ।
पञ्चविंशतिकुम्भांस्तु स्थापयित्वाभिषेचयेत् ॥ ५६४ ॥
View Verse
चैत्रे मासि पुनर्वस्वोः वसन्तोत्सवमाचरेत् ।
तस्मिंस्तु शुक्लद्वादश्यां कुर्याद्दमनकोत्सवम् ॥ ५६५ ॥
View Verse
पवित्रारोहवत् कुर्यात् चतुस्थानार्चनादिकम् ।
भूषणान्युत्तमादीनि कुर्याद्दमनकैस्तथा ॥ ५६६ ॥
View Verse
तत्तु संख्याविरहितं यथाशोभानुरूपतः ।
पञ्चविंशतिकुम्भांस्तु स्थापयित्वाभिषेचयेत् ॥ ५६७ ॥
View Verse
एको ह वै नारायण इति प्राव्कलशेन तु ।
तस्य ध्यानान्तस्थस्येति द्वितीयकलशेन तु ॥ ५६८ ॥
View Verse
अथ पुनरेव नारायण इति तृतीयकलशेन तु ।
अथ पुनरेव नारायण इति चतुर्थतः ॥ ५६९ ॥
View Verse
सहस्रशीर्षा पुरुष इति पञ्चमकुम्भतः ।
पतिं विश्वस्यात्मेश्वरमिति वै षष्ठकुम्भतः ॥ ५७० ॥
View Verse
नारायण परं ब्रह्न इति वै सप्तमेन तु ।
यच्च किंचिज्जगत्यस्मिन् इति ह्यष्टमकुम्भतः ॥ ५७१ ॥
View Verse
अनन्तमव्ययं कविमिति नवमेनाभिषेचयेत् ।
अतो निष्ट्या वितस्त्यां तु इति स्याद्दशमेन वै ॥ ५७२ ॥
View Verse
सन्ततं सिराभिस्तु लमित्येकादशेन तु ।
तस्य मद्ये महानग्निरिति द्वादशमेन वै ॥ ५७३ ॥
View Verse
सन्तापयति स्वं देहमिति त्रयोदशमेन वै ।
नीलतोयदमद्यस्था इति चतुर्दशमेन वै ॥ ५७४ ॥
View Verse
तस्याश्शिखाया मध्ये इति पञ्चदशमेन वै ।
सर्वस्य वशिनं देवं इति षोडशमेन तु ॥ ५७५ ॥
View Verse
बहिरावरणस्थैस्तु कलशैरभियेचयेत् ।
बहिरावरणे नास्ति इति प्राक्संस्थितेन तु ॥ ५७६ ॥
View Verse
यन्नाबिपझादभवदिति वह्निगतेन तु ।
धृतोर्ध्वपुम्ड्रं परमेति याम्यदिकसंस्थितेन तु ॥ ५७७ ॥
View Verse
दक्षिणे तु भुजे विप्रः इति यातुगतेन वै ।
विष्णुनाक्तमश्रन्तीति वारुणीदिक्स्थितेन तु ॥ ५७८ ॥
View Verse
पुंप्रधानेश्वरो विष्णुरिति वायुगतेन वै ।
य इमां महोपनिषदमिति सोमगतेन तु ॥ ५७९ ॥
View Verse
ओमिते प्रथमं नाम इतीशानगतेन तु ।
पुरुषोहं वै वासुदेव इति मध्यगतेन तु ॥ ५८० ॥
View Verse
यद्वा पुरुषसूक्तीयैर्मन्त्रैः षोडशभिः क्रमात् ।
बहिरावरणस्थैस्तु कलशैरमिषिच्य च ॥ ५८१ ॥
View Verse
पूर्वोक्तैर्ब्रह्नसूक्तस्थैर्मन्त्रैर्द्विद्विकसंख्यया ।
अन्तरावरणस्थैस्तु संस्नाप्य कलशैः क्रमात् ॥ ५८२ ॥
View Verse
अवशिष्टैस्त्रिभिश्चान्ते मध्यकुंभेन सेचयेत् ।
रजनीचूर्णसंपूर्णान् संस्थाप्य नवकुम्भकान् ॥ ५८३ ॥
View Verse
अर्घ्याद्यैरर्चयित्वा तु चक्ररश्मिसमप्रभान् ।
रजनीचूर्णनिचयान् ध्यात्वा तैरमिषेचयेत् ॥ ५८४ ॥
View Verse
सर्वविघ्ननिरासार्थं सर्वसंपूरणाय च ।
दक्षिणे तु भुजे विप्र इति प्राक्संस्थितेन च ॥ ५८५ ॥
View Verse
निचिकिद्वा सुषणमिति वह्निगतेन तु ।
प्रते विष्णो अब्ज चक्रे इति याम्यगतेन तु ॥ ५८६ ॥
View Verse
एभिर्वयमुरुक्रमस्येति यातुगतेन तु ।
धृतोर्ध्वपुण्ड्रः कृतचक्रेति पश्चिमाशागतेन तु ॥ ५८७ ॥
View Verse
पवित्रमित्यग्निरिति वायुगतेन तु ।
चरणं पवित्रं विततमिति सोमगतेन तु ॥ ५८८ ॥
View Verse
लोकस्य द्वारमर्चिमदिति रुद्रगतेन तु ।
मन्त्रैरेतैस्तु चाष्टाभिः अन्यैः सौदर्शनैस्तथा ॥ ५८९ ॥
View Verse
संस्नाप्य मध्यकुम्भेन शुद्धोदैरभिषिच्य च ।
महोपनिषदन्तस्थैः ब्रह्नसूक्तैः पुरोदितैः ॥ ५९० ॥
View Verse
मन्त्रैश्चतुर्भिः पुंसूक्तैः मन्त्रैः षोडशभिस्तथा ।
वासुदेवद्विषट्कार्णब्राह्नणद्वितयेन तु ॥ ५९१ ॥
View Verse
ओंकारादिपवित्रान्तैः चतुभिर्व्यापकैस्तथा ।
सहस्रधारया देवं स्नापयेद्विधिपूर्वकम् ॥ ५९२ ॥
View Verse
यद्वा द्विषट्कमन्त्रेण सर्वं स्नपनमाचरेत् ।
ततोऽन्यैः सकलैर्भोगैः प्राग्वदिष्ट्वा क्रमेण तु ॥ ५९३ ॥
View Verse
सर्वैः पुरोदितैर्मन्त्रैः द्विषट्कार्णेन वा द्विज ।
होमं कृत्वा विशेषेण समिद्भिस्त्रिमधुप्लुतैः ॥ ५९४ ॥
View Verse
ततो दमनकारोपमाचरेत्तु यथाविधि ।
अत्रानुक्तं तु सकलं पवित्रारोहवद्भेत् ॥ ५९५ ॥
View Verse
माघमासे पुनर्वस्वोश्चैत्रे वा द्वितयेपि वा ।
वैशाखे श्रवणे ऋक्षे रोहिण्यां श्रवणे तथा ॥ ५९६ ॥
View Verse
आर्द्रायां मार्गशीर्षाख्ये आषाढे हस्ततारके ।
कार्तिके मासि रोहिण्यामन्येष्वेवंविधेष्वपि ॥ ५९७ ॥
View Verse
अवतारदिनेष्वेवं कुर्यादेकाहमुत्सवम् ।
ग्रामे वा नगराद्ये वा सर्वेष्वावरणेषु वा ॥ ५९८ ॥
View Verse
शुभलीलासमायुक्तमाचरेत्तु परिभ्रमम् ।
पक्षे पक्षे च द्वादश्यां मासि मासि तथैव च ॥ ५९९ ॥
View Verse
अमावास्यां पौर्णमास्यां श्रवणे चोत्तरे दिने ।
अन्येष्वपि प्रशस्तेषु विभवेच्छानुरूपतः ॥ ६०० ॥
View Verse
यजमानादिजन्मर्क्षे चैत्रादि विषुवद्वये ।
अयनद्वितये चापि सूक्ष्मस्थूले विशेषतः ॥ ६०१ ॥
View Verse
तथा चाग्रयणाख्यं तु वत्सरे वत्सरे द्वयम् ।
आषाढे पूर्वफल्गुन्यां पुष्ये चैव विशेषतः ॥ ६०२ ॥
View Verse
माघमासे तु पञ्चम्यां सप्तम्यामथवा द्विज ।
विशेषयजनं कुर्याद्विभवेच्छानुरूपतः ॥ ६०३ ॥
View Verse
एकादश्यां मार्गशीर्षे पूर्वपक्षे विशेषतः ।
कुर्याद्विशेषयजनं त्त संश्रावयेद्विभुम् ॥ ६०४ ॥
View Verse
सदागमादिकान् सर्वान् वेदान् वै वेदघोषणम् ।
इतिहासपुराणं च तथा दैवं च मानुषम् ॥ ६०५ ॥
View Verse
वेदेपवृह्नणं त्वन्यत् संस्कृतं प्राकृतं तु वा ।
भाषान्तरगतं वापि यथाश्रद्धानुरूपतः ॥ ६०६ ॥
View Verse
एवं विशेषयजनं द्वादश्यां तु समाचरेत् ।
पायसान्नं गुलान्नं वा प्रभूतं विनिवेदयेत् ॥ ६०७ ॥
View Verse
समाप्ते भगवद्व्यागे पारणं तु समाचरेत् ।
एतत्तिथिद्वययुतमुत्तमं व्रतमीरितम् ॥ ६०८ ॥
View Verse
अतः परं स्याद्विस्तारो विभवेच्छानुरूपतः ।
तदादिपौर्णमास्यान्तं पञ्चम्यन्तं तु वा द्विज ॥ ६०९ ॥
View Verse
दशम्यमावास्यान्तं वा पञ्चमी दशमी तु वा ।
एवं त्रिंशद्दिनान्तं तु विभवानुगुणं भवेत् ॥ ६१० ॥
View Verse
वैशाखे च विशाखर्क्षे विशेषयजनं भवेत् ।
सहकारफलैः पव्कैः गुलक्षीरादिपाचितैः ॥ ६११ ॥
View Verse
कार्तिके मासि कार्तिक्यां विशेषार्चनमाचरेत् ।
घृततैलमहादीपैः प्रभूतैर्दर्शयेत् प्रबुम् ॥ ६१२ ॥
View Verse
शुभैरन्यैर्लाजपूर्वैः शुभैर्भक्ष्यादिभिः सह ।
फलपुप्पादिकैः पूतैः तत्तत्काले समर्चयेत् ॥ ६१३ ॥
View Verse
पौषे मासि च पुष्ये तु विशेषस्नपनान्वितम् ।
कार्तिके मासि विप्रेन्द्र शुक्लैकादशिका तु या ॥ ६१४ ॥
View Verse
तस्यामुपोष्य रात्र्यां तु जागरेण जगत्पतिम् ।
तत्कालोचितरागोत्थैः तोषयित्वा तु गीतकैः ॥ ६१५ ॥
View Verse
ब्राह्ने मुहूर्ते संप्राप्ते विशेषेण यजेद्विभुम् ।
संश्रावयेद्गीतकानि स्तोत्राणि विविधाः कथा ॥ ६१६ ॥
View Verse
होमावसानं सर्वं तु सविशेषं समाचरेत् ।
तत्काले ये च गायन्ति तच्च श्रृण्वन्ति ये जनाः ॥ ६१७ ॥
View Verse
तेषां पुण्यफलावाप्तिं कः शक्नोत्यभिवर्णितुम् ।
आचार्याः साधका वापि कुर्वीरन्नेवमुत्सवम् ॥ ६१८ ॥
View Verse
आचार्यास्तेषु सोष्णीषा भवेयुस्सोत्तरीयकाः ।
अकंचुकाः सदा विप्र साधकाः स्युः सकञ्चुकाः ॥ ६१९ ॥
View Verse

Chapter 18

श्रीः ।
अष्टादशोऽध्यायः ।
सनकः ।
नित्यनैमित्तिकाद्येषु यागेषु वदतां वर ।
मानं तु प्रापणादीनां श्रोतुमिच्छामि तद्वद ॥ १ ॥
View Verse
शाण्डिल्यः ।
नित्ये नैमित्तिके काम्ये प्रायश्चित्ते तथैव च ।
मानं नवविधं विप्र श्रृणु मुख्यानुकल्पयोः ॥ २ ॥
View Verse
क्रमात् प्रापणपूर्वाणां द्रव्याणामुत्तमादिकम् ।
अत्रैकमूर्तेरेकस्मिन् काले भारद्वयेन तु ॥ ३ ॥
View Verse
कल्पयेत् प्रापणं चैतदुत्तमोत्तमसंज्ञितम् ।
एकैकं द्रोणमानेन कृमाद्ध्रासं समाचरेत् ॥ ४ ॥
View Verse
अधमाधमसंज्ञं स्याद्यता द्रोणचतुष्टयम् ।
मुख्यकल्पमिमं विद्धि अनुकल्पं श्रणुष्व मे ॥ ५ ॥
View Verse
मुख्यमूर्तेस्त्वथैकस्मिन् यागे भारेण कल्पितम् ।
उत्तमोत्तमसंज्ञं तु प्रापणं द्विजसत्तम ॥ ६ ॥
View Verse
आढकद्वयहीनं तद्भवेदुत्तममध्यमम् ।
अधमाधमकं यावदेवं ह्वासं समाचरेत् ॥ ७ ॥
View Verse
यथा द्रोणद्वयं विप्र अधमाधमसंज्ञितम् ।
यद्वाढकद्वयं प्रोक्तमधमाधमसंज्ञितम् ॥ ८ ॥
View Verse
क्रमेण तस्मादारभ्य द्रोणार्धं वर्धयेद्द्विज ।
अथोत्तमोत्तमं विप्र सार्धद्रोणचतुष्टयम् ॥ ९ ॥
View Verse
कुर्यादाढकमात्रं तु प्रापणं संकटे सति ।
पुरुषाशनमात्रं वा भवेद् द्रव्यानुरूपतः ॥ १० ॥
View Verse
आढकद्वयमानेन तदर्धेनाथवा द्विज ।
पृथक्पात्रेषु निर्दिष्टं यावद्भारद्वयावधि ॥ ११ ॥
View Verse
नित्ये नैमित्तिके काम्यप्रायश्चित्ताख्ययोरपि ।
विधिरेष समानः स्यादत ऊर्ध्वं महाहविः ॥ १२ ॥
View Verse
दशैकभारमात्रं तु उतमोत्तमसंज्ञितम् ।
महोदनोऽनुकल्पे तु भारै क ह्रासमाचरेत् ॥ १३ ॥
View Verse
अधमाधमपर्यन्तमस्मिन् भारद्वयं यथा ।
यद्वा विंशतिभारं तु उत्तमोत्तमसंज्ञितम् ॥ १४ ॥
View Verse
भारद्वयद्वयह्रासं यथा स्यादधमाधमे ।
चतुर्भारप्रमाणं तु मुख्यकल्पे विधिं श्रृणु ॥ १५ ॥
View Verse
एकभारविहीनैस्तु त्रिंशद्भारैः प्रकल्पितम् ।
उत्तमोत्तमसंज्ञं तु भाराणां तु त्रयं त्रयम् ॥ १६ ॥
View Verse
ह्रासयेत्क्रमयोगेन यथा स्यादधमाधमे ।
पञ्चभारप्रमाणं तु एवं वा परिकल्पयेत् ॥ १७ ॥
View Verse
पञ्चाशद्भारमात्रं स्यात् उत्तमोत्तमसंज्ञितम् ।
पञ्चपञ्चपरित्यागादेवं नवविधं भवेत् ॥ १८ ॥
View Verse
दशभारप्रमाणं तु यथा स्यादधमाधमे ।
अस्मादूर्ध्वं तु गृह्नीयान्महोदनविधौ द्विज ॥ १९ ॥
View Verse
सहस्रभारपर्यन्तं विभवेच्छानुरूपतः ।
मात्रार्थं तण्डुलं श्रेष्ठमाढकत्रयकल्पितम् ॥ २० ॥
View Verse
अधमाधमपर्यन्तं प्रस्थं प्रस्थं तु ह्रासयेत् ।
मुख्यकल्पे भवेच्छ्रेष्ठं सार्धद्रोणविनिर्मितम् ॥ २१ ॥
View Verse
प्रस्थद्वयद्वयह्रासमाचरेत्तु यथाक्रमम् ।
अधमाधममानं स्याद्यथा द्रोणार्धकल्पितम् ॥ २२ ॥
View Verse
अधमाढकमानस्य हविषो मुख्यकल्पने ।
मात्रार्थं तण्डुलं प्रस्थं तदर्धमनुकल्पके ॥ २३ ॥
View Verse
हविर्नृद्धिकमेणैव मात्रावृद्धिं समाचरेत् ।
अधमस्यैककल्पे तु द्रोणार्धं परिकल्पयेत् ॥ २४ ॥
View Verse
मात्रार्थमनुकल्पे तु आढकं परिकल्पयेत् ।
तण्डुलाद्द्विगुणः शालिर्मात्रा स्यादुत्तमोत्तमा ॥ २५ ॥
View Verse
समाना मध्यमा प्रोक्ता तदर्धा कीर्तिताधमा ।
शालिवत्कल्पितव्या स्याद्वीजमात्रा त्रिधा स्थिता ॥ २६ ॥
View Verse
वीजानामप्यभावे तु मुद्गमेकं प्रशस्यते ।
वीजेष्वेकतमं वापि तत्तत्कालानुरूपतः ॥ २७ ॥
View Verse
तण्डुलेन समा मुख्या तिलमात्रा प्रकीर्तिता ।
तदर्धा मद्यमा प्रोक्ता पादमाना कनीयसी ॥ २८ ॥
View Verse
यथा विभवमानः स्याद्रिक्तवित्ताढ्यमानयोः ।
शालिमात्रा न कर्तव्या यागे स्नपनवर्जिते ॥ २९ ॥
View Verse
अन्या मात्राः प्रकल्प्याः स्युः सर्वस्मिन्नर्चनाविधौ ।
मुख्यमूर्त्युचितान्मानादधिकेन न कल्पयेत् ॥ ३० ॥
View Verse
प्रमाणेनाङ्गबिम्बानां सर्वं तु हविरादिकम् ।
तद्याप्यधिककालं तु हविराद्यं न कल्पयेत् ॥ ३१ ॥
View Verse
अन्नादाढकमानात्स्यात् पुरुषाशनमात्रकात् ।
प्रासादयजने ह्रासं न कदाचित् समाचरेत् ॥ ३२ ॥
View Verse
मात्रा तण्डुलमानं च शालिमानं तथैव च ।
न ह्रासयेन्मुनिश्रेष्ठ मानादाढकनिर्मितात् ॥ ३३ ॥
View Verse
स्वगृहे यजने कुर्याद्विभवेच्छानेरूपतः ।
आज्यादीनामथो मानं वक्ष्ये तदवधारय ॥ ३४ ॥
View Verse
अन्नस्याढकमानस्य घृतं तु कुडुबत्रयम् ।
उत्तमोत्तमसंज्ञं तु मुख्यकल्पक्रमेण तु ॥ ३५ ॥
View Verse
एकैकमुष्टिहान्या तु नवधैतत् प्रकीर्तितम् ।
अनुकल्पे घृतं विप्र सार्धं तु कुडुबं भवेत् ॥ ३६ ॥
View Verse
अर्धार्धमुष्टिहान्या तु तच्चापि नवधा स्मृतम् ।
द्विगुणं घृतमानं स्यात् मुद्गान्नपरिकल्पने ॥ ३७ ॥
View Verse
अन्नवृद्धिक्रमेणैव घृतवृद्धिं समाचरेत् ।
कर्मव्यान्युपदंशार्थं मूलानि च फलानि च ॥ ३८ ॥
View Verse
विंशत्पलानि प्रोक्तानि उत्तमोत्तमसंज्ञया ।
अन्नस्याढकमानस्य मुख्यकल्पक्रमेण तु ॥ ३९ ॥
View Verse
एकैकपलहान्या तु तदेतन्नवधा भवेत् ।
उत्तमं द्वादशपलमनुकल्पे क्रमेण तु ॥ ४० ॥
View Verse
एकैकपलहानिः स्यादधमाधमपश्चिमम् ।
मुद्गभेदोपदंशस्तु आढके घृतमानवत् ॥ ४१ ॥
View Verse
मुद्गान्ने मुद्गमानस्तु तण्डुलेन समो भवेत् ।
मुख्यः पादविहीनस्तु मध्यमः परिकीर्तितः ॥ ४२ ॥
View Verse
अर्धमानोऽधमः प्रोक्तस्तस्मान्न ह्रासमाचरेत् ।
नालिकेरफलं चैकमाढकस्य प्रकीर्तितम् ॥ ४३ ॥
View Verse
तदर्धं मध्यमं प्रोक्तं तदर्धमधमं भवेत् ।
लवणं च मरीचादि यथायोगं समाचरेत् ॥ ४४ ॥
View Verse
तण्डुलादष्टगुणितं पयः स्यात् पायसोदने ।
मध्यमं पादहीनं स्यादधमं स्यात्तदर्धकम् ॥ ४५ ॥
View Verse
क्षीराभावे नालिकेरपयसा परिकल्पयेत् ।
उभयोः पयसोर्वापि मिश्रणं सममानयोः ॥ ४६ ॥
View Verse
गुडाब्रस्याढकस्याथ गुलानां त्रिंशतं पलम् ।
उत्तमं विंशतिश्चैव मध्यमे दशमं भवेत् ॥ ४७ ॥
View Verse
तण्डुलादर्धमानो वा मुद्गभेदस्तदर्धकः ।
अथवा सममानो वा पायसान्नगुऌआन्नयोः ॥ ४८ ॥
View Verse
एकं चापूपमानं स्यात् कुडुबद्वयकल्पितम् ।
मुख्यं तदर्धं मध्यं स्यात्तदर्धमधमं भवेत् ॥ ४९ ॥
View Verse
मुद्गभेदस्तण्डुलार्धस्तत्पादो वा यथारुचि ।
एकस्यापूपमानस्य षट्पलं तु गुऌअं भवेत् ॥ ५० ॥
View Verse
अथवैकपलं वापि संकटे परिकल्पयेत् ।
नाऌइकेरपलं चैकं तदर्धं पादमेव वा ॥ ५१ ॥
View Verse
एकस्यापूपमानस्य यथापाकं घृतं भवेत् ।
लवनं च मरीचाद्यं यथायोगं तु पूर्ववत् ॥ ५२ ॥
View Verse
शतत्रयं षष्ट्यधिकमपूपानां तदुत्तमम् ।
चत्वारिंशत्क्रमाद्ध्रासे चत्वारिंशत्तथान्तिमे ॥ ५३ ॥
View Verse
पूगीफलानि ताम्बूलीदलाश्चाशीतिसङ्ख्यया ।
एवं प्रकल्पितं ब्रह्नन्नेकं ताम्बूलमुच्यते ॥ ५४ ॥
View Verse
तस्मान्न्यूनं न कर्तव्यं प्रासादेषु कदाचन ।
मुख्यकल्पे द्विसाहस्रं क्रमुकीफलमुच्यते ॥ ५५ ॥
View Verse
तस्माद्द्विगुणमानं तु ताम्बूलीदलमीरितम् ।
उत्तमोत्तममेतत्तु अशीतिर्द्विचतुःक्रमात् ॥ ५६ ॥
View Verse
ह्रासयेदुभयं विप्र यथा स्यादधमाधमे ।
शतानि सप्त विंशच्च फलानि स्युर्दलानि च ॥ ५७ ॥
View Verse
चतुर्ददशशतानि स्युश्चत्वारिंशच्च सत्तम ।
एकस्य ताम्बूलकस्य अह्गानां मानमुच्यते ॥ ५८ ॥
View Verse
एलालवङ्गलक्कोलजातीनां निष्कपादकम् ।
मानं स्याच्चन्दनस्यापि चूर्णस्यापि तथैव च ॥ ५९ ॥
View Verse
कर्पूरमष्टमानं तु नाऌइकेरफलार्धकम् ।
मातुऌअङ्गफलार्धं च तैलमुष्ट्यष्टमांशकम् ॥ ६० ॥
View Verse
एवमेव क्रमेणैव ह्यङ्गानां वृद्धिमाचरेत् ।
उत्तमोत्तमपूजायां चन्दनं द्विपलं भवेत् ॥ ६१ ॥
View Verse
सपादं मुख्यकल्पे तु द्विद्विनिष्कविहीनकम् ।
अधमाधमकं याव दनुकल्पे श्रृणुष्व मे ॥ ६२ ॥
View Verse
पलमेकं सनिष्कं स्यान्निष्कैकं ह्रासयेत् क्रमात् ।
चन्दनं निष्कमानं तु यथा स्यादधमाधमे ॥ ६३ ॥
View Verse
स्नपने चन्दनं मानं मुख्यकल्पेऽवधारय ।
अष्टादशपलं मानमुत्तमोत्तमसंज्ञितम् ॥ ६४ ॥
View Verse
पलद्वयद्वयह्रासो यावत् स्यादधमाधमम् ।
अनुकल्पे नव पलं स्नपने चन्दनं भवेत् ॥ ६५ ॥
View Verse
होमे चन्दनमानं तु पूजोक्तादर्धकं भवेत् ।
तदर्धं वा यथायोगं बाह्लिके मानमुच्यते ॥ ६६ ॥
View Verse
पूजाचन्दनवन्मानं मुख्यकल्पानुकल्पयोः ।
तथा कर्पूरमानं तु तदर्धं वा द्विजोत्तम ॥ ६७ ॥
View Verse
आढकं हैममुदकं कुडुबद्वयसंयुतम् ।
कुडुबद्वयद्वयह्रासमाचरेदन्तिमावधि ॥ ६८ ॥
View Verse
मुख्यकल्पमिमं विद्धि ह्यनुकल्पे तदर्धकम् ।
कृष्णाङ्गरागं मुख्ये तु सार्धनिष्कचतुष्टयम् ॥ ६९ ॥
View Verse
निष्कार्धक्रमह्रासेन नवधा परिकीर्तितितम् ।
अनुकल्पे तदर्धेन नवधा मानमीरितम् ॥ ७० ॥
View Verse
कृष्णाङ्गरागवन्मानं भवेन्मृगमदस्य च ।
कस्तूरिकायास्च तथा मानं नवविधं भवेत् ॥ ७१ ॥
View Verse
द्रव्याणां स्नपनोक्तानां निष्काष्टादशकं तु वा ।
नवकं वोत्तमोत्कृष्टं यथा स्यादधमाधमम् ॥ ७२ ॥
View Verse
निष्कद्वयं तथैकं वा भवेत्तत्कल्पयेत्तथा ।
एवं विज्ञाय मानाद्यं संस्कृत्य हविरादिकम् ॥ ७३ ॥
View Verse
आराधयेद्देशिकेन्द्रो यथा शास्त्रोदितक्रमात् ।
आचार्यः साधको वाऽन्नं पाचयेत्पाचकैः सदा ॥ ७४ ॥
View Verse
स्वयं वा ।पि यथायोगं मन्त्रज्ञानामसन्निधौ ।
तेषामाचार्यपूर्वाणां सङ्ख्यानियम उच्यते ॥ ७५ ॥
View Verse
श्रीरङ्गाख्यविमानादौ स्वयं व्यक्ते महामते ।
प्रासादे च तथा सिद्धैः विबुधैश्च प्रतिष्ठिते ॥ ७६ ॥
View Verse
आचार्यान् शास्त्रविहितांश्चतुरः परिकल्पयेत् ।
अष्टौ द्वादश षड्वाथ कल्प्याः स्युः पञ्च वा मुने ॥ ७७ ॥
View Verse
प्रधानगुरुणा सार्धं कल्प्या ह्येकोत्तरास्तु वा ।
यथा विहितसङ्ख्या वा सह तेन महामुने ॥ ७८ ॥
View Verse
एवमेव भवेत् सङ्ख्या ऋषिभिः परिकल्पिते ।
मनुष्यनिर्मिते स्थानेऽप्येवभेव समाचरेत् ॥ ७९ ॥
View Verse
आचार्याणां यथोक्तानां योग्यानामप्यसन्निधौ ।
आचार्यास्तु त्रयः कल्प्याः द्वावेको वा महामते ॥ ८० ॥
View Verse
मूलबिम्बादि पूजार्थमाचार्या मुख्यकल्पके ।
कल्प्याः साधकमिश्रा वा मध्यकल्पेऽनुकल्पके ॥ ८१ ॥
View Verse
केवलाः साधकाः कल्प्या यथा विहितसङ्ख्यया ।
चत्वारः साधकाः कल्प्याः षडष्टौ द्वादशाथवा ॥ ८२ ॥
View Verse
षोडशाथापि विभवे नान्यथा परिकल्पयेत् ।
स्वयंव्यक्तादिकेष्वेवं कल्प्याः पञ्चविधेष्वपि ॥ ८३ ॥
View Verse
स्थानेषु मानुषेष्वद्य विशेषः परिकीर्त्यते ।
व्यामिश्रयाजिभिर्वर्णैः स्थाने तु परिकल्प्यते ॥ ८४ ॥
View Verse
एवं विहितसङ्क्याः स्युराचार्याः साधकास्तथा ।
मुख्यकल्पेऽनुकल्पे तु केवलाराधकान् दश ॥ ८५ ॥
View Verse
यथोक्तसङ्ख्यैराचार्यैः सहितान् परिकल्पयेत् ।
मूलबिम्बस्य पूजार्थं तदेवंसङ्ख्यकास्तुते ॥ ८६ ॥
View Verse
कल्पने पञ्चसङ्ख्यायास्तथा पञ्चदश स्मृताः ।
तेषां तु देशिकेन्द्राणामेकद्वित्रित्वकल्पने ॥ ८७ ॥
View Verse
एकादश द्वादश च त्रयोदश च ते क्रमात् ।
तस्मादाराधकानां तु दशसङ्ख्यां तु केवलाम् ॥ ८८ ॥
View Verse
न कल्पयेत्तु सर्वत्र तस्माच्छास्त्रोक्तमाचरेत् ।
मानुष्याद्व्यतिरिक्तेषु स्वयं व्यक्तादिषु द्विज ॥ ८९ ॥
View Verse
यथा विहितसङ्ख्याः स्युराचार्यास्साधकास्तथा ।
नित्ये नैमित्तिके काम्ये प्रायश्चित्तेऽपि सर्वदा ॥ ९० ॥
View Verse
दशसङ्ख्या न कल्प्या स्यात् उक्तन्यायेन कल्पयेत् ।
मूलबिम्बादिपूजार्थं तथा बाह्यस्थमूर्तिषु ॥ ९१ ॥
View Verse
कृते सति महान् दोषस्तदा स्याद्राजराष्ट्रयोः ।
महद्भयं स्यात् स्थानस्य कर्तुः कारयितुस्तथा ॥ ९२ ॥
View Verse
तस्मादुक्तेन मार्गेण तत्तत्सङ्ख्याः प्रकल्पयेत् ।
परिवारेषु यागः स्याच्चतुर्भिर्वा षडष्टभिः ॥ ९३ ॥
View Verse
द्वादशभिः षोडशभिः साधकैः परिकल्पितैः ।
गोपुरे मण्डपे साले प्राङ्कणे मालिकादिके ॥ ९४ ॥
View Verse
स्थापितं वैभवं मूर्तं प्रादुर्भावं तु वा द्विज ।
प्रादुर्भावान्तरं मुक्यं यद्यन्मूर्तं प्रतिष्ठितम् ॥ ९५ ॥
View Verse
तत्तद्यागेऽथ चत्वारः षडष्टौ द्वादशाथ वा ।
सङ्कल्प्याः साधका विप्र कल्प्याः षोडश वा द्विज ॥ ९६ ॥
View Verse
त एव परिवारार्थं कल्पनीयास्तु वा द्विज ।
गोपुरादौ स्थापितेषु बिम्बेष्वपि सदार्चने ॥ ९७ ॥
View Verse
देशिका एव संकल्प्याः तद्योग्यानामसन्निधौ ।
परिवारपदे योग्या अनन्या ब्राह्नणा द्विज ॥ ९८ ॥
View Verse
दीक्षिता ब्राह्नणा वापि कर्मज्ञाः कर्मकौशलाः ।
श्रीरङ्गादौ स्वयं व्यक्ते स्थाने तु परिचारकाः ॥ ९९ ॥
View Verse
अशीतिसङ्ख्यासङ्ख्याताः पाचकाश्च त एव हि ।
सिद्धप्रतिष्टिते स्थाने सप्तत्येव तु ते स्मृताः ॥ १०० ॥
View Verse
देवप्रतिष्ठिते षष्टिर्द्वाविंशदृषिकल्पिते ।
मनुष्यनिर्मिते स्याने त्रिंशद्विंशत्तथापि वा ॥ १०१ ॥
View Verse
अथबा भारमात्रान्नपचनादिषु कर्मसु ।
एकायना दीक्षिता वा चत्वारो वा त्रयोऽपि वा ॥ १०२ ॥
View Verse
एवं भारानुसारेण क्रमेण परिवर्धयेत् ।
यथा स्यादृतुभारेषु द्वादशाष्टादश द्विज ॥ १०३ ॥
View Verse
एकस्तु कल्पनीयः स्यात्ताम्वूलापूपसाधने ।
एकस्तु कल्पनीयोऽन्तः परिचारककर्मणि ॥ १०४ ॥
View Verse
चत्वारिंशत्समाख्याताः तदेवं परिचारकाः ।
पक्षभारोदनानां तु साधने तु चतुर्गुणाः ॥ १०५ ॥
View Verse
अपूपसाधने द्वौ तु द्वौ तु ताम्बूल साधने ।
चत्वारस्तु तथात्वन्तः परिचारककर्मणि ॥ १०६ ॥
View Verse
एवं त्वशीतिसङ्ख्याः स्युः पक्षभारान्नसाधने ।
वर्धयेदत ऊर्ध्वं च तत्तद्भारानुसारतः ॥ १०७ ॥
View Verse
ह्रासस्तदनुसारेण कर्तव्योऽभ्यूह्य सर्वदा ।
एवं स्याद्भारमात्रे तु त्रयाणां परिकल्पने ॥ १०८ ॥
View Verse
चतुर्णां कल्पने वाऽपि तत्क्रमेण विवर्धयेत् ।
साधकाः पाचकाश्चैव ह्याचार्यवशवर्तिनः ॥ १०९ ॥
View Verse
आचार्यसाधकानां च आज्ञासन्धारणोद्यताः ।
सर्वदा पाचकाः सर्वे भवेयुः परिचारकाः ॥ ११० ॥
View Verse
पाचका एव शास्त्रेषु कीर्त्यन्ते परिचारकाः ।
अन्तरङ्गा बहिरङ्गा द्विविधाः परिचारकाः ॥ १११ ॥
View Verse
अन्तरङ्गास्तु संप्रोक्ताः पाचकाः परिचारकाः ।
बहिरङ्गास्तु संप्रोक्ताः पुष्पाद्याहरणोद्यताः ॥ ११२ ॥
View Verse
अन्येऽपि ये निबद्धाः स्युस्तत्तत्कर्मानुरूपतः ।
तेऽपि सर्वे यथायोगमाचार्यवशवर्तिनः ॥ ११३ ॥
View Verse
वाहका गायकाश्चैव पाचकोक्तक्रमेण तु ।
वर्धनीया यथायोगमन्ये स्युः कर्मकारिणः ॥ ११४ ॥
View Verse
आचार्याश्चैव चत्वारः तथा षोडश साधकाः ।
अशीतिसङ्ख्यासङ्ख्याताः पाचकाः परिचारकाः ॥ ११५ ॥
View Verse
एवमेकायनानां तु चतुः सङ्ख्याप्रकल्पनम् ।
मुख्यकल्पमिमं विद्धि तदभावे महामते ॥ ११६ ॥
View Verse
तेषां दीक्षितमिश्राणां कल्पनं मध्यकल्पनम् ।
अधमं कल्पनं विद्धि सह्ख्यास्वन्यास्वपि द्विज ॥ ११७ ॥
View Verse
मुख्यादिप्रविबागत्वमेवमभ्यूह्य कल्पयेत् ।
पुत्रदीक्षाभिषेकेण संस्कृतांस्तत्र कल्पयेत् ॥ ११८ ॥
View Verse
समये दीक्षाभिषेके संस्कृतान् वा न चान्यथा ।
आचार्यैः साधकाश्चैव केवलास्त्वथवा द्विज ॥ ११९ ॥
View Verse
बहिरङ्गेषु सर्वेषु कल्प्याः समयदीक्षिताः ।
यया कया च विधया दीक्षिताऽहीक्षितास्तु वा ॥ १२० ॥
View Verse
भूयः कश्चिद्विशेषोऽयं कथ्यते तमिमं श्रृणु ।
सनकः ।
मुनीम्द्र प्रापणादीनां सङ्ख्यामानमुदाहृतम् ॥ १२१ ॥
View Verse
इदानीं सविशेषेण चैतेषां मानलक्षणम् ।
शालिमुद्गादिभेदं च साधनं मन्त्रपूर्वकम् ॥ १२२ ॥
View Verse
निवेदनप्रकारं च कारिणां संप्रदानकम् ।
यथावत् सर्वमेवैतत् पृच्छतो मे प्रकाशय ॥ १२३ ॥
View Verse
शाण्डिल्यः ।
श्रृणु सम्यक् प्रवक्ष्यामि यथा पृष्टं त्वया मुने ।
येन संसाधितेनैव संपूर्णं पूजनं भवेत् ॥ १२४ ॥
View Verse
नित्यं नैमित्तिकं काम्यं त्रिविधं हविरुच्यते ।
प्रथमं नित्ययागे तु हविषो लक्षणं श्रृणु ॥ १२५ ॥
View Verse
स्वहस्तेनाष्टतालोच्चो यः स मध्यमपूरुषः ।
तस्य देशिकमुख्यस्य मध्यमाङ्गुलिसंभवः ॥ १२६ ॥
View Verse
द्विपर्वस्राविणी बिन्दुः द्वात्रिंशद्बिन्दुभिस्त्रुटिः ।
त्रुटिद्वयं तथा शुक्तिस्तद्द्वयं प्रसृतं भवेत् ॥ १२७ ॥
View Verse
प्रसृताभ्यां प्रकुंजं तु तद्द्वयं कुडुबं भवेत् ।
मानिका कुडुबाब्यां तु प्रस्थं तन्मानिकाद्वयम् ॥ १२८ ॥
View Verse
्परस्थद्वयं शमं प्रोक्तं तद्द्वयं चाढकं भवेत् ।
शिवमाढकयुग्मं तु द्रोणं तद्द्विगुणं भेवत् ॥ १२९ ॥
View Verse
द्रोणद्वयं तु रवारी स्यात् तत्त्रयं भारमुच्यते ।
शालितण्डुलमुद्गादि दधिक्षीरादिकान्यपि ॥ १३० ॥
View Verse
प्रोक्तेनानेन मीयन्ते हविष्पाकादिकर्मसु ।
चत्वारो व्रीहयः कुंजः तेऽष्टौ माञ्जिष्ठमुच्यते ॥ १३१ ॥
View Verse
तत्छतं षष्टिरधिकं निष्कं निष्काष्टकं पलम् ।
चन्दनादीनि गन्धानि गुऌअखण्डयुतानि च ॥ १३२ ॥
View Verse
कदऌईपनसाम्राणि कूष्माण्डप्रमुखानि च ।
तुलया तुलितानि स्युः यथोक्तपलमानतः ॥ १३३ ॥
View Verse
ज्ञात्वैवं नियतं मानं हविषां साधनाय च ।
शालिमुद्गयवा माषा गोधूमाश्च प्रिङ्गयवः ॥ १३४ ॥
View Verse
तिलाः सप्त इमे ग्राह्ना ग्राम्या वै चरुकर्मणि ।
वेणुश्यामाकनीवारा जर्त्तिलाश्च गवीधुकाः ॥ १३५ ॥
View Verse
मर्कटाः कनकाः सप्त विज्ञेयास्तु वनोद्भवाः ।
शालयस्तेषु मुख्याः स्युस्तदन्यास्तदभावतः ॥ १३६ ॥
View Verse
रक्तशाल्यो महाशाल्यः कऌअमा गन्धशालयः ।
श्वेतशाल्यः सशूकाश्च हेमाभा गर्भशालयः ॥ १३७ ॥
View Verse
सुकुमाराश्च सूक्ष्माश्च दशैताः शालयः स्मृताः ।
अन्तर्भेदाश्च बहवः सप्तमुद्गा उदाहृताः ॥ १३८ ॥
View Verse
मुद्नाः कृष्णाश्च हेमाश्च श्वेताः पीता महत्तराः ।
अञ्जनाभाश्च सप्तैते अन्तर्भेदा उदाहृताः ॥ १३९ ॥
View Verse
श्वेताः कृष्णाश्च पीताश्च वन्याश्चैव महातिलाः ।
तिलानां पञ्चभेदास्तु ग्राह्याः स्युः परिकीर्तिताः ॥ १४० ॥
View Verse
उपाहृतानि केदाराद् दैवीयाच्च कृषीवलैः ।
शालिमुद्गादिभेदानि कर्मण्यान्यर्चने विभोः ॥ १४१ ॥
View Verse
अवपन्नादिभिर्दोषैरष्टभिर्वर्जितानि च ।
आनयेदवघातार्थं अवघातगृहे पुरा ॥ १४२ ॥
View Verse
गोमयेन समालिप्ते सुधाद्यैः परिमण्डिते ।
शोधिते शतधारेण पवित्रेण कुशाम्बुभिः ॥ १४३ ॥
View Verse
स्थले प्रणवमुच्चार्य प्राङ्मुखैर्वाऽप्षुदङ्मुखैः ।
दीक्षितैर्नियतैर्विप्रैर्धृतचक्रादिलक्षणैः ॥ १४४ ॥
View Verse
सुस्नातैर्लोहदार्वश्ममृण्मयानि समन्ततः ।
स्थापयित्वोलूखलानि क्षाऌइतैः खादिरैर्दृढैः ॥ १४५ ॥
View Verse
मुसलैरवहन्युस्ते द्वादशाक्षरविद्यया ।
निस्तुषान्निष्कणान् कृत्वा तण्डुलान् सूर्पकोटरैः ॥ १४६ ॥
View Verse
तैस्तावदवहन्तव्या यावन्मुक्ताफलप्रभाः ।
अखण्डिताश्चानणवः कृष्णबिन्दुविवर्जिताः ॥ १४७ ॥
View Verse
मुद्गभेदास्तथा कार्याः सारवन्तश्च निस्तुषाः ।
साध्वीभिब्राह्नणीभिर्वा दीक्षितानामभावतः ॥ १४८ ॥
View Verse
शूद्रैर्वा दीक्षितैर्देवदासीभिर्देवसझनि ।
हविःपाकादिकर्मार्थं कार्याऽवहननक्रिया ॥ १४९ ॥
View Verse
वैष्णवानां गृहे शुद्धे दीक्षितानां गृहेऽपि वा ।
तण्डुलांस्तु प्रगृह्णीयाद्विधिक्षुण्णांस्तु देशिकः ॥ १५० ॥
View Verse
अकणानतुषानेव क्रिमिहीनानपि क्रमात् ।
केशपाषाणहीनांस्तु प्राण्यङ्गरहितांस्तथा ॥ १५१ ॥
View Verse
भस्माङ्गारविहीनांस्तु अभग्नानलघूनपि ।
कणैस्तु भवति व्याधिस्तुषैर्दारिद्य्रकं भवेत् ॥ १५२ ॥
View Verse
कृमिभिः पुत्रनाशः स्यात् केशैर्दारविनाशनम् ।
पाषाणैर्मरणं विद्धि अशन्या वह्निना जलैः ॥ १५३ ॥
View Verse
प्राण्यङ्गैर्व्याधयः प्रोक्ता भस्मना कलहो ध्रुवः ।
अङ्गारैर्वह्निना बाथो भग्ने भङ्गस्तु विग्रहे ॥ १५४ ॥
View Verse
प्रवासो लघुबिश्चैव तस्स्मात्तान् परिवर्जयेत् ।
संभारानखिलानेव प्राक्संकल्पितसंमतान् ॥ १५५ ॥
View Verse
संभृत्य देशिकास्सार्धं साधकैःपाचकैरपि ।
अवघातगृहं प्राप्य तत्रस्थं तण्डुलादिकम् ॥ १५६ ॥
View Verse
ब्रह्नशुक्रमिवेत्युक्त्वा नेत्रेणेवावलोकयेत् ।
प्राग्वत् संशोधयेत्तानि दहनाप्यायनादिभिः ॥ १५७ ॥
View Verse
पैद लादिषु शुद्धेषु पात्रेषु विततेष्वपि ।
पचनार्थं सुमुद्धृत्यं तत् सर्वं तण्डुलादिकम् ॥ १५८ ॥
View Verse
तत्तत्पात्रसमुद्धारे निपुणैः परिचारकैः ।
सुस्नातैश्च सुवेषैश्च वस्त्रेणाच्छादिताननैः ॥ १५९ ॥
View Verse
आनयेत् पचनागारं शङ्खतूर्यादिमङ्गऌऐः ।
द्वारस्योत्तरपार्श्वे तु गोमयेनोपलेपिते ॥ १६० ॥
View Verse
प्रदेशे निक्षिपेत्तानि भाजनानि यथाक्रमम् ।
गुऌओपदंशपूर्वाणि लवणादिरसानि च ॥ १६१ ॥
View Verse
विन्यसेद्वायुदिग्भागे दधिक्षीरघृतानि च ।
र्निदद्यान्नैरृते भागे होमोपकरणान्यपि ॥ १६२ ॥
View Verse
चतुर्भिर्व्यापकैर्मन्त्रैः वस्त्रपूतेन वारिणा ।
क्षाऌअयित्वा चतुर्धा च यथा स्यात्तण्डुलादिषु ॥ १६३ ॥
View Verse
शिलाशकलनिर्मुक्तं निस्तुषं निष्कणं यथा ।
अपक्वव्रीह्यवहततण्डुलेनैव साधितम् ॥ १६४ ॥
View Verse
गव्यदुग्धाज्यसंपृक्तं गुऌअखण्डपलान्वितम् ।
अक्षारलवणोपेतं देवानां हविरुच्यते ॥ १६५ ॥
View Verse
तदेव परमान्नं स्यात् क्षीराज्यगुडपाचितम् ।
घृतसिक्तं तु शुद्धान्नमभावे हविरुच्यते ॥ १६६ ॥
View Verse
अक्षारलवणं सिद्धं गुऌअक्षीरफलान्वितम् ।
शान्तिके व्रतयज्ञे च संसाध्यं हविरुत्तमम् ॥ १६७ ॥
View Verse
पायसान्नं गुऌआन्नं च मुद्गान्नं केवलोदनम् ।
दध्यन्नं च तिलान्नं च निशान्नं सर्वमिश्रितम् ॥ १६८ ॥
View Verse
इत्यष्टधा समुद्दिष्टं हविर्देवस्य संमतम् ।
सर्वमाज्येन संसिच्य सोपदंशं निवेदयेत् ॥ १६९ ॥
View Verse
तेषां संसाधनार्थं तु लोहजा वाऽथ मृण्मयाः ।
स्थालयः सशरावाश्च कल्पनीयाः पुरैव तु ॥ १७० ॥
View Verse
देशिकेन्द्रकराह्गुष्ठजठरोत्थाङ्गुलेन तु ।
षोडशाङ्गुलकोन्मानाः स्थाल्यः स्युः पाककर्मणि ॥ १७१ ॥
View Verse
उच्छ्रायादुदरं तत्र द्वादशाह्गलसंमितम् ।
जठरे मूलविस्तारः कलया तुलितो भवेत् ॥ १७२ ॥
View Verse
अङ्गुलान्तरितं कार्यं कण्ठे सूत्रचतुष्टयम् ।
एवं लक्षणयुक्तायाः विस्तारोच्छ्रायमानयोः ॥ १७३ ॥
View Verse
अर्धाधिकं वा द्विगुणं मध्यमोत्तमवाञ्छया ।
एवमाकृतिरुद्दिष्टा स्थालीनां पाककर्मणि ॥ १७४ ॥
View Verse
शरावाणामथान्येषां लक्षणं श्रृणु सत्तम ।
अष्टाङ्गुलायतं सूत्रं भूमौ प्राप्य परिब्रमेत् ॥ १७५ ॥
View Verse
मध्यतो जठरं तस्य षोडशाङ्गलविस्तृतम् ।
अष्टाङ्गुलान्तमुच्छ्रायमर्धचन्द्रसमाकृति ॥ १७६ ॥
View Verse
कण्ठोच्चं त्र्यङ्गलं चोर्ध्वं वलयं द्व्यङ्गलं भवेत् ।
दशाङ्गुलं चास्यतारं वलयेन समन्वितम् ॥ १७७ ॥
View Verse
कण्ठोच्चादुदरोच्चान्तं ऋजुसूत्रद्वयेन तु ।
गुऌअसिद्धं च कुर्वीत प्राग्वत् सूत्रचतुष्टयम् ॥ १७८ ॥
View Verse
हविः सङ्ख्यानुगुण्येन बह्वयः स्थाल्यस्तथेतराः ।
तथोपदंशपात्राणां सर्वेषामास्यविस्तृतेः ॥ १७९ ॥
View Verse
अधिकान्यपिधानानि तत्तद्द्रव्यमयानि च ।
सुवृत्तानि पिधेयानि पादचन्द्राकृतीनि च ॥ १८० ॥
View Verse
तथा पाकोपयोग्यानि पात्राण्यन्यानि सत्तम ।
प्राग्वन्मद्याद्यपेक्षायां समभ्यूह्य प्रकल्पयेत् ॥ १८१ ॥
View Verse
घृततप्तोपदंशार्थमम्बरीषमथायसम् ।
जलद्रोण्यः कटाहाश्च बहवः क्षीरपाचने ॥ १८२ ॥
View Verse
घृतपाके तथापूपसाधने पात्रसञ्चयम् ।
अन्यानि च समुत्पाद्य द्रर्व्यादीनि विधानतः ॥ १८३ ॥
View Verse
प्रारभेत हविःपाकं वक्ष्यमाणेन वर्त्मना ।
आहृत्योदनपाकाग्निं कुण्डादौपासनानलात् ॥ १८४ ॥
View Verse
चुल्यां निधाय तारेण सप्ततेग्न इतीरयन् ।
इन्धनानि विनिक्षिप्य यज्ञदारुमयानि च ॥ १८५ ॥
View Verse
क्रिमिकीटादिहीनानि ज्योतिरात्री तिमन्त्रतः ।
प्रज्वाल्य व्यजनेनैव ततः स्थालीश्च ताम्रजाः ॥ १८६ ॥
View Verse
प्रक्षाल्य तिन्त्रिणीतोयैः केवलैर्मृण्मयांस्ततः ।
प्रक्षाल्य द्वादशार्णेन वीर्यमन्त्रेण मन्त्रवित् ॥ १८७ ॥
View Verse
घृतेनालेपयेत्तासामन्तरं व्यूहविद्यया ।
तण्डुलान् प्रक्षिपेत्तासु गायत्र्या विष्णुपूर्वया ॥ १८८ ॥
View Verse
अंभस्यपार इति चमन्त्रेण स हृदा पुनः ।
जलेनापूरयेदूर्ध्वे तण्डुलान् प्रतिपात्रगान् ॥ १८९ ॥
View Verse
तण्डुलाढकमानस्य षटप्रस्थमुदकं भवेत् ।
कर्मारंभेण ताःस्थालीश्चुल्यामारोपयेत्ततः ॥ १९० ॥
View Verse
चक्रमन्त्रेणापिधानीस्ताः संछाद्य यथाक्रमम् ।
पाककाले समुद्धाट्य वीर्यमन्त्रेण तुद्ध्वनिम् ॥ १९१ ॥
View Verse
निरीक्ष्य नेत्तमन्त्रेण दर्व्या मूलं समुद्धरन् ।
चतुर्धा वर्तयेच्चैव चक्रेणाच्छादयेत् पुनः ॥ १९२ ॥
View Verse
पव्के जलमविस्राव्य द्वादशार्णं समुच्चरन् ।
विद्रावितेन गव्येन हविषा चाभिघार्य च ॥ १९३ ॥
View Verse
शुचीन् सत्क्रियतेत्यादि मन्त्रेणाधारपृष्ठतः ।
शोधिते भूतले वाथ व्रीहिभिर्वा प्रसारिते ॥ १९४ ॥
View Verse
एवं हवींषि सिद्धानि पाणिभ्यामवरोप्य च ।
अस्त्राभिमन्त्रितेनैव बहिः प्रक्षाल्य वारिणा ॥ १९५ ॥
View Verse
तन्मन्त्रेतेन शुद्धेन वस्त्रेणोद्वर्तयेत्ततः ।
भस्मना मथितेनाद्भिर्वासुदेवादिवाचकैः ॥ १९६ ॥
View Verse
तर्जन्याद्यङ्गुलीभिश्च कुर्याद्दिक्षूर्ध्वपुण्ट्रकम् ।
समाच्छाद्य पिधानैश्च वसनैः क्षाऌइतैस्ततः ॥ १९७ ॥
View Verse
इत्युक्तं साधनं सम्यक् शुद्धान्नस्य विशेषतः ।
अन्येषां साधनं वक्ष्ये परमान्नपुरस्सरम् ॥ १९८ ॥
View Verse
तण्डुलस्य तु तुर्यांशं पायसे मुद्गसारकम् ।
तन्मानं घृतमुद्दिष्टं प्रागेव कथितं पयः ॥ १९९ ॥
View Verse
चतुर्गुणं तण्डुलाच्च खण्डचूर्णसमन्वितम् ।
साधयेदुक्तमार्गेण समन्त्रं केवलोदने ॥ २०० ॥
View Verse
हंसः सुछिष दित्यत्र गोक्षीरस्य नियोजनम् ।
तदभावे नियोक्तव्यं नाऌइकेरोद्भवं पयः ॥ २०१ ॥
View Verse
अब्जागोजे ति तत्क्षेपः स्याद्गव्यप्रतियोजने ।
गुडान्नपाचने क्षीरमपहायैक्षवं रसम् ॥ २०२ ॥
View Verse
कथितं गुडखण्डं वा क्षीरमानानुसारतः ।
क्षीरप्रक्षेपमन्त्रेण गुडादीनि नियोजयेत् ॥ २०३ ॥
View Verse
मुद्गान्ने तण्डुलं सम्यक् मुद्गसारं नियोजयेत् ।
शुद्धान्ने तु पुरा प्रोक्तं विशेषेण घृताप्लुतम् ॥ २०४ ॥
View Verse
दध्योदने दधिक्षेपः क्षीरार्धपरिसंमितः ।
कदऌईपनसाम्रादिगुडखण्डसमन्वितम् ॥ २०५ ॥
View Verse
खण्डचूर्णसमोपेतं कृसरान्ने तु मुद्गकम् ।
आढकस्य हरिद्रान्ने निशापिष्टं पलं भवेत् ॥ २०६ ॥
View Verse
मुद्गसारसमोपेतं गुडखण्डादिसंयुतम् ।
मिश्रान्ने योजयेत् किंचित् क्षीराज्यघृतसंप्लुतम् ॥ २०७ ॥
View Verse
शान्त्यर्थं पयसा मिश्रं पुष्ठ्यर्थे गुडमिश्रितम् ।
वश्यार्थे मुद्गसारोत्थमाकृष्टौ दधिमिश्रितम् ॥ २०८ ॥
View Verse
कृसरान्नं तु पित्र्यर्थे मारणोच्चाटनेऽपि च ।
स्तंभने च हरिद्रान्नं मिश्रान्नं मोहने भवेत् ॥ २०९ ॥
View Verse
साधारणं तु शुद्धान्नं यात्रासु मृगयादिके ।
विशेषेण तु दध्यन्नं हेमराजतपात्रगम् ॥ २१० ॥
View Verse
मरीचिशुण्ठीलिकुचतिन्त्रिणीरसमिश्रितम् ।
चूर्णेन जीरकोत्थेन संस्कुर्याद्रसवस्तुभिः ॥ २११ ॥
View Verse
रसभेदसमुत्थानि पनसद्वितयोद्भवम् ।
चूतभेदसमुत्थानि नातिपव्कानि कालतः ॥ २१२ ॥
View Verse
बृहत्युर्वारुवार्ताककूष्माण्डप्रभवानि च ।
कारवल्लीलतोत्थानि कार्कोटप्रभवानि च ॥ २१३ ॥
View Verse
पटोलद्वितयोत्थानि कोशातक्युद्भवे तथा ।
अलाबुकर्करीनिम्बभेदोत्थं तिन्त्रिणीफलम् ॥ २१४ ॥
View Verse
क्षुद्रकन्दसमेतं च वल्लीकन्दद्वयं तथा ।
सूरणद्वयकन्दं च तथा पिण्डारकद्वयम् ॥ २१५ ॥
View Verse
पझोत्पलसमुत्थं च हविर्योग्यं विशेषतः ।
उच्छिष्टं कृमिदष्टं च शिवाद्यैर्दंशितं तथा ॥ २१६ ॥
View Verse
घ्रातं लालाजलस्पृष्टममेध्यस्थलसंभवम् ।
पादस्पृष्टमकालोत्थमाहृतं चाशुचिस्थले ॥ २१७ ॥
View Verse
भुक्तशेषं तथाऽस्पृश्यस्पृष्टं दत्तावशेषकम् ।
परीक्ष्य बहुधा मन्त्री वर्जयेत् पाककर्मणि ॥ २१८ ॥
View Verse
जीवन्तीं वास्तुकं शाकं कारवल्लीदलं तथा ।
तुम्बीदलं च पिण्डीं च चमू मुद्गदलानि च ॥ २१९ ॥
View Verse
शाकिनीं शतपर्वाण तथैव श्वासमर्दितम् ।
आगस्त्यं पाचयेच्छाकं विहितं ब्राह्नणस्य च ॥ २२० ॥
View Verse
एकमूलानि चान्यानि गृह्णीयादनिषेधने ।
झेदयित्वा लवित्रेण वीर्यमन्त्रं समुच्चरन् ॥ २२१ ॥
View Verse
निरीक्ष्य कृमिकीटादीन् शाकांश्च बहुधा तथा ।
प्रक्षाल्य तेषु पात्रेषु निधाय बहुधा जलैः ॥ २२२ ॥
View Verse
प्राग्वत् स्थालीषु निक्षिप्य प्रत्येकं वाऽथ मिश्रितम् ।
सैन्धवैः समरीचैश्च सर्षपैर्जीरकैरपि ॥ २२३ ॥
View Verse
श्रीपर्णीदलसंमिश्रैः पयोभिर्नालिकेरजैः ।
तत्फलैरपि संघऋष्टैर्मृदुभिर्घृतमिश्रितैः ॥ २२४ ॥
View Verse
मसूरमाषनिम्बादिमुद्गभेदसमन्वितम् ।
सयूषान् मुद्गभेदादीनयूषान् लवणादिभिः ॥ २२५ ॥
View Verse
रसभेदैः समेतांश्च साधयेत्तदनन्तरम् ।
त्वचो व्यपोह्य मुद्गोत्थैः सारैः क्षीरेण पाचितैः ॥ २२६ ॥
View Verse
मरीचजीरलवणैर्घृतयुक्तैश्च मर्दितैः ।
दर्व्यादिभिस्च संस्कुर्यात् गुल्माषं सरसं यथा ॥ २२७ ॥
View Verse
स्थालीशरावपूर्णेषु पाचितानि पुरैव तु ।
कदऌईपनसादीनि नाऌइकेरफलानि च ॥ २२८ ॥
View Verse
कूश्माण्डबृहतीपूगकारवल्लीफलानि च ।
क्षुद्रकन्दसमेतानि वल्लीपिण्डारकानि च ॥ २२९ ॥
View Verse
अम्बरीषादिपात्रेषु विततेषु समन्ततः ।
घृतलिप्तेषु तप्तेषु समारोप्य प्रसार्य च ॥ २३० ॥
View Verse
चूर्णीभूतैर्मरीचैश्च जीरकेन घृतेन च ।
प्रतापितानि स्निग्धानि दर्व्यालोड्य पुनः पुनः ॥ २३१ ॥
View Verse
स्थापनीयानि भाण्डेषु छादितान्यम्बरादिभिः ।
आब्रादीनि च शुष्काणि अशुष्काणि फलानि च ॥ २३२ ॥
View Verse
तिन्त्रिणीगुडमिश्राणि मरीचैर्जीरकैरपि ।
नाऌइकेरोत्थपयसा सर्षपैः पेषितैरपि ॥ २३३ ॥
View Verse
स्थापयेदाम्रसारोत्थं लवणेन समन्वितम् ।
श्रऋह्गिबेरं तथार्द्रं च दऌइतं रहितं च वा ॥ २३४ ॥
View Verse
वासितं लवणोपेतं लिकुचोत्थरसेन तु ।
कदऌईपनसाम्राणां केवलानि फलानि च ॥ २३५ ॥
View Verse
गोधूमशालिजैः पिष्टैर्गुडपाकेन लोलितैः ।
पाचितैर्मुद्गसारैश्च शकलैर्नाऌइकेरजैः ॥ २३६ ॥
View Verse
जीरकैः समरीचैश्च घृतेऽपूपानि पाचयेत् ।
सुवृत्तान्याम्रतुल्यानि धात्रीफलसमानि च ॥ २३७ ॥
View Verse
न्यग्रोधफलतुल्यानि लिकुचाद्याकृतीनि च ।
अन्तर्निक्षिप्तमुद्गानि रसवन्ति समन्ततः ॥ २३८ ॥
View Verse
गुडपिष्टेन बद्धानि नाऌइकेराकृतीनि च ।
नानाभेदसमुत्थानि घृतेऽपूपानि साधयेत् ॥ २३९ ॥
View Verse
शालिव्रीहिसमुत्थाश्च शालिषु स्फुटितानि च ।
लघूनि वह्णितप्तानि गुडपाकान्वितानि च ॥ २४० ॥
View Verse
चूर्णितैश्च मरीचैश्च जीरकैः खण्डितैरपि ।
नाऌइकेरफलैः शुष्कैः पृथुकानि च साधयेत् ॥ २४१ ॥
View Verse
भर्जितैः शालिपिष्टैश्च मिश्रितैर्जीरकादिना ।
लोऌइतैर्गुडपाकेन पिण्डीभूतैः पृथक् पृथक् ॥ २४२ ॥
View Verse
सक्तु स्यात् साधितं तद्वत्तिलैः पिण्डः सुभर्जितैः ।
तिलपिण्ड इति ख्यातःसदा देवस्य संमतः ॥ २४३ ॥
View Verse
सुश्रृतं च घनीभूतं खण्डचूर्णसमन्वितम् ।
क्षीरं च मधुसर्पिर्भ्यां संपृत्क्तं सुघनं दधि ॥ २४४ ॥
View Verse
तरुणैः शकलीभूतैरुर्वारुसहकारयोः ।
रूक्षसर्षपसंमिश्रं समरीचं तथा दधि ॥ २४५ ॥
View Verse
पृथक्पात्रगतं शुद्धं गाऌइतं माक्षिकं मधु ।
द्राक्षापनसरंभाम्रसमुत्थैर्मर्दितै रसैः ॥ २४६ ॥
View Verse
लोऌइतं गुऌअखण्डेन जीरकादिसमन्वितम् ।
रसालमेतद्विज्ञेयं दधिमिश्रं तु पानकम् ॥ २४७ ॥
View Verse
केवलं दधिसंमिश्रं वारिणा तत्समेन तु ।
केवलं दधिसंमिश्रं वारिणा तत्समेन तु ।
मथितं समरीचं च लवणैश्चाधिवासितम् ॥ २४८ ॥
View Verse
कण्डचूर्णसमोपेतं पानकं श्रमशान्तिकृत् ।
अन्नानामपि संस्कारे पुरा मन्त्राः प्रकीर्तिताः ॥ २४९ ॥
View Verse
तदन्येषां तु संस्कारो द्वादशार्णेन वा हृदा ।
साङ्गेन मूलमन्त्रेण सर्वं संसाधयीत वा ॥ २५० ॥
View Verse
विष्णुगायत्रिया वाऽथ पञ्चोपनिषदाथवा ।
संसाध्य परमान्नाद्यमुपदंशान्वितं क्रमात् ॥ २५१ ॥
View Verse
फलकादिषु संस्थाप्य चोर्ध्वपुण्ड्राद्यलंकृतम् ।
महानसद्वारभूमेरालयद्वारपश्चिमम् ॥ २५२ ॥
View Verse
गोमयेनानुलिप्तेन सुधाचूर्णेन शोभिना ।
पथास्त्रमन्त्रसंजप्तवारिधारापुरस्सरम् ॥ २५३ ॥
View Verse
शह्खतूर्यादिघोषेण तथा मङ्गऌअगीतिभिः ।
प्रदीपच्छत्रयुक्तैश्च हविःपालनतत्परैः ॥ २५४ ॥
View Verse
वेत्रपाणिभिरन्यैश्च नास्तिकोत्सारणोद्यतैः ।
स्नाताः शुक्लाम्बरा दक्षाः कृतपादावनेजनाः ॥ २५५ ॥
View Verse
स्वाचान्ताः कुशहस्ताश्च मृदा वा चन्दनादिना ।
धृतोर्ध्वपुण्ट्रा नियताः मनोवाक्कायकर्मभिः ॥ २५६ ॥
View Verse
सितकञ्चुकधर्तारः स्थगितानननासिकाः ।
वलमन्त्रेण भाण्डानि वहेयुः परिचारकाः ॥ २५७ ॥
View Verse
मूलालयाग्रदेशस्थमण्टपे विततेऽथवा ।
प्रथमावरणे धाम्नो दक्षिणे माऌइकावनौ ॥ २५८ ॥
View Verse
सुगुप्ते सुवितानाढ्ये दीपमालाद्यलंकृते ।
प्रदेशे वस्त्रसञ्छन्ने स्थाप्यानि फलकादिके ॥ २५९ ॥
View Verse
हविः प्रमाणतुल्याश्च हेमराजतकाम्रजाः ।
स्थालिकाश्च यथालिप्ताः प्रक्षाल्यास्त्रेण वारिणा ॥ २६० ॥
View Verse
पाणिना दक्षिणेनैव परामृश्य च तेन च ।
तारेण तासु निक्षेप्या धाराऽज्यस्य समन्ततः ॥ २६१ ॥
View Verse
स्थालीभ्यः समुपाहृत्य दर्व्या हेमादिक्लृप्तया ।
तदूर्ध्वे निक्षिपेन्मौनी पायसादीन्यनुक्रमात् ॥ २६२ ॥
View Verse
घृतेनाप्लाव्य मधुरव्यञ्जनानि समन्ततः ।
दधिक्षीरादिपूर्णानि चषकाण्यूर्ध्वतो न्यसेत् ॥ २६३ ॥
View Verse
सिद्धान्यपूपभेदानि पृथुकादीनि यान्यपि ।
पानकानि विचित्राणि पृथक्पात्रगतानि च ॥ २६४ ॥
View Verse
कर्पूरचन्दनक्षोदप्रसूनैस्चाधिवासितम् ।
शीतलं वस्त्रसञ्छन्नं पानीयं करकादिषु ॥ २६५ ॥
View Verse
एकालवङ्गतक्कोलजातीपूगफलान्वितम् ।
कर्पूरतैलसंमिश्रं खण्डितं च क्षुरादिभिः ॥ २६६ ॥
View Verse
नागवल्लीदलोपेतं सचूर्णं चेन्दुसंयुतम् ।
ताम्बूलं च प्रतिष्ठाप्य पात्रेष्वब्जाकृतीषु च ॥ २६७ ॥
View Verse
चन्दनादीनि गन्धानि तथा नानाविधाः स्रजः ।
स्थापयित्वा यथास्थानमाराधकमुखेन तु ॥ २६८ ॥
View Verse
विज्ञापयेयुर्देवस्य तत्तत्कर्माधिकारिणः ।
भोज्यासनाधिरूढस्य देवस्याराधकः स्वयम् ॥ २६९ ॥
View Verse
अर्घ्याद्यैः प्राग्वदभ्यर्च्य साध्यबीजावसानिकैः ।
द्वारस्याभ्यन्तरगते देवस्य पुरतः स्थले ॥ २७० ॥
View Verse
शोधिते चार्घ्यतोयेन चन्दनाद्यैश्च मण्डिते ।
मण्डले तु परिस्तीर्य तण्डुलानि यथारुचि ॥ २७१ ॥
View Verse
क्षालितं वस्त्रतुण्डं तु तदूर्ध्वे संप्रसार्य च ।
अन्नाधारं प्रतिष्ठाप्य तदूर्ध्वे लोहनिर्मितम् ॥ २७२ ॥
View Verse
ऊर्ध्वतो वसनावद्धं तदूर्ध्वे स्रोतसंप्लुते ।
न्त्यसेवि परमान्नादि पात्राण्येकैकशः क्रमात् ॥ २७३ ॥
View Verse
तर्पणं तु प्रतिष्ठाप्य हस्तप्रक्षाऌअनाम्भसा ।
कुर्याद्दक्षकरे दैवे प्रागुपस्तरणार्हणम् ॥ २७४ ॥
View Verse
ततो देवादिमूर्तीनां हवींषि विनिवेदयेत् ।
प्रथमं पायसं पश्चात् गुडान्नं मुद्गभेदितम् ॥ २७५ ॥
View Verse
शुद्धान्नं तिलसंमिश्रं निशान्नं दधिमिश्रितम् ।
मिश्रान्नं च क्रमाद्दद्यादपूपानि तदन्तिमे ॥ २७६ ॥
View Verse
पृथुकानि च सक्तूनि तिलपिण्डान्वितानि च ।
कदऌईपनसादीनि फलानि विविधानि च ॥ २७७ ॥
View Verse
रसभेदसमेतानि पानकानि च तर्पणम् ।
नाऌइकेररसं चैव हस्तपक्षाऌइनं ततः ॥ २७८ ॥
View Verse
उपस्पर्शं च ताम्बूलं दत्वा प्रागुक्तमाचरेत् ।
राजभिर्हविषो नित्यं प्राचुर्ये कल्पिते सति ॥ २७९ ॥
View Verse
आधारेषु प्रतिष्ठाप्य वितते गर्ममन्दिरे ।
निवेद्यानि यथायोगमन्यश्रा संकटे भुवि ॥ २८० ॥
View Verse
तदेकस्मिन् दृढाधारे वस्त्रच्छन्ने यथाक्रमम् ।
निधाय विनिवेद्याय तथातमपनीय च ॥ २८१ ॥
View Verse
प्रोक्षिते चास्त्रमन्त्रेण निक्षेप्यं हविरन्तरम् ।
निवेदयेद्यथापूर्वं बिशेषोऽत्र समीरितः ॥ २८२ ॥
View Verse
मन्त्रक्रियाविहीनं च गन्धदुष्टं विवर्णकम् ।
अतिपव्कमप्कं च विस्रावितजलं तथा ॥ २८३ ॥
View Verse
अदीक्षितैश्च पतितैरीक्षितं प्रतिलोमजैः ।
अत्युष्णमतिशीतं च प्रमाणरहितं तथा ॥ २८४ ॥
View Verse
समुद्धृतं च निःशेषं मुखवातादिदूषितम् ।
व्यञ्जनादिविहीनं चाप्यपात्रस्थमघोपितम् ॥ २८५ ॥
View Verse
अन्तस्तण्डुलसंयुक्तं भिन्नभाण्डगतं तथा ।
अनाधारं परस्पृष्ठं अर्कतापहतं तथा ॥ २८६ ॥
View Verse
अङ्गारतुषसंयुक्तं केशपाषाणसंयुतम् ।
कृमिलोष्ठादिभिर्जुष्टं प्राण्यङ्गादिसमन्वितम् ॥ २८७ ॥
View Verse
अपूर्णपाकमाधाररहितव्ञ्जनोज्झितम् ।
गव्याज्यदधिनिर्मुक्तं काङ्क्षितं चेतरैर्जनैः ॥ २८८ ॥
View Verse
अपिधानविनिर्मुक्तं देवतान्तरसंमतम् ।
एवं दुष्टं हविर्बुध्वा प्रक्षिपे ज्जलमध्यतः ॥ २८९ ॥
View Verse
मोहात् त्यक्तं हविर्विष्णोः यदि दद्यात्तदर्चनम् ।
निरर्थकं स्यात् कर्तॄणां विनाशश्च भवेद् ध्रुवम् ॥ २९० ॥
View Verse
तस्मात्तदैव मूलस्य सहस्रं जपमाचरेत् ।
ततस्तत्राश्रयाणां च स्थापितानां विधानतः ॥ २९१ ॥
View Verse
विभवव्पूहमूर्तीनां मण्टपे गोपुरादिषु ।
स्थापितानां च मूर्तींनां प्रादुर्भावात्मनामपि ॥ २९२ ॥
View Verse
पूजितानां यथान्यायं सत्यादीना खगात्मनाम् ।
कुमुदादिगणेशानां द्वार्स्थानामपि सझनि ॥ २९३ ॥
View Verse
प्रतिष्ठितानां भक्तानां प्रागुक्तानां विधानतः ।
तत्तन्मन्त्रेण विधिवत्सिद्धान् च पृथक् पृथक् ॥ २९४ ॥
View Verse
हवींषि पायसादीनि क्रमेण विनिवेदयेत् ।
गारुडेनैव मन्त्रेण बल्यर्थं साधयेद्धविः ॥ २९५ ॥
View Verse
अन्येषां प्रणवेनैव सिद्धमन्नं निवेदयेत् ।
अग्निकार्यं हविस्साध्यं यथा मूलालयाकृतेः ॥ २९६ ॥
View Verse
सर्वाण्यपूपभेदानि नाग्निकार्ये हितानि वै ।
अन्यानि पायसादीनि नित्यनैमित्तिकादिषु ॥ २९७ ॥
View Verse
होतव्यानि विशेषेण फलानि विविधानि च ।
भूतानां बलिदानेषु पायसादीनि नित्यशः ॥ २९८ ॥
View Verse
अपूपानि च सक्तूनि पृथुकानि फलानि च ।
तिलपिण्डसमेतानि मिश्रितान्यथवा पृथक् ॥ २९९ ॥
View Verse
दातव्यानि यथान्यायं तेषां तृप्तिकरं यतः ।
तेन कूरादिभिर्ब्रह्नन् उत्सवादिषु कर्मसु ॥ ३०० ॥
View Verse
तत्र तत्रोक्तविधिना बलिद्रव्याण्युपाहरेत् ।
अभावे सर्ववस्तूनां सोदकं केवलोदनम् ॥ ३०१ ॥
View Verse
तण्डुलं वोदकेनैव दातव्यं मन्त्रवित्तमैः ।
इति सम्यक् समाख्यातं हषिषां साधनादिकम् ॥ ३०२ ॥
View Verse
निवेदनप्रकारस्च नित्ये मूलादिमूर्तिषु ।
तथाश्रयेषु प्रासारे बाह्यतो वाऽङ्कणादिकैः ॥ ३०३ ॥
View Verse
प्रासादेषु च क्लृप्तेषु स्थापितेष्वाश्रयादिषु ।
प्राकारगोपुरद्वारमम्टपेषु समन्ततः ॥ ३०४ ॥
View Verse
विभवव्यूहबिम्बेषु तथाङ्गालयमूर्तिषु ।
प्रासादाभ्यन्तरस्थानां देवतानां यथार्चने ॥ ३०५ ॥
View Verse
निवेदनार्थं नादद्यात् द्वारबाह्ये प्रतिष्टितम् ।
निषिद्धान्नं निवेद्यं तद् दूषितं राक्षसादिभि ॥ ३०६ ॥
View Verse
देवेन प्रागनुज्ञातं रक्षसां दितिजन्मनाम् ।
अन्येषां भरणीयानां भूतानां पिशिताशिनाम् ॥ ३०७ ॥
View Verse
तस्यात्तत्स्था अनादेया बलवीर्यादिशक्तयः ।
विभूत्या वाऽविभूत्या वा हविषः प्राप्तये पृथक् ॥ ३०८ ॥
View Verse
पृथक्पात्रगतं सिद्धं द्वारस्यान्ते निवेशितम् ।
निवेदनीयं क्रमशः परमान्नपुरुस्सरम् ॥ ३०९ ॥
View Verse
काम्ये नैमित्तिकेप्येव महतो हविषोर्चने ।
प्रासादाभ्यन्तरस्थस्य सकर्मार्चादिकस्य च ॥ ३१० ॥
View Verse
आढ्यैर्द्विजातिभूपाद्यैः यथाविभवमादरात् ।
निवेदनीयं यद्येकं पात्रस्थं मूलकौतुके ॥ ३११ ॥
View Verse
अन्नपूरं प्रतिष्टाप्य प्रासादाग्रस्थमण्डपे ।
मूलमूर्तिं समभ्यर्च्य कर्मार्चाभिः सशक्तिभिः ॥ ३१२ ॥
View Verse
स्नापयेत् कर्मबिम्बस्थं कलशैः प्रागुदीरितैः ।
मूले प्राग्वत् पृथक्पात्रे निवेद्य च हविस्ततः ॥ ३१३ ॥
View Verse
कर्मबिम्बगतं देवमानीयाग्रस्थमण्डपे ।
तस्मिन्निवेदयेन्मन्त्री मूलमूर्त्यवलोकितम् ॥ ३१४ ॥
View Verse
महद्धविश्च तत्रस्थं परमान्नादिसत्कृतम् ।
मखकौतुकपूर्वासु क्रमेणाब्यर्चितासु च ॥ ३१५ ॥
View Verse
निवेद्य च यथायोगं पात्रस्थानि पृथक् पृथक् ।
वत्सरोत्सवपूर्वेषु नानावैशेषिकेष्वपि ॥ ३१६ ॥
View Verse
यात्रामूर्ति समानीय बाल्यतो यत्रकुत्रचित् ।
विस्तरेणार्चयित्वा तु महदन्नं निवेदयेत् ॥ ३१७ ॥
View Verse
तदर्थं विधिवत् कुर्यात् स्नपनं स्नानकौतुके ।
मृगयाद्युत्सवे प्राप्ते बहिरुद्यानभूमिषु ॥ ३१८ ॥
View Verse
महोदनसपर्यार्थमालयाभ्यन्तरस्थिते ।
स्नापयेद्विधिवन्मन्त्री तद्बिम्बं स्नानमण्टपे ॥ ३१९ ॥
View Verse
द्वादश्यादिषु कालेषु तथा च अवणादिषु ।
वत्सरोत्सवनिष्ठेषु नानावैशेषिकेष्वपि ॥ ३२० ॥
View Verse
साधनं हविषामेतत् साधारणमुदाहृतम् ।
अथोत्सबार्चामानीत्र कुत्रचिन्मण्टपादिके ॥ ३२१ ॥
View Verse
यथाविधि समाराध्य बहुधा पायसादिना ।
यथालब्धेन चान्नेन प्रीणेयेद्भक्तिपूर्वकम् ॥ ३२२ ॥
View Verse
विशेषमथ वक्ष्यामि महतो हविषोर्चने ।
नित्ये महाहविर्यागो न च कार्यो हितैषिभिः ॥ ३२३ ॥
View Verse
वितते गर्भगेहे वा प्रासादाग्रस्थमण्‍टपे ।
बाह्यतः स्नपनाद्यर्थं यागार्थं वा प्रकल्पिते ॥ ३२४ ॥
View Verse
प्रागुक्तेन प्रमाणेन त्वेकपात्रे समर्पितम् ।
यत्तन्महाहविः प्रोक्तं हरेः प्रीतिकरं सदा ॥ ३२५ ॥
View Verse
प्रासादाभ्यन्तरे कल्प्यमुपपात्रोज्झितं हविः ।
तदन्यत्र विशेषेण विस्तृतं परिकल्पयेत् ॥ ३२६ ॥
View Verse
मूलमूर्तिं पुराऽभ्यर्च्य तदर्थं मन्त्रवित्तमः ।
अभ्यर्च्यार्घ्यादिभिर्मन्त्रैः प्राग्वद्धूपान्तिमैस्ततः ॥ ३२७ ॥
View Verse
तस्मात् स्नपनबिम्बस्य हृदयाम्भोरुहोदरे ।
चिच्छक्तिमवतीर्याथ तथाचोत्सवकौतुके ॥ ३२८ ॥
View Verse
समभ्यर्च्य यथा पूर्वमानीय स्नानमण्टपे ।
स्नानकौतुकमासाद्य कलशैरभिषिच्य च ॥ ३२९ ॥
View Verse
निवेद्य च हविः पश्चादानयेद्गर्भमन्दिरम् ।
तस्मिन् विनय्स्य तन्मन्त्रं मूलमूर्तौ नियोजयेत् ॥ ३३० ॥
View Verse
यानादौ तु समारोप्य उत्सवार्चामलङ्कृताम् ।
यागार्थमण्टपे वाथ नयेदास्थानमण्टपे ॥ ३३१ ॥
View Verse
हेमादिनिर्मिते तत्र वितते भद्रविष्टरे ।
समारोप्य चदेवेशं महद्भिर्भोगसञ्चयैः ॥ ३३२ ॥
View Verse
प्रदक्षिणप्रणामान्तैर्मूलमन्त्रेण देशिकः ।
समाराध्यार्घ्यपुष्पाद्यैस्तोयदानपुरस्सरम् ॥ ३३३ ॥
View Verse
दद्यात्तदादिनो भोगान् मात्रान्तांश्च निवेदितान् ।
निवेदनार्थं हविषां मण्टपं विस्तृतं कृतम् ॥ ३३४ ॥
View Verse
वितानद्वजपूर्वैश्च यथा यवनिकापटैः ।
अलंकृतं मध्यभूमौ हविष्पूरप्रमाणतः ॥ ३३५ ॥
View Verse
कुर्यात्तालोच्छ्रयां कुर्यात्तालोच्छ्रयां वेदिमुपपीठसमाकृतिम् ।
इष्टकाद्यैश्च तुर्यश्रां दृढां समतलां शुभाम् ॥ ३३६ ॥
View Verse
गोमयेन समालिप्य सुधाद्यैर्वर्णकैरपि ।
पिष्टचूर्णैश्च परितः शोभयित्वा च पश्चिमे ॥ ३३७ ॥
View Verse
दुकूलतूलसञ्छन्नं मसूरकसमन्वितम् ।
भोज्यासनं प्रतिष्ठाप्य नात्युच्चं नातिनीचकम् ॥ ३३८ ॥
View Verse
साधितानि यथापूर्वं हविः पात्राणि पाचकाः ।
परमान्नाद्युपेतानि सोपदंशफलानि च ॥ ३३९ ॥
View Verse
भक्ष्यभोज्यसमेतानि मधुरादिरसानि च ।
छत्रदीपसमोपेतभेरीपटहनिःस्वनैः ॥ ३४० ॥
View Verse
शङ्खश्रृङ्गादिघोषेण दुर्जनोत्सारणोद्यतैः ।
पुरावच्छोधितेनैव यथा वै गोमयादिना ॥ ३४१ ॥
View Verse
सूत्रितेन सुधाचूर्णैः पार्श्वयोरस्त्रवारिणा ।
प्रोक्षितेन पवित्रज्ञैः ततस्तस्मान्महानसात् ॥ ३४२ ॥
View Verse
अनुधारापदं प्रोक्तं निनयेद्यागमण्टपम् ।
यातुवारुणमद्ये वा सोमसामीरणान्तरे ॥ ३४३ ॥
View Verse
शालिव्रीहिपरिस्तीर्णे स्थले मखतरूद्भवे ।
फलके संप्रतिष्ठाप्य वस्त्रच्छन्नेऽस्त्रमन्त्रिते ॥ ३४४ ॥
View Verse
ततो वेद्यां परिस्तीर्य तण्डुलाञ्छालिसंभवान् ।
कंसादि धातवो नेष्टा महोदननिवेदने ॥ ३४५ ॥
View Verse
अच्छिन्नानि सुपूतानि कदल्यादिदलानि वा ।
प्रागग्राण्युदगग्राणि बहुशः क्षाऌइतानि च ॥ ३४६ ॥
View Verse
निधाया च यथापूर्वमुपस्तीर्य घृतेन तु ।
पात्रेष्वन्येष्वथादाय दर्व्या मूलेन तद्धविः ॥ ३४७ ॥
View Verse
मध्यगे वितते पात्रे प्रतिष्ठाप्य यथाक्रमम् ।
सुवृत्तं चतुरक्षं वा दर्व्या तं सेचयेत्ततः ॥ ३४८ ॥
View Verse
संस्कृतैर्घूतपूरैश्च विद्रुतैर्वातशीतऌऐः ।
मूलमन्त्रं समुच्चार्य पुनरप्यभिघार्य च ॥ ३४९ ॥
View Verse
परितो मुद्गभेदेन गुल्भाषं हृदयेन तु ।
गुडखण्डानि शिरसा खण्डचूर्णान्वितानि च ॥ ३५० ॥
View Verse
उपदंशानि शिखया पाचितानि यथाविधि ।
कदलीपनसाम्राणि फलानि विविधानि च ॥ ३५१ ॥
View Verse
कालपव्कानि हृद्यानि कवचं समुदीरयन् ।
घृततप्तोपदंशानि तदूर्ध्वे नेत्र मुच्चरन् ॥ ३५२ ॥
View Verse
पुटीकृते तदूर्ध्वे तु वीर्यमन्त्रेण साधितम् ।
चूर्णितैःसमरीचैश्च जीरकैश्च गुऌआन्वितैः ॥ ३५३ ॥
View Verse
दधिपूरं तु संपूर्य खण्डचूर्णसमन्वितम् ।
एवं प्रतिष्ठिते पूर्वमेकपात्रे महाहविः ॥ ३५४ ॥
View Verse
पूरितान्युप पात्राणि परितः पायसादिभिः ।
प्राग्वद्घृतोपदंशाद्यैश्चाधारेषु निवेशयेत् ॥ ३५५ ॥
View Verse
महान्नस्य तु पाश्चात्यप्रमुखासु दिशास्वपि ।
द्वन्द्वयोगेन निक्षेप्यं पायसादिकमष्टकम् ॥ ३५६ ॥
View Verse
एकैकं ह्रासयेद्वाथ क्षीरान्नादिचतुष्टयम् ।
तत्तत्स्थानेषु शुद्धान्नमपूपादीनि विन्यसेत् ॥ ३५७ ॥
View Verse
पायसान्नं गुडान्नं वा मुद्गान्नं केवलोदनम् ।
स्थाप्यं वा मध्यकल्पे तु पाश्चाप्यादिष्वनुक्रमात् ॥ ३५८ ॥
View Verse
मुद्गान्नं मधुरं वाथ क्षीरान्नादित्रिकं तु वा ।
गुऌअपायसयोरेकं शुद्धान्नं वाथवार्पयेत् ॥ ३५९ ॥
View Verse
अनुकल्पेन शुद्धान्नं भक्तिश्रद्धावशेन तु ।
यथाकल्पं तु संकल्प्य पायसादिष्वथेच्छया ॥ ३६० ॥
View Verse
सुगन्धिशालिसंपन्नमभावाच्छालिसंभवम् ।
मध्यतो घृतसंपूर्णसौवर्णचषकान्वितम् ॥ ३६१ ॥
View Verse
पात्रं पाश्चात्यदिङ्मध्ये व्यञ्जनादि परिष्कृतम् ।
प्रापणार्थं प्रतिष्ठाप्यमुच्चाधारोपरिस्थितम् ॥ ३६२ ॥
View Verse
मध्यतः पायसद्रोणीं गुऌआन्नपरिपूरिताम् ।
प्रतिष्ठाप्याथ परितस्त्वन्यान्यूह्य प्रकल्पयेत् ॥ ३६३ ॥
View Verse
पानीयं गन्धपुष्पाद्यैर्वासितं करकादिषु ।
प्रच्छादनाम्बरादिनि मण्‍टपस्य तु दक्षिणे ॥ ३६४ ॥
View Verse
मधुपर्कं च गोमात्रा साध्यबीजानि पश्चिमे ।
ताम्बूलतिलरत्ना र्थमात्रा गन्धस्रगादयः ॥ ३६५ ॥
View Verse
यागद्रव्याणि चान्यानि त्वक्षसूत्रादिकानि च ।
स्थापयित्वोत्तरस्यां च ततस्तत्कर्मकारिभिः ॥ ३६६ ॥
View Verse
पूजितस्य विशेषेण देवस्य पुरतः स्थितः ।
विज्ञापयेद्देशिकेन्द्रः प्रणतः पुरुषोत्तमम् ॥ ३६७ ॥
View Verse
भगवन् पुण्डरीकाक्ष सच्चिदानन्दलक्षण ।
बलवीर्यमयैर्भोगैर्नित्यतृप्तस्त्वमव्ययः ॥ ३६८ ॥
View Verse
तथापि चात्मसिध्यर्थं महता हविषाऽधुना ।
भवन्तं तर्पयिष्यामि संपूर्णं तत् प्रकल्पितम् ॥ ३६९ ॥
View Verse
अनुग्रहार्थं भक्तानां भोक्तुप्रासादय प्रभो ।
विज्ञाप्यैवं ततः पश्चात्प्राग्बन्नीराजयेद्विभुम् ॥ ३७० ॥
View Verse
स्वर्णादिनिर्मिते याने देवमारोप्य मूर्तिपाः ।
सर्वालङ्कारसंयुक्तं नयेयुर्भोजनास्पदम् ॥ ३७१ ॥
View Verse
आरोपयित्वा प्रागास्यं तत्रस्थे भोजनासने ।
अर्घ्यं पाद्यं तथाचामं प्रदद्यात् सप्रतिग्रहम् ॥ ३७२ ॥
View Verse
प्रच्छादनपटं चाथ मधुपर्कं यथाविधि ।
गोमात्रां साध्यबीजानि दत्वाऽचामजलेन तु ॥ ३७३ ॥
View Verse
हस्तौ प्रक्षाल्य देवस्य पानीयं चार्घ्यवारिणा ।
प्रतिष्ठाप्य समासीनः पीठे देवस्य दक्षिणे ॥ ३७४ ॥
View Verse
अथार्हणजलं त्वर्घ्यादुद्धृतं विनिवेदयेत् ।
विलोक्य नेत्रमन्त्रेण पृथक् पात्रगणान्वितम् ॥ ३७५ ॥
View Verse
सव्यञ्जनं सभक्ष्यं च परमान्नादिकं हविः ।
पवित्रेण समभ्युक्ष्य शतधारेण पूर्ववत् ॥ ३७६ ॥
View Verse
दहनाप्यायने कृत्वा सर्वं सुरभिमुद्रया ।
ध्यात्वा तन्मन्त्रमुच्चार्य त्वमृतीकृत्य तद्गतम् ॥ ३७७ ॥
View Verse
बलं वीर्यं च तेजश्च त्वर्घ्यपुष्पं समुत्क्षिपेत् ।
कवचेन च सास्त्रेण नेत्रमन्त्रेण भावयेत् ॥ ३७८ ॥
View Verse
ततः स्वदक्षिणे हस्ते विज्ञानैश्वर्यशक्तयः ।
स्मर्तव्याः स्वस्वमन्त्रेण भोजकाः करणात्मकाः ॥ ३७९ ॥
View Verse
तेनाथ विष्णुहस्तेन परमान्नपुरस्सरम् ।
स्पृष्ट्वा स्पृष्ट्वा यथायोगं बद्धया ग्रासमुद्रया ॥ ३८० ॥
View Verse
निवेदनीया वै विष्णोरन्नमूर्त्यन्तरस्थिताः ।
रसरूपादिभेदोत्थास्तेजोवीर्यबलात्मकाः ॥ ३८१ ॥
View Verse
षाड्गुण्यविग्रहस्यापि देवस्यार्चाभिमानिनः ।
प्रीणनं परमं ह्येतद्धविर्मन्त्रैः सुसंस्कृतम् ॥ ३८२ ॥
View Verse
ज्ञात्वैवं शंखश्रृङ्गादिभेरीपटहनिःस्वनैः ।
घण्टारवसमेताभिर्मङ्गलाबिश्च गीतिभिः ॥ ३८३ ॥
View Verse
श्रुतिस्मृतीतिहासानां भगवद्गुणशंसिनाम् ।
स्तोत्राणां च पुराणानां वैष्णवानां च निःस्वनैः ॥ ३८४ ॥
View Verse
प्रदक्षिणक्रमेणैव पायसाद्युपपात्रकम् ।
प्रभूतान्नं ततः पश्चात् प्रापणान्नपुरस्सरम् ॥ ३८५ ॥
View Verse
भक्ष्याण्यपूपपूर्वाणि भोज्यानि च फलानि च ।
लेह्यानि मधुपूर्वाणि चोष्याण्याम्रादिकान्यपि ॥ ३८६ ॥
View Verse
पेयानि क्षीरपूर्वाणि अनुपानान्वितानि च ।
विनिवेद्य च देवाय विन्यस्तान्योदनोपरि ॥ ३८७ ॥
View Verse
बलवीर्यादिसन्मन्त्रान् सवीर्यादिविवर्जितान् ।
ओमित्युपाहरेन्मन्त्री ततः संहृतिमुद्रया ॥ ३८८ ॥
View Verse
पूर्णात्पूर्णमिति प्राज्ञो जप्त्वा मन्त्रं समाहितः ।
सुतृप्तं भावयेद्देवं सुतृप्तमिति चोच्चरन् ॥ ३८९ ॥
View Verse
शीतलं तर्पणजलं शङ्खशुक्त्याकृतिष्वपि ।
पात्रेषु पूरितं तर्प्य चूर्णं निष्पुंसनाय च ॥ ३९० ॥
View Verse
तदर्थं शाटकं चाथ हस्तप्रक्षालनं ततः ।
समाचमनतोयं च घृष्टकर्पूरभावितम् ॥ ३९१ ॥
View Verse
चन्दनं करशुध्यर्थं मात्रां करसमुद्भवाम् ।
सरत्नां विनिवेद्याथ ताम्बूलं शशिभावितम् ॥ ३९२ ॥
View Verse
दत्वाऽथ मूलमुद्रां तु दर्शयेन्मूलमुच्चरन् ।
जपं कृत्वा यथापूर्वमर्घ्याद्यैर्धूपपश्चिमैः ॥ ३९३ ॥
View Verse
समभ्यर्च्य समाहूय गुरुपूर्वांश्च साधकान् ।
सिद्धान्तनिरतांस्चाथ पञ्चकालपरायणान् ॥ ३९४ ॥
View Verse
दीक्षितांश्च यथान्यायं त्रैविद्यांस्तदभावतः ।
अर्घ्यानुलेपनाभ्यां तु स्रग्वरैर्धूपपश्चिमैः ॥ ३९५ ॥
View Verse
समभ्यर्च्य ततस्तेषां दद्यादर्घ्योदकं करे ।
परितः पायसादीनि पात्रस्थानि पृथक् पृथक् ॥ ३९६ ॥
View Verse
महोदनं च मध्यस्थं चतुर्धा संविभज्य च ।
प्रयच्छेदकमंशं तु कारिभ्यः श्रेयसे ततः ॥ ३९७ ॥
View Verse
द्वितीयमोदनं दद्यात् सेनेशाय ततः परम् ।
तृतीयमन्नं दातव्यं सर्वेषां परिचारिणाम् ॥ ३९८ ॥
View Verse
चतुर्थं वैष्णवानां च देवायतनवासिनाम् ।
आराधकप्राशनार्थं प्रापणान्नं समाचरेत् ॥ ३९९ ॥
View Verse
गोमात्रां साध्यबीजानि शालिमुद्गादिकानि च ।
मात्रां च तिलरत्नोत्थां तथा चाच्छादनाम्बरम् ॥ ४०० ॥
View Verse
निष्पुंसनपटं चाथ ताम्बूलं च विशेषतः ।
प्रयच्छेद्देशिकेन्द्राय नियुक्तायार्चने क्षणे ॥ ४०१ ॥
View Verse
महाविभूतिर्देवेशः सर्वसङ्कल्पसिद्धिदः ।
यस्मात् प्रागात्मसात्कुर्याद्भोगशक्तिमनश्वरीम् ॥ ४०२ ॥
View Verse
व्यक्तां गुर्वादिवकत्रेण भुनक्ति तदनन्तरम् ।
तस्मान्निवेदितं सर्वं वासुदेवस्य वै विभोः ॥ ४०३ ॥
View Verse
प्रदद्याद् गुरुपूर्वेभ्यो नियतेभ्यः सदार्चने ।
रक्षणीयमभक्तेभ्यस्तद्दानं विष्णुयाजकैः ॥ ४०४ ॥
View Verse
प्रायश्चित्ती भवेद्दाता अपात्रप्रतिपादनात् ।
प्रक्षिपेज्जलमध्ये तु विष्वक्सेननिवेदितम् ॥ ४०५ ॥
View Verse
जलजानां तीरजानां जन्तूनां तृप्तयेऽथवा ।
जले किञ्चिद्विनिक्षिप्य शेषमन्नं तदग्रतः ॥ ४०६ ॥
View Verse
तद्धक्तानां द्विजातीनां निरतानां स्वकर्मसु ।
एवं सन्तर्प्य देवेशं महता हविषा ततः ॥ ४०७ ॥
View Verse
भोज्यासनगतं पश्चादन्यत्र शयनास्पदे ।
सुयितानपताकाढ्ये पुष्पमालाद्यलंकृते ॥ ४०८ ॥
View Verse
सर्वोपकरणोपेते पर्यङ्कस्योर्ध्वतो नयेत् ।
अपनीय च माल्यानि गन्धानि वसनानि च ॥ ४०९ ॥
View Verse
स्वयं किञ्चित् समादाय विष्वक्सेनस्य वै ततः ।
प्रदद्यादवशिष्टं तु पर्यङ्कस्थस्य वै विभोः ॥ ४१० ॥
View Verse
अर्घ्यं पाद्याम्बुना शाटीं तथा पादानुलेपनम् ।
सप्रतिग्रहमाचामं हस्तसंमार्जनाम्बरम् ॥ ४११ ॥
View Verse
दत्वा ततः सुगन्धैस्तु चन्दनाद्यैः समालभेत् ।
व्यजनैः श्रमशान्त्यर्थं संवीज्य च समन्ततः ॥ ४१२ ॥
View Verse
व्कथितं च मृगस्नेहं शशिचूर्णाधिवासितम् ।
मर्दयित्वाथ देवस्य केशपाशे प्रसारिते ॥ ४१३ ॥
View Verse
नानाविधैर्गन्धवद्भिः पुष्पैः संवलितान्तरम् ।
स्रग्भिर्नानाविधाभिश्च केशान् संवेष्टयेत्ततः ॥ ४१४ ॥
View Verse
निवेदयेदपूपानि पृथुकानि फलानि च ।
पानकं तर्पणजलं नाऌइकेररसान्वितम् ॥ ४१५ ॥
View Verse
ताम्बूलं शशिंसंयुक्तं साङ्गं विज्ञाप्य वै विभुम् ।
छत्रदीपान्वितो यायादर्घ्यभृत् पाचनालयम् ॥ ४१६ ॥
View Verse
तत्र नैमित्तिके कुण्‍डे नित्ये वा संस्कृते पुरा ।
तथैव संस्कृते वह्नौ प्राग्वत् संतर्पिते सति ॥ ४१७ ॥
View Verse
तस्मिन् ज्वाला जटाधारे हृद्गतं मन्त्रनायकम् ।
अवतीर्य समिद्भिश्च सप्तभिस्तर्पयेत्ततः ॥ ४१८ ॥
View Verse
पायसाद्यैर्विशेषेण पाचितैरखिलैरपि ।
शङ्खभेरीनिनादेन घण्टारवसमन्वितम् ॥ ४१९ ॥
View Verse
पूर्णाहूतिं ततो दद्यादाज्यस्याच्छिन्नधारया ।
कर्मशेषं समापाद्य दद्याच्छिष्टं चरुं गुरोः ॥ ४२० ॥
View Verse
ततो देवान्तिकं प्राप्य होमकर्म समर्पयेत् ।
संविभज्य पितॄन् प्राग्वत् संप्रदानसमन्वितम् ॥ ४२१ ॥
View Verse
अर्चयित्वार्घ्यगन्धाद्यैः प्राग्वत् कुर्यात् प्रदक्षिणम् ।
विज्ञाप्य यानगं कृत्वा देवमन्तः प्रवेशयेत् ॥ ४२२ ॥
View Verse
स्वस्थानस्थस्य देवस्य दद्यादर्घ्यादिकत्रयम् ।
तत्र संरोधितं मन्त्रं प्राग्वन्मूले नियोजयेत् ॥ ४२३ ॥
View Verse
तत्रापि पूजयेद्भोगैरर्घ्याद्यैर्धूपपश्चिमैः ।
ततो विज्ञापयेद्देवं पुष्पाञ्जलिपुरस्सरम् ॥ ४२४ ॥
View Verse
पूजितोऽसि जगन्नाथ महता हविषा विभो ।
त्वदीये मयि वात्सल्यात् तृप्तो भवितुमर्हसि ॥ ४२५ ॥
View Verse
इति विज्ञाप्य देवस्य चरणाम्बुरुहद्वये ।
मूलमन्त्रं समुच्चार्य प्रक्षिपेत् कुसुमाञ्जलिम् ॥ ४२६ ॥
View Verse
महोदनसपर्यादौ प्राप्ते नैमित्तिकादिषु ।
पूजनादुत्सवार्चायाः पुरस्ताद्वाथ पश्चिमात् ॥ ४२७ ॥
View Verse
सशक्तिकं मूलबिम्बं साङ्गं बिम्बं च साश्रयम् ।
विहगेशावृतिद्वारपालभक्तैः समन्वितम् ॥ ४२८ ॥
View Verse
विमानेषु बहिष्ठेषु मण्टपे गोपुरादिषु ।
विभवव्यूहमूर्तीनां स्थापितानां विधानतः ॥ ४२९ ॥
View Verse
प्राग्वत् संपूजनं कृत्वा महान्नं विनिवेदयेत् ।
मुख्यकल्पमिदं प्रोक्तं मध्यकल्पे यथाबलम् ॥ ४३० ॥
View Verse
एकैकस्याढकाद्येन मानेनान्नं प्रकल्येत् ।
मूलालयगतं देवं केवलं वा समचयेत् ॥ ४३१ ॥
View Verse
प्रासादस्थस्य नित्ये तु न संकल्प्यं महाहविः ।
तदर्थं बलियानं तु नाचर्तव्यं हितेच्छुना ॥ ४३२ ॥
View Verse
महोदनं च स्नपने स्नपनं च महोदने ।
कर्तव्यमविनाभूतं द्वितयं मुख्यकल्पने ॥ ४३३ ॥
View Verse
अनुकल्पे तदन्योन्यमेकैकेन विना कृतम् ।
प्रभूतोदनयागार्थमन्ययागार्थमेव वा ॥ ४३४ ॥
View Verse
बिम्बे कस्मिंश्चिदावाह्य पूजिते तु यथाविधि ।
समारब्धे समाप्तेऽस्मिन् यागेऽकस्माद् द्विजोत्तम ॥ ४३५ ॥
View Verse
अन्ये महाहविर्यागे प्राप्ते नैमित्तिकादिषु ।
दातव्यं तत्र मन्त्रज्ञैरन्यत्रोद्वासनादिकम् ॥ ४३६ ॥
View Verse
तत उद्वासयेदत्र स्नपनेऽप्येवमेव हि ।
मूलबिम्बे यथा देयं मन्त्रिभिस्तु महाहविः ॥ ४३७ ॥
View Verse
तृतीयावरणाद्बाह्ये तथैवाभ्यन्तरेऽपि वा ।
महोत्सवविधौ दद्यात् कुत्रचिद्वा महाहविः ॥ ४३८ ॥
View Verse
महताऽनेन हविषा भक्त्या यः पूजयेद्धरिम् ।
स भुक्त्वा विपुलान् भोगानिहं लोके चिरंतनान् ॥ ४३९ ॥
View Verse
कालान्तरेऽत्यये प्राप्ते प्राप्तं यात्यच्युतं पदम् ।
विशेषादभिषिक्तैश्च भूपैर्भूतहिते रतैः ॥ ४४० ॥
View Verse
विधिनानेन कर्तव्यं महोदनसमर्चनम् ।
प्राप्नुवन्ति च ते शश्वत् प्रतिभूपालमण्डलम् ॥ ४४१ ॥
View Verse

Chapter 19

श्रीः ।
एकोनविंशोऽध्यायः ।
सनकः ।
मुने सिद्धान्तनिष्टस्य समाराधनकाङ्क्षिणः ।
समयाचारवैकल्ये प्रायश्चित्तमुदीरय ॥ १ ॥
View Verse
शाण्डिल्यः ।
श्रृणु सम्यक् प्रवक्ष्यामि प्रायश्चित्तं मुने हितम् ।
यत् कृत्वा देशिकादीनां चतुर्णआं शुभमेधते ॥ २ ॥
View Verse
अस्नात्वा विधिवन् मन्त्री नद्यादौ पूजयेद्यदि ।
स्नात्वा मूलसहस्रं तु जप्त्वा संपूजयेद्विभुम् ॥ ३ ॥
View Verse
जीर्णं पर्युषितं वासो दधानो यदि पूजयेत् ।
स्नात्वा विशुद्धवासोभृन्मूलमन्त्रं जपेत्तथा ॥ ४ ॥
View Verse
ध्यानहीनस्त्वनाचान्तः पवित्ररहिताङ्गुलिः ।
केशास्थिलोष्टसिरासृगस्पृश्यस्पर्शनेऽपि च ॥ ५ ॥
View Verse
स्नात्वा यथापुरं पूज्य मूलमन्त्रायुतं जपेत् ।
उदक्यासूतिकाऽपेयचण्डालाद्युपवर्तकः ॥ ६ ॥
View Verse
स्पृशेच्चेद्भगवद्बिम्बं स्नात्वा पूर्वं स्वयं ततः ।
पञ्चगव्येन देवेशमभिषिच्य समर्चयेत् ॥ ७ ॥
View Verse
उदक्यासूतिकाद्यैश्च स्पृष्टः संस्पृश्य कौतुकम् ।
स्नात्वोत्तमेन देवेशमभिषिच्याथ शान्तये ॥ ८ ॥
View Verse
हुत्वाऽथ मूलमन्त्रेण जपेच्चायुतसङ्ख्यया ।
सूतके मृतके बिम्बं स्पृशेद्वा पूजयेद्यदि ॥ ९ ॥
View Verse
अधमोत्तमेन संस्नाप्य प्राग्वदधुत्वा जपेन्मनुम् ।
महापातकिभिः स्पृष्ठो विण्मूत्रापेयपैस्तथा ॥ १० ॥
View Verse
पूजयेद्यदि देवेशं पुनः स्नात्वा विधानतः ।
पूर्ववत् स्नपनं कृत्वा शान्तिहोमादिकं चरेत् ॥ ११ ॥
View Verse
निष्ठीवरुधिरस्वेदयुक्तो देवं स्पृशेद्यदि ।
कुशोदकेन संस्नाप्य विशेषेण यजेद्विभुम् ॥ १२ ॥
View Verse
दिवा गत्वा स्त्रियं स्वीयामस्नात्वा चेत् स्पृशेद्विभुम् ।
उपोष्य पञ्चभिर्गव्यैः कुशोदैः स्नापयेद्विभुम् ॥ १३ ॥
View Verse
परस्त्रीगमासक्तश्चीर्णदुश्चरितो विभुम् ।
पूजये्दवा तथा स्पृष्ठे देधबिम्वेऽभिषेचयेत् ॥ १४ ॥
View Verse
मध्यमाधममार्गेण हुत्वा मन्त्रं जपेच्छतम् ।
कृमिकीटास्थिकेशादिपतङ्गनखरादिकैः ॥ १५ ॥
View Verse
प्राण्यङ्गतुषभस्मादिदुष्टैः पत्रफलादिभिः ।
पुष्पैस्तोयैस्तथाप्यन्यैश्चन्दनाद्यैश्च भूषणैः ॥ १६ ॥
View Verse
तथोपचारैरन्यैश्च वर्जितैरपि वस्तुभिः ।
तथा पर्युषितैः पत्रपुष्पाङ्कुरफलादिभिः ॥ १७ ॥
View Verse
अस्पृश्यप्राणिभिः स्पृष्ठैस्तथा चास्पृश्यवस्तुभिः ।
चण्डालसूतिकाद्यैश्च निषादपतितादिभिः ॥ १८ ॥
View Verse
संस्पृष्ठैश्च परिम्लानैः सरजोभिर्यजेद्यदि ।
जपेदष्टोत्तरशतं मूलमन्त्रमनन्यधीः ॥ १९ ॥
View Verse
एतैर्दुष्टैस्तु वस्त्राद्यैर्देवं संपूजयेद्यदि ।
संस्नाप्य चाधमेनैव पूजयित्वा विधानतः ॥ २० ॥
View Verse
शान्तिहोमं प्रकुर्वीत सहस्राहुतिभिः क्रमात् ।
चण्डालसूतिकोदक्याशबरापेयपायिभिः ॥ २१ ॥
View Verse
संस्पृष्टे पानभक्ष्यादौ देवेशस्य निवेदिते ।
मृण्मयानि परित्यज्य क्षालयित्वेतराणि च ॥ २२ ॥
View Verse
स्नात्वा कुशोदकं पीत्वा स्नापयेदधमेन तु ।
पुनः संपूज्य जुहुयान्मूलेन शतसङ्ख्यया ॥ २३ ॥
View Verse
विड्वराहसृगालाभि काकश्येनखरादिभिः ।
एवमादिभिरन्यैश्च स्पृष्ठेऽन्नादौ निवेदिते ॥ २४ ॥
View Verse
पूर्ववच्छान्तिरेव स्यात्ततः शुद्धं निवेदयेत् ।
परस्त्रीगमनासक्तैर्मक्ष्याभक्ष्याविवेकिभिः ॥ २५ ॥
View Verse
यथेष्टाचारनिरतैरवैष्णवकुलोद्भवैः ।
पव्कं स्पृष्ठं तथा दृष्टं दुष्टं पूयासृगादिभिः ॥ २६ ॥
View Verse
अमत्या चेद्धविर्देत्तं पूर्ववच्छान्तिमाचरेत् ।
शवादिदूषितान्नस्य पव्कस्य विनिवेदने ॥ २७ ॥
View Verse
पूर्ववत् पूज्य देवेशं शान्तिहोमं समाचरेत् ।
त्यक्तमन्नादिकं दद्याद्यदि पूज्य पुनस्तिलैः ॥ २८ ॥
View Verse
सघृतैर्जुहुयान्मन्त्री सहस्रशतसङ्ख्यया ।
तथा पर्युषितान्नस्य प्रदाने शान्तिमाचरेत् ॥ २९ ॥
View Verse
त्यक्तं हविः फलं पुष्पं पवित्रान्नरसादिकम् ।
त्यजेज्जलाशये वाग्नौ भुवि वा गोष्वलोलुपः ॥ ३० ॥
View Verse
मक्षिकाघुणभृङ्गाद्यैर्दष्टं दुष्टं पुरीषगैः ।
पत्रपुष्पफलाद्यन्नं त्यक्तव्यं तदधिष्ठितम् ॥ ३१ ॥
View Verse
अस्त्रोदकेन संप्रोक्ष्य दद्याद्देवाय भक्तितः ।
महाहविर्विधाने तु विशेषमवधारय ॥ ३२ ॥
View Verse
पचनालयमन्यत्र साधितं दीक्षितेतरैः ।
अमन्त्रसंस्कृतं चान्नमविभक्तमलक्षणम् ॥ ३३ ॥
View Verse
निरीक्षितमयोग्यैश्च संपृष्ठं मक्षिकादिभिः ।
संप्रोक्ष्य चास्त्रतोयेन निवेद्यं यत्नगौरवात् ॥ ३४ ॥
View Verse
सेनेशाय न दातव्यं होमं कुर्याद्यथारुचि ।
कारिभ्यः संप्रदानं च बलिदानं न कारयेत् ॥ ३५ ॥
View Verse
अभ्यागतेष्वनाप्तेषु दीनानाथजनेष्वपि ।
प्रदेयमन्यथा शान्तिहोमं कुर्यादनन्यधीः ॥ ३६ ॥
View Verse
बिडालभूषिकासर्पमण्डूकाद्यैश्च जन्तुभिः ।
कृमिकीटपतङ्गाद्यैर्वायसाद्यैश्च खेचरैः ॥ ३७ ॥
View Verse
न देयं देवदेवाय दुष्टं स्पृष्ठं महाहविः ।
दत्ते हुत्वा च जप्त्वा च पुनर्दद्यान्महाहविः ॥ ३८ ॥
View Verse
भोगमन्त्रक्रियाध्यानं मुद्राणामङ्गरूपिणाम् ।
द्वारावरणपूर्वाणां बिंबपीठादिकारिणाम् ॥ ३९ ॥
View Verse
कालानामपि चान्येषां नित्यनैमित्तिकात्मनाम् ।
विपर्यासे प्रवृत्ते तु दिव्यैर्व्यापकपञ्चकैः ॥ ४० ॥
View Verse
प्रत्येकं जुहुयान्मन्त्री तिलैश्चान्यैः शतं शतम् ।
समित्परिदिदर्भाणां कूर्चानां हविषायपि ॥ ४१ ॥
View Verse
आज्यस्थाल्यादिपात्राणमग्नेः स्थण्डिलकुण्डयोः ।
स्त्रुक्स्रवस्य प्रणीताया अभावे लक्षणोज्झिते ॥ ४२ ॥
View Verse
शान्त्यर्थं जुहुयान्मन्त्री प्राग्वद्व्यापकपञ्चकैः ।
अभावे काष्ठसमिधामाज्येन चरुणा हुनेत् ॥ ४३ ॥
View Verse
समिद्भिराज्याभावे तु तिलैर्वा होममाचरेत् ।
अलाभे हविषोऽन्येषामाज्येन जुहुयात् सुधीः ॥ ४४ ॥
View Verse
सर्वधाहोमकर्मार्थं तिलमाज्यं न लोपयेत् ।
तिलाज्ययोरभावे तु हवनं स्यान्निरर्थकम् ॥ ४५ ॥
View Verse
शान्तिहोमं प्रकुर्वीत प्रतिष्ठायां यथोदितम् ।
वह्नौ कुण्डे स्थले चुल्यां संस्कृतेऽनुगतिं गते ॥ ४६ ॥
View Verse
पुनराधाय संस्कृत्य शान्तिहोमादिकं हुनेत् ।
वह्नौ स्पृष्टे तथाऽस्पृश्यैः केशास्थिनखरैरपि ॥ ४७ ॥
View Verse
यथावन्मूलमन्त्रेण जुहुयात् सर्पिषा शतम् ।
उदक्यासूतिकाद्यैश्च सन्निकृष्टेऽयुतं हुनेत् ॥ ४८ ॥
View Verse
संस्पृष्टेऽन्यं समाधाय जुहुयाच्चायुतं जपेत् ।
असमिद्धे हुते वह्नौ पुनर्होमं समाचरेत् ॥ ४९ ॥
View Verse
नैमित्तिकेषु काम्येषु चोत्सवेषु बिशेषतः ।
तदङ्गहुतभुग्यागं कुण्डेऽनय्स्मिन् समाचरेत् ॥ ५० ॥
View Verse
शान्तिहोमं प्रकुर्वीतं कृते चेत्तद्विपर्यये ।
परिवारानमूर्तांश्च मूर्तांश्चैव यथाक्रमम् ॥ ५१ ॥
View Verse
अनर्चयित्वाऽहोरात्रं जपेत्तत्र पुरोऽन्तिके ।
तन्मन्त्रांश्छतमष्टौ तु प्रत्येकं पूजनादिकम् ॥ ५२ ॥
View Verse
पतने बलिवस्तूनामस्पृश्यस्पर्शनेऽपि वा ।
तथैव पात्रेऽबिमते केशलोष्टादिदूषिते ॥ ५३ ॥
View Verse
तत्त्यक्त्वाऽन्येन निर्वर्त्य शान्तिहोमं समाचरेत् ।
बलिं दुष्टे न दद्याच्चेच्छान्तिहोमपुरस्सरम् ॥ ५४ ॥
View Verse
बलिं दत्वा विशेषेण प्रागुक्तं मन्त्रवान् जपेत् ।
नित्योत्सवार्थबिम्बे तु यानान्निपतिते सति ॥ ५५ ॥
View Verse
तदेवोद्धृत्य तद्विम्बमक्षतं स्नाप्य मन्त्रवित् ।
अधमाधममार्गेण शान्त्यर्थं जुहुयादनु ॥ ५६ ॥
View Verse
तथैव च क्षतं बिम्बं समाधाय यथापुरम् ।
कृत्वा प्रातिष्ठिकं कर्म स्वस्थाने स्थापयेदनु ॥ ५७ ॥
View Verse
यावत्समाधिकालं तु तावद्बिम्बान्तरेण वा ।
कूर्चेन वाऽन्यबिम्बेन कुर्यान्नित्योत्सवं हरेः ॥ ५८ ॥
View Verse
अस्पृश्यैर्वाथ संस्पृष्टे बलिबिम्बेऽभिषेचयेत् ।
अधमाधमंमार्गेण शान्तिहोमपुरस्सरम् ॥ ५९ ॥
View Verse
यानस्थे त्वध बिम्बे तु व्यूढेऽयोग्यजनैः स्ति ।
कुशोदकेन संप्रोक्ष्य शान्तिहोमं समाचरेत् ॥ ६० ॥
View Verse
अस्पृश्यैर्यदि संस्पृष्टो बलिबिम्बस्य वाहकः ।
पञ्चगव्येन संप्रोक्ष्य शुचिनाऽन्येन वाहयेत् ॥ ६१ ॥
View Verse
मुद्रामन्त्रक्रियाध्यानद्रव्याणां भोगरूपिणाम् ।
विंशेषाद्बलिकाले तु हानिरुत्पद्यते यदि ॥ ६२ ॥
View Verse
जपेन्मूलसहस्रं तु मन्त्री ध्यानसमन्वितः ।
न दत्तं यदि दातव्यं फलपुष्पोदनादिकम् ॥ ६३ ॥
View Verse
देवोपभुक्तं योग्याय मूलमन्त्रायुतं जपेत् ।
हुतशेषे हविश्शेषे भुक्ते योग्यजनैर्विना ॥ ६४ ॥
View Verse
जपेन्मूलायुतं मन्त्री दाता किल्पिषशान्तये ।
सात्वतैः सत्वनिरतैः सदा भगवतःप्रियैः ॥ ६५ ॥
View Verse
तत्तं भगवते यद्यत् तत्तत् पावनपावनम् ।
व्रह्नग्नस्य सुरापस्य स्वर्णस्तेयरतस्य च ॥ ६६ ॥
View Verse
गुरुतल्परतस्यपि संयुक्तस्यापि तैः सह ।
प्राशनं सर्वपापघ्नमन्येषापपि किं पुनः ॥ ६७ ॥
View Verse
तस्मात्तत् संप्रदातव्यं ज्ञानिनां मुख्यकल्पने ।
त्रैवर्णिकानां दातव्यं दीक्षितानां तु मध्यमे ॥ ६८ ॥
View Verse
केवलानां तु भक्तानां त्रैविद्यानां द्विजन्मनाम् ।
प्रधादानमनुकल्पे स्यादन्यथा प्राशयेत् स्वयम् ॥ ६९ ॥
View Verse
विष्वक्सेनस्य यद्दत्तं पूजान्ते मन्त्रिभिर्विभोः ।
न भोक्तव्यंविशेषेण त्यक्तव्यं भूजलादिषु ॥ ७० ॥
View Verse
गोषु वा विष्णुभूतानां तृप्तये हितमिच्छताम् ।
भोक्ता किल्बिषशान्त्यर्थं व्रतं चान्द्रायणं चरेत् ॥ ७१ ॥
View Verse
संकल्प्य यागं होमान्तं हवनं न कृतं यदि ।
द्विगुणं हवन कृत्वा पूर्णान्तं मन्त्रवित्तमः ॥ ७२ ॥
View Verse
एकद्वित्रिचतुः पञ्चषट्कालेषु यथाक्रमम् ।
एकार्दिदिनमासर्तुवत्सरेषु तथैव च ॥ ७३ ॥
View Verse
वह्निकार्येषु लुप्तेषु नित्यनैमित्तिकेष्चपि ।
द्विगुणं मिश्रितैर्होमैरधमस्नपनं चरेत् ॥ ७४ ॥
View Verse
पूजालोपे प्रवक्ष्यामि प्रायश्चित्तं मुने श्रृणु ।
औपचारिकसांस्पर्शहृदयंगमरूपिणाम् ॥ ७५ ॥
View Verse
परिच्युतौ च भोगानां त्रयाणां क्रमशो मुने ।
पूजान्ते सर्वबीजानि मात्रावित्तं घृतोदनम् ॥ ७६ ॥
View Verse
निवेदनीयं देवस्य विशेषेज्यापुरस्सरम् ।
एककाले च दिवसे पक्षे वैशेषिकार्चनम् ॥ ७७ ॥
View Verse
तत्तद्द्विगुणितैर्द्रव्यैर्बलिहोमान्तमाचरेत् ।
एकमासीयपूजाया यावद्द्वादशमासिकी ॥ ७८ ॥
View Verse
तावद्द्विगुणितैर्द्रव्यैर्माससङ्ख्यार्चनेऽपि च ।
स्नपनं चापि नवकमधमाधमपूर्वकम् ॥ ७९ ॥
View Verse
मुख्योत्तमावसानं तु सहस्रकलशाप्लवम् ।
संप्रोक्षणं च विध्युक्तं प्रतिष्ठां च क्रमाच्चरेत् ॥ ८० ॥
View Verse
आरभ्य मासिकीं पूजां यावद्द्वादशमासिकी ।
तावदेकैकवृद्ध्या तु महता हविषा यजेत् ॥ ८१ ॥
View Verse
समिद्भिः सप्तभिर्हुत्वा पुरा पश्चाद्धृताप्लुतैः ।
घृतैश्च जुहुयान्मन्त्री त्वासहस्राद्यथाबलम् ॥ ८२ ॥
View Verse
तथैव च जपं कुर्यान्मूलमन्त्रस्य सादरम् ।
वलिप्रदानहीने तु हुत्वा मूलशत ततः ॥ ८३ ॥
View Verse
तत्तदावरणद्वारदेवानां स्वस्वसंज्ञया ।
जुहुयात्तिलमिश्रेण घृतेनैव शतं शतम् ॥ ८४ ॥
View Verse
प्रायश्चित्तं प्रवक्ष्यामि नित्यादिस्नपनेषु ते ।
गृहार्चने प्रकुर्वीत नित्यादिस्नपनं सुधीः ॥ ८५ ॥
View Verse
तत्र स्नानीयतोयेन पूजार्थमभिषेचयेत् ।
वहुबेरे तु कर्मार्चां स्नापयेदग्रमण्टपे ॥ ८६ ॥
View Verse
प्रासादे वितते ब्रह्नभागस्थे भद्रविष्टरे ।
स्नापयेत् स्नानकलशैः स्थापितैरग्रमण्टपे ॥ ८७ ॥
View Verse
मद्याह्ने चापि सायाह्ने स्नानीयकलशोद्धृतैः ।
स्नानद्रव्यसमेतैर्वा वारिभिः प्रोक्षयेत् क्रमात् ॥ ८८ ॥
View Verse
मूलबिम्बादिबिम्बानां कुर्याद्वा विनिवेदनम् ।
बहुबेरेऽभिषेकार्चां तां गृहीत्वाग्रमण्टपात् ॥ ८९ ॥
View Verse
न गच्छेद्बाह्यतो मन्त्री स्नपनार्थं बहिर्गते ।
शान्तिहोमं प्रकुर्वीत तस्य दोषस्य शान्तये ॥ ९० ॥
View Verse
एकबेरे बृहद्रूपे कर्मार्चामभिषेचयेत् ।
बृहद्धटैश्च बहुभिः सहस्रकलशादिभिः ॥ ९१ ॥
View Verse
यदाभिषेको बाह्यस्थे मण्टपे स्नानकौतुकम् ।
संस्नाप्य विधिवन्मन्त्री महता विभवेन तु ॥ ९२ ॥
View Verse
पूजयित्वोत्सवार्चायां विनिवेद्य महाहविः ।
कलशस्नपनार्थं चेन्न कुर्यादङ्कुरार्पणम् ॥ ९३ ॥
View Verse
तथा प्रतिसराबन्धं मूलमन्त्रायुतं जपेत् ।
पुरस्तादङ्कुरानर्प्य बद्ध्रवा बिम्बेऽपि कौतुकम् ॥ ९४ ॥
View Verse
अमत्या वा समत्या वा स्नपनं नाचरेद्यदि ।
शान्तिहोमं पुरा कृत्वा जपेदष्टोत्तरायुतम् ॥ ९५ ॥
View Verse
कौतुकाङ्कुरपूर्वं तु पुनरेवाभिषेचयेत् ।
अकृत्वाङ्कुरयागं तु तथा कौतुकनन्धनम् ॥ ९६ ॥
View Verse
स्नापितो यदि देवेशः स्नानं तन्निष्फलं भवेत् ।
विधिवच्चाङ्कुरावापं तथा कौतुकबन्धनम् ॥ ९७ ॥
View Verse
स्नापयेद्विधिवन्मन्त्री शान्तिहोमषुरस्सरम् ।
संकल्पिते तु स्नपने त्वकृते द्विगुणं चरेत् ॥ ९८ ॥
View Verse
नासादितैर्द्रव्यहीनैः स्नापितेऽप्येवमाचरेत् ।
अधिवासितकुंभस्थतोयानां पूर्वमेव तु ॥ ९९ ॥
View Verse
न पर्युषितहानिः स्यान्मन्त्रन्यासैस्तथार्चनैः ।
स्थापितेष्वथ कुंभेषु हीनेषु स्थाप्य पूर्ववत् ॥ १०० ॥
View Verse
जपेत् कलशदैवत्यं मन्त्रमष्टोत्तरं शतम् ।
समुद्धृतेषु कुंभेषु रिक्तेषु सुषिरादिना ॥ १०१ ॥
View Verse
प्राग्वदन्यं प्रतिष्ठाप्य जपेदष्टोत्तरं शतम् ।
अस्पृश्यैश्च तथा स्पृष्ठे मार्जाराराद्यैश्च दंशिते ॥ १०२ ॥
View Verse
श्वादिभिः कुक्कुटाद्यैर्वा शबराद्यैर्विजातिभिः ।
केशास्थिलोष्टसंदुष्टे पुनः कलशसञ्चये ॥ १०३ ॥
View Verse
सद्द्रव्यं पूर्ववत् स्थाप्य तद्दैवत्यं जपेच्छतम् ।
दुष्टैः संस्नापिते देवे पुनरप्यभिषेचयेत् ॥ १०४ ॥
View Verse
व्यापकैः पञ्चभिर्मन्त्रैः प्रत्येकं जुहुयाच्छतम् ।
पूर्ववत् कुंभदैवत्यं जपेद्ध्यानसमन्वितम् ॥ १०५ ॥
View Verse
अक्रमेण समुद्धारे स्थापने द्रव्ययोजने ।
अनर्चने च मन्त्राणां जपेदष्टोत्तरं शतम् ॥ १०६ ॥
View Verse
माहिषाजोष्ट्रसंभूतैः दधिक्षीरघृतादिभिः ।
स्नपनाद्देवदेवस्य मूलमन्त्रेण मन्त्रवित् ॥ १०७ ॥
View Verse
समिद्भिः सप्तभिर्होमं कुर्यादष्टोत्तरं शतत् ।
गेयमङ्गऌअवादित्रस्तोत्रनृत्तादिभिर्विना ॥ १०८ ॥
View Verse
वीणावेणुनिनादैश्च तथा पुण्यहवाचनैः ।
विनाबिषेचिते मूलं शतमष्टोत्तरं जपेत् ॥ १०९ ॥
View Verse
बिम्बेऽभिषिच्यमाने तु पतिते स्नानविष्टरात् ।
चलिते वा विशेषेण प्रतिष्ठास्नपनं चरेत् ॥ ११० ॥
View Verse
चरुणा सर्पिषा चैव प्रागुक्तैर्मूलपञ्चकैः ।
हुत्वा चाष्टोत्तरशतं तत्सङ्ख्यं च जपेत्ततः ॥ १११ ॥
View Verse
प्रभापीठास्त्रवस्त्राह्गभेदभङ्गादिदूषिते ।
तत्तद्विम्बगतां शक्तिं नियोज्य ध्रुवकौतुके ॥ ११२ ॥
View Verse
सन्धानं शिल्पिभिः कृत्वा सुसंस्कृत्य तदैव तु ।
शेषकर्मणि निर्वृत्ते स्नापयेदुत्तमक्रमात् ॥ ११३ ॥
View Verse
तिलेन चरुणाज्येन प्रत्येकं च सहस्रशः ।
जुहुयान्मूलमन्त्रेण तेन शान्तिर्भविष्यति ॥ ११४ ॥
View Verse
तदा न घटितुं शक्तिर्यदि स्याद्यत्नगौरवात् ।
शोभार्थबिम्बैः पुरतः स्थापितैः शेषमाचरेत् ॥ ११५ ॥
View Verse
एवमुत्सवतीर्थार्थशयनादिषु मूर्तिषु ।
तत्तदङ्गादिसन्धानं स्थापनं योजनं पुन ॥ ११६ ॥
View Verse
उक्तप्रमाणादधिके हीने स्नपनवस्तुनि ।
शरावे कलशे कूर्चे वस्त्रे कोष्टे सदस्यपि ॥ ११७ ॥
View Verse
पालिकादौ तथा पीठे तोरणे चाष्टमङ्गऌए ।
द्वारमङ्गऌअकुंभेषु साधनेष्वितरेष्वपि ॥ ११८ ॥
View Verse
मूलमन्त्रं जपेन्मन्त्री शतमष्टाधिकं सुधीः ।
मोक्षार्थी स्नापयेद्देवं सर्वकालं यथाविधि ॥ ११९ ॥
View Verse
रिपूणां निग्रहार्थाय दिवा कुर्यात्तु सर्वदा ।
स्वर्गकामस्तु पूर्वाह्णे धर्मार्थी दिनमध्यमे ॥ १२० ॥
View Verse
विनान्ते सर्वभोगार्थी प्रायश्चित्तेषु सर्वदा ।
चन्द्वसूर्योपरागे च तत्काले स्नापयेद्विभुम् ॥ १२१ ॥
View Verse
संक्रान्तिषु च सूर्यस्य प्राग्वत् पश्चात्तथैव च ।
सङ्क्रान्तिकालविज्ञानान्नाड्यः षोडश षोडश ॥ १२२ ॥
View Verse
तदानीं स्नापयेद्देवमनुक्रान्ते हुनेन्मनुम् ।
सहस्रकृत्वस्तदनु तत्समं जपमाचरेत् ॥ १२३ ॥
View Verse
पुरस्तात् सर्वकर्मार्थमङ्कुरेष्वर्पितेष्वनु ।
रक्तेषु श्यामवर्णेषु तथा तिर्यग्गतेषु च ॥ १२४ ॥
View Verse
वक्रेषु चाप्ररूढेषु दक्षिणाबिमुखेषु च ।
विधिहीनेषु चास्पृश्यस्पृष्टेष्वधिकृतैर्विना ॥ १२५ ॥
View Verse
पालिकादिषु भिन्नेषु नष्टेषु पतितेषु च ।
मूषिकाद्यैश्च दष्टेषु मूलमन्त्रायुतं जपेत् ॥ १२६ ॥
View Verse
पुरस्तादेकयागार्थमङ्कुरेष्वर्पितेषु च ।
असमाप्ते ततस्तस्मिन् प्राप्ते वैशेषिकान्तरे ॥ १२७ ॥
View Verse
तदर्थमपि कुर्वीत पालिकास्वङ्कुरार्पणम् ।
उत्सवाद्यन्तयोर्मध्ये रक्षासूत्रविवर्जितम् ॥ १२८ ॥
View Verse
बद्धप्रतिसरे बिम्बे स्नपनार्थं तु मन्त्रिणा ।
संप्राप्ते स्नपनेऽन्यस्मिन् शीर्घकर्मनिमित्ततः ॥ १२९ ॥
View Verse
तदर्थं कौतुकं बध्वा स्नानकर्म समाप्य च ।
पूर्वारब्धं प्रकुर्वीत प्रायश्चित्तादनन्तरम् ॥ १३० ॥
View Verse
अन्यत्र कमशः कुर्यात् पूर्वारब्धं समाप्य च ।
अन्यथा चेदिदं कर्म निष्फलं भवति द्विज ॥ १३१ ॥
View Verse
तद्दोषपरिहारार्थं शान्तिहोमो जपस्तथा ।
सहस्रसङ्ख्याया युक्तो मूलमन्त्रेण मन्त्रवित् ॥ १३२ ॥
View Verse
स्नपनेऽस्मिन्नतिक्रान्ते मूलमन्त्रायुतं जपेत् ।
मूषिकासर्पमण्डूकचुचुंदर्यादिजन्तुभिः ॥ १३३ ॥
View Verse
स्थापिते कलशे स्पृष्टे लङ्घिते सति तं त्यजेत् ।
पुनरन्यं तथा स्थाप्य जपेन्मूलशतं गुरुः ॥ १३४ ॥
View Verse
प्रायश्चित्तेष्वनुक्तेषु एवमांदिषु सत्सु च ।
मूलमंत्रायुतं चैव जपेदष्टोत्तरं गुरुः ॥ १३५ ॥
View Verse
प्रायश्चित्तं प्रवक्ष्यामि महोत्सवविधौ मुने ।
गृहे प्रतिष्ठिते बिम्बे न कुर्वीत महोत्सवम् ॥ १३६ ॥
View Verse
स्वतन्त्रं परतन्त्रं च दिव्याद्यायतनं द्विधा ।
पर्वताग्रे नदीतीरे तीर्थानां निकटे विभोः ॥ १३७ ॥
View Verse
स्थापितस्यालयं विद्धि स्वतन्त्रमिति सत्तम ।
ग्रामाद्यङ्गतया क्लृप्तमस्वतन्त्रमितीरितम् ॥ १३८ ॥
View Verse
तयोर्महोत्सवं कुर्यात् त्रयोदशविधं मुने ।
सङ्कल्प्यैकतमे तत्र प्रवृत्ते वत्सरं प्रति ॥ १३९ ॥
View Verse
न तु कुर्याद्विभूत्यर्थं तस्मान्न्यूनं दिनोत्सवम् ।
अमत्या यदि कुर्वीत कुर्यादूर्ध्वं गतोत्सवम् ॥ १४० ॥
View Verse
प्राक् प्रवृत्तं तु शान्त्यर्थमन्यथा स्यान्नृपक्षयः ।
प्रमाणरहिते वंशे पटे बालध्वजेऽपि च ॥ १४१ ॥
View Verse
वर्णभूषणमानाद्ये दण्डे यष्टौ च दैणवे ।
फेणके चावटे पीठे प्रपायां ध्वजरज्जुनि ॥ १४२ ॥
View Verse
विधिवच्छान्तिहोमं तु जपान्तं प्राग्वदाचरेत् ।
छिन्ने भिन्नेऽग्निना दब्धे नष्टे मूषिकदंशिते ॥ १४३ ॥
View Verse
विण्मूत्ररुधिरापेयरेतोनिष्ठीवनादिभिः ।
दूषितं ध्वजमुत्सृज्य प्राग्वदन्यं समाहरेत् ॥ १४४ ॥
View Verse
प्रतिष्ठाप्याथ दण्डाग्रं मानयित्वाधमेन तु ।
संस्नाप्य दोषशान्त्यर्थं जुहुयात् सर्पिषा शतम् ॥ १४५ ॥
View Verse
स्तम्भाग्रे ध्वजवस्त्रस्य रक्षाकार्याय दीक्षितैः ।
आरोहणं न दोषोऽत्र रक्षाहेतोर्द्विजादिभिः ॥ १४६ ॥
View Verse
सुजीर्णान् फेणदण्डादीन् परित्यज्य ततोऽपरान् ।
संस्कृत्य योजयेत्तत्र बध्वा तु ध्वजमञ्जसा ॥ १४७ ॥
View Verse
मध्यमस्नपनान्तं तु शान्तिहोमं समाचरेत् ।
वर्षवातातपस्पर्शैः लुप्तवर्णे खगध्वजे ॥ १४८ ॥
View Verse
न किंचिदप्यनिष्टं स्यात् स्तंभाग्रे यावदुत्सवम् ।
बध्वा ध्वजपटे स्तम्भे वातवेगादिहेतुभिः ॥ १४९ ॥
View Verse
तमूलदेशे तु विच्छिन्ने सध्वजे पतिते सति ।
अकृत्वा ध्वजविश्लेषं स्थापयेच्छेषमञ्जसा ॥ १५० ॥
View Verse
स्नपनं चोत्तमं कुर्यात् चतुः स्थानार्चनादिकम् ।
गोभूहेमयवादीनां दानं शक्त्या समाचरेत् ॥ १५१ ॥
View Verse
उत्सवध्वजभङ्गेन राज्याद्भ्रष्टो भवेन्नृपः ।
तस्मात्तत्परिहारार्थं त्वरया शान्तिमाचरेत् ॥ १५२ ॥
View Verse
हेतुभिर्वातवेगाद्यैर्ध्वजे निपतिते भुवि ।
क्षिप्रमुद्धृत्य तद्बध्वा स्नपनं चाधमेन तु ॥ १५३ ॥
View Verse
शान्त्यर्थं जुहुयादाज्यं तिलेन शतसङ्ख्यया ।
ध्वजे निपतिते छिन्ने कुर्यात् स्नपनमुत्तमम् ॥ १५४ ॥
View Verse
पुनरन्यं समुत्पाद्य बध्नीयात् संस्कृतं तथा ।
अन्यथा यदि दोषस्याद्राज्ञो राष्ट्रस्य मन्त्रिणः ॥ १५५ ॥
View Verse
पक्षीशाधिष्टिते कुंभे नष्टे वा पतिते भुवि ।
स्पृष्टेऽस्पृश्यैस्तथा केशलोष्टास्थिशकृदादिभिः ॥ १५६ ॥
View Verse
कुंभेऽन्यस्मिन् समारोप्य तां शक्तिं कुंभमध्यगाम् ।
जप्त्वा मूलायुतं मन्त्री शेषकर्म समाचरेत् ॥ १५७ ॥
View Verse
अनुक्तानां तु सर्वेषां जपेदेवं यथाबलम् ।
देवतावाहनार्थं तु भेरीताडनकर्मणि ॥ १५८ ॥
View Verse
वाद्यजातेषु सर्वेषु मृदङ्गपणवादिषु ।
न स्थापितेषु स्वस्थानेतत्पूजातविलोपने ॥ १५९ ॥
View Verse
पुण्याहपाठराहित्ये तथार्वाहनगाधया ।
सगणेषु च भूतेषु सग्रहेपूत्कटादिषु ॥ १६० ॥
View Verse
स्वासु दिक्षु यथान्यायमनाहुतेषु सत्सु च ।
द्वारावरणरथ्यासु ग्रामवास्तुष्वनुक्रमात् ॥ १६१ ॥
View Verse
बलिप्रदानहीने तु तथा ताऌअस्वरादिषु ।
गेयनृत्तेषु हीनेषु शान्तिहोमपुरस्सरम् ॥ १६२ ॥
View Verse
प्रत्येकं देवतामन्त्रमष्टधाऽवर्तयेद्बुधः ।
पुनरुत्पादयेत् सर्वं देवतावाहनादिकम् ॥ १६३ ॥
View Verse
अनङ्कुरार्पणाग्रं तु प्रारभेच्च महोत्सवम् ।
पुनःप्राप्ते दिने वाथ सद्यः कृत्वाऽङ्कुरार्पणम् ॥ १६४ ॥
View Verse
शान्तिहोमं प्रकुर्वीत पूर्ववच्छतसङ्ख्यया ।
तथैव तीर्थयात्रार्थं बूतरात्रादिसिद्धये ॥ १६५ ॥
View Verse
परिच्युतौ तथाह्गानामङ्कुरार्पणकर्मणि ।
न कृतं चेत्तथा साङ्गं तथा कौतुकबन्धनम् ॥ १६६ ॥
View Verse
कर्तव्या पूर्ववच्छान्तिर्होमेन सजपेन च ।
उत्सवार्थाधिवासेषु चतुःस्थानार्चनेऽपि च ॥ १६७ ॥
View Verse
आरंभकलशस्नाने स्नानबेराभिषेचने ।
महाहयिषि होमे च दिवसेषु तथा निशि ॥ १६८ ॥
View Verse
भूतादिरात्रिदेवानां बलिर्द्रव्यैर्यथोदितैः ।
हवने च तथोद्याने लीलया मृगयोत्सवे ॥ १६९ ॥
View Verse
मृगयायां विशेषेण लोपः सञ्जायते यदि ।
शान्तिहोमादिकं तत्तत् कृत्वा शेषं समाचरेत् ॥ १७० ॥
View Verse
अधिष्ठितेषु बिम्बेन यानेषु पतितेषु वा ।
भिन्नेष्वपि च वाहेषु प्रमादाद्यत्र कुत्रचित् ॥ १७१ ॥
View Verse
यानान्तरे समारोप्य वाहने वाऽथ कौतुकम् ।
शान्तिहोमं पुरा कृत्वा जपेन्मूलसहस्रकम् ॥ १७२ ॥
View Verse
गोभूहेमादिकं दद्याद्वैष्णवेभ्यो गुरोरपि ।
यानाद्वा वाहनाद्वाऽपि बिम्बे तु पतिते सति ॥ १७३ ॥
View Verse
वलिबेरोक्तविधिना समाधानपुरस्सरम् ।
स्नपनं शान्तिहोमं च मन्त्रजापान्तमाचरेत् ॥ १७४ ॥
View Verse
समाधौ दीर्धकालीने कुर्याच्छोभार्यकौतुके ।
शेषकर्म माहर्चायां निर्वृत्ते सन्धिकर्मणि ॥ १७५ ॥
View Verse
पूर्ववत्रां प्रतिष्ठाप्य यथावच्छान्तिमाचरेत् ।
सून्येषु ग्रामनगरपत्तनादिषु चोत्सवम् ॥ १७६ ॥
View Verse
बलिदानं न कुर्वीत कृते तत्रापि निष्फलम् ।
समाहिते तुग्रामादौ महाशान्तिपुरस्सरम् ॥ १७७ ॥
View Verse
पुनरप्युत्सवं कुर्यात् ब्राह्नणानामनुज्ञया ।
ग्रामादावग्निना दग्धे वात्याऽसारादिदूषिते ॥ १७८ ॥
View Verse
शान्तिहोमं पुरा कृत्वा पश्चादुत्सवमाचरेत् ।
स्थापिते पर्वताग्रेषु देवबिम्बे महोत्सवम् ॥ १७९ ॥
View Verse
यथावकाशं कुर्वीत तत्रैव बलिपूर्वकम् ।
तदासन्नेऽग्रहारादौ शक्यं चेत् कर्तुमुत्सवम् ॥ १८० ॥
View Verse
बलिप्रदानरहितं तत्र कुर्यात् परिभ्रमम् ।
देवताह्वानवेलायामाहूतानां विभोः पुरा ॥ १८१ ॥
View Verse
देवासुरगणादीनां भूतानामप्यनुक्रमात् ।
उत्सवार्थबलिं दद्यान्महापीठे दिवानिशम् ॥ १८२ ॥
View Verse
ध्वजार्थमङ्कुरानर्प्य ध्वजमुत्थाप्य वा तथा ।
दीक्षार्थं कौतुकं बध्वा पुरा तीर्थाघमर्षणात् ॥ १८३ ॥
View Verse
देशिके व्याधिते वाऽथ मृते कार्यान्तरोद्यते ।
सूतकाद्युपघाते च शेषकर्मसमापनम् ॥ १८४ ॥
View Verse
कर्तव्यं गुरुणाऽन्येन जप्त्वा मूलायुतं जपेत् ।
रिपुचोराग्निवृष्ट्यादिभयाद्विघ्ने महोत्सवे ॥ १८५ ॥
View Verse
जाते दद्याद्वलिं तस्मिन्नष्टेऽप्यहनि देशिकः ।
अतीतं तु बलिं दद्याच्छान्तिहोमजपान्वितम् ॥ १८६ ॥
View Verse
कुर्यादुत्सवायात्रां च विहितेऽह्नि महोत्सवम् ।
भ्रष्टायां तीर्थयात्रायामवारुह्य खगध्वजम् ॥ १८७ ॥
View Verse
पूर्ववद्धजमुत्थाप्य कुर्यात्तीर्थान्तमुत्सवम् ।
प्रतिरात्रिबलिद्रव्यव्यत्यासे सर्पिषा शतम् ॥ १८८ ॥
View Verse
हुत्वाऽग्नौ मूलमन्त्रेण जपेदष्टोत्तरं शतम् ।
कालेऽन्यस्मिन् बलिं दद्यात्तत्काले प्राप्तमञ्जसा ॥ १८९ ॥
View Verse
व्त्यासे बलिदेवानां जपो होमश्च तादृशः ।
अङ्कुरार्पणपूर्वश्च नारब्धश्चेन्महोत्सवः ॥ १९० ॥
View Verse
तथैव चाङ्कुरावापं कृत्वा मूलायुतं जपेत् ।
विशेषात् पालिकावासे रथ्यावृतिषु चोत्सवे ॥ १९१ ॥
View Verse
ग्रामवास्तुषु रथ्यासु भूतानां बलिमाचरेत् ।
न चाश्रये प्रकुर्वीत राजराष्ट्रविवृद्धये ॥ १९२ ॥
View Verse
दद्याद् ग्रामादिवृद्ध्यर्थं तस्मिन्नप्यालये बलिम् ।
शान्तिहोमं प्रकुर्वीत बलिदानेऽन्यथाकृते ॥ १९३ ॥
View Verse
खद्योतपांसुनीहारवर्षवातातपादिभिः ।
बिम्बे महोत्सवे स्पृष्ठे सजपं होममाचरेत् ॥ १९४ ॥
View Verse
प्रपामण्टपपात्राणामग्निदाहे च पूर्ववत् ।
निर्वापितेषु दीपेषु पूर्ववच्छान्तिरीरिता ॥ १९५ ॥
View Verse
वस्त्रभूषणमाल्यानां हेतीनां च तथैव च ।
छत्रचामरपूर्वाणां महतां मङ्गऌआत्मनाम् ॥ १९६ ॥
View Verse
ध्वजतोरणपूर्वाणां पीठानामङ्गरूपिणाम् ।
अग्निदाहे समुत्पन्ने पुनरुत्पाद्य तानपि ॥ १९७ ॥
View Verse
सजपं शान्तिहोमं तु कुर्यादष्टोत्तरं शतम् ।
प्रागुक्तानां च सर्वेषां दीपानां तु विशेषतः ॥ १९८ ॥
View Verse
पतने भुवि सञ्जाते मूलमन्त्रेण मन्त्रवित् ।
अष्टोत्तरसहस्रं तु हुत्वा तत्सङ्ख्यया जपेत् ॥ १९९ ॥
View Verse
दिवारात्र्युत्सवं कुर्यादासूर्यास्तमयोदयात् ।
कालयोर्विपरीतश्चेदधमस्नपनं रेत् ॥ २०० ॥
View Verse
तीर्थयात्रा प्रकर्तव्या सूर्यस्यास्तमयात् पुरा ।
पूर्वभागे रजन्यां वा कुर्यात् स्वव्यक्तदिव्ययोः ॥ २०१ ॥
View Verse
उत्तमस्नपनं कुर्यात्तीर्थकालविपर्यये ।
द्विवारयुक्ते तीर्थर्क्षे पुरूहूतक्षणान्वितम् ॥ २०२ ॥
View Verse
पुण्यं भवेत्तत्पूर्वं स्यादुभयोर्विद्यते यदि ।
देवस्योत्सवयात्रायां स्पृष्ठेऽस्पृश्यैस्तु देशिके ॥ २०३ ॥
View Verse
न दोषस्तत्र विर्ज्ञयो विशेषाद्देवसन्निधौ ।
उत्सवे होमविधुरे द्विगुणं जुहुयाज्जपेत् ॥ २०४ ॥
View Verse
नेत्रास्त्रसहितं मूलं प्रत्येकं शतसङ्ख्यया ।
सर्वभक्तजनैर्देवो यथाभिमुखदिङ्मुखैः ॥ २०५ ॥
View Verse
स्रग्गन्धवस्त्रक्षीरान्न्नपानकापूपसत्फलैः ।
ताम्बूलैर्गन्धसंमिश्रैस्तोषणीयो यथाबलम् ॥ २०६ ॥
View Verse
सुस्थितैर्वाऽसनासीनैर्देशिकैर्वाथ साधकैः ।
पूजिते सति देवेशे न दोषो भक्तिगौरवात् ॥ २०७ ॥
View Verse
बिम्बे चोरादिभिर्नष्टे वर्तमाने महोत्सवे ।
बिम्बान्तरं समापाद्य प्रतिष्ठाप्य यथापुरम् ॥ २०८ ॥
View Verse
महाभिषेकं हवनं जपं कृत्वा यथाविधि ।
कुर्यादुत्सवशेषं तु कर्मार्चादिषु वाऽचरेत् ॥ २०९ ॥
View Verse
निशायां सर्वशान्त्यर्थी पुष्ट्यर्थी मध्यमे दिने ।
आप्यायनार्थी पूर्वाह्णे धर्मार्थी मध्यतो निशि ॥ २१० ॥
View Verse
तथा रिपुक्षयार्थी च पुष्पयागं समाचरेत् ।
न च पर्युषितैः पुष्पैः परिम्लानैस्तदार्चयेत् ॥ २११ ॥
View Verse
तद्दोषशानत्ये कुर्यात् स्नपनं मभ्यमं चरेत् ।
न कृते पुष्पयागेऽस्मिन् कुर्यात् स्नपनमुत्तमम् ॥ २१२ ॥
View Verse
देशिकाः षट् समाख्याताः पुष्पयागे विशेषतः ।
चतुस्थानार्चनार्थं तु चत्वारः परिकीर्तिताः ॥ २१३ ॥
View Verse
तथैकः स्नपनार्चायां बल्यादिषु तथेतरः ।
जलोत्थितानि पुष्पाणि त्रिरात्रोपोषितान्यपि ॥ २१४ ॥
View Verse
पुष्पयागे नियुञ्जीत न दोषस्तेषु सत्तम ।
तथैव पुष्पपूजार्थं कल्हारकुसुमान्यपि ॥ २१५ ॥
View Verse
तथैव दमनीपत्रं पुष्पयागे विशेषतः ।
पूर्वरात्रोपोषितैश्च दिवा संपूजयेत् प्रभुम् ॥ २१६ ॥
View Verse
न पूर्वाह्णोषितैस्तद्वन्निशायां तु समर्चयेत् ।
महोत्सवान्ते स्नपने न कृते स्नापयेत्ततः ॥ २१७ ॥
View Verse
अधमोत्तममार्गेण शान्त्यर्थं जुहुयात्ततः ।
तद्रात्रौ ध्वजदण्डाग्रादवरोप्य खगध्वजम् ॥ २१८ ॥
View Verse
ग्रामादिवास्तुनिष्ठानां बलिं दत्वा विसर्जयेत् ।
उत्सवान्ते ध्वजे नष्टे पुरस्तादवरोहणात् ॥ २१९ ॥
View Verse
प्राग्वद्ध्वजं समुत्थाप्य पुनरेवावरोहयेत् ।
एकाहो द्विबलिर्वाथ तथैकबलिरेव वा ॥ २२० ॥
View Verse
बलितीर्थविहीनो वा परिभ्रमणवर्जितः ।
चतुर्भिर्बलिभिर्युक्तः त्रियहः पञ्चवासरात् ॥ २२१ ॥
View Verse
पञ्चानामुपरिस्थानामानक्षत्रदिनोत्सवात् ।
द्विगुणं दिनसङ्ख्याया विहीने बलिमाचरेत् ॥ २२२ ॥
View Verse
ऊनाऽधिकैश्चेद्वलिभिर्युक्तास्त्वेते महोत्सवाः ।
कर्तुः कारयितुश्चापि राज्ञो राष्ट्रस्य मन्त्रिणः ॥ २२३ ॥
View Verse
दारुणा व्याधयो नित्यं भविष्यन्त्यसुखान्यपि ।
तद्दोषशान्तये कुर्यात् स्नपनं चाधमोत्तमम् ॥ २२४ ॥
View Verse
वैशेषिकेषु प्राप्तेषु वर्तमाने महोत्सवे ।
द्वादश्यादिषु तत् सर्वं यथान्यायं समर्चयेत् ॥ २२५ ॥
View Verse
न लोपयेत् प्रयत्नेन प्राप्तं वैशेषिकं सुधीः ।
जपेदस्त्रायुतं मन्त्री त्वकृतेषु च शान्तये ॥ २२६ ॥
View Verse
प्रायश्चित्तमितो वक्ष्ये पवित्रारोहणाय ते ।
अप्रमाणे पवित्राणां कुण्डमण्डलयोरपि ॥ २२७ ॥
View Verse
अस्त्रमन्त्रायुतं जप्त्वा पूजयेदस्त्रबन्धनम् ।
पत्रपुष्पफलादीनां पूरकाणां तथैव च ॥ २२८ ॥
View Verse
अतीत उक्तकाले तु चातुर्मास्यस्य मध्यतः ।
मध्यमं स्नपनं कृत्वा कालेऽन्यस्मिन् तदाचरेत् ॥ २२९ ॥
View Verse
कालात्यये तथान्येषु शान्तिरेवं विधीयते ।
पवित्रे केशपाषाणचर्माङ्गारनखादिभिः ॥ २३० ॥
View Verse
दूषिते वह्निना दग्धे छिन्ने दष्टेऽथ भक्षिते ।
मूषिकाद्यैश्च काकाद्यैः स्पृष्ठे त्यक्त्वा तु तत् पुनः ॥ २३१ ॥
View Verse
सूत्रैस्तथाविधं कृत्वा त्वधिवास्य यथापुरम् ।
उत्तमं स्नपनं कृत्वा समारोप्य पवित्रकम् ॥ २३२ ॥
View Verse
शान्त्यर्थं जुहुयान्मन्त्री मधुक्षीरादिभिः क्रमात् ।
अष्टोत्तरं शतं मूलमन्त्रादि च तथा जपेत् ॥ २३३ ॥
View Verse
अस्पृश्यैरपि संस्पृष्टममत्यारोपितं यदि ।
पुनरन्यं समारोप्य पूर्ववच्छान्तिमाचरेत् ॥ २३४ ॥
View Verse
स्थापितं पूजितं कुंभमस्पृश्यः संस्पृशेद्यदि ।
कुंभान्तरे समावाह्य जपेन्भूलसहस्रकम् ॥ २३५ ॥
View Verse
कुंभभेदे तथा स्थाप्य मूलमन्त्रायुतं जपेत् ।
अत्र बिम्बस्य पतने भेदे च्छेदे यथापुरम् ॥ २३६ ॥
View Verse
समाधानादिकं कृत्वा स्थाप्य शान्तिं समाचरेत् ।
पवित्रैरक्रमेणैव पूजयेद्यदि देशिकः ॥ २३७ ॥
View Verse
शान्तिहोमं पुरा कृत्वा मूलमन्त्रं शतं जपेत् ।
मुहूर्ते समतिक्रान्ते शुभे यजनविस्तरात् ॥ २३८ ॥
View Verse
तदन्यस्मिन् समारोप्य कृत्वा स्नपनमुत्तमम् ।
स्थापिते बहुबेरे तु दिव्याद्यायतनेषु च ॥ २३९ ॥
View Verse
मुख्यकल्पविधाने तु पवित्रारोहकर्मणि ।
देशिका बहवः प्रोक्ताः ध्यानमन्त्रक्रियान्विताः ॥ २४० ॥
View Verse
तेष्वेकः कुंभपूजायामितरो मण्डलार्चने ।
अर्चायामितरो विद्वानितरः पावकार्चने ॥ २४१ ॥
View Verse
मूलालये तथैकश्च अन्यः शोभाश्रयार्चने ।
गरुडस्यार्चने त्वन्यो विष्वक्सेनार्चने परः ॥ २४२ ॥
View Verse
तथैकः स्नानबेरे स्याद्बलिदाने तथा परः ।
नित्याग्निहवने त्वन्यो महोदनविधौ परः ॥ २४३ ॥
View Verse
अष्टभिर्वा समारोप्यं कर्मलाघवमीक्ष्य च ।
तत्र तत्र च तैः कार्यं पवित्रारोहणं परम् ॥ २४४ ॥
View Verse
एकाहमुत्सवं कृत्वा तस्मिन्नहनि पूर्ववत् ।
तीर्थयात्रां प्रकुर्वीत तदन्यस्मिन् दिने दिवा ॥ २४५ ॥
View Verse
द्विरात्रौ प्राग्दिनादौ वा कुर्यात्तीर्थाघमर्षणम् ।
द्वितीयादौ चतुर्थाहराचरेत् त्रियहोत्सवम् ॥ २४६ ॥
View Verse
प्रधानदिनमारब्य सप्ताहो वा महोत्सवः ।
तयोरन्तेऽपि कर्तव्या तीर्थयात्रा यथापुरम् ॥ २४७ ॥
View Verse
एवं तीर्थान्तिमाः कल्प्याः पवित्रारोहणक्रियाः ।
न कृता तीर्थयात्रा चेन्निष्कृतिः स्नपनोत्तमम् ॥ २४८ ॥
View Verse
अङ्क्रार्पणपूर्वं तु प्रारभ्यात् प्राग्वदुत्सवम् ।
तत्तीर्थदिनयामिन्यां पवित्राणां विसर्जनम् ॥ २४९ ॥
View Verse
कृत्वा गुरोः प्रदातव्यं पाञ्चरात्रार्थकोविदैः ।
तदभावात्तदन्येषा माचार्थाणां यथाक्रमम् ॥ २५० ॥
View Verse
समर्पणीयमन्येषामयोग्यानां नियोजनात् ।
पुनर्निवेद्य विधिवत् पवित्राणि प्रदाय च ॥ २५१ ॥
View Verse
मध्यमं स्नपनं कृत्वा शान्तिहोमं समाचरेत् ।
प्रक्लृप्ते वा यथापूर्वं चातुर्मास्ये विधानतः ॥ २५२ ॥
View Verse
मुख्यमध्याधमे चैव प्रागुक्तेषु दिनेषु च ।
न कल्पिते तथैकस्मिन् चान्द्रायणपुरस्सरम् ॥ २५३ ॥
View Verse
तदनन्तरसंप्राप्ते दिवसे प्रारभेच्च तत् ।
तदाद्यमष्टपक्षं च विधिवन्नियतो भवेत् ॥ २५४ ॥
View Verse
चातुर्मास्यं तु संकल्प्य वर्तमाने व्रतोत्तमे ।
विच्छिन्ने सति मध्येऽस्य पारतन्त्र्यादिहेतुना ॥ २५५ ॥
View Verse
कालान्तरे च संकल्प्य कार्यश्चान्द्रायणादिकः ।
काले तस्मिन् प्रकुर्वीत यथावच्छयनादिकम् ॥ २५६ ॥
View Verse
तद्य्वत्यये विलोपे च चतुः स्थानार्चनादिकम् ।
जप्त्वा मूलायुतं मन्त्री शान्त्यर्थं जुहुयात्तदा ॥ २५७ ॥
View Verse
नृसिंहकपिलक्रोडहयहंसादिरूपिणाम् ।
तथा वक्त्रविशिष्टानां शक्तीशस्य विशेषतः ॥ २५८ ॥
View Verse
तथा च जामदग्न्यस्य विश्वरूपस्य वै प्रभोः ।
पारिजातहरस्यापि तथा कल्क्यात्मनो हरेः ॥ २५९ ॥
View Verse
शयनं न तु कुर्वीत प्रासादेषु स्थिरस्थितौ ।
सौम्यरूपं समासाद्य कौतुकं कामनावशात् ॥ २६० ॥
View Verse
तदर्थं शाययेद्वाथ चातुर्मास्ये विधानतः ।
उत्थापिते तु देवेशे चतुःस्थानेऽर्चिते सति ॥ २६१ ॥
View Verse
वस्त्राभरणमाल्याद्यैर्यथाशोभमलंकृतम् ।
विहगेशे प्रतिष्ठाप्य उत्सवार्चागतं विभुम् ॥ २६२ ॥
View Verse
अशेषभुवनग्रामं विधिना दोषशान्तये ।
महोत्सवोक्तविधिना परिभ्राम्य विशेषतः ॥ २६३ ॥
View Verse
एकरात्रादियोगेन प्रागुक्तविधिना ततः ।
कुर्यादवभृथं स्नानं नदीतीरादिषु प्रभोः ॥ २६४ ॥
View Verse
अनुकल्पे विधानं तद्विना तीर्थाघमर्षणम् ।
मध्ये सूर्यस्य सङ्क्रान्त्योर्दर्शद्वयसमन्वितः ॥ २६५ ॥
View Verse
तद्वद्दर्शवियुक्तश्च मलमास इतीरितः ।
चातुर्मास्योऽयमग्राह्यः सदारंभावसानयोः ॥ २६६ ॥
View Verse
दिनत्रये तु प्रागुक्ते प्रारब्धे सति मध्ययोः ।
मलमासस्य सङ्गत्या कदाचिच्च न दोषतः ॥ २६७ ॥
View Verse
अधिके मासि सर्वत्र तथाऽस्ते गुरुशुक्रयोः ।
औत्सवः प्रथमारंभः न कार्यो हितमिच्छता ॥ २६८ ॥
View Verse
स्वयंव्यक्तालयाद्येषु तीर्थेषु गिरिमूर्धनि ।
नदीतीरेषु रम्येषु वनेषूपवनेषु च ॥ २६९ ॥
View Verse
गोष्ठेषु मुनिमुख्यानामाश्रमेषु हरेः पुनः ।
सह्कल्प्य नियतं वासमभीष्टव्रतसिद्धये ॥ २७० ॥
View Verse
नेतव्यं देशिकेन्द्राद्यैस्तथा मासचतुष्टयम् ।
नदीनगादितरणं नाचर्तव्यं कदाचन ॥ २७१ ॥
View Verse
नद्यादिव्यवधानेऽपि दिव्यमायतनं प्रति ।
गन्तव्यं योजनादर्वाक् शुभयात्राधिकारिभिः ॥ २७२ ॥
View Verse
विशेषेण द्विषटकार्णपूर्वैर्व्यापकपञ्चकैः ।
सदाराधननिष्ठानां पञ्चकालरतात्मनाम् ॥ २७३ ॥
View Verse
दिव्य क्षेत्राभिगमनं न खण्डयति तद्द्वतम् ।
सूतकं मृतकं नैव कालेऽस्मिन् नियतात्मनाम् ॥ २७४ ॥
View Verse
प्राणिहिंसा न कर्तव्या द्रुमविच्छेदनं तथा ।
नदीकेदारकूलानां भेदनं सस्यशोषणम् ॥ २७५ ॥
View Verse
देवतायतनादीनां पीडनं तन्निवासिनाम् ।
वापीकूपतटाकानां पूरणं मृच्छिलादिभिः ॥ २७६ ॥
View Verse
बन्धनं च द्विजातीनां सहवासं विजातिभिः ।
संभाषणं तथा तेभ्यो मात्रा वित्रपरिग्रहम् ॥ २७७ ॥
View Verse
तस्मिन् काले विशेषेण वर्जयेद् बिद्धिमान्नरः ।
य एवं कुरुते तस्य प्रायश्चित्तैर्न निष्कृतिः ॥ २७८ ॥
View Verse
कदाचिज्जायते वाऽथ नानाधर्मप्रतिष्ठया ।
स्थापनं वासुदेवस्य तेषु मुख्यं प्रकीर्तितम् ॥ २७९ ॥
View Verse
एकान्तिद्विजमुख्यानां स्थापनं मध्यमं भवेत् ।
अन्येषामपि सर्वेषां प्रतिष्ठा चरमा भवेत् ॥ २८० ॥
View Verse
प्रतिष्ठायां प्रवक्ष्यामि प्रायश्चित्तं यथाक्रमम् ।
क्ष्माशिलातरुसल्लोहपूर्वाणां तु परिग्रहे ॥ २८१ ॥
View Verse
तत्तदह्गेयथोदीर्णद्रव्यमन्त्रक्रियादिषु ।
परिच्युतेषु तद्भूयः शान्तिहोमजपादिकम् ॥ २८२ ॥
View Verse
समाचरेद्यथा शास्त्रमन्यथा निष्फलं तु तत् ।
अकृते सति सर्वस्मिन् वास्तुदेशपरिग्रहे ॥ २८३ ॥
View Verse
आनीतस्यालयक्षेत्रे शिल्पिभिः सत्क्रियां विना ।
यथावदाचरेद्विद्वानर्चाद्रव्यस्य संग्रहम् ॥ २८४ ॥
View Verse
मृद्दारुवसनादीनामेवमेव समाचरेत् ।
अन्यालयार्थमानीतां शिलामर्चां सुनिर्मिताम् ॥ २८५ ॥
View Verse
सर्वावयवसंपन्नं स्थापने तु विऌअम्बिताम् ।
न्यायेनादाय तामर्चां स्थापयेत् सिद्धसझनि ॥ २८६ ॥
View Verse
प्राग्वदन्यां समापाद्य स्थापयेत् प्राक् प्रकल्पिते ।
निर्मितां प्रतिमां शीघ्रं स्वगृहे न निवेशिताम् ॥ २८७ ॥
View Verse
राज्ञो राष्ट्रस्य तत्कर्तुररिष्टमुपपादयेत् ।
एकविंशद्दिनादूर्ध्वमासुरी सा भवेद्धुवम् ॥ २८८ ॥
View Verse
कृत्वा महाभिषेकाद्यं स्थापयेदन्यथा त्यजेत् ।
प्रमाणरहिते बिम्बे पीठशस्त्रप्रभादिके ॥ २८९ ॥
View Verse
वस्त्रे वा भूषणे वाऽथ शमीपत्रसमन्वितम् ।
घृतसिक्तैश्च बहुशः सतिलैः शालितण्डुलैः ॥ २९० ॥
View Verse
जुहुयात् पञ्चभिर्मन्त्रैः प्रत्येकं शतसङ्ख्यया ।
जलाधिवासस्नपने तथा नयनमोक्षणे ॥ २९१ ॥
View Verse
शयने वेदिकायां च मन्त्रन्यासादिकर्मसु ।
कुंभमण्डलपूजायां द्वारतोरणकुंभयोः ॥ २९२ ॥
View Verse
अयथाकरणे नूनं पूर्ववच्छान्तिरिष्यते ।
अस्थाने स्थापिते बिम्बे पादाधारशिलान्वितम् ॥ २९३ ॥
View Verse
तदानीमेव चोद्धृत्य स्थापयेत्तं स्वके पदे ।
मध्यमस्नपनं कृत्वा शान्तिहोमं समाचरेत् ॥ २९४ ॥
View Verse
न स्थापिते मुहूर्तेऽस्मिन्न तदा बिम्बमुद्धरेत् ।
पूर्ववत् स्नपने होमे कृते शान्तिर्भविष्यति ॥ २९५ ॥
View Verse
स्थापनेऽधिकृते मुख्ये देशिके व्याधिते सति ।
न्यस्तदेहेऽथवा मध्ये वर्तमाने क्रियाक्रमे ॥ २९६ ॥
View Verse
क्रियामन्त्रोपदेष्टा च प्रतिष्ठाकर्मणि स्थितः ।
पुत्रो वा देशिकेन्द्रस्य स्थापने शेषमाचरेत् ॥ २९७ ॥
View Verse
अन्ते सहस्रकलशैरभिषिच्य सुरेश्वरम् ।
चक्राम्बुरुहकुण्डे तु मधुक्षीरादिभिः क्रमात् ॥ २९८ ॥
View Verse
शान्त्यर्थमयुतं हुत्वा तत्सङ्ख्यं जपमाचरेत् ।
ब्राह्नणैः क्षत्रियैर्वैश्यैः शूद्रैर्वा भगवन्मयैः ॥ २९९ ॥
View Verse
सकामैरथ निष्कामैर्मन्त्राराधनतत्परैः ।
साधकैर्भगवद्बिम्बस्थापनार्थं सदैव हि ॥ ३०० ॥
View Verse
पुरा प्रसाबनीयश्च प्रार्थनापूर्वकं तु वा ।
अधिकारपदस्थश्च द्विजेन्द्रः पाञ्चरात्रिकः ॥ ३०१ ॥
View Verse
वेत्ता यो व्यूहपूर्वस्य व्यक्तस्य परमात्मनः ।
सोऽन्येषां भगवद्बिम्बस्थापनेऽधिकृतः सदा ॥ ३०२ ॥
View Verse
अनुग्रहप्रतिष्ठा चाप्यधिकारनिरूपणा ।
अनन्यैरुपपन्नानां भक्तानां कार्यमुच्यते ॥ ३०३ ॥
View Verse
अनन्याः पञ्चकालज्ञा व्यतिरिक्ता न ये प्रभोः ।
प्राक् सृष्टास्तन्मुखोद्भूताः द्विषट्काध्यात्मचिन्तकाः ॥ ३०४ ॥
View Verse
चातुर्व्यूहपरत्वेन येषां वै प्रभवाप्ययौ ।
कर्मणामपि सन्न्यासं कुर्वन्त्यध्यक्षतः क्रमात् ॥ ३०५ ॥
View Verse
अतोऽमी दुर्लभतराः पारम्यं यस्य तं प्रति ।
प्रमेयनिष्ठा श्रद्धा वा स्फुटास्तत्कर्मणि स्थिताः ॥ ३०६ ॥
View Verse
परत्वमन्यमार्गस्था नेच्छन्ति च परस्परम् ।
य इच्छन्ति विभोस्तेषां स्थितिर्नास्ति तथा कृतौ ॥ ३०७ ॥
View Verse
मुक्ताधिकारिणं तं वै लब्धलक्षमकृत्रिमम् ।
पञ्चकालरतं सिद्धं तन्त्रसिद्धान्तपारगम् ॥ ३०८ ॥
View Verse
तेनैव श्रुतिमन्त्राणां स्थूलानामपि चोदना ।
प्रतिकर्मणि वै कार्या यथावसरलक्षणा ॥ ३०९ ॥
View Verse
यस्मादब्जसमुद्भूतमण्डलादिषु वृत्तिषु ।
स्वार्थतो वा परार्थेन सदाराधनकर्मणि ॥ ३१० ॥
View Verse
नित्यसिद्धे तदाकारे तत्परत्वेऽपि सन्ततम् ।
यस्यास्ति सक्तिर्हृदये तस्यासौ सन्निधिं व्रजेत् ॥ ३११ ॥
View Verse
मन्त्ररूपी जगन्नाथः परमात्माच्युतः प्रभुः ।
अत्यौत्सुक्यं विना विप्र मनसः प्रीतये त्वपि ॥ ३१२ ॥
View Verse
कामाप्तये वा कीर्त्यर्थं तस्य तद्विहितं द्विज ।
सध्यानेन प्रतिष्ठानं प्रासादे स्वगृहेऽपि वा ॥ ३१३ ॥
View Verse
इति सम्यक् समाख्यातं मुख्यकल्पं महामते ।
अनुकल्पं यदत्रान्यत् तत्समासान्निबोध तु ॥ ३१४ ॥
View Verse
प्राक् प्राप्तदीक्षितैर्विधिवत् त्रयीधर्मस्थितैर्द्विजैः ।
नित्याराधनसक्तैस्तु भक्तैर्भगवतो विभोः ॥ ३१५ ॥
View Verse
धारणाध्यानपूर्वाणां लब्धलक्षैस्तु कर्मणाम् ।
मन्त्रमण्डलमुद्रास्त्रकुण्डादीनां कृतश्रमैः ॥ ३१६ ॥
View Verse
षडध्वव्याप्तिनिष्ठैस्तु त्यागशीलैरमत्सरैः ।
अनुज्झितक्रमैर्दक्षैः स्वकर्मपरिपालकैः ॥ ३१७ ॥
View Verse
सत्कीर्तिप्रथितैर्लोके तथाऽकीर्तिबलिप्कृतैः ।
प्रतिष्ठां लभते कर्ता तैः प्रतिष्ठापने कृते ॥ ३१८ ॥
View Verse
निषिद्धमरविन्दाक्षे अतोऽन्येषां हि सर्वदा ।
महामहं प्रतिष्ठाख्यं कर्तुर्व्यामिश्रयाजिनाम् ॥ ३१९ ॥
View Verse
ये पुनर्लोकधर्मस्थाः समबुद्धिपदे स्थिताः ।
भगवत्यविशेषज्ञा नित्यं कार्यवशेन तु ॥ ३२० ॥
View Verse
वाङ्भात्रेण परत्वं वै सर्वेषां प्रवदन्ति वै ।
अधिकारं विना येऽत्र प्रेरिता देवतार्चने ॥ ३२१ ॥
View Verse
व्यामिश्रयाजिनस्ते वै पातित्यपदसंस्थिताः ।
नयन्ति नरकं नूनमेवमेव प्रवर्तिनः ॥ ३२२ ॥
View Verse
न तु सद्भक्तिपूतानां वासुदेवरतात्मनाम् ।
कदाचित्तत्कृते दोषं विदधाति च खण्डना ॥ ३२३ ॥
View Verse
अतस्तावन्महाबुद्धे कर्तव्यं भक्तिपूर्वकम् ।
भक्त्या वै मन्त्रनिष्ठानां तन्मन्त्रो जपकर्मणि ॥ ३२४ ॥
View Verse
वर्णव्यत्ययमापन्नो लुप्तस्तेन स्वरेण वा ।
स्वरादिनाधिकश्चैव मन्त्रोऽनर्थप्रदः सदा ॥ ३२५ ॥
View Verse
अचिरात्तत्प्रयोक्तॄणां तथापि कमलोद्भव ।
अतिभक्तिप्रभावाच्च वाञ्झितं संप्रयच्छति ॥ ३२६ ॥
View Verse
यस्मात् सद्भक्तिपूतानां प्रपन्नानां क्रमं विना ।
प्रसादमेति मन्त्रेशस्त्वचिराद्भावितात्मनाम् ॥ ३२७ ॥
View Verse
किं पुनर्वै क्रियाज्ञानसंपूर्णानां द्विजोत्तम ।
श्रद्धाभक्तिपराणां च बोधितानां च देशिकैः ॥ ३२८ ॥
View Verse
तस्मात् सर्वप्रयत्नेन शासनेऽस्मिन्महामते ।
कार्यं दीक्षादिकं सर्वं भक्तानां भक्तवत्सले ॥ ३२९ ॥
View Verse
मामसंप्रतिपन्नोऽपिं मत्प्राप्त्यर्थं करोति च ।
मन्दमध्यमभक्तानां कामभोगरतात्मनाम् ॥ ३३० ॥
View Verse
भविनां मामकीं दीक्षां मोहाद्वा स्थापनादिकम् ।
स नयत्यचिरात्तस्य भक्तिर्वीजेन वै सह ॥ ३३१ ॥
View Verse
समन्त्रं कर्मतन्त्रं च सिद्धयस्च पराह्मुखम् ।
इहैव शीघ्रं विप्रेन्द्र देहान्ते गतसन्ततिः ॥ ३३२ ॥
View Verse
घोरं प्रयाति नरकं भुक्त्वैवं दुष्कृतं महत् ।
भगवन्मन्त्रमाहात्म्यात्तद्व्यापारवशात्तु वै ॥ ३३३ ॥
View Verse
संसर्गोत्थमघं याति प्राक् संस्कारवशात् पुनः ।
चीर्णदुश्चरितो भूयः प्राप्रुयान्मानुषीं तनुम् ॥ ३३४ ॥
View Verse
प्रयत्नमाचरेच्छुभ्रं येन शान्तिमवाप्नुयात् ।
साहङ्कारः स आचाय स्वभक्तो नाधिकार्यपि ॥ ३३५ ॥
View Verse
प्राप्नोति नूनं स्वगतिं स्वकामो नारकीं तथा ।
सर्वगस्त्वपि मन्त्रात्मा सर्वानुग्रहकृदद्विजः ॥ ३३६ ॥
View Verse
यद्यप्येवं हितं तत्र न भजेत्तत्र सन्निधिम् ।
प्रतिमामध्यदेहान्तं नूनमावाह्य तत्क्षणात् ॥ ३३७ ॥
View Verse
भूतवेताऌअयक्षाद्याः कुर्वन्त्यर्थादिकक्षयम् ।
अन्यद्रशनसंस्था ये नानुग्राह्यास्ततो मुने ॥ ३३८ ॥
View Verse
नोपास्यो हि तथाचार्यः संसारभयभीरुणा ।
सम्यग्भक्तिपरेणैव डम्भरागोज्झितेन च ॥ ३३९ ॥
View Verse
अत एव महाबुद्धे प्रतिष्ठाख्यं मखोत्तमम् ।
निर्वर्तनीयमामूलाद्वैष्णवानां च वैष्णवैः ॥ ३४० ॥
View Verse
एवं द्रव्यमयो यत्र सन्निवेशो मुनीश्वर ।
उभयानुग्रहं नित्यं करुणाभक्तिलक्षणम् ॥ ३४१ ॥
View Verse
प्रतिष्ठाख्यं हि तत् कर्मभुक्तिमुक्तिफलप्रदम् ।
तच्च सद्ब्रह्ननिष्ठानां द्विजानामात्मसिद्धये ॥ ३४२ ॥
View Verse
कर्तव्यत्वेन वै नित्यं प्रसिद्धममलेक्षण ।
तद्दोषाच्च यतस्तेषां विस्तारो हि न विद्यते ॥ ३४३ ॥
View Verse
देहपातादृते नान्यः तत्पातस्त्वतिदोषकृत् ।
आदावेव हितत्तस्मान्नाचर्तव्यं कृतात्मभिः ॥ ३४४ ॥
View Verse
तत्कर्मप्रतिपन्नानां चतुर्णआमपि तैः सदा ।
कार्यं सम्यक् प्रतिष्ठानमनुग्रहधिया मुने ॥ ३४५ ॥
View Verse
नोपरोधः स्वभावेन न लोभेन न नामतः ।
प्राप्ते ह्याकस्मिके दोषे त्वङ्गभङ्गादिके मुने ॥ ३४६ ॥
View Verse
भक्तानामनुकंपार्थं दिव्यैर्मन्त्रैर्बलादिकैः ।
द्वादशाक्षरपूर्वैश्च मोक्षैकफललक्षणैः ॥ ३४७ ॥
View Verse
संपूजिते तु तैर्भक्तैः कुरुते निष्कृतिं सदा ।
सर्वनाशेन बिम्बानामङ्गमात्रोपकल्पना ॥ ३४८ ॥
View Verse
तत्तत्कर्तव्यमुद्दिश्य विशेषः प्रागुदीरितः ।
तथापि विस्तरेणात्र विधानमवधारय ॥ ३४९ ॥
View Verse
देवसिद्धमुनीन्द्राद्यैरेवंसंस्थापिते सति ।
बिम्बे चोरादिभिर्नष्टे सद्यः संपाद्य पूर्ववत् ॥ ३५० ॥
View Verse
स्थापयेद्विधिवन्मन्त्री रात्रावहनि सन्ध्ययोः ।
न कालोऽत्र परिज्ञेयो नष्टोद्धारे विशेषतः ॥ ३५१ ॥
View Verse
बालालये तु प्रथमे जीर्णोद्धारे तथान्तिमे ।
प्रायस्चित्तं प्रवक्ष्यामि मुने सम्यक् श्रृणुष्व मे ॥ ३५२ ॥
View Verse
अतीते प्रार्थिते काले कर्त्रा प्रासादबेरयोः ।
निर्माणे स्नपनं कार्यमुत्तमं शास्त्रयोदितम् ॥ ३५३ ॥
View Verse
पश्चादप्यर्थयेत् कालं वाञ्छितं तत्समापने ।
न कृत्वैवं गते पश्चात् काले द्वादशवार्षिके ॥ ३५४ ॥
View Verse
पुनः प्रतिष्ठां कुर्वीत मूले बालालये तु वा ।
बिम्बे चोरादिभिर्नष्टे बालगेहे प्रमादतः ॥ ३५५ ॥
View Verse
तथैवापाद्य तामर्चां प्रतिष्ठाप्य यताविधि ।
अधमस्नपनं कृत्वा शान्तिहोमं समाचरेत् ॥ ३५६ ॥
View Verse
स्वस्थानाच्चलिते तस्मिन् हेतुना येन केनचित् ।
यथापूर्वं प्रतिष्ठाप्य स्नापयेत्पुरुषोत्तमम् ॥ ३५७ ॥
View Verse
सर्वं बालगृहे कार्यं नित्यनैमित्तिकात्मकम् ।
एकबेरविधानेन पवित्रारोहपश्चिमम् ॥ ३५८ ॥
View Verse
स्तेनैर्नष्टे तथा विम्बे तत्तद्द्रव्येण पूर्ववत् ।
निर्माय लक्षणोपेतं प्रतिष्ठाप्य तथैव तु ॥ ३५९ ॥
View Verse
पूर्ववत् पूजयेन्मन्त्री बिम्बं सर्वत्र सर्वदा ।
द्रव्यान्तरेण वा कुर्याद्देशिको यागसिद्धये ॥ ३६० ॥
View Verse
चोरैरपहृतं बिम्बं पुनः प्राप्तं यदि द्विज ।
पुनः प्रतिष्ठां कुर्वीत नयनोन्मीलनं विना ॥ ३६१ ॥
View Verse
चोरभूतैर्द्विजैः स्पृष्टे अधमस्नपनं चरेत् ।
उत्तमस्नपनं कुर्यात् प्रवेशे गर्भवेश्मनि ॥ ३६२ ॥
View Verse
चिरोषिते तु संस्पृष्टे प्रतिष्ठां पुनरारभेत् ।
श्वसृगालबिडालाद्यैः प्रविष्टे गर्भवेश्मनि ॥ ३६३ ॥
View Verse
अधमस्नपनेनैव शान्तिहोमं समाचरेत् ।
अधिष्ठितेङ्कणे चैतैः शान्त्यर्थं जुहुयाच्छतम् ॥ ३६४ ॥
View Verse
एतैर्बिम्बे तु संस्पृष्टे स्नापयेन्मद्यमोत्तमम् ।
स्पृष्टे तु पक्षिभिः कैश्चिद्दोष आयतने भवेत् ॥ ३६५ ॥
View Verse
काककुक्कुटगृध्राद्यैः स्पृष्टे बिम्बे प्रमादतः ।
पूर्ववत् स्नपनं कृत्वा शान्तिहोमं समाचरेत् ॥ ३६६ ॥
View Verse
खद्योताद्यैस्तु संस्पृष्टे अधमस्नपनं चरेत् ।
न भृङ्गमक्षिकाद्यैस्तु स्पृष्टे दोषो भवेद्ध्रुवम् ॥ ३६७ ॥
View Verse
तथा पिपीलिकाद्यैस्तु न तत्प्रायैर्विशेषतः ।
रेतोरुधिरविण्मूत्रापेयमांसादिवस्तुभिः ॥ ३६८ ॥
View Verse
देवबिम्बे तु संस्पृष्टे कुर्यात् स्नपनमुत्तमम् ।
एतैः स्पृष्टेऽङ्कणादौ तु तस्मादुद्धृत्य तत्क्षणात् ॥ ३६९ ॥
View Verse
गोमयेनोपलिप्याथ प्रोक्षयेद्द्रव्यपञ्चकैः ।
शान्त्यर्थं जुहुयान्मन्त्री तिलाज्याभ्यां शतं शतम् ॥ ३७० ॥
View Verse
वैश्यैश्च वैष्णवैर्बिम्बे शूद्रैः स्त्रीभिर्विशेषतः ।
विमाने स्थापिते स्पृष्टे क्षाऌअयेत् पञ्चगव्यकैः ॥ ३७१ ॥
View Verse
शान्तिहोमं प्रकुर्वीत मधुक्षीरादिभिः शतम् ।
बिम्बेऽनुलोमैः संस्पृष्टे प्रतिलोमैश्च गर्हितैः ॥ ३७२ ॥
View Verse
स्नपनं शान्तिहोमं च सदानं सर्वदा चरेत् ।
वैखानसैस्तु संस्पृष्टे पयःस्नानेन शुध्यति ॥ ३७३ ॥
View Verse
आराधिते स्वमार्गेण प्रतिष्ठामाचरेत् पुनः ।
प्रतिमा चैव तत्पीठं प्रासादो गर्भमन्दिरम् ॥ ३७४ ॥
View Verse
विग्रहं देवदेवस्य चतुष्टयमिदं समम् ।
समाधिश्च तथा शान्तिः कार्या तत्र सदा समा ॥ ३७५ ॥
View Verse
वेदिकायां तथा चक्रे पङ्कजे चक्रपङ्कजे ।
हेमादिद्रव्यरचिते मण्डले रजसा कृते ॥ ३७६ ॥
View Verse
समाधिश्चैव शान्तिश्च प्रतिपत्तिश्च तादृशी ।
प्राकारे गोपुरद्वारमण्टपादिपरिष्कृते ॥ ३७७ ॥
View Verse
शिवादिभिर्न दोषोऽस्ति प्राङ्कणादावधिष्ठिते ।
प्रविष्टे यजनस्थाने प्रोक्षयेत् पञ्चगव्यकैः ॥ ३७८ ॥
View Verse
मण्टपाङ्कणशालासु माऌइकाद्यासु भूमिषु ।
पूजाङ्गत्वेन विहितैर्गुरुसाधकदीक्षितैः ॥ ३७९ ॥
View Verse
न दोषो द्विजशार्दूल शयनासनभोजनैः ।
पादप्रक्षाऌअनाचामस्नानाभ्यङ्गादिकैरपि ॥ ३८० ॥
View Verse
अन्यैः क्लृप्तेषु चैतेषु गोमयेनोपलिप्य च ।
प्रोक्षयेत् पच्चभिर्गव्यैः कुशोदकसमन्वितैः ॥ ३८१ ॥
View Verse
बिडालमूषिकासर्पमण्डूककृकलासकैः ।
आखुचुचुन्दरी गोधाराजिलाद्यैश्च जन्तुभिः ॥ ३८२ ॥
View Verse
अधिष्ठिते गर्भगेहे शान्तिहोमं समाचरेत् ।
मक्षिकावासवल्मीककृमीणां निचयेष्वपि ॥ ३८३ ॥
View Verse
बिम्बे विमाने जातेषु तदैवोद्धृत्य तान् पुनः ।
समाधाय यथापूर्वं चतुः स्थानार्चनादिकम् ॥ ३८४ ॥
View Verse
स्नपनं देवदेवस्य कुर्यादुत्तममध्यमम् ।
मण्टपादौ तु सर्वत्र कुत्रचिद्वा हरेर्गृहे ॥ ३८५ ॥
View Verse
ब्रह्नदण्डादिरोहे च छत्राकाणां समुत्थितौ ।
दुष्टसत्वगणापूर्वपक्षिसंघसमाकुले ॥ ३८६ ॥
View Verse
शान्तिहोमं प्रकुर्वीत तान् व्यपोह्य तदैव तु ।
विमाने तेषु जातेषु मध्यमस्नपनं चरेत् ॥ ३८७ ॥
View Verse
बिम्बे यदि तदा कार्यं प्रवासावसथादिकम् ।
कर्म कृत्वा यथापूर्वं त्यागान्तं तु नृपाज्ञया ॥ ३८८ ॥
View Verse
नवीकृत्य पुनर्बिम्बं पुरावत् स्थापयेद्बुधः ।
रक्तस्त्रीषु समुत्पन्नास्वर्चायामेवमेव तु ॥ ३८९ ॥
View Verse
समाधाय प्रतिष्ठाप्य शान्त्यर्थं पुनरेव तु ।
स्नापयेद्देवदेवेशमुत्तमोत्तमवर्त्मना ॥ ३९० ॥
View Verse
विमान आसु जातासु कुर्यात् स्नपनमध्यमम् ।
मण्टपादिषु जातासु स्नपनं च समाचरेत् ॥ ३९१ ॥
View Verse
दृष्टास्वेतासु विप्रोन्द्र प्राङ्कणादौ तु कुत्रचित् ।
तास्तदैव समुद्धृत्य गव्यैः संप्रोक्षयेत्ततः ॥ ३९२ ॥
View Verse
शान्त्यर्थं जुहुयान्मन्त्री बहिश्चेत् सघृतैस्तिलैः ।
देवालयेष्वकर्तव्ये कृते कर्मणि कुत्रचित् ॥ ३९३ ॥
View Verse
मध्यमावरणादन्तः स्नपनं होमपश्चिमम् ।
शान्तये जुहुयान्मन्त्री बहिश्चेज्ज्वलितेऽनले ॥ ३९४ ॥
View Verse
छर्दिनिष्ठीवलालाद्यैर्दूषिते देवसझनि ।
तदैव तद्व्यपोह्यात्र पञ्चगव्यैर्विलिप्य च ॥ ३९५ ॥
View Verse
जपेदस्त्रशतं मन्त्री हृन्मन्त्रं च विधानतः ।
प्रायश्चित्तं प्रवक्ष्यामि शवस्पृष्टौ विशेषतः ॥ ३९६ ॥
View Verse
द्विजातिशवसंस्पृष्टे प्रमादाद्देवकौतुके ।
एकाशीतिघटैः स्नाप्य मूलमन्त्रायुतं हुनेत् ॥ ३९७ ॥
View Verse
क्षत्रविट्छूद्रजातीनां शवैः स्पृष्टे तु कौतुके ।
मध्यमेनोत्तमेनैव महस्रकलशेन तु ॥ ३९८ ॥
View Verse
क्रमेण स्नापयेद्देवमेकैकेन यथाविधि ।
शान्त्यर्थं हवनं कृत्वा यथापूर्वं तथा जपेत् ॥ ३९९ ॥
View Verse
अनुलोमशवस्पृष्टौ संप्रोक्षणमथाचरेत् ।
चण्डालपतितोदक्यासूतिकाशवदूषिते ॥ ४०० ॥
View Verse
बिम्बे प्रतिष्ठां कुर्वीत सहस्रकलशाप्लवम् ।
शान्तिहोमायुतं तद्वज्जपं कुर्याद्यथाक्रमम् ॥ ४०१ ॥
View Verse
विमाने ब्राह्नणादीनामनुलोमादिकस्य च ।
शवस्पृष्टौ तु सक्षाल्य बहूदकघटेन तु ॥ ४०२ ॥
View Verse
उत्तमोत्तमनिष्ठं तु स्नपनं मध्यमाधमात् ।
संस्नाप्य देवदेवेशमेकैकेन क्रमेण तु ॥ ४०३ ॥
View Verse
शान्तिहोमं प्रकुर्वीत पश्चान्मन्त्रं यथा जपेत् ।
प्रथमावृतिमारभ्य रथ्यावरणपश्चिमे ॥ ४०४ ॥
View Verse
दूषिते प्राङ्गणक्षेत्रे प्रागुक्तैः क्रमशो भुवः ।
स्थलं संशोध्य विधिवद्दीक्षितैर्मन्त्रवित्तमैः ॥ ४०५ ॥
View Verse
मुख्योत्तमात्तु स्नपनान्नीचान्तिममनुक्रमात् ।
स्नापयित्वा विशेषेण शान्तिहोमं स्माचरेत् ॥ ४०६ ॥
View Verse
एवमेवान्त्यजातीनां शवस्पृष्टौ समाचरेत् ।
सालमण्टपपीठेषु गोपुरे मन्दिरेऽपि वा ॥ ४०७ ॥
View Verse
विमानाद्वाह्यतः व्काऽपि परिवारालयादिषु ।
वर्णानां ब्राह्नणादीनामनुलोमादिकस्य च ॥ ४०८ ॥
View Verse
मरणेष्वपि जातेषु तत्तदावरमोक्तवत् ।
पश्वादिषु मृतेष्वेषु गजाश्वोष्ट्रखरादिषु ॥ ४०९ ॥
View Verse
मरणादिषु सर्वत्र भूशुद्धिं पुरतश्चरेत् ।
श्वसृगालशवाद्येषु काकश्येनादिजन्तुषु ॥ ४१० ॥
View Verse
मार्जारवानराद्येषु तथान्येष्वेवमादिषु ।
संप्रोक्ष्य पञ्चगव्येन शान्तिहोमं समाचरेत् ॥ ४११ ॥
View Verse
मृते मूषिकसर्पादौ भूशुद्धिं च जपं चरेत् ।
मरणादिषु सर्वत्र भूशुद्धिं पुरतश्चरेत् ॥ ४१२ ॥
View Verse
सर्वावासे महापीठे तथा शैलमयेष्वपि ।
प्रदेशेषु समालिप्य गोमयेन समन्ततः ॥ ४१३ ॥
View Verse
प्रोक्षयेत् पञ्चभिर्गव्यैः पुण्याहोक्तिपुरस्सरम् ।
गृहार्चायां न दोषोऽस्ति मृते पूजागृहाद्बहिः ॥ ४१४ ॥
View Verse
क्षालनालेपनाद्येन व र्मणा तत्र शोधयेत् ।
सन्निकर्षे गृहार्चायाः क्षीरेण स्नाप्य पूजयेत् ॥ ४१५ ॥
View Verse
देवसिद्धमुनीन्द्राद्यैः कल्पिते भगवद्गृहे ।
तत्तदङ्गतया क्लृप्ते ग्रामादौ राष्ट्रसंकुलात् ॥ ४१६ ॥
View Verse
चण्डालपतितोदक्यासूतिकाशबरादिभिः ।
दूषिते भगवद्बिम्बे संप्रोक्षणविधिं चरेत् ॥ ४१७ ॥
View Verse
सहस्रकलशैर्देवं सन्निकृष्टेऽभिषिच्य च ।
शान्तिहोमं प्रकुर्वीत चतुःस्थानार्चनादिकम् ॥ ४१८ ॥
View Verse
सहस्रकृत्वस्तदनु जपं कुर्यात्तथाविधम् ।
प्रासादे वाऽङ्कणद्वारि मण्टपे पचनालये ॥ ४१९ ॥
View Verse
पुष्पावासे जलागार धनधान्यालयादिषु ।
ध्वजपीठे महापीठे रथ्यावृतिगणेष्वपि ॥ ४२० ॥
View Verse
उत्सवाङ्गतया क्लृप्ते ग्रामादौ राष्ट्रसंकुलात् ।
चण्डालपतितोदक्यासूतिकाशबरादिभिः ॥ ४२१ ॥
View Verse
वर्णानां ब्राह्नणादीनामनुलोमविलोमयोः ।
शवास्थिभिश्च सन्दुष्टां सर्वत्रैकत्र वा क्षितिम् ॥ ४२२ ॥
View Verse
खात्वा मृदं समुद्धृत्य बहिः प्रक्षिप्य शुद्धया ।
संपूर्य च समीकृत्य कुशाद्भिः परिमृज्य च ॥ ४२३ ॥
View Verse
गोमयेनोपलिप्याथ पुण्याहवचनादिकम् ।
पञ्चगव्येन चाभ्युक्ष्य गोगणं तत्र वासयेत् ॥ ४२४ ॥
View Verse
वाचयित्वा महाशान्तिं ब्नाह्नणैर्वेदपारगैः ।
भोजयित्वा द्विजांस्तत्र तेभ्यो दद्यात्तु दक्षिणाम् ॥ ४२५ ॥
View Verse
कृत्वैवं स्थूलशुद्धिं तु शान्तिं कुर्यादनुक्रमात् ।
पञ्चयज्ञमयीं पुण्यां सर्वादोषापनुत्तये ॥ ४२६ ॥
View Verse
एवं वर्षावधिर्यावन्न कृता शान्तिकी क्रिया ।
सहस्रकलशेनैव पवित्रावर्तितेन च ॥ ४२७ ॥
View Verse
व्यापकैः पञ्चभिर्मन्त्रैः पञ्चधा स्नापयेद्विभुम् ।
ध्वजमुत्थाप्य विधिवन्नवाहाद्युत्सवं पुरा ॥ ४२८ ॥
View Verse
शान्त्यर्थं सर्वदोषाणां कुर्यात्तीर्थाघमर्षणम् ।
चक्रशङ्खगदापझवृत्तकुण्डेष्वनुक्रमात् ॥ ४२९ ॥
View Verse
तत् कुर्यात् पञ्चभिर्मुख्यैर्द्वादशार्णपुरस्सरैः ।
मधुक्षीरादिभिर्द्रव्यैः पञ्चभिर्नियुताख्यया ॥ ४३० ॥
View Verse
सङ्ख्यया जुहुयान्मन्त्री लक्षसङ्ख्या भवेद्यथा ।
अनुकल्पे विधिरयं शान्तिकर्मणि संमतः ॥ ४३१ ॥
View Verse
मुख्यकल्पो विशेषेण वक्ष्यते होमकर्मणि ।
स्थापनोक्तविधानेन कल्पिते मण्टपे शुभे ॥ ४३२ ॥
View Verse
चक्राम्बुरुहपूर्वेषु यथावत्कल्पितेषु च ।
क्लृप्तेषु दशसङ्खयेषु व्रह्नवृक्षादिसंभवैः ॥ ४३३ ॥
View Verse
समिद्गणैस्तिलैराज्यैः सेचितैः प्रागुदीरितैः ।
पञ्चभिर्मधुराद्यैश्च मिश्रीभूतैः क्रमेण तु ॥ ४३४ ॥
View Verse
महत्तराणां दोषाणां शान्तये मन्त्रवित्तमैः ।
अयुतं नियुतं लक्षं कोटिनिष्ठं यथाबलम् ॥ ४३५ ॥
View Verse
होतव्यं पूर्णया सार्धं दशभिर्मन्त्रसत्तमैः ।
कुण्डेषु मध्यपूर्वेषु मन्त्राणां नियमं श्रृणु ॥ ४३६ ॥
View Verse
चक्राब्जे द्वादशार्णेन वस्वश्रेऽष्टाक्षरेण तु ।
षडर्णेन षडश्रे तु शङ्खाभे प्रणवेन तु ॥ ४३७ ॥
View Verse
जितंतया चतुर्यश्रे विश्वत्राता त्रिकोणके ।
द्वात्रिंशद्दलपझाख्ये नृसिंहानुष्टुभेन तु ॥ ४३८ ॥
View Verse
सौदर्शननृसिंहेन चक्रकुण्डेऽक्षरारके ।
वराहेणार्धचन्द्राख्ये वृत्ते सौदर्शनेन तु ॥ ४३९ ॥
View Verse
धिष्ण्यद्वयं मध्यवेद्याः प्रागुक्तं दक्षिणोत्तरे ।
शेषाणि परितः कुर्याद्दिक्षु चैवं विदिक्षु च ॥ ४४० ॥
View Verse
सिद्धमन्त्रा नियोक्तव्या होतारःशान्तिकर्मणि ।
सर्वकुण्डानि सर्वेषां मन्त्राणामिच्छया गुरोः ॥ ४४१ ॥
View Verse
कल्पनीयानि वा मन्त्रा यतः सर्वफलप्रदाः ।
न्यस्तमन्त्रैर्यथान्यायं जप्यास्ते सङ्ख्यया तया ॥ ४४२ ॥
View Verse
गोभूहेमतिलान्नानां दानैर्योग्यजनस्य च ।
तृप्तिः कार्या विशेषेण दिव्याद्यायतनस्य च ॥ ४४३ ॥
View Verse
प्रजापालनशीलेन भूपेनात्महितेच्छुना ।
शान्तिरेवंविधा कार्या शास्त्रज्ञैर्बहुभिर्धनैः ॥ ४४४ ॥
View Verse
प्राचुर्यात् सर्वदोषाणां धर्मज्ञैः शान्तिकी क्रिया ।
निर्वर्तुं न तु शक्या चेन्महा स्नानादिपञ्चकम् ॥ ४४५ ॥
View Verse
महादानावसानं च कार्य दिव्यालयादिषु ।
पौनःपुन्येन बिधिवच्छुद्धेन द्रविणेन च ॥ ४४६ ॥
View Verse
उल्काशन्यादिपाते च नक्षत्रपतने च खात् ।
सधूमे च दिशादाहे भूताद्यावेशिते नृपे ॥ ४४७ ॥
View Verse
दुर्भिक्षे व्याधिते राष्ट्रे तथा वै शत्रुसङ्कटे ।
सूर्योदयस्य व्यत्यासे भूकम्पे तद्विदारणे ॥ ४४८ ॥
View Verse
अतिवृष्टावनावृष्ठौ देवताहसने सति ।
रोदने च तथा खिन्ने तथार्चाचलनेऽपि च ॥ ४४९ ॥
View Verse
भ्रमणे च तथा पीठादङ्गभङ्गादिके सति ।
शैथिल्ये सरघादीनामुद्भवे बहुधा गृहे ॥ ४५० ॥
View Verse
एवमादिषु चान्येषु दुर्निमित्तेषु सत्सु च ।
शान्तिरेतैश्च जायेत क्रियमाणैरनुक्रमात् ॥ ४५१ ॥
View Verse
चतुःस्थानार्चनं कार्यं दोषमात्रसमुद्भवे ।
यथाशक्ति दरिद्राणां दानमात्रं कथञ्चन ॥ ४५२ ॥
View Verse
प्रासादे मण्टपे साले गोपुरे माऌइकादिके ।
प्रमादादग्निना दग्धे ता नीत्वाऽन्यत्र देवताः ॥ ४५३ ॥
View Verse
यथापूर्वं नवं कृत्वा प्रतिष्ठाप्य विधानतः ।
उत्तमं स्नपनं कुर्यात्तस्य दोषस्य शान्तये ॥ ४५४ ॥
View Verse
हीनैकदेशे प्रासादे हुतभुग्वातवृष्टिभिः ।
कारणैः कैश्चिदन्यैर्वा सन्धेयं तच्च शिल्पिभिः ॥ ४५५ ॥
View Verse
अधमं स्नपनं कृत्वा शान्तिहोमं समाचरेत् ।
विमाने सर्वतो भग्ने बालस्थानं प्रकल्प्य च ॥ ४५६ ॥
View Verse
तथैव बाले बिम्बे तु नित्यनैमित्तिकादिकम् ।
पवित्रारोहणान्तं च सर्वकर्म समाचरेत् ॥ ४५७ ॥
View Verse
तद्दोषशान्तये कार्यं स्नपनं मध्यमं पुनः ।
भग्नबिम्बसमाधाने विशेषः प्रागुदीरितः ॥ ४५८ ॥
View Verse
तथापि विस्तरेणाद्य प्रोच्यते तद्विधिं श्रृणु ।
मूलबिम्बेऽग्निना दग्धे बालस्थाने तथार्चयेत् ॥ ४५८ ॥
View Verse
तथापि विस्तरेणाद्य प्रोच्यते तद्विधिं श्रृणु ।
मूलबिम्बेऽग्निना दग्धे बालस्थाने तथार्चयेत् ॥ ४५९ ॥
View Verse
सहस्रकलाशस्नानमाचर्तव्यं विधानतः ।
वह्निना कमबिम्बादौ वैवर्ण्यं समुपागते ॥ ४६० ॥
View Verse
तत्तद्बिम्बेषु कुर्वीत स्नपनं चोत्तमं क्रमात् ।
वह्निवातादिवेगेन मन्त्रिणामपराधतः ॥ ४६१ ॥
View Verse
सौवर्णे राजते बिम्बे ताम्ररीतिमये तु वा ।
भिन्नाङ्गे सति संधेयं तत्क्षणाच्छिल्पिवित्तमैः ॥ ४६२ ॥
View Verse
लोहान्तरेण तद्बिम्बं न सन्धेयं प्रयत्नतः ।
ताम्ररीतिमयं यद्वा सन्धयेद्वित्तवर्जितः ॥ ४६३ ॥
View Verse
यद्द्रव्येणादितः क्लृप्तं तद्द्रव्येणाथ सन्धयेत् ।
त्यक्तं बिम्बं समुद्रान्तः प्रक्षिपेच्छास्त्रवर्त्मना ॥ ४६४ ॥
View Verse
सुवर्णरजतोत्थं यत् महाङ्गेषु च सक्षतम् ।
न त्याज्यं तत् समाधेयं तत्स्थां शक्तिं विसृज्य च ॥ ४६५ ॥
View Verse
तद्द्रव्येण यथापूर्वं बिम्बकर्म समापयेत् ।
मृत्काष्ठोपलजे भग्ने बिम्बे केनापि हेतुना ॥ ४६६ ॥
View Verse
बालालयगते बिम्बे तां शक्तिं शन्निरोध्य च ।
दुष्टामर्चां परित्यज्य कृत्वा बिम्बान्तरं पुनः ॥ ४६७ ॥
View Verse
न त्याज्या मृत्तिकाशूलरज्वाद्या देवनिर्मिते ।
देवयक्षमुनीन्द्राद्यैरन्यैः पौराणिकैस्तु वा ॥ ४६८ ॥
View Verse
प्रतिष्टिते तथा जीर्णे बिम्बे स्वर्णादिलोहजे ।
तदङ्गं सन्धयेत् पश्चात् सुवर्णेनैव नान्यथा ॥ ४६९ ॥
View Verse
भग्ने शिलामये बिम्बे देवमुन्यादिकल्पिते ।
तदङ्गं रुक्मजं कृत्वा सन्धेयं तद्दृढं यथा ॥ ४७० ॥
View Verse
देवादिस्थापिते बिम्बे हीनाङ्गे मृण्मये सति ।
कदाचिन्न परित्याज्यं तत् सन्धेयं तदा शनैः ॥ ४७१ ॥
View Verse
एवं जीर्णं तथाभूतं तदङ्गं सन्धयेत् सदा ।
न बालगेहबिम्बाद्यमन्येनैव तु कारयेत् ॥ ४७२ ॥
View Verse
नित्यादौ वर्तमानेऽत्र सर्वं कार्यमतन्द्रितैः ।
एवमेव स्वयंव्यक्ते कारयेत्तन्त्रवित्तमः ॥ ४७३ ॥
View Verse
देवादिपूजिते वाऽपि स्वयंव्यक्ते तु कौतुके ।
मृद्दारुजे तु सञ्जीर्णे कृमिवह्निजलादिभिः ॥ ४७४ ॥
View Verse
तत्तद्वालगृहं कृत्वा पूज्यमाने तु पूर्ववत् ।
क्रमादर्चान्तरं कृत्वा स्थापयेच्च यथाविधि ॥ ४७५ ॥
View Verse
वालबिम्बे तु जीर्णेऽत्र कुर्यादेवं पुनः पुनः ।
मनुष्यनिर्मिते जीर्णे नष्टे दुष्टे तु वा व्कचित् ॥ ४७६ ॥
View Verse
वर्णशोभादिहीने च बिम्बे शैलमये सति ।
विशेषान्मृण्मये वाऽपि चित्राभासपटादिषु ॥ ४७७ ॥
View Verse
बालबिम्बे समाहूय चित्रयित्वा तु पूर्ववत् ।
पुनः प्रतिष्ठां कुर्वीत विधिवन्मन्त्रवित्तमः ॥ ४७८ ॥
View Verse
रीतिजे ताम्रजे वाऽपि आरकूटविनिर्मिते ।
प्रणीते पूज्यमाने तु काम्यबिम्बादिके सति ॥ ४७९ ॥
View Verse
कालान्तरेण जीर्णेऽस्मिन्नुत्कृष्टे समुपस्थिते ।
निकृष्टं सन्त्यजेद्विद्वान्न दोषस्तत्र विद्यते ॥ ४८० ॥
View Verse
लोहपाषाणमृत्काष्ठैः स्थापिते मूलकौतुके ।
न संपाद्यमतोऽन्येन कदाचिन्मुख्यवस्तुना ॥ ४८१ ॥
View Verse
पुरावज्जीर्णतां यातं कर्तव्यं मूलकौतुके ।
बहुबेरैकबैराभ्यां स्थापिताभ्यां गृहान्तरे ॥ ४८२ ॥
View Verse
जीर्णोद्धारेऽपि कर्तव्यं पूर्ववत् स्थापितं बुधैः ।
लक्ष्म्यादिकान्तारहिते बहुबेरे पुरा स्थिते ॥ ४८३ ॥
View Verse
जीर्णे तु पस्चाद्देवीभ्यां सहितं वा प्रकल्पयेत् ।
सर्वधा बहुबेरत्वहानिर्न स्याद्विपर्ययात् ॥ ४८४ ॥
View Verse
देवयक्षमुनीन्द्राद्यैः स्थापिते लक्षणोज्झिते ।
बिम्बे विमाने प्राकारे गोपुरे द्वारि मण्टपे ॥ ४८५ ॥
View Verse
पीठे वा पचनावासे कोशागारादिवस्तुषु ।
जीर्णेषु पूर्ववत् कुर्यान्न कुर्याल्लक्षणान्तरम् ॥ ४८६ ॥
View Verse
पापिष्ठैरतिनष्टेऽस्मिन् त्रिदशादिप्रतिष्ठिते ।
बिम्बादौ वैष्णवे चिह्ने लक्षणैश्चापि वर्जिते ॥ ४८७ ॥
View Verse
युक्ते वा पूर्ववत् कुर्यात् पूर्वरूपानुसारतः ।
राजराष्ट्रविनाशः स्यादन्यथा कल्पिते सति ॥ ४८८ ॥
View Verse
देवसिद्धमुनीन्द्राद्यैः स्थापिता पूजिता पुरा ।
विद्युत्प्रपातपूर्वैश्च दोषैर्या चातिदूषिता ॥ ४८९ ॥
View Verse
निर्दोषादासनात्तस्मात्तामुत्थाप्य विसृज्य च ।
पूर्ववन्निर्मितां पीठे प्रतिष्ठाप्य विधानतः ॥ ४९० ॥
View Verse
पीठभङ्गे तथान्यस्मिन् कल्पिते योजयेद्दृढम् ।
क्ष्माभेदजलवेगाद्यैः पतितं गवद्गृहम् ॥ ४९१ ॥
View Verse
प्राग्बिम्बसहितं तस्माद्देशादन्यत्र कल्पयेत् ।
नष्टे सबिम्बे सदने दिव्यादौ प्रागावदाचरेत् ॥ ४९२ ॥
View Verse
चोरनद्यादिवेगाद्यैरतिनष्टे तु मानुषे ।
बिम्बे पश्चात् प्रकुर्वीत पूर्ववद्वान्यथापि वा ॥ ४९३ ॥
View Verse
न शून्यमूलबिम्बत्वाद्बालार्चावाहनादिकम् ।
न कार्यं देशिकेन्द्रेण पूर्ववत् स्थाप्य पूजयेत् ॥ ४९४ ॥
View Verse
एवं हि सर्वदेवानां परव्यूहादिरूपिणाम् ।
विष्वक्सेनगणेशादिपरिवारगणस्य च ॥ ४९५ ॥
View Verse
क्लृप्तानां गोपुराद्येषु विभवव्यूहरूपिणाम् ।
सान्निद्यातिशयात्तेषु पूजितानां दिनं प्रति ॥ ४९६ ॥
View Verse
जीर्णोद्धारविधाने च विशेषः कथितो मया ।
मन्त्रसिद्धैश्च विविधैर्मुनिभिर्मनुजैस्तथा ॥ ४९७ ॥
View Verse
प्रतिष्ठितानां गेहानां चिरकालवशेन तु ।
पतनस्फोटभेदादिनाशकं भगवद्गृहे ॥ ४९८ ॥
View Verse
निर्वाहकानां भक्तानां शास्त्रज्ञानामनुज्ञया ।
बाह्ये बाह्यान्तरे तेषां रक्षणार्थं शिलादिभिः ॥ ४९९ ॥
View Verse
निपुणैः शिल्पिभिः कार्यो भित्तिबन्धः समन्ततः ।
प्रासादे मण्टपे चाग्र्ये प्राकारे गोपुरे तु वा ॥ ५०० ॥
View Verse
प्राङ्कणे पचनावासे कोशागारेऽम्बरास्पदे ।
पुष्पपानीयशालायामवघातगृहादिषु ॥ ५०१ ॥
View Verse
स्नानार्थमण्टपे वाऽपि तथा वै यागमण्टपे ।
जीर्णेकालान्तरे चैव विभूत्या विस्तृते गृहे ॥ ५०२ ॥
View Verse
रक्षार्थं विनियोगार्थं तद्बाह्ये तु विवर्धयेत् ।
अब्यन्तरात् समारभ्य ह्रासयेन्न तु कुत्रचित् ॥ ५०३ ॥
View Verse
प्रमुखे सर्ववस्तूनि बन्धयेत् परितोऽथवा ।
प्रागुदग्वा न वृद्धिः स्यात् पृष्ठे वारुणयाम्ययोः ॥ ५०४ ॥
View Verse
उत्तरे पश्चिमे वाऽथ वृद्धिं कुर्यान्महानसे ।
पौराणिकालयं पीठं तथा तीर्थं सरोवरम् ॥ ५०५ ॥
View Verse
मठं वा मण्टपाद्यं वा चिह्नं सौदर्शनादिकम् ।
न चालयेत् प्रयत्नेन सालादीनां च कल्पने ॥ ५०६ ॥
View Verse
बाह्यतः कल्पयेत्तानि लंघयित्वा पुरातनम् ।
प्राक् स्थितस्य बहिश्चान्तर्वर्धिते ह्रासिते सति ॥ ५०७ ॥
View Verse
पाश्चात्ये न तु दोषः स्यादायामोच्छ्राबविस्तरे ।
ब्रह्नरुद्रेन्द्रयक्षाद्यैस्तथा क्लृप्तं पुरातनम् ॥ ५०८ ॥
View Verse
चिरायुषोऽर्थवृध्यर्थी चालयेन्न तु कुत्रचित् ।
तथा सरोवरं कूपं मृदाद्यैर्न तु पूरयेत् ॥ ५०९ ॥
View Verse
अल्पीयांसि विमानानि विभूत्या श्रद्धयाऽथवा ।
महान्ति कारयेत् पश्चान्न दोष उपजायते ॥ ५१० ॥
View Verse
सालगोपुरपीठानां मण्टपाद्यङ्गरूपिणाम् ।
प्रथमे कल्पने चैव नष्टोद्धारे विशेषतः ॥ ५११ ॥
View Verse
एकस्मिन् प्राक् स्थिते वस्तुन्यशक्तौ स्थानसङ्कटे ।
ग्रहणं न तु दोषः स्यादमुख्यं मुख्यगौरवात् ॥ ५१२ ॥
View Verse
यद्यत् पादप्रतिष्ठायां प्रासादस्य जगत्पतेः ।
पादाधारशिलाद्यं वै तथा ब्रह्नशिलादिकम् ॥ ५१३ ॥
View Verse
विना प्रतिष्ठिते बिम्बे कुर्यात् स्नपनमुत्तमम् ।
मधुना पयसा दध्ना घृतेन चरुणा सह ॥ ५१४ ॥
View Verse
शान्तिहोमं प्रकुर्वीत सहस्रशतसङ्ख्यया ।
प्रासादश्च तथा बिम्बो येन शास्त्रेण निर्मितौ ॥ ५१५ ॥
View Verse
प्रतिष्ठाप्य च तेनैव नित्यादौ पूजयेद्धरिम् ।
योऽर्चयेदन्यमार्गेण तथा चार्चापयेत्तु यः ॥ ५१६ ॥
View Verse
तावुभौ कलुषात्मानौ राज्ञो राष्ट्रस्य वै गुरोः ।
कुलं च व्याधितं चैव विप्लवं दुःखमञ्जसा ॥ ५१७ ॥
View Verse
वित्तहानिं विशेषेण कुर्यातामालयस्य च ।
न कुर्यात् तन्त्रसांकर्यं पञ्चरात्रपरायणः ॥ ५१८ ॥
View Verse
पुनः प्रतिष्ठा कर्तव्या कृते चेत्तन्त्रसंकरे ।
वैखानसादिभिस्तन्त्रैः प्रासादार्थं पुरैव तु ॥ ५१९ ॥
View Verse
गर्भन्यासे कृतेऽप्यत्र पञ्चरात्राभिलाषया ।
तदैवोद्धृत्य तं गर्भं पञ्चरात्रोक्तमाचरेत् ॥ ५२० ॥
View Verse
चतुर्धा भेदभिन्नस्तु पञ्चरात्राख्य आगमः ।
तल्लक्षणं च प्रागुक्तं तथाप्यत्राप्युदीर्यते ॥ ५२१ ॥
View Verse
पूर्वमागमसिद्धान्तं द्वितीयं मन्त्रसंज्ञितम् ।
तृतीयं तन्त्रमित्युक्तमन्यत् तन्त्रान्तरं भवेत् ॥ ५२२ ॥
View Verse
आद्यं नित्योदितव्यूहस्थापनादिप्रकाशकम् ।
अपौरुषेयं सद्ब्रह्नवासुदेवाख्ययाजिनाम् ॥ ५२३ ॥
View Verse
लक्ष्यभूतं द्विजेन्द्राणां हृदिस्थमधिकारिणाम् ।
व्रह्नोपनिषदाख्यं च दिव्यमन्त्रक्रियान्वितम् ॥ ५२४ ॥
View Verse
विवेकदं परं शास्त्रमनिच्छातोऽपवर्गदम् ।
एवं नित्योदिताख्यस्य नित्याकारस्य च प्रभोः ॥ ५२५ ॥
View Verse
वासुदेवाभिधानस्य षाड्गुण्यादिमहोदधेः ।
प्रथमं लक्षणं विद्धि हृदयाद्यङ्गशब्दवत् ॥ ५२६ ॥
View Verse
एतदागमसिद्धान्तं श्रुतिरूपं तु विद्धि तत् ।
एष कार्तयुगो धरमः सर्वधर्मोत्तमः स्मृतः ॥ ५२७ ॥
View Verse
ततस्त्रेतायुगस्यादौ भोगमोक्षप्रसिद्धये ।
तस्मादागमसिद्धान्तान्निःसृतं बहुभेदकम् ॥ ५२८ ॥
View Verse
मन्त्रसिद्धान्तसंज्ञं तज्जाग्रद्वयूहादिमूर्तिना ।
समुत्कीर्णं द्वितीयस्य सात्वसतस्य महात्मनः ॥ ५२९ ॥
View Verse
तेन प्रद्युम्नसंज्ञस्य तेन तुर्यात्मनो विभोः ।
तेन वागीश्वराख्यस्य तस्माद्विद्याख्यविग्रदे ॥ ५३० ॥
View Verse
संक्रान्तं च ततः पश्चाद्रुद्रादित्येन्द्रवह्निषु ।
तथैव नारदाद्येषु देवर्षीणां गणेष्वपि ॥ ५३१ ॥
View Verse
संक्रातं मन्त्रसिद्धान्तं भेदभिन्नमनेकधा ।
यत्र शान्ततरं व्यूहं शान्तोदितमनन्तरम् ॥ ५३२ ॥
View Verse
सुषुप्तिसंज्ञं स्वप्नाख्यं जाग्रद्वयूहं यथोदितम् ।
मूर्त्यन्तर केशवाद्यं प्रादुर्भावं तथान्तरम् ॥ ५३३ ॥
View Verse
हृत्पझपझपीठादौ लक्ष्मीपुष्ट्यादिशक्तिभिः ।
लाञ्छनैः शह्खचक्राद्यैः गरुडप्रमुखैरपि ॥ ५३४ ॥
View Verse
भूतसिद्धादिभिः सास्त्रपर्यन्तैर्यजनं हितम् ।
विश्वत्रातृनृसिंहस्य दीक्षापूर्वं तथा परम् ॥ ५३५ ॥
View Verse
विहगव्यूहसूक्ष्माख्यमधिकारं यथाक्रमम् ।
समयी पुत्रकादीनां चतुर्णामभिषेचनम् ॥ ५३६ ॥
View Verse
तथैव समयाचारमूर्तीनां स्थापनक्रमम् ।
मन्त्रमण्डलमुद्राणां कुण्डादीनां च लक्षणम् ॥ ५३७ ॥
View Verse
कर्मणामेवमादीनां विधानं यत्र पुष्कलम् ।
मन्त्रसिद्धान्तसंज्ञं तद्बहुभेदसमन्वितम् ॥ ५३८ ॥
View Verse
परव्यूहादिभेदेन विनैकैकेन मूर्तिना ।
साङ्गेन केवलेनाथ कान्ताव्यूहेन भूषणैः ॥ ५३९ ॥
View Verse
तथास्त्रैर्विग्रहोपेतैरावृतं तन्त्रसंज्ञितम् ।
नृसिंहकपिलक्रोडहंसवागीश्वरादयः ॥ ५४० ॥
View Verse
मुख्यादिवृत्तिभेदेन केवला वाङ्गसंयुताः ।
चक्राद्यस्त्रवरैश्चाथ बूषणैर्मकुटादिभिः ॥ ५४१ ॥
View Verse
कान्तागणैश्च लक्ष्म्याद्यैः परिवारैः खगादिकैः ।
पूजिता विधिना यत्र तत्तन्त्रान्तरमीरितम् ॥ ५४२ ॥
View Verse
ये जन्मकोटिभिः सिद्धास्तेषामन्तोऽत्र जन्मनः ।
यस्मात्तस्माद्विवेदैष सिद्धान्ताख्यो यथार्थतः ॥ ५४३ ॥
View Verse
शास्त्रमन्त्रक्रियादीनां मूर्तीनां भवनस्य च ।
देशिकस्याभिजातस्य यथापूर्वं परिग्रहः ॥ ५४४ ॥
View Verse
तथैव यावत्कालं तु नाचर्तव्यं तदन्यथा ।
विपरीते कृते चात्र राजराष्ट्राद्यनर्थकृत् ॥ ५४५ ॥
View Verse
ततः समाचरेद्यत्नात् प्रतिष्ठां प्राक् प्रयत्नतः ।
ततः सिद्धान्तसाङ्कर्यं न कर्तव्यं कृतात्मभिः ॥ ५४६ ॥
View Verse
यद्यदिष्टतमं लोके पूर्वसिद्धाविरोधि तत् ।
प्रतिग्राह्यमतोऽन्योन्यविरुद्धं संत्यजेद्बुधः ॥ ५४७ ॥
View Verse
वैखानसेषु तन्त्रेषु शैवपाशुपतेषु च ।
विहितान्यत्रजातानि विरुद्धानीति किं पुनः ॥ ५४८ ॥
View Verse
पञ्चरात्रविधानेन पूज्यमाने प्रतिष्टिते ।
नान्येन पूजनं कार्यं विदुषाऽपि कदाचन ॥ ५४९ ॥
View Verse
सद्ब्रह्ननिरतैर्मुख्यैः पञ्चरात्रपरायणैः ।
पूजनीयं विशेषेण मुख्यकल्पाधिकारिभिः ॥ ५५० ॥
View Verse
त्रयीधर्मरतैर्विप्रैः सिद्धान्तेष्वपि दीक्षितैः ।
सदाचाररतैर्वाथ तदलाभेऽनुकल्पके ॥ ५५१ ॥
View Verse
प्रासादे स्थापितो देवो नैकेनार्च्यो विशेषतः ।
बलिहोमादिसंयुक्ते वित्ताढ्ये त्वपि किं पुनः ॥ ५५२ ॥
View Verse
पञ्चकालरतैर्मुख्यैर्मन्त्रसिद्धान्तवेदिभिः ।
पदार्थसप्तकप्राज्ञैर्दादशाध्यात्मकोविदैः ॥ ५५३ ॥
View Verse
त्रयोदशविधे कर्मण्यभिसन्धिपरैः सदा ।
कर्मसन्यासिभिश्चाप्तैः मुख्यकल्पाधिकारिभिः ॥ ५५४ ॥
View Verse
तथान्यैर्वा त्रयीनिष्ठैः सिद्धान्तार्थविशारदैः ।
समर्चनीयमनिशं द्विचुतःषड्भिरष्टभिः ॥ ५५५ ॥
View Verse
द्विषट्षोडशविंशद्भिश्चतुर्विंशतिभिस्तु वा ।
तेष्वेकः पूजयेदन्तः पर्यायेण दिनं प्रति ॥ ५५६ ॥
View Verse
द्वौ च त्रयो वा चत्वारः कुर्युरेवं पुनः पुनः ।
परिवारानर्चयेयुरन्ये देशिकसत्तमाः ॥ ५५७ ॥
View Verse
अन्योऽग्निकार्यं कुर्वीत कुर्यादन्यो बलिं क्रमात् ।
एतेषामुपकुर्वीरन्नन्ये भागवतोत्तमाः ॥ ५५८ ॥
View Verse
गुर्वादिष्टेन विधिना कुर्युरन्ये च साधकाः ।
सर्वमेकेन वा कार्यं बहूनां संयतात्मनाम् ॥ ५५९ ॥
View Verse
प्रवीणानामभिज्ञानां दीक्षितानामसन्निधौ ।
वैदेशिकेषु प्राप्तेषु बहुष्वायतनार्चने ॥ ५६० ॥
View Verse
मूलादावाह्य बिम्बेषु कुर्वीरन् प्रतिकर्मणि ।
उत्सवं स्नपनं यात्रां प्रभूतान्ननिवेदनम् ॥ ५६१ ॥
View Verse
तत्तद्बिम्बेषु कुर्वीरन् मन्त्रिणो बहवो यदि ।
नित्येऽप्येवं हि कुर्वीरन् पूजनं वह्नितर्पणम् ॥ ५६२ ॥
View Verse
बलियानादिकं सर्वमेकदैव तु मन्त्रिणः ।
न दोषोऽत्र तु विज्ञेयः कालकर्मनिमित्ततः ॥ ५६३ ॥
View Verse
न गृहे बहुभिः कार्यं नित्यनैमित्तिकादिकम् ।
एकदैवं तु यजनमन्यथा दोषदं भवेत् ॥ ५६४ ॥
View Verse
तद्दोषशान्तये कुर्याच्छान्तिहोमसमन्वितम् ।
यथाशक्ति जपेन्मन्त्री मूलमन्त्रस्य सादरम् ॥ ५६५ ॥
View Verse
भक्तैर्भागवतैरेवं प्रासादे च प्रतिष्ठितः ।
समर्चनीयो नित्यादौ राजराष्ठ्रसमृद्धये ॥ ५६६ ॥
View Verse
अन्यैः संपूजितो देवो न कदाचित् प्रसीदति ।
प्रयच्छत्यशुबं शश्वद्विशेषाद्राजराष्ट्रयोः ॥ ५६७ ॥
View Verse
तद्दोषशान्तये कार्यं स्नपनं चोत्तमोत्तमम् ।
आवाहिते प्रतिष्ठायामर्चासु जगतः पतौ ॥ ५६८ ॥
View Verse
नोद्वास्यः सर्वपूजानामावाह्य पुरतोऽर्चनात् ।
त्रिकालमङ्गबिम्बेषु कर्मार्चादिषु सत्स्वपि ॥ ५६९ ॥
View Verse
आवाह्य पूजयेन्मूलाद्विशेषेष्वपि कार्यतः ।
तत्तत्कर्मावसाने तु पुनर्मूले नियोजयेत् ॥ ५७० ॥
View Verse
यद्यन्यथा कृतेऽर्चासु मूलमावाहनादिके ।
शान्तये स्नपनं कुर्यात् अधमाधमसंज्ञितम् ॥ ५७१ ॥
View Verse
प्रायश्चित्तेषु सर्वेषु दोषगौरवलाघवम् ।
समीक्ष्य चाङ्कुरानर्प्य पुण्याहोक्तिपुरस्सरम् ॥ ५७२ ॥
View Verse
चतुःस्थानार्चनं चैव महता हविषार्चनम् ।
स्नपनं जपसंयुक्तमाचार्याणां च दक्षिणाम् ॥ ५७३ ॥
View Verse
गोभूहेमादिदानं च पञ्चकालज्ञभोजनम् ।
कारये च्च यथाशक्ति मुख्यकल्पे विशेषतः ॥ ५७४ ॥
View Verse
पूजनं स्नपनं होममनुकल्पे समाचरेत् ।
अतिक्रूरैरवाच्यैस्तु भुवं दोषैश्च दूषिताम् ॥ ५७५ ॥
View Verse
खननाद्यैश्च संशोध्य दशभिर्विधिचोदितैः ।
यथावत् कर्षयित्वा तु रत्नकाञ्चनजं रजः ॥ ५७६ ॥
View Verse
विकीर्य सर्वतो दिक्षु जुहुयात्तत्र शान्तये ।
देवालयेषु शून्येषु महास्नानादिकं चरेत् ॥ ५७७ ॥
View Verse
स्वतन्त्रपरतन्त्रेषु शून्यग्रामादिवास्तुषु ।
मार्जनालेपनाब्यां च गव्यैरभ्युक्षणेन च ॥ ५७८ ॥
View Verse
संशोध्य तत्तन्मध्ये तु वापयेद्गव्यपञ्चकम् ।
बलिदानं प्रकुर्वीत वास्तुदेवगणस्य च ॥ ५७९ ॥
View Verse
गोभूहेमादिकं दद्यादगुर्वादीनां यथाबलम् ।
भूपतिः सत्वनिष्ठस्तु प्रजापालनतत्परः ॥ ५८० ॥
View Verse
द्विजेन्द्रः पञ्चकालज्ञः प्रयत्नाच्छान्तिमाचरेत् ।
अन्यथा यद्युपेक्षेत शान्तिकर्म नराधिपः ॥ ५८१ ॥
View Verse
स्वमात्मानं स्वराष्ट्रं च स्वकोशं वाहनादिकम् ।
कऌअत्रपुत्रपौत्रांश्च नाशयत्यविसंशयम् ॥ ५८२ ॥
View Verse
तस्मादेतानि रक्षेत भूपतिर्बूतितत्परः ।
स्वबुध्या परबुध्या वा कृते वापदि संकटे ॥ ५८३ ॥
View Verse
तुलापुरुषदानेन सुवर्णेनोपशाम्यति ।
तथा हिरण्यगर्भस्थः कुर्याद्दानमलोलुपः ॥ ५८४ ॥
View Verse
काले काले विशेषेण ब्राह्नणानामनुज्ञया ।
समठं साग्रहारं च प्रासादं परिकल्प्य च ॥ ५८५ ॥
View Verse
सर्वदेवमयो देवःसर्ववेदमयो हरिः ।
सर्वयज्ञमयो विष्णुः सर्वलोकमयो विभुः ॥ ५८६ ॥
View Verse
सर्वधर्ममयोऽनन्तः सर्वभूतमयो ध्रुवः ।
सर्वतीर्थमयो योगी प्रतिष्ठाप्यो विधानतः ॥ ५८७ ॥
View Verse
अन्यत्र वितते कुण्डे यथाभिमतमेखले ।
पावनैर्वैष्णवैः सर्वदोषघ्नैः श्रुतिचोदितैः ॥ ५८८ ॥
View Verse
मन्त्रैः प्रयोगकुशलैः जुहुयुर्ब्राह्नणोत्तमाः ।
दिव्यन्तरिक्षभौमेषु महोत्पातेषु सत्स्वपि ॥ ५८९ ॥
View Verse
शान्तिरेवं विधानेन कर्तव्या भूतिमिच्छता ।
बहुनात्र किमुक्तेन मुने सर्वाघनाशनम् ॥ ५९० ॥
View Verse
सौदर्शनमहायन्त्रस्थापनं विषये स्वके ।
विधानं परमं विद्धि राजराष्ट्राभिवर्धनम् ॥ ५९१ ॥
View Verse
लोहेन वा सच्छिलया प्रकल्प्य ।
सुदर्शनं यन्त्रवरस्य मध्ये ।
तस्यापराङ्गे नृहरिं विधाय ।
कराम्बुजैश्चक्रधरैश्चतुर्भिः ॥ ५९२ ॥
View Verse
गर्भावृतिद्वारि गवाक्षयुक्त ।
प्रासादमध्ये विधिवन्निवेश्य ।
समर्चयेद्यो विजयी स भूत्वा ।
भुनक्ति भोगानखिलानिहैव ॥ ५९३ ॥
View Verse

Chapter 20

श्रीः ।
विंशोऽध्यायः ।
सनकः ।
तुलापुरुषदानादि मम संसूचितं पुरा ।
भूभुजां तद्विधानं मे विस्तरेण मुने वद ॥ १ ॥
View Verse
शाण्डिल्यः ।
श्रृणु सम्यक् प्रवष्यामि द्विज सर्वाघनाशनम् ।
तुलापुरुषदानाद्यं सर्वकामफलप्रदम् ॥ २ ॥
View Verse
प्रजापालनशीलस्य सत्वनिष्ठस्य भूभुजः ।
कदाचित् कर्मलोपेन देवकोपोऽभिजायते ॥ ३ ॥
View Verse
तथैव राष्ट्रसंक्षोभः प्रजापीडा च वर्धते ।
तथा वर्णाश्रमाचारैर्देशः स्यात् कलुषीकृतः ॥ ४ ॥
View Verse
वेदवैदिकधर्माश्च च्यवन्ते कालविप्लवैः ।
बाध्यते प्रतिभूपालैरुपर्युपरि भूपतिः ॥ ५ ॥
View Verse
शून्यो जनपदो भूयात् प्रजा नस्यन्ति तत्क्षणात् ।
स्वदोषजनितं कष्टमिति बुद्ध्या महीपतिः ॥ ६ ॥
View Verse
सपुरोधाः सहामात्यः सप्रजापदमादरात् ।
पञ्चरात्रविधानज्ञं सर्वभूतहिते रतम् ॥ ७ ॥
View Verse
अलोलुपं चाप्यक्रोधं ऋजुं भागवतं द्विजम् ।
कर्मद्वयविधानज्ञं देशिकेन्द्रं समाश्रयेत् ॥ ८ ॥
View Verse
पुरावृत्तं तु सकलं स्वापराधनिमित्तजम् ।
सर्वं निवेद्य गुरवे यथावृत्तं महीपतिः ॥ ९ ॥
View Verse
रक्ष रक्षेति चरणौ प्रणम्य समुदीरयन् ।
सोऽपि तद्वचनं श्रुत्वा सर्वानुग्रहकारकः ॥ १० ॥
View Verse
वित्तमाहृत्य नृपतेर्न्यायधर्मसमाहृतम् ।
प्रवर्ततेऽथ तत् कर्म ऋत्विग्भिः पञ्चरात्रिकैः ॥ ११ ॥
View Verse
त्रैविद्यैरपि तत्कर्मकुशलैर्भगवत्परैः ।
चैत्रादिषु च मासेषु विषुवे चायनद्वये ॥ १२ ॥
View Verse
व्यतीपाते च जन्मर्क्षे चन्द्रसूर्योपरागयोः ।
श्रवणे वासवेऽश्विन्यां कृत्तिकास्वथवा मुने ॥ १३ ॥
View Verse
रोहिण्यां सौम्यनक्षत्रे पुनर्वस्वोर्विशेषतः ।
पुष्ये वा हस्तनक्षत्रे उत्तरासु तथैव च ॥ १४ ॥
View Verse
चित्रायां च तथा स्वातौ मैत्रे मूले तथैव च ।
दुःस्वप्ने गृहपीडायां महोत्पातेषु सत्स्वपि ॥ १५ ॥
View Verse
व्याधिते च तथाराष्ट्रे कुर्यात् कर्तुश्च सम्मते ।
एतन्निमित्तमुद्दिश्य कर्तव्यं चेत्तदैव तु ॥ १६ ॥
View Verse
प्रारभेत्तद्यथा दोषविप्लवो नाभिजायते ।
स्वयंव्यक्तादिके स्थाने विष्णोः सर्वगुणान्विते ॥ १७ ॥
View Verse
यथाभिमतदिग्वक्त्रे पुरस्ताद्भगवद्गृहे ।
त्रिवर्गं मण्टपं कुर्याच्चतुरश्रं समन्ततः ॥ १८ ॥
View Verse
सप्तविंशत्करं क्षेत्रं सप्तधा संविभज्य च ।
हस्तोच्छ्रायां महावेदिं सर्वालङ्कारमण्डिताम् ॥ १९ ॥
View Verse
दिक्षु चारोहणैर्युक्तां त्रिभिर्मध्य प्रकल्पयेत् ।
तदूर्ध्वे मध्यतो दिक्षु पार्थिवं पीठपञ्चकम् ॥ २० ॥
View Verse
तालोन्नतं त्रिहस्तं च त्रिस्थानयजनाय च ।
भूपतेरधिवासार्थं स्वर्णादेरपि वस्तुनः ॥ २१ ॥
View Verse
तुलायाः खड्गमुख्यस्य भूषणानां च वाससाम् ।
मण्डलं मध्येमे पीठे प्राक्स्थं चक्राब्जसन्निभ् ॥ २२ ॥
View Verse
कुण्डं दक्षिणदिक्पीठं नृपजागरणास्पदम् ।
प्रत्यक्स्थे कुंभयागं तु सौम्यस्थै स्वर्णसञ्चयः ॥ २३ ॥
View Verse
तुलादीनां च संस्कारः कार्यस्तेषां च बाह्यतः ।
हस्तमात्रं परित्यज्य दिक्कुण्डानि प्रकल्पयेत् ॥ २४ ॥
View Verse
चतुरश्रं च चक्राभं शङ्खाभं चाम्बुजाकृति ।
विदिक्षु वह्न्यादीशान्तं श्रृगु कुण्डगणं क्रमात् ॥ २५ ॥
View Verse
योन्याकारं त्रिकोणं च वस्वश्रार्द्धेन्दुलक्षणे ।
पीठोर्ध्वे कल्पनीयानि चक्राद्यैरङ्कितानि च ॥ २६ ॥
View Verse
परितोऽपि त्रियंशेन चतुर्द्वारसमन्वितम् ।
कोणेषु च सुभित्याढ्यं मुखभद्रविराजितम् ॥ २७ ॥
View Verse
विविधारोहणैर्युक्तं सर्वालङ्कारमण्डितम् ।
पुरोभागे प्रपा कार्या मानाद्यागालयोपमा ॥ २८ ॥
View Verse
मध्यतो रङ्गसंयुक्ता पश्चिमाशां विसृज्य च ।
प्राक् दक्षिणोत्तराशासु द्विभक्त्या प्रावृता दृढा ॥ २९ ॥
View Verse
महोत्सवे प्रतिष्ठायां पवित्रारोहणादिषु ।
पुरा यथोक्तं बहुधा तेष्वेकस्मिन् प्रकल्पिते ॥ ३० ॥
View Verse
मण्टपे वा प्रकुर्वीत तुलारोहादिकं द्वयम् ।
पुरस्तादेवमापाद्य मण्टपं पूर्वतोमुखम् ॥ ३१ ॥
View Verse
पश्चादारोहणतुला विधेया विधिचोदिता ।
एकाङ्गुलघने तुल्ये खुवृत्ते हस्तनिर्मिते ॥ ३२ ॥
View Verse
धटे हेमादिना कार्ये प्रोद्यदर्कसमप्रभे ।
परिधावङ्गुलं त्यक्त्वा वलयैर्दिक्षु कीलिते ॥ ३३ ॥
View Verse
तुलादण्डसमायामे श्रृङ्खलापाशयोजिते ।
काऌआयसमयं दण्डं कार्यं हस्तत्रयायतम् ॥ ३४ ॥
View Verse
त्रितालनाहं मध्ये तु द्वितालं पार्श्वयोर्द्वयोः ।
तालमात्रं परित्यज्य कालायसमयं चलम् ॥ ३५ ॥
View Verse
बालचन्द्रसमाकारवक्त्रादंष्ट्राद्वयं द्वयोः ।
श्रृङ्खलापाशयोगार्थं कृत्वा मध्ये तदूर्ध्वतः ॥ ३६ ॥
View Verse
तीक्ष्णाग्रां स्थापयेज्जिह्वामचलां षोडशाङ्गुलमाम् ।
शंसन्तीं साम्पवैषम्ये तदूर्ध्वे तोरणं चलम् ॥ ३७ ॥
View Verse
अष्टादशाङ्गुलायामं विश्रान्तं पार्स्वयोर्द्वयोः ।
बलाकावदनं वक्त्रं योजयेत्तोरणोपरि ॥ ३८ ॥
View Verse
तुलामेवं समापाद्य लक्षणेनोपलक्षिताम् ।
प्रसिद्धयज्ञदारूत्थौ सारवन्तौ ऋजू दृढौ ॥ ३९ ॥
View Verse
द्विहस्तपरिणाहौ च हस्तैः षड्भिः समुच्छ्रितौ ।
मूलतश्चतुरश्राभौ मध्यतोष्टाश्र लक्षितौ ॥ ४० ॥
View Verse
ऊर्ध्वतो वर्तुलाकारौ शिल्पिश्रेष्ठेन निर्मितौ ।
चतुरश्रस्य कुण्डस्य प्राच्यां द्वारस्य चान्तरे ॥ ४१ ॥
View Verse
दक्षिणोत्तरयोः स्थाप्यौ द्विहस्तेनान्तरीकृतौ ।
हस्तैः पञ्चभिरुच्छ्राये निखातौ हस्तमानतः ॥ ४२ ॥
View Verse
समानजातिवृक्षोत्थं योजयेदुत्तरं तयोः ।
स्तंभाग्रतुल्यविस्तारं तावन्मानोन्नतं दृढम् ॥ ४३ ॥
View Verse
मङ्गऌऐरष्टबिर्जुष्टं पार्श्वयोश्च श्रियान्वितम् ।
मध्यतस्तदधस्ताच्च कीलयेद्वलयं दृढम् ॥ ४४ ॥
View Verse
तुलावलम्बनार्थं च ताम्रजं वाऽयसं तु वा ।
कार्याथ ताडनीयष्टिरायामात् षोडशाङ्गुला ॥ ४५ ॥
View Verse
प्रकोष्ठपरिणाहा च लौही वा सारदारुजा ।
यागोपकरणान्यत्र होमोपकरणान्यपि ॥ ४६ ॥
View Verse
स्रुक्स्रुवादीनि सर्वाणि कुंभाश्च करकादयः ।
तथाष्टमङ्गऌआदीनि शक्त्या हेमादिजानि वा ॥ ४७ ॥
View Verse
अङ्कुरानर्पयित्वाऽथ प्रागुक्तेऽन्यतमे दिने ।
पालिकादिषु पात्रेषु मङ्गऌआर्थं प्रयोगवित् ॥ ४८ ॥
View Verse
संभाराणि च सर्वाणि सम्भर्तव्यानि सादरम् ।
मण्टपालंक्रियार्थं च त्रिस्थानयजनाय च ॥ ४९ ॥
View Verse
चन्दनादीनि गन्धानि पत्रपुष्पफलानि च ।
सितादिवर्णयुक्तानि वासांसि विविधानि च ॥ ५० ॥
View Verse
सर्वकुण्डेषु होमार्थं समिधां सप्तकं बहु ।
दिक्कुण्डेषु च होतव्याः सिद्धार्थीः काम्यकर्मणाम् ॥ ५१ ॥
View Verse
पलाशखदिराश्वत्थोदुम्बरप्रभवा अपि ।
विदिक्षु पिप्पलप्लक्षवटकाश्मर्यजातयः ॥ ५२ ॥
View Verse
समिधः सर्वकुण्डेषु पालाश्यस्तदलाभतः ।
हेमराजतताम्रोत्थाः कलशा मृण्मयास्तु वा ॥ ५३ ॥
View Verse
शालिपूर्वाणि धान्यानि बीजानि च विशेषतः ।
दधिक्षीराज्यकुंभानि षड्विधानि रसान्यपि ॥ ५४ ॥
View Verse
तण्डुलानि विशुद्धानि पाकयोग्यान्यनुक्षणम् ।
कर्मण्यान्युपदंशानि पाकपात्राण्यनेकशः ॥ ५५ ॥
View Verse
निवेशनार्थस्थालीकाः पात्राण्यर्घ्यादिकस्य च ।
प्रदीपधूपपात्राणि सुगुणान्यद्भुतानि च ॥ ५६ ॥
View Verse
पाद्यप्रतिग्रहादीनि यागोपकरणानि च ।
गुग्गुल्वगरुपूर्वाणि धूपद्रव्याणि यान्यपि ॥ ५७ ॥
View Verse
स्नानकुंभोपयोग्यानि यानि सर्वौषधानि च ।
दानर्थं ब्राह्नाणादीनां धनधान्याम्बराणि च ॥ ५८ ॥
View Verse
भूषणानि महार्हाणि देशिकेन्द्रस्य ऋत्विजाम् ।
हेमादि दक्षिणआर्थं च संभर्तव्या यथाबलम् ॥ ५९ ॥
View Verse
यागालयमलंकुर्यात् पवित्रारोहणे यथा ।
वितानैर्ध्वजिकाभिश्च तुह्गैर्यवनिकापटैः ॥ ६० ॥
View Verse
क्षौमैर्नानाविधैर्वस्त्रैर्घण्टाचामरदर्पणैः ।
व्यालम्बिदर्भमालाभिः कदऌईपनसादिभिः ॥ ६१ ॥
View Verse
सुगन्धपुष्पमालाभिः सौवर्णैर्मञ्जरीगणैः ।
सफलैः कदऌईपूगनाऌइकेरादिभूरुहैः ॥ ६२ ॥
View Verse
प्रदीपैः प्रकरैः पुष्पैः सिताद्यैर्वर्णकैरपि ।
तोरणैर्द्वारकुंभैश्च सवत्सैः सुरभीगणैः ॥ ६३ ॥
View Verse
मण्डितैः खलु श्रृह्गादौ क्षौमस्रग्भूषणादिभिः ।
एवमाद्यैरलंकृत्य यथाशोभं तु मण्टपम् ॥ ६४ ॥
View Verse
तृतीये वासरे पूर्वे कर्माहाद्दिवसक्षये ।
ऋत्विग्भिर्देशिकेन्द्रस्तु कृतसन्ध्याविधिक्रमः ॥ ६५ ॥
View Verse
प्रविश्य मण्टपं प्राग्वत् पुण्याहोक्तिपुरस्सरम् ।
अर्चनं वासुदेवस्य सहोमं प्राक् समाप्य च ॥ ६६ ॥
View Verse
यागालयं तु सर्वत्र गव्यैरभ्युक्ष्य पञ्चभिः ।
द्रव्याणि यागयोग्यानि तत्तत्स्थाने नियोजयेत् ॥ ६७ ॥
View Verse
प्रभातायां तु शर्वरयां पूर्वाह्ने देहशुद्धये ।
उप्तरोमनखश्मश्रुर्भूपतिर्नियतः शुचिः ॥ ६८ ॥
View Verse
धौतदन्तश्च सुस्नातः परिशुद्धाम्बरावृतः ।
सितालेपनपुष्पाद्यैरञ्चितः संस्मरन् हरिम् ॥ ६९ ॥
View Verse
उपोषितो घृतं प्राश्य ब्राह्नणैर्वेदपारगैः ।
पारायणमृचां श्रृण्वन्नासीत सपुरोहितः ॥ ७० ॥
View Verse
निशामुखे प्रवृत्ते तु ऋत्विग्बिर्देशिकोत्तमः ।
प्रविशेद्यागसदनं कृत्वा द्वार्स्थार्चनं सुधीः ॥ ७१ ॥
View Verse
त्रिस्थानस्थं जगन्नाथं यजेद्दीक्षाविधेः समम् ।
पुण्याहं पूर्वमुच्चार्य ऋत्विग्भिः कुंभमुद्वहन् ॥ ७२ ॥
View Verse
कुंभमण्डलयोः पूजां विस्तरेण समाप्य च ।
स्वकुण्डे हवनं कुर्यात् समिद्भिः सप्तभिः पुरा ॥ ७३ ॥
View Verse
शान्तिहोमं ततः पश्चान्मधुक्षीरादिभिः क्रमात् ।
प्रत्येकं शतसङ्ख्यं च पूर्णान्तं मूलमुच्चरन् ॥ ७४ ॥
View Verse
स्वमार्गेण तु संस्कृत्य गुरुः कुण्डगणं ततः ।
तेषु प्रभवयोगेन होमार्थं दिक्षु योजयेत् ॥ ७५ ॥
View Verse
चतुरो वासुदेवादिनाम्ना एकायनान् द्विजान् ।
तैः स्वशाखोदितैर्मन्त्रैः होतव्यं तु क्रमेण तु ॥ ७६ ॥
View Verse
ऋगाद्यांश्चतुरो वेदान् विदिक्कुण्डेषु विन्यसेत् ।
मन्त्रैरर्चितलिङ्गैस्तु स्वशाखोत्थैस्च पावनैः ॥ ७७ ॥
View Verse
होमं कुर्याद्यथायोगं पुंसूक्तेनैव वा द्विज ।
भूः स्वाहेति भुवः स्वाहा स्वः स्वाहेति तथैव च ॥ ७८ ॥
View Verse
भूर्भुवस्सुवःस्वाहेति मन्त्रैर्वा वह्निद्क्क्रमात् ।
भूः पुरुषाय स्वाहा भुवः पुरुषाय स्वाहा ॥ ७९ ॥
View Verse
स्वः पुरुषाय स्वाहा भूर्भुवस्स्वः पुरुषाय स्वाहा ।
एतैश्चतुर्भिर्मन्त्रैर्वा जुहुयाद्दिक्क्रमेण तु ॥ ८० ॥
View Verse
सास्त्राणां लोकपालानां कुमुदादिगणस्य च ।
अष्टानां मह्गऌआनां च प्राग्वत् स्यात् स्थापनादिकम् ॥ ८१ ॥
View Verse
पालाशादिसमिद्भेदाश्चरुभेदाश्च पूर्ववत् ।
प्रतिकुण्डं च कुंभानां स्थापनाद्यं तु पूर्ववत् ॥ ८२ ॥
View Verse
चतुर्णां ऋङ्नयादीनां तथा चैकान्तिनामपि ।
निवेशनादिकं कार्यं पुरोदितविधानतः ॥ ८३ ॥
View Verse
एवं क्रमेण संपाद्य तदन्ते भूपतिं गुरुः ।
प्राशयेत् पञ्चगव्यं तु कुशोदकसमन्वितम् ॥ ८४ ॥
View Verse
भगवत्पादतोयं च सर्वपापहरं शुभम् ।
भक्षयेच्चरुशेषं तु कोष्ठसंशोधनाय च ॥ ८५ ॥
View Verse
कृत्वा दक्षिणपीठे तु शालिभारैस्तु विष्टरम् ।
नवसङ्ख्यैस्तदूर्ध्वे तु मार्गं चर्म तु विन्यसेत् ॥ ८६ ॥
View Verse
व्याघ्रजं वा तदूर्ध्वे तु दर्भानास्तीर्य साक्षतान् ।
प्रागग्रानुदगग्रान् वा तस्मिन्नारोप्य भूपतिम् ॥ ८७ ॥
View Verse
पूर्णोदकुंभांश्चतुरः प्राग्वद्वस्त्रादिभूषितान् ।
चतुर्दिक्ष्वपि संस्थाप्य तेष्वर्च्या मूर्तयः क्रमात् ॥ ८८ ॥
View Verse
चतुर्विधानि चान्नानि तासां दद्यात् क्रमेण तु ।
ततो होमश्च कर्तव्यः कुण्डेषु प्राक्क्रमेण तु ॥ ८९ ॥
View Verse
ततो बूपस्य पुरतः उपविश्यासने गुरुः ।
तद्देहस्थिततत्वानां शुद्धिं कुर्याद्विधानतः ॥ ९० ॥
View Verse
प्राक् तेषां विलयं कृत्वा ततः सृष्टिं समाचरेत् ।
कुर्यात् कौतुकबन्धं च प्राग्वत्तस्यापि चात्मनः ॥ ९१ ॥
View Verse
स्वर्णसञ्चयमाहृत्य तिन्त्रिणीमिश्रवारिणा ।
निर्मलीकृत्य संप्रोक्ष्य वीर्यमन्त्रेण तत्पुनः ॥ ९२ ॥
View Verse
उदक् दिक् संस्थिते पीठे शालिभारैस्त्रिभिः कृते ।
पीठे निवेश्याधिवास्य वासोलङ्कारपूर्वकम् ॥ ९३ ॥
View Verse
अन्यच्च सर्वं संस्थाप्य वर्मणा चावकुण्ठयेत् ।
ततश्चक्राब्जमालिख्य त्वन्यद्वा मण्डलं शुभम् ॥ ९४ ॥
View Verse
रत्नजैर्धातुजैर्वापि वर्णकैः परिपूरयेत् ।
गीतनृत्तादिकैः स्तोत्रैः शङ्खवाद्यादिनिस्वनैः ॥ ९५ ॥
View Verse
मङ्गऌऐर्विविधैश्चान्यैर्जागरेण नयेन्निशाम् ।
दिव्याद्यायतने कार्यं विशेषयजनं विभोः ॥ ९६ ॥
View Verse
ततः कर्मदिने ब्राह्ने मुहूर्ते देशिकः स्वयम् ।
कृत्वा स्नानादिकं सर्वं नित्यकर्मविधानतः ॥ ९७ ॥
View Verse
ततो यजेद्विशेषेण कुंभस्थं जगतीपतिम् ।
मण्डलस्थं क्रमेणैव विविधैर्भोगसञ्चयैः ॥ ९८ ॥
View Verse
औपचारिकसांस्पर्शहृदयङ्गमसंज्ञितैः ।
परमान्नादिकैस्तत्र प्रबूतैरन्नसञ्चयैः ॥ ९९ ॥
View Verse
एवमिष्ट्वा ततोऽग्निस्थं विभुं सन्तर्पयेत् क्रमात् ।
समित्सप्तकपूर्वैस्तु मूलेन सघृतैस्तिलैः ॥ १०० ॥
View Verse
सहस्रमाहुतीनां तु शतं वाऽपि समाचरेत् ।
सर्वविघ्नविनाशार्थमस्त्रेणापि तथाचरेत् ॥ १०१ ॥
View Verse
ऋत्विजश्च स्वकुण्डेषु जुहुयुः पूर्ववत् क्रमात् ।
पतितासु च पूर्णासु सर्वकुण्डेषु वै क्रमात् ॥ १०२ ॥
View Verse
संस्नाप्य मूलमन्त्रेण पुंसूक्तेन तथैव च ।
सुप्रक्षाऌइतपाण्यंघ्रिं स्वाचान्तं परिभूषितम् ॥ १०३ ॥
View Verse
निशाधिवासितैः सर्वैर्वस्त्रमाल्यानुलेपनैः ।
सर्वैराभरणैश्चैव महार्घैर्विविधैरपि ॥ १०४ ॥
View Verse
खङ्गखेटकहस्तं च समादाय गुरुः स्वयम् ।
मुहूर्ते शोभने प्राप्ते पाणिना पृथिवीपतिम् ॥ १०५ ॥
View Verse
पुण्याहं वाचयित्वा तु सर्वमङ्गऌअसंयुतम् ।
कलशस्थलदिक्कुंभसर्वकुण्डेषु संस्थितम् ॥ १०६ ॥
View Verse
विभुं प्रदक्षिणीकृत्य कारयित्वा नमस्क्रियाम् ।
ब्राह्नणाग्र्याननुज्ञाप्य तुलां नीत्वा प्रदक्षिणम् ॥ १०७ ॥
View Verse
तस्याः पश्चिमदिक्संस्थे भूयः प्रागाननं धटे ।
आरोपयेन्मूलमन्त्रं साङ्गमावर्तयन् गुरुः ॥ १०८ ॥
View Verse
दिव्यान् बलादिकान् मन्त्रान् तथा सूक्तं तु पौरुषम् ।
प्राक्पात्रे भूपतिसमं निक्षिपेत् स्वर्णसञ्चयम् ॥ १०९ ॥
View Verse
निशाधिवासितं त्वेष तुलाभारः समो भवेत् ।
एवं वाऽपि तुलाभारे प्राक् धटे विन्यसेन्नृपम् ॥ ११० ॥
View Verse
प्रत्यङ्मुखं पश्चिमे तु निक्षिपेत् स्वर्णसञ्चयम् ।
शतनिष्काधिकः श्रेष्ठो मध्यमोऽर्धाधिको भवेत् ॥ १११ ॥
View Verse
शतपादाधिकः स स्यात्तुलाभारः कनिष्ठकः ।
तत्काले ऋङ्भयाद्याश्च चत्वारो दिक्षु संस्थिताः ॥ ११२ ॥
View Verse
स्वशाखाः समधीयीरन् विदिशासु च संस्थिताः ।
सद्ब्रह्नज्ञा अधीरयन् शाखाः परमपावनाः ॥ ११३ ॥
View Verse
शङ्खकाहऌअभेर्यादिवाद्यानि विविधानि च ।
वादयेयुः समन्ताच्च तत्तद्वाद्यविशारदाः ॥ ११४ ॥
View Verse
गीतं तु विविधं कुर्युः गीतशास्त्रविशारदाः ।
विविधानि च नृत्तानि कुर्युश्च परितो दिशः ॥ ११५ ॥
View Verse
अन्यच्च मङ्गऌअं यद्यत तत्तत् सर्वं तु कारयेत् ।
ततस्तु सर्वकुण्डेषु शान्तिहोमं च कारयेत् ॥ ११६ ॥
View Verse
तिलैराज्यैश्च बहुभिः शतमष्टोत्तरं क्रमात् ।
भूपतिर्मनसा ध्यायेत् भगवन्तं जनार्दनम् ॥ ११७ ॥
View Verse
एकनाडीं तदर्धं वा आसीत नृपतिर्धटे ।
ततोऽवरुह्य वै तस्मात् प्रणमेद्दण्डवद्धरिम् ॥ ११८ ॥
View Verse
ततस्तु भूषणैर्वस्त्रैर्भूषयेद्भूपतिर्गुरुम् ।
सुवर्णदक्षिणां दद्याच्छतनिष्कां तु तत्समाम् ॥ ११९ ॥
View Verse
ऋत्विग्भ्यस्तु तदर्धं वा ये चान्ये तत्र कर्मणि ।
नियोजितास्तु साहाय्ये तेभ्यः कर्मानुरूपतः ॥ १२० ॥
View Verse
द्रव्याणि दद्यान्नृपतिर्वस्त्राणि विविधानि च ।
सुवर्णसञ्चयांस्तांश्च भूषणानि च भूपतिः ॥ १२१ ॥
View Verse
स्वयं व्यक्तादिके स्थाने दद्याद्भगवतो विभोः ।
दानात् फलविशेषं तु समाकर्णय सांप्रतम् ॥ १२२ ॥
View Verse
स्वयं व्यक्ते विभोः स्थाने यो दद्याद्भूपतिर्हरेः ।
सर्वपापविनिर्मुक्तः सर्वामयवियोजितः ॥ १२३ ॥
View Verse
सर्वसंपत्समृद्धश्च सर्वदेशाधिपो भवेत् ।
भुङ्क्ते च विविधान् भोगानिह लोके परत्र च ॥ १२४ ॥
View Verse
कोटिकोटिगुणं दानं तथैव च फलं भवेत् ।
दानं यद्दिव्यायतने तदनन्तगुणं भवेत् ॥ १२५ ॥
View Verse
आर्षे च सैद्धायतने दानं लक्षगुणं भवेत् ।
सद्विप्रकल्पिते दानं सहस्रगुणितं भवेत् ॥ १२६ ॥
View Verse
सत्क्षत्रकल्पिते स्थाने दानं शतगुणं भवेत् ।
सद्वैश्यकल्पिते स्थाने तदर्धगुणितं भवेत् ॥ १२७ ॥
View Verse
सच्छूद्रकल्पिते दत्तं द्विषट्कगुणितं भवेत् ।
अनन्यशरणैर्वर्णैः स्थाने तु परिकल्पिते ॥ १२८ ॥
View Verse
दानं दशगुणं प्रोक्तं वर्णैर्व्यामिश्रयाजिभिः ।
निर्मितायतने दत्तं तत् पञ्चगुणितं भवेत् ॥ १२९ ॥
View Verse
दाने मुख्यविधिः प्रोक्तस्त्वनुकल्पमतः श्रृणु ।
तत्र ये श्रोत्रियाः प्राप्ता वैघ्णवा ब्राह्नणोत्तमाः ॥ १३० ॥
View Verse
सुवर्णसञ्चयाद्यं च तेभ्यो दद्याद्यथाक्रमम् ।
यागोपकरणं सर्वमाचार्याय प्रदापयेत् ॥ १३१ ॥
View Verse
यः कुर्याद्भूपतिः कश्चित् अन्यो वा धनवान् सकृत् ।
तुलाभाराह्वयं कर्म सर्वपापैः प्रमुच्यते ॥ १३२ ॥
View Verse
रोगैरनबिभूतश्च भविष्यति न संशयः ।
यः कुर्यान्नियमेनैव कर्मैतत् प्रतिवत्सरम् ॥ १३३ ॥
View Verse
तस्य पुण्यफलावाप्तिं कः शक्नोत्यभिवर्णितुम् ।
तत्काले भगवद्यागं चतुःस्थानार्चनान्वितम् ॥ १३४ ॥
View Verse
दिव्याद्यायतने सम्यक् कारयेत् पृथिवीपतिः ।
तदन्यस्मिन् दिने विप्र स्नापयेत् पुरुषोत्तमम् ॥ १३५ ॥
View Verse
सहस्रकलशैः सम्यक् पुरोदितविधानतः ।
यद्वान्यस्नपनेनैव तत्तत्कालोचितेन वै ॥ १३६ ॥
View Verse
चतुसःथानार्चनं तत्र विशेषात् कारयेन्नृपः ।
महाहविर्निवेद्यं च विशेषेणैव कारयेत् ॥ १३७ ॥
View Verse
तत्रापि देशिकादिभ्यो दद्याद्वै दक्षिणां क्रमात् ।
दीनान्धकृपणानाथान् बालवृद्धकृशातुरान् ॥ १३८ ॥
View Verse
भोजयेच्च विधानेन द्रव्यादीन्यपि दापयेत् ।
विविधानि च बीजानि शाल्यादीन्यपि दापयेत् ॥ १३९ ॥
View Verse
बन्दीकृतांश्च विसृजेत् कारागृहनिवेशितान् ।
एष ते कथितो विप्र तुलाभारविधिः क्रमात् ॥ १४० ॥
View Verse
हिरण्यगर्भाद्यन्येष्वप्येवमेव समाचरेत् ।
एवं कुर्यात्तुलाभारं यः सकृद्बहुशोऽपि वा ॥ १४१ ॥
View Verse
सर्वपापविमोक्षस्तु तस्य स्यान्नात्र संशयः ।
यो वा भगवतोऽर्थे तु मातापित्रोर्गुरोस्तु वा ॥ १४२ ॥
View Verse
स्वप्राणांस्त्यजतां भक्त्या विप्रादीनां महामते ।
निमित्ती तु भवेत्तस्य तुलाभारादिकेन च ॥ १४३ ॥
View Verse
बहुशोऽनुष्ठितेनैव सम्यगेव तु कर्मणा ।
अन्यैर्वा विहितैर्विप्र प्रायश्चित्तैः सुदुष्करैः ॥ १४४ ॥
View Verse
ब्रह्नहत्योऽत्थदोषस्य शुद्धिर्भवति वा न वा ।
प्राणत्यागः कृतस्तेन विष्वर्ण्थे यन्महात्मना ॥ १४५ ॥
View Verse
तस्मान्न निष्कृतिर्विप्र भवेत्तस्य निमित्तिनः ।
ब्राह्नणाः क्षत्रिया वैश्या विष्ण्वर्थे मौद्गलास्तु वा ॥ १४६ ॥
View Verse
परित्यजेयुः स्वप्राणान् भगवद्भक्तिसंयुताः ।
भृग्वादिभिरुपायैस्तु पञ्चभिर्वा विषादिकैः ॥ १४७ ॥
View Verse
अन्यैस्तेषां भवेत् सद्यौ वाजपेयादिजं फलम् ।
सकामस्य तु निष्कामः प्राप्नुयात् परमां गतिम् ॥ १४८ ॥
View Verse
महात्मनस्तु तान् विद्धि विष्ण्वर्थे त्यक्तजीवितान् ।
आत्महत्योत्थदोषैस्ते न लिप्यन्ते कदाचन ॥ १४९ ॥
View Verse
आत्महत्योत्थदोषाः स्युरन्येषां सर्वदा द्विज ।
एवं भगवदर्थे तु प्राणत्यागे कृतादरः ॥ १५० ॥
View Verse
यमुद्दिश्य त्यजेत् प्राणान् तं विद्याद्ब्रह्नघातकम् ।
मुख्यविप्रे मृते तस्य तद्दोषः स्याच्चतुर्गुणः ॥ १५१ ॥
View Verse
क्षत्रिये ब्रह्नहत्योत्थदोषस्तु त्रिगुणो भवेत् ।
निमित्तिनः स दोषः स्याद्द्विगुणः संस्थिते विशि ॥ १५२ ॥
View Verse
निमित्तिने मृते शूद्रे दोष एकगुणो भवेत् ।
एवं दोषविवृद्धिस्तु भवेद्विप्रे निमित्तिनि ॥ १५३ ॥
View Verse
निमित्तिनि क्षत्रियादावेकैकगुणवर्धनात् ।
भवेत् पूर्वोक्तदोषस्तु अतार्थे नास्ति संशयः ॥ १५४ ॥
View Verse
एवं मृते विप्रमात्रे दोष उक्तो निमित्तिनः ।
मुख्यदोषः पञ्चगुणो ब्रह्नचारिणि संस्थिते ॥ १५५ ॥
View Verse
गृहस्थे यज्वनि मृते स दोषः षड्गुणो भवेत् ।
वानप्रस्थे मृते मुख्यदोषः सप्तगुणो भवेत् ॥ १५६ ॥
View Verse
सन्न्यासाश्रमनिष्ठे तु संस्थिते तु निमित्तिनः ।
स्यान्मुख्यदोषोऽष्टगुण एवं तु कथितो मुने ॥ १५७ ॥
View Verse
निमित्तिनो दोषवृद्धिः विष्ण्वर्थे मरणे सति ।
एवं निमित्तभूतानां द्विजादीनां न निष्कृतिः ॥ १५८ ॥
View Verse
तत्र यत् ब्राह्नणैरुक्तं विवेकनिरतैस्सदा ।
सर्वशास्त्रार्थतत्वज्ञैः तत् कुर्यादविचारतः ॥ १५९ ॥
View Verse

Chapter 21

श्रीः ।
एकोविंशाऽयोयः ।
शाण्डिल्यः ।
मुने हिरण्यगर्भादौ विशेषो वक्ष्यतेऽधुना ।
हेमगर्भविधानं तु प्रथमं कथ्यते मया ॥ १ ॥
View Verse
सनकः ।
यद्यदत्रोच्यते कर्म तुलाभारेऽपि नोदितम् ।
साधारणं भवेत्तत्तत् सर्वेषामपि क्रमणाम् ॥ २ ॥
View Verse
तुलाभारादिकानां तु विभवाद्यानुगुण्यतः ।
प्राग्वन्मण्टपनिर्माणं पीठादिपरिकल्पनम् ॥ ३ ॥
View Verse
प्रतिष्ठोदितमार्गेण कुर्याद्वा मण्टपादिकम् ।
यद्वाष्टसप्तषट्पञ्चचतुस्त्रिकरविस्तृतम् ॥ ४ ॥
View Verse
त्रिंशदङगुलमानं तु गोलकैकैकहानितः ।
उन्नतं मध्यपीठं स्यात् तत्तत्क्षेत्रानुसारतः ॥ ५ ॥
View Verse
चतुर्हस्तं समारभ्य षट्षट्गोलकहानितः ।
विस्तृतं पार्श्वयोः पीठद्वितयं परिकल्पयेत् ॥ ६ ॥
View Verse
विंशत्यंगुलमानाच्च द्विद्विकांगुलहानितः ।
तदुन्नतिर्यथा साऽन्त्ये सार्धहस्ते दशांगुला ॥ ७ ॥
View Verse
द्वयोक्तमानादर्धं वा भवेत् सर्वत्र चोन्नतिः ।
पीठानामन्तराऌअं तु कल्पयेत् करसंमितम् ॥ ८ ॥
View Verse
करार्धं वर्धयेद्वापि भवेद्यावच्चतुष्करम् ।
अन्तराऌअं भवेत्तावद्यथा वा नातिसङ्कटम् ॥ ९ ॥
View Verse
यथोदितेषु मानेषु यथाभिमतमानतः ।
कुर्यात् कुण्डगणं चापि लक्षणेनोपलक्षितम् ॥ १० ॥
View Verse
आस्थानमण्टपाद्ये तु यथैतत् कल्पयेत्तदा ।
मध्यपीठोदितं कर्म तत्रदे वासने भवेत् ॥ ११ ॥
View Verse
तदुदक् दक्षयोः पीठद्वयमुक्तप्रमाणतः ।
प्राक्दिक्कुण्डस्य वै प्राच्यां पीठं कुर्यात् स्मं शुभम् ॥ १२ ॥
View Verse
सप्तषट्पञ्चहस्तं वा चतुस्त्रिद्विकरं तु वा ।
एकहस्तोच्छ्रितं वाऽपि तदर्धोच्छ्रितमेव वा ॥ १३ ॥
View Verse
तस्योपरिष्टात् कर्तव्यं हेमगर्भनिवेशनम् ।
तुलाभारोदितं कर्म पीठोपर्यथवा चरेत् ॥ १४ ॥
View Verse
यद्वा कुंभादियजनं अधिवासनकर्म च ।
मण्टपे कल्पयित्वा तत्प्रपायां वा समाचरेत् ॥ १५ ॥
View Verse
हेमगर्भनिवेशं तु प्रपायां वा समाचरेत् ।
कुंभयागादिकं रूपं कर्तुरिच्छानुरूपतः ॥ १६ ॥
View Verse
तुलाभारादिकेऽन्यस्मिन् दिनेप्येवं समाचरेत् ।
ततः कुर्याच्च सौवर्णमेकांगुलघनं दृढम् ॥ १७ ॥
View Verse
अधः पात्रं चोर्ध्वपात्रं यथासङ्गतयोस्तयोः ।
सुखासनं स्यान्नृपतेर्विस्तृतं कल्पयेत्तथा ॥ १८ ॥
View Verse
अधः पात्रं सुवर्णआनां सहस्रेण पलेन वा ।
यद्वा निष्कसहस्रेण तदर्धेनोर्ध्वपात्रकम् ॥ १९ ॥
View Verse
एवं पात्रद्वयं कुर्यात् सर्वालङ्कारसंयुतम् ।
विभवे सर्वपात्राणि कुर्याद्धेममयानि च ॥ २० ॥
View Verse
अधिवासदिनोक्तं तु तुलाभारवदाचरेत् ।
पात्रद्वयस्योदक् पीठे ह्यधिवासं समाचरेत् ॥ २१ ॥
View Verse
ततः कर्मदिनोक्तं तु प्राग्वत् कृत्वा क्रमेण तु ।
इन्द्रदिक्कल्पिते पीठे भारैर्द्वादशभिर्मुने ॥ २२ ॥
View Verse
शालीनां विष्टरं कृत्वा तबूर्ध्वे तण्डुलान् न्यसेत् ।
तदर्धमानांस्तस्योर्ध्वे तदर्धांस्तु तिलान् न्यसेत् ॥ २३ ॥
View Verse
शालिभिः समभारान् वा तण्डुलांश्च तिलान् न्यसेत् ।
अधिवासेप्येवमेव भवेद्वित्तानुसारतः ॥ २४ ॥
View Verse
एवमेव भवेद्वापि तुलाभारादिकर्मणि ।
मार्गं वा व्याघ्रजं चर्म शाल्यादेरन्तरान्तरा ॥ २५ ॥
View Verse
विन्यसेन्नववस्त्रं वा विभवे त्रितयं तु वा ।
अन्यच्च मङ्गऌअं कुर्याद्वस्त्रवेष्टनपूर्वकम् ॥ २६ ॥
View Verse
अधः पात्रं तदूर्ध्वे तु न्यसेत् प्रागधिवासितम् ।
मुहूर्ते शोभने प्राप्ते गृहीत्वा भूपतिं गुरुः ॥ २७ ॥
View Verse
सुस्नातं भूषितं प्राग्वद्वस्त्रमाल्यादिभूषणैः ।
महार्घैर्विविधैश्चापि खड्गखेटकवर्जितम् ॥ २८ ॥
View Verse
प्राग्वत्तत्वोपसंहारं कृत्वा जीवावशेषितम् ।
सङ्खतूर्यनिनादाद्यैः सहचात्र निवेशयेत् ॥ २९ ॥
View Verse
अधस्थे प्राङ्मुखं यद्वा विन्यसेत् प्रत्यगाननम् ।
वर्मणा विन्यसेदूर्ध्वे ह्यूर्ध्वपात्रमधोमुखम् ॥ ३० ॥
View Verse
तदण्डान्तः समासीने तस्मिंस्तस्याग्रतो गुरुः ।
उपविश्यासने प्राग्वत् तत्वोत्पत्तिं समाचरेत् ॥ ३१ ॥
View Verse
अण्डाज्जातं तु तं स्मृत्वा ततस्तस्मात्तु भूपतिम् ।
स्नानपीठे समावेश्य मङ्गऌअद्रव्यवासितैः ॥ ३२ ॥
View Verse
नवभिः पञ्चभिर्वापि कुंभैरुदकपूरितैः ।
वस्त्रादिवेष्टितैः कुर्यादभूपतेरभिषेचनम् ॥ ३३ ॥
View Verse
कल्पयेत् प्रोक्षणं वाऽपि ऋत्विग्भिः सह देशिकः ।
कृत्वा ततस्तं खाचान्तं भूषणादिविभूषितम् ॥ ३४ ॥
View Verse
प्रणामं कारयेद्भूयो भूयो भगवतो विभोः ।
जातकर्मादिसंस्कारं जातार्थं जुहुयात् क्रमात् ॥ ३५ ॥
View Verse
तिलैराज्यैश्च बहुभिः सर्वसंपूरणाय च ।
सर्वदोषविनाशाय ततः पूर्णां च पातयेत् ॥ ३६ ॥
View Verse
भूषणानि च ते पात्रे नृपो दद्याद्धरेर्विभोः ।
दानात् फलं च पूर्वोक्तं विभोरायतने सदा ॥ ३७ ॥
View Verse
स्वयंव्यक्तादिके कुर्यात्तुलाभारादि कर्म च ।
तदाऽपि भूपस्य फलं भवेद्दानोदितं क्रमात् ॥ ३८ ॥
View Verse
अनुकल्पे तदर्धं तु दद्याद्भगवतो विभोः ।
अर्धं दद्याद्बाह्नणेम्यो तुलाभारे तथैव च ॥ ३९ ॥
View Verse
तुलाभाराह्वयं कर्म हेमगर्भाभिधं च यत् ।
एतद्द्वयं तु मुख्यं स्यात् सर्वेषामपि कर्मणाम् ॥ ४० ॥
View Verse
क्रमेण वक्ष्यमाणानां तिलपर्वतपूर्वकम् ।
अन्यत्तु सकलं कर्म तुलाभारवदाचरेत् ॥ ४१ ॥
View Verse
हेमनिष्कसहस्रं वै दद्याद्वै गुरुदक्षिणाम् ।
तदर्धं शतनिष्कं वा तदर्धं वा यथावसु ॥ ४२ ॥
View Verse
दशनिष्कं तदर्धं वा तदर्धं वाऽथ दक्षिणाम् ।
आचार्याय प्रदद्याद्वै न कदाचिददक्षिणम् ॥ ४३ ॥
View Verse
तुलाभारादिकं कर्म सर्वेषामपि ऋत्विजाम् ।
दक्षिणा तु तदर्धा स्यात् तदर्धा परिचारिणाम् ॥ ४४ ॥
View Verse
अन्येषां तु यथाशक्ति ततोऽन्यस्मिंस्तु वासरे ।
कुंभमण्डलकुण्डस्थविभोः कुर्याद्विसर्जनम् ॥ ४५ ॥
View Verse
विशेषार्चनसंयुक्तं ततोऽन्यस्मिन्दिने तु वा ।
एवं सर्वत्र वै कुर्याद्विसर्जनविधिं द्विज ॥ ४६ ॥
View Verse

Chapter 22

श्रीः ।
द्वाविंशोऽध्यायः ।
सनकः ।
संप्रोक्षणविधानं मे प्रब्रूहि मुनिसत्तम ।
प्रायश्चित्तेषु सर्वत्र प्रशस्तो यस्तु पूरकः ॥ १ ॥
View Verse
शाण्डिल्यः ।
प्रासादप्रतिमापीठे प्रमादादेव दूषिते ।
समाहिते यथापूर्वं पूजालोपे विशेषतः ॥ २ ॥
View Verse
चण्डालपतितोदक्यासूतिकादिशवादिभिः ।
सूतकैर्मृतकैर्वाऽपि नित्याशौचैश्च गर्हितैः ॥ ३ ॥
View Verse
शिल्पिभिर्वेदवाह्यैश्च मूर्खैरज्ञातजातिभिः ।
विण्मूत्ररुधिरापेयरेतोभिर्दूषिते सति ॥ ४ ॥
View Verse
जनने मरणे नॄणां मन्दिरे राष्ट्रसंकुले ।
श्वसृगालखराद्यैश्च वायसश्येनजातिभिः ॥ ५ ॥
View Verse
स्पृष्टे बिम्बे तु संदृष्टे तन्त्राणां सङ्करे सति ।
एवमादिषु सर्वेषु संप्रोक्षणविधिर्भवेत् ॥ ६ ॥
View Verse
दौषैरुपहतं ज्ञात्वा प्रासादप्रतिमादिकम् ।
असंप्रोक्ष्यार्चनं कुर्वन् राजानं राष्ट्रम़ञ्जसा ॥ ७ ॥
View Verse
देवतायतनं ग्रामं नाशयेन्नात्र संशयः ।
तस्मात् संप्रोक्षणं कार्य प्रासादप्रतिमादिषु ॥ ८ ॥
View Verse
पुरा संप्रोक्षणदिनं राजराष्ट्राभिवृद्धिदम् ।
निश्चयीकृत्य कालज्ञैः पुरस्तादुक्तवासरे ॥ ९ ॥
View Verse
अंकुरानर्प्य विधिवत् पस्चात् संशोधिते गृहे ।
सर्वत्र गोमयाम्भोभिः पुण्याहोक्तिपुरस्सरम् ॥ १० ॥
View Verse
संप्रोक्ष्य पञ्चभिर्गव्यैः कुशोदकसमन्वितैः ।
मूलबेरादिबिम्बानां षड्भिः सिद्धार्थकादिभिः ॥ ११ ॥
View Verse
पवित्रावर्तितैरद्भिर्बहुशः क्षाऌअने कृते ।
प्रधानदिनपूर्वस्यां रात्र्यां यागादिमण्टपे ॥ १२ ॥
View Verse
तोरणद्वारकलशवितानध्वजशोभिते ।
दीक्षाधिवासवत् कृत्वा कुंभे वै मण्टपस्थले ॥ १३ ॥
View Verse
पूजनं विभवेनैव जपान्तं मूलमन्दिरे ।
क्षीराद्यैः पञ्चविंशद्भिः स्नापयेद्ध्रुवकौतुकम् ॥ १४ ॥
View Verse
लेपभित्तिपटस्थस्य पुरस्ताद्भद्रविष्टरे ।
कर्मार्चामथवा कूर्चं दर्पणे प्रतिबिम्बितम् ॥ १५ ॥
View Verse
संस्नाप्य विधिवत् कुंभैः स्थापितैरग्रमण्टपे ।
उत्सवार्चादि बिम्बानामह्गानामाश्रयात्मनाम् ॥ १६ ॥
View Verse
पूजनं स्नपनं कार्यं पाश्चात्यं यागमण्डपे ।
तत्रस्थे हवनं कुण्डे शङ्खचक्रादिलक्षणे ॥ १७ ॥
View Verse
मधुक्षीरादिभिः कार्यं सहस्रशतसङ्ख्यया ।
कर्मबिम्बं विनान्येषां बिम्बानामङ्गरूपिणाम् ॥ १८ ॥
View Verse
दक्षिणे मण्टपस्याथ शयनं कल्पयेन्महत् ।
तिलतण्डुलशालीनां भारैर्वस्त्रादिभिः सह ॥ १९ ॥
View Verse
तदूर्ध्वे शाययेदर्चां विधिवद्बद्धकौतुकाम् ।
संपूज्य कम्बऌआद्यैश्च छादयेत्तां सितादिभिः ॥ २० ॥
View Verse
वर्णकैर्मण्डलं कुर्याच्चक्राम्बुरुहभूषितम् ।
यावत् प्रभातसमयं बिम्बस्थस्य समीपतः ॥ २१ ॥
View Verse
देशिको मूलमन्त्रस्य जपेनैव नयेन्निशाम् ।
प्रबातायां तु शर्वर्यां कृतसन्ध्याविधिर्गुरुः ॥ २२ ॥
View Verse
चतुःस्थानार्चनं कृत्वा पूर्ववत् स्नपनान्वितम् ।
मुहूर्ते शोभने प्राप्ते नववस्त्रपरिष्कृतम् ॥ २३ ॥
View Verse
सोत्तरीयोपवीतं च कृतकौतुकबन्धनम् ।
समस्ततत्वविन्यस्तमभ्यर्च्यार्घ्यादिभिः क्रमात् ॥ २४ ॥
View Verse
तासु स्वहृदयाम्भोजात् पुष्पाञ्जलिपुरस्सरम् ।
अग्राह्यमपरिच्छेद्यममूर्तममलं महत् ॥ २५ ॥
View Verse
नित्यशुद्धमनौपम्यं सुसूक्ष्ममचलं स्फुटम् ।
सच्चिद्रूपं च सामान्यं भास्वरं सुदृढं महत् ॥ २६ ॥
View Verse
तेजस्तु संक्रमय्याथ दण्डवत् प्रणिपत्य तु ।
विनिवेद्य विभोः सर्वं कृतं कर्म द्विजोत्तमाः ॥ २७ ॥
View Verse
उत्थाप्योत्सवबिम्बादीन् पूर्ववन्मङ्गलैः सह ।
महाकुम्भं च पुरतो वाहयन् मूर्तिपादिभिः ॥ २८ ॥
View Verse
करकास्त्रं समादाय त्वाचार्यः पुरतो व्रजेत् ।
शलाकामात्रयाऽच्छिन्नधारया सेचयन् भुवम् ॥ २९ ॥
View Verse
प्रादक्षिण्येन धामान्तः प्रवेश्य मुनिपुड्गवाः ।
महोत्सवोक्तमार्गेण कुम्भप्रोक्षणमाचरेत् ॥ ३० ॥
View Verse
द्वारावरणदेवांश्च आलयश्रयवर्तिनः ।
खगेशविष्वक्सेनादीन् परिवारांश्च सर्वसः ॥ ३१ ॥
View Verse
कुम्भावशिष्टतोयेन प्रोक्षयेत् सर्वतः क्रमात् ।
अवशिष्टं कुम्भतोयं बलिपीठेऽभिषेचयेत् ॥ ३२ ॥
View Verse
एवं सम्प्रोक्ष्य विधिवत् प्रासादान्तः प्रविश्य च ।
करस्थं कौतुकं चाथ हृदयेन विसृज्य तु ॥ ३३ ॥
View Verse
गोभूहेमादिकं दत्वा सर्वदोषप्रशान्तये ।
देवमर्घ्यादिनाभ्यर्च्य हविरन्तं विशेषतः ॥ ३४ ॥
View Verse
ब्राह्नणान् भोजयेत् पश्चात् सहस्रं शतमेव वा ।
सद्यो वा सकलं त्वेवं कुर्यात् संप्रोक्षणं विभोः ॥ ३५ ॥
View Verse
पुष्पांकुरपुरस्कं तु तत्तद्दोषप्रशान्तये ।
न तिथिर्न च नक्षत्रं कालवेला न विद्यते ॥ ३६ ॥
View Verse
सद्यः सम्प्रोक्षणं विप्राः निशि वा दिवसेऽपि वा ।
प्रायश्चित्तविलम्बे तु कुर्यात् कालनिरीक्षणम् ॥ ३७ ॥
View Verse
इति सम्प्रोक्षणं प्रोक्तं सर्वं चापि द्विजोत्तमाः ।} ।
स्थापनं पञ्चगव्यस्य सर्वाब्युदयसाधनम् ॥ ३८ ॥
View Verse
नागयोग इति ख्यातः सार्पर्क्षकरणक्षमैः ।
ऋक्षेण वानयोरेकयोगस्यान्नागसंज्ञितः ॥ ३९ ॥
View Verse
पुरा तन्निश्चयीकृत्य कर्तव्यमिति सत्तमैः ।
तदर्थमंकुरानर्प्य द्रव्याणि समुपाहरेत् ॥ ४० ॥
View Verse
मनश्शिलां हरीतालमञ्जनं श्यामसीसके ।
सौराष्ट्रं रोचनं चैव गैरिकं पारदं तथा ॥ ४१ ॥
View Verse
आदाय धातुरत्नानि पझरागपुरस्सरम् ।
मुक्ताफलं प्रवाऌअं च वज्रं वैडूर्यसंज्ञितम् ॥ ४२ ॥
View Verse
गोमेदं पुष्यरागं च महानीलं च गारुडम् ।
रत्नान्येतानि संगृह्य बीजानि समुपाहरेत् ॥ ४३ ॥
View Verse
शालिनीवारकंकूनि प्रियंगुतिलमाषकान् ।
मृद्गांश्च यववेणूंश्च यवसाख्यान्यनन्तरम् ॥ ४४ ॥
View Verse
हिरण्यं रजतं ताम्रमायसं त्रपुसीसकम् ।
सौवर्णं कूर्मरूपं च सौवर्णं चक्रमम्बुजम् ॥ ४५ ॥
View Verse
राजतं पाञ्चजन्यं च समाहृत्य ततः परम् ।
कदऌईपनसाम्राणां बिल्वामलकयोरपि ॥ ४६ ॥
View Verse
दाडिमीमातुऌउङ्गस्य नाऌइकेरस्य कालतः ।
पव्कानि समुपाहृत्य फलानि च ततः परम् ॥ ४७ ॥
View Verse
चन्दनागरुकर्पूरकुंकुमादीन्युपाहरेत् ।
कोष्ठं मांसी हरिद्रे द्वे मुराशैलेयचम्पकान् ॥ ४८ ॥
View Verse
वचाकच्चोरमुस्तानि ह्रीबेरोशीरजान्यपि ।
मल्लिकाजातिवकुऌअनन्द्यावर्तकचंपकान् ॥ ४९ ॥
View Verse
पाटलीपझकल्हाराण्युपाहृत्य ततः परम् ।
वस्त्रादीनि सितादीनि माल्यानि च विशेषतः ॥ ५० ॥
View Verse
शालिपूर्वाणि धान्यानि कुशदूर्वादिकान्यपि ।
बिल्वाश्वत्थकदम्बाम्रपल्लवादीनि यान्यपि ॥ ५१ ॥
View Verse
हविः पाकोपयोग्यानि तण्डुलादीनि सत्तम ।
होमद्रव्याणि सर्वाणि पझपत्राणि मृण्मये ॥ ५२ ॥
View Verse
द्वादशाङ्गुऌअविस्तीर्णे पव्कापव्के घटे दृढे ।
नृहरेः पूजनार्थं तु कुंभं सकरकं बृहत् ॥ ५३ ॥
View Verse
एवमादीनि चान्यानि पुराऽहृत्य विधानतः ।
गृह्णीयात् पञ्चगव्यानि मृत्पात्रे नूतने शुभे ॥ ५४ ॥
View Verse
गोमूत्रं गोमयं क्षीरं दधि मस्तु च पञ्चमम् ।
कपिलाया जराया वा पञ्चगव्यं प्रशस्यते ॥ ५५ ॥
View Verse
तयोरभावे चान्यासां गवां गव्यं विधीयते ।
नार्ताया न च गर्भिण्या न वृद्धायाः कदाचन ॥ ५६ ॥
View Verse
नावत्साया उपादेयं धेनोर्मूत्रं शकृद्द्वयम् ।
भुविष्ठं गोमयं ग्राह्यं सोष्णं कृम्याद्यदूषितम् ॥ ५७ ॥
View Verse
निष्पीड्य सम्यग्गृह्णीयाद्गोमयस्य रसं पुनः ।
सद्यस्तप्तं घृतं शुद्धमहोरात्रोषितं दधि ॥ ५८ ॥
View Verse
क्षीरं ग्राह्यमतप्तं च दशाहाज्जन्मनः परम् ।
गोमूत्रं विष्णुगायत्र्या गन्धद्वारे ति गोमयम् ॥ ५९ ॥
View Verse
आप्यायस्वे ति च क्षीरं दधिक्राव्ण्णे ति वै दधि ।
घृतं शुक्रमसी त्येवं द्रव्याणि सह योजयेत् ॥ ६० ॥
View Verse
विष्णुगायत्रिया यद्वा पञ्चोपनिषदैस्तु वा ।
परमेष्ठी शकृन्मन्त्रो गोमूत्रस्य तु पूरुषः ॥ ६१ ॥
View Verse
विश्वमन्त्रो भवेद्दध्नो निवृत्तिस्सर्पिषोभवेत् ।
पयसः सर्वमन्त्रः स्यात् सर्वेषां वाष्टवर्णकमम् ॥ ६२ ॥
View Verse
प्रोक्षणे स्नपने पञ्चगव्यमन्त्रा उदीरिताः ।
सर्वदोषोपशान्त्यर्थं संप्राप्ते स्थापने सति ॥ ६३ ॥
View Verse
सौदर्शननृसिंहस्य हृदाद्यैर्नेत्रपश्चिमैः ।
अङ्गमन्त्रैः प्रकल्प्यानि क्षीरान्तानि शकृद्रसात् ॥ ६४ ॥
View Verse
दधि द्विगुणमाघारात् पीयूषं त्रिगुणं ततः ।
षड्गुणं मूत्रमेतस्माच्छकृद्वारि चतुर्गुणम् ॥ ६५ ॥
View Verse
स्थापने कथितं मानमभिषेकविधावपि ।
भूमिसंशोधनार्थं तत् प्रोक्षयो पञ्चकं समम् ॥ ६६ ॥
View Verse
गोमयेन समं मूत्रं दधि स्याद्द्विगुणं ततः ।
दध्नश्चतुर्गुणं सर्पिः सर्पिषोष्टगुणं पयः ॥ ६७ ॥
View Verse
प्राशने पञ्चगव्यानां प्रमाणमिदमीरितम् ।
स्थापनं स्नपनं ह्येतत् सर्वाघौघविनाशनम् ॥ ६८ ॥
View Verse
ब्रह्नकूर्चसमोपेतं हन्यादागामिनं त्वघम् ।
तद्बिधानं समासेन श्रृणु वक्ष्यामि तत्वतः ॥ ६९ ॥
View Verse
चूर्णेन यववेणुभ्यां समेतं तु कुशोदकम् ।
ब्रह्नकूर्चमितिख्यातं वैष्णवास्त्रौघसप्रभम् ॥ ७० ॥
View Verse
कुशोदं द्विविधं प्रोक्तं शुष्काशुष्कविबागतः ।
अशुष्कमथ निष्पीड्य वस्त्रेण रसमाहरेत् ॥ ७१ ॥
View Verse
प्रहृत्य शुष्कमुदके प्रक्षिप्य जलमाहरेत् ।
पवित्रं मन्त्रमुच्चार्य मूलं वास्त्रसमन्विम् ॥ ७२ ॥
View Verse
गोमूत्रसंमितं मानाद्गृण्डीयात्तत् कुशोदकम् ।
शकृद्रसप्रमाणेन चूर्णं तत्र मियोजयेत् ॥ ७३ ॥
View Verse
चक्रास्त्रमन्त्रमुच्चार्य गायत्र्या बिष्णुसंज्ञया ।
ध्यात्वा च चक्रनृहरिं तद्गव्येषु नियोजयेत् ॥ ७४ ॥
View Verse
यद्वा पृथक् स्थापयित्वा पञ्चगव्यैः कुशोदके ।
हृदयाद्यस्त्रपर्यन्तैरभिमन्त्र्य च योजयेत् ॥ ७५ ॥
View Verse
प्रशस्तं प्राशनं ताभ्यां प्रातः सर्वाघनाशनम् ।
इति सम्यक् समाख्यातः पञ्चगव्यविधिस्तव ॥ ७६ ॥
View Verse
मण्टपेऽथ पुरा क्लृप्ते यागस्नपनसिद्धये ।
पश्चगव्याधिवासार्थं यजनं प्रारभेद्गुरुः ॥ ७७ ॥
View Verse
पूर्वेद्युः कर्मदिवसात् त्रिस्नायी समुपोषितः ।
अहिर्बुध्न्ये मुहूर्ते तु ऋत्विग्भिः पाञ्चरात्रिकैः ॥ ७८ ॥
View Verse
पुण्याहं प्राग्वदुच्चार्य गव्यैरभ्युक्षयेत् स्थलीम् ।
सद्रव्यामस्त्रमन्त्रेण प्राग्भागे धान्यविष्टरे ॥ ७९ ॥
View Verse
दशारमष्टपत्रं तु चक्राब्जं भूपुरान्तके ।
विलिख्य कर्णिकामध्ये त्रिकोणकृतसंपुटे ॥ ८० ॥
View Verse
महाकुम्भं प्रतिष्ठाप्य सूत्रवस्त्रादिवेष्टितम् ।
करकेण समोपेतं दिक्पालकलशान्वितम् ॥ ८१ ॥
View Verse
पूरितं दधिमध्वाज्वक्षीरयुक्तेन वारिणा ।
पिप्पलादिदऌओपेतं गन्धस्रग्भिरलंकृतम् ॥ ८२ ॥
View Verse
सकूर्चं सफलं सर्वरत्नहेमसमन्वितम् ।
सर्वौषधिसमोपेतमक्षतैरपि चार्चितम् ॥ ८३ ॥
View Verse
प्रदीप्य तैजसे पात्रे मृण्मये वा घृतेन तु ।
कापिलेन चतुर्दिक्षु दीपं नेत्राभिमन्त्रितम् ॥ ८४ ॥
View Verse
स्थापयेद्धान्यपीठस्थचक्राम्बुरुहमध्यतः ।
कुम्भस्य पुरतः प्राग्वदुपविश्यासनोपरि ॥ ८५ ॥
View Verse
प्राणायामादिकं कृत्वा भूतशुद्धिं यथाविधि ।
सौदर्शननृसिंहस्य मन्त्रं करशरीरगम् ॥ ८६ ॥
View Verse
साङ्गं विन्यस्य हृदये चक्राम्बुरुहमध्यगम् ।
नादावसानगगनादवतार्य परादिना ॥ ८७ ॥
View Verse
मूर्तिमन्त्रं स्वमन्त्रेण भावनामृतजैः शुभैः ।
अर्घ्याद्यैरखिलैर्भोगैरभ्यर्च्य प्रणवेन तु ॥ ८८ ॥
View Verse
प्रीणयित्वा तथा हुत्वा नाभिकुण्डगतानले ।
बहिरभ्यर्चयेत् कुंभे मध्यस्थे चक्रवारिजे ॥ ८९ ॥
View Verse
समावाह्यं स्वमन्त्रेण मूर्तैरर्घ्यादिभिः क्रमात् ।
जपावसानं विधिवत् कुण्डे क्राब्जलक्षणे ॥ ९० ॥
View Verse
चक्रे वा पङ्कजे शङ्खे तुर्यश्रे स्थण्डिलेऽपि वा ।
समिद्भिः सप्तभिर्हुत्वा पूर्णान्तं तदनन्तरम् ॥ ९१ ॥
View Verse
चन्दनेन प्रसूनैस्च गुग्गुल्वगरुणाऽपि च ।
दुग्धेन दधिना क्षौद्रगुडखण्जान्वितेन च ॥ ९२ ॥
View Verse
शाल्यादीनां तथा बीजैः पायसाद्यैश्च सर्पिषा ।
हुत्वाऽथ पूर्णया तृप्तिं नीत्वा सम्यक् समर्प्य च ॥ ९३ ॥
View Verse
ततः कलशनिष्ठस्य पुरस्ताच्छोधिते स्थले ।
सर्वधान्यमये पीठे लिखिते चक्रपङ्कजे ॥ ९४ ॥
View Verse
स्वास्तृते नववस्त्रेण छादिते चोर्ध्वतः कुशैः ।
प्रागुक्तं कुम्भमादाय द्वादशाह्गुलसंमितम् ॥ ९५ ॥
View Verse
बहिरन्तश्च संक्षाल्य सूत्रेणावेष्ट्य पूर्ववत् ।
चन्दनाद्यैः समालिप्य प्रणवेन समाहितः ॥ ९६ ॥
View Verse
चक्राब्जकर्णिकामध्ये विन्यसेत्तमधोमुखम् ।
ततो मानेन तत्तुल्यमपव्कं मृण्मयं घटम् ॥ ९७ ॥
View Verse
संप्रोक्ष्य पञ्चगव्येन सास्त्रेण कुशवारिणा ।
चतुर्गुणेन सूत्रेण पझैरन्तर्मुखैर्दऌऐः ॥ ९८ ॥
View Verse
बन्धयित्वा तु सुदृढमास्यवर्जं समन्ततः ।
तं च तेनैव विन्यस्य जपंस्तारमवाङ्मुखम् ॥ ९९ ॥
View Verse
स्तृणीयादूर्ध्वतो दर्भान् कुम्भयोः परमेष्ठिना ।
प्रोक्षयेदर्घ्यतोयेन प्राङ्मुखः पुरुषात्मना ॥ १०० ॥
View Verse
विश्वमन्त्रेण विकिरेदक्षतानि तदूर्ध्वतः ।
उत्तानयेन्निवृत्या तौ पाणिभ्यामुत्तरान्तिमम् ॥ १०१ ॥
View Verse
सर्पिषाष्टोत्तरशतं विष्णुगायत्रिया हुनेत् ।
सर्वात्मनाऽथ संस्पृश्य संपाताज्येन मन्त्रवित् ॥ १०२ ॥
View Verse
द्रव्याणि पव्ककुम्भेऽस्मिन् हृन्मन्त्रेण नियोजयेत् ।
मृत्कन्दधातुरत्रानि बीजलोहफलानि च ॥ १०३ ॥
View Verse
चन्दनादीनि पुष्पाणि तथा सर्वौषधीनि च ।
कुशपल्लवदूर्वाश्च पूरयित्वा तदूर्ध्वतः ॥ १०४ ॥
View Verse
योजयेत् पञ्चगव्येन प्राह्मुखः सकुशोदकम् ।
अर्चयित्वाऽर्घ्यगन्धाद्यैः साङ्गं मूलं समुच्चरन् ॥ १०५ ॥
View Verse
आच्छाद्य नववस्त्रेण दद्याद्भूतबलिं ततः ।
देवतायतनग्रामनगरेष्वपि पत्तने ॥ १०६ ॥
View Verse
स्थापनास्पदमासाद्य शोभ नं पञ्चगव्यकैः ।
तत्र मध्ये खनेच्छ्वब्रं मूलमन्त्रमुदीरयन् ॥ १०७ ॥
View Verse
अङ्गुष्ठोदरमावृत्य त्रिधा सूत्रेण वेष्टयेत् ।
तेनैव भ्रामयेन्मद्ये स्थाप्य तत्रावटं खनेत् ॥ १०८ ॥
View Verse
हस्तमानमधस्ताच्च षडङ्गुलसमन्वितम् ।
संप्रोक्ष्यं पञ्चगव्येन तत्र रत्नादिकं न्यसेत् ॥ १०९ ॥
View Verse
शेषं ध्यात्वा तदूर्ध्वे तु अब्यर्च्यार्घ्यादिभिः क्रमात् ।
वाससाऽच्छाद्य दिग्बन्धमाचरेदस्त्रमुच्चरन् ॥ ११० ॥
View Verse
संस्पृश्य गव्यं कुम्भाभ्यां ध्यात्वा मूलं जपेद्गुरुः ।
प्रभातायां तु शर्वर्यां कृत्वा स्नानादिकीः क्रियाः ॥ १११ ॥
View Verse
कुम्भस्थं नृहरिं पूज्य जपान्तं पूर्ववर्मना ।
पुण्याहवाचनं कृत्वा मुहूर्ते शोभने गुरुः ॥ ११२ ॥
View Verse
पझपत्रावृतं कुम्भं श्वब्रे तारेण विन्यसेत् ।
परितः सर्वधान्येन पूरियत्वाऽचलं यथा ॥ ११३ ॥
View Verse
पञ्चगव्यं समुद्धृत्य घटस्थं कवचं लपन् ।
तेनैव पूरयेत् कुम्भं श्वब्रस्थं मूलमुच्चरन् ॥ ११४ ॥
View Verse
समभ्यर्च्यार्घ्यपुष्पाद्यैः पूरयेन्मृद्भिराहृतैः ।
नृसुक्तं भद्रसूक्तं च स्वस्तिसूक्तं च पाठयेत् ॥ ११५ ॥
View Verse
शान्तिहोमं ततः कुर्याद्द्रव्यैः पूर्वोदितैः क्रमात् ।
शतं शतार्धं पादं वा यथाशक्ति समाचरेत् ॥ ११६ ॥
View Verse
दक्षिणा गुरवे देया प्रतिष्ठाफलमिच्छता ।
इति ते पञ्चगव्यस्य स्थापनं परिकीर्तितम् ॥ ११७ ॥
View Verse
सर्वोत्पातप्रशमनं महापातकनाशनम् ।
सर्वसौख्यप्रदं पुण्यं सर्वोपद्रववारणम् ॥ ११८ ॥
View Verse
सर्वोरोग्यप्रदं नित्यं पुत्रपौत्रविवर्धनम् ।
यद्यत् कामयते मन्त्री तत्तदाप्नोत्यसंशयम् ॥ ११९ ॥
View Verse

Chapter 23

श्रीः ।
त्रयोविंशोऽयायः ।
सनकः ।
प्रशंसितं पुरा ब्रह्नन् सुदर्शननृसिंहयोः ।
एकरूपं महायन्त्रस्थापनं स्थिरलक्षणम् ॥ १ ॥
View Verse
विस्तरेण समाचक्ष्व मयि सानुग्रहो यदि ।
शाण्डिल्यः ।
पुरा नारायणेनोक्तं पुण्ये बदरिकाश्रमे ॥ २ ॥
View Verse
ब्रह्नणः शीर्षविच्छेदमहापातकशान्तये ।
पृच्छतः शङ्करस्याथ सर्वपापापनोदनम् ॥ ३ ॥
View Verse
सोऽपि तं विस्तराच्छ्रुत्वा कैलासशिखरोपरि ।
प्रतिष्ठाप्य विधानेन यन्त्रे विष्टरसंस्थिते ॥ ४ ॥
View Verse
कल्पान्तानलसूर्याभमुभयाननमव्ययम् ।
सर्वलोकमयं सर्वदेवतामयमद्भुतम् ॥ ५ ॥
View Verse
सर्वाधारमनाधारं सर्वशक्तिक्रियात्मकम् ।
दुष्टदोषगणं सर्वं निर्दहन्तं स्वतेजसा ॥ ६ ॥
View Verse
समाराध्याऽचिरेणैव पूतभावोऽभवद्भवः ।
तथान्ये पुरूहूताद्या विद्यामेनामवाप्य च ॥ ७ ॥
View Verse
शङ्करात् पूर्णसंज्ञानात् स्वदिग्भागानपालयन् ।
प्रजापालनशीलानां भूपानामेतदर्चनम् ॥ ८ ॥
View Verse
नैरन्तर्येण कर्तव्यमन्यथा जायतेऽधृतिः ।
जायते कथमेतेषामुपपातकिनामपि ॥ ९ ॥
View Verse
अकुर्वतां जगत्स्थित्यै मर्यादाया विलोकनम् ।
कुर्वतां स्वस्वदुष्प्रापं भूपतीनां तु किं पुनः ॥ १० ॥
View Verse
तथान्येषां द्विजातीनां सर्वपापप्रणाशनम् ।
प्रतिष्ठाप्यार्चनीयं तत् सर्वकामसमृद्धिदम् ॥ ११ ॥
View Verse
तद्विधानं विशेषेण श्रृणु गुह्यतमं परम् ।
दिव्याद्यायतने चित्रे प्राङ्कणादौ तु कुत्रचित् ॥ १२ ॥
View Verse
ग्रामादौ तु नदीतीरे विपिने पर्वतोपरि ।
प्रासादं मण्डपं वाऽथ सचित्रं सर्वतोमुखम् ॥ १३ ॥
View Verse
प्राक्पश्चिमाननं वाऽथ सगवाक्षकवाटकम् ।
एकादितलसंयुक्तं चक्रलाञ्छनलाञ्छितम् ॥ १४ ॥
View Verse
मुखभद्रसमोपेतमारोहणसमन्वितम् ।
सप्राकारं समापाद्य प्रासादाभ्यन्तरे तते ॥ १५ ॥
View Verse
भद्रविष्टरमद्यस्थभूपुरे वज्रलाञ्छिते ।
शेषादिभिर्दिक्षु मध्ये षट्कोणपुरभूषिते ॥ १६ ॥
View Verse
सवायुबीजवायव्यमण्डलेन विराजितम् ।
दशारचक्रमध्यस्थदऌआष्टककजान्तरे ॥ १७ ॥
View Verse
स्थापयेत्तं महायन्त्रं लक्षणेनोपलक्षितम् ।
आद्वादशाङ्गुलान्मानादेकैकाङ्गुलवर्धितात् ॥ १८ ॥
View Verse
आद्वादशाङ्गुलान्तानि मानानि स्युस्त्रयोदश ।
तेष्वेकं निश्चयीकृत्य कर्तुरिच्छावशेन तु ॥ १९ ॥
View Verse
पादाद्युष्णीषर्यन्तं द्विषोढा वाष्टधा भवेत् ।
बेरार्धमानमादाय स्वबागार्थं समन्ततः ॥ २० ॥
View Verse
सूत्रेण कर्णिकावृत्तं मध्यस्थेन ततो बहिः ।
एकैकांशानि पझानि षट् भवन्ति यथाक्रमम् ॥ २१ ॥
View Verse
चतुष्पत्रं भवेदाद्यमष्टपत्रमनन्तरम् ।
द्विरष्टकेसरं विद्यात् तृतीयं षोडशच्छदम् ॥ २२ ॥
View Verse
द्वात्रिंशत्केसरं तुर्यं द्वात्रिंशद्दऌअभूषितम् ।
अष्टाष्टकेसरोपेतं तथासङ्ख्यदऌअं बहिः ॥ २३ ॥
View Verse
तत् केसरविनिर्मुक्तं अष्टपत्रं तथा बहिः ।
भूपुरादीनि सार्धेन संपुटान्तानि बाह्यतः ॥ २४ ॥
View Verse
द्वाभ्यां द्वाब्यां तथाशाब्यां बहिरावरणद्वयम् ।
पूर्वस्मिन् केशवाद्यांश्च विष्ण्वाद्यांश्च ततो बहिः ॥ २५ ॥
View Verse
जगत्स्थितौ समुद्युक्तानृषीकेशजनार्दनात् ।
बहिश्चक्रगदादीनामंशं तेषामधोर्ध्वतः ॥ २६ ॥
View Verse
भागद्वयं ततस्त्यक्त्वा वाराहनरसिंहयोः ।
समन्ताद्भूपुरस्याऽथ भोगार्थं यन्त्रकल्पने ॥ २७ ॥
View Verse
महायन्त्रस्य विस्तारे विभक्ते पञ्चधाऽथवा ।
सप्तधा मध्यबाह्यस्थैर्नालांस्त्र्यंशैः प्रकल्पयेत् ॥ २८ ॥
View Verse
किञ्चिद्विष्टरपीठोच्चान् नाऌआनामधिकायतिः ।
वराहवदनाकारा पार्श्वयोर्मूलविस्तृते ॥ २९ ॥
View Verse
दक्षिणाद्यनुपातेन त्वामूलादग्रपश्चिमम् ।
प्रमाणमेवं बुद्ध्वाऽत्र लोहदारुशिलादिकम् ॥ ३० ॥
View Verse
समाहरेद्यथाशास्त्रं प्रमाणेन यथाविधि ।
संपाद्या फलकाकारा भागैकेन घना दृढा ॥ ३१ ॥
View Verse
स्यात् षडंशघना शैली चतुरंघशनाऽथवा ।
आकर्णिकावनेर्बाह्यचतुरश्रपुराकृतिः ॥ ३२ ॥
View Verse
प्रमाणादुत्तमादस्मान्मध्यमाधमवाञ्छया ।
त्र्यंशेनार्धेन वा कुर्यान्मुख्यकल्पमुदीरितम् ॥ ३३ ॥
View Verse
बेरोष्ठं द्विगुणीकृत्य तत्प्रमाणेन कल्पयेत् ।
फलकामद्यतस्त्यक्त्वा लम्बमानं यथापुरा ॥ ३४ ॥
View Verse
शेषं द्विरष्टधा भङ्ख्त्वा कर्णिकार्धेन तद्बहिः ।
प्राग्वदावृतिपझानि भूपुरादीन्यथ त्रिभिः ॥ ३५ ॥
View Verse
ततस्त्रिभिस्त्रिभिः कार्यं मूर्तीनामावृतिद्वयम् ।
अर्धेन चतुरश्रं तु मूर्तीनामावृतिद्वयम् ॥ ३६ ॥
View Verse
एकैकं त्र्यंशसम्भूतं प्रमाणेन यथा भृशम् ।
कल्पयेत् केशवाद्यांश्च विष्ण्वाद्यांश्च द्विरष्टधा ॥ ३७ ॥
View Verse
कुर्याद्वैकावृतौ बुद्ध्या संमन्त्र्य ध्यानयोगतः ।
मध्यतः कर्णिकायां तु परिधौ चन्द्रमण्डलम् ॥ ३८ ॥
View Verse
तन्मध्ये तारकं कुर्यात् तन्मध्येन सुदर्शनम् ।
भुजैः षोडशभिर्युक्तमष्टाभिर्वाऽनलप्रभम् ॥ ३९ ॥
View Verse
पिङ्गलोचनकेशाढ्चं रक्ताम्बरधरं विभुम् ।
दंष्ट्राकराऌअवदनविवरोद्भूतपावकम् ॥ ४० ॥
View Verse
कुटिलभ्रुकुटीभङ्गभंगुराऌअकषट्पदम् ।
ललाटलोचनोद्गीर्णज्वालाज्वलितदिङ्मुखम् ॥ ४१ ॥
View Verse
ऊर्ध्वज्वालागणालीढकिरीटतटशोभितम् ।
श्रीवत्सकौस्तुभोरस्कं ग्रैवेयकविराजितम् ॥ ४२ ॥
View Verse
पादावलम्बिनीं दिव्यां दधानमुपवीतवत् ।
प्रत्यालीढेन तिष्ठन्तं चक्राक्रमणरूपिणा ॥ ४३ ॥
View Verse
पादयोर्दक्षिणांगुष्ठप्रान्तरेखात् तथेतरात् ।
पार्ष्णेः स्वमध्यतो मानं देहलब्धांगुलेन च ॥ ४४ ॥
View Verse
चत्वारिंशत् साष्टकं स्यात् प्रत्यालीढं चिरान्वितम् ।
मुख्यदक्षिणहस्तादिमुख्यवामकरावधि ॥ ४५ ॥
View Verse
द्विरष्टबाहुभिर्धत्ते प्रादक्षिण्यक्रमेण तु ।
शक्तिं खङ्गं तथा चाग्नि मङ्कुशं दण्डकुन्तके ॥ ४६ ॥
View Verse
परशुं च सहस्रारं दरं च सशरं धनुः ।
पाशं हलं ततो वज्रं गदां च मुसलं तथा ॥ ४७ ॥
View Verse
त्रिशूलमेतान्यस्त्राणि प्रत्येकं वीर्यवन्ति च ।
दुष्प्रधर्षं भयघ्नानि वहन्तमरिसूदनम् ॥ ४८ ॥
View Verse
अन्यथाष्टभुजो धत्ते मुख्यदक्षकरादिकैः ।
पझां कुशौ च मुसलं चक्र मत्युग्रतेजसम् ॥ ४९ ॥
View Verse
शङ्खं च सशरं चापं पाशं कौमोदकीं क्रमात् ।
कृत्वैवमर्धचित्रं तु नवतालेन शिल्पिना ॥ ५० ॥
View Verse
पादयोरन्तरे तस्य तिष्ठतः कर्णिकावनौ ।
शान्तिपुष्टिवशीकारविद्वेषाकर्षमारणान् ॥ ५१ ॥
View Verse
उच्छाटनं वा यः कर्तुमिच्छेत् साधकसत्तमः ।
तस्य साध्यं लिखेन्मन्त्री शक्त्या संपुटितं विभोः ॥ ५२ ॥
View Verse
इन्दुबिम्बस्य पर्यन्ते षट्कोणं क्रमशो लिखेत् ।
प्रागादिकोणषट्के तु प्रवर्तकनिवर्तके ॥ ५३ ॥
View Verse
मन्त्राक्षराणि सादीनि सबिन्दूनि च वै पुरा ।
उपक्रम्य च वर्मास्त्रे लिखेदन्तर्मुखानमून् ॥ ५४ ॥
View Verse
बहिः कोणान्तराऌएषु प्रोक्तोऽयं दक्षिणादितः ।
आचक्रादीन्यथाङ्गानि ज्वालाचक्रान्तिमानि च ॥ ५५ ॥
View Verse
चतुर्दऌआग्रे प्रागादौ वर्मास्त्रे च सबिन्दुके ।
तदन्तराऌएष्वन्तस्था बिन्दुना चान्तराननाः ॥ ५६ ॥
View Verse
केसरेष्वष्टपत्रस्य स्वरानन्यांश्च बिन्दुभिः ।
दऌएष्वष्टाक्षरार्णआंनि तथा भूतानि तद्बहिः ॥ ५७ ॥
View Verse
द्विरष्टपत्रकिञ्जल्कनिचये प्राक्प्रयोगतः ।
कादिसान्तानि वर्णानि सबिन्दूनि यथापुरा ॥ ५८ ॥
View Verse
तद्दऌएषु द्विषट्कार्णः वर्मास्त्रे शिरसा सह ।
षोडशाक्षर इत्युक्तो द्वात्रिंशत्केसरादिके ॥ ५९ ॥
View Verse
आनुष्टुभं महामन्त्रं नृवराहनृसिंहयोः ।
बहिरष्टाष्टपत्रेषु पाताऌअनृहरेर्मनुम् ॥ ६० ॥
View Verse
प्राग्वलदक्षरशो न्यस्य ततोऽष्टदऌअपङ्कजे ।
नारसिंहं तथाष्टार्णं तद्बाह्यस्थे तु भूपुरे ॥ ६१ ॥
View Verse
सप्तद्वीपसमुद्राढ्ये वज्रैः कोणेषु लाञ्छिते ।
प्रागाद्यासु महादिक्षु पार्थिवं बीजमुत्तमम् ॥ ६२ ॥
View Verse
तन्नाममन्त्रसंयुक्तं अन्तस्थाः कोणभूमिषु ।
ततः सपार्थिवं बीजं कोणाभ्यन्तरबाह्ययोः ॥ ६३ ॥
View Verse
तद्बहिः प्रातिलोम्येन स्वरषोडशकं न्यसेत् ।
सकारादीनि कान्तानि तथाभूतानि तद्बहिः ॥ ६४ ॥
View Verse
परितोन्त्ययुगेनैव साध्यनामविदर्भणम् ।
कृत्वा प्रति प्रयोगेण बहिर्भूपुरसंपुटात् ॥ ६५ ॥
View Verse
पाशांकुशाब्यामावेष्ट्य द्वाब्यां वा बहुभिस्तु वा ।
पुरोदितक्रमेणैव स्वस्थाने केशवादयः ॥ ६६ ॥
View Verse
बाह्यावरण भूमिष्ठाः प्रागाद्यासु च विष्णवः ।
तत्कोणेषु हृषीकेशः तच्छिद्रेषु जनार्दनाः ॥ ६७ ॥
View Verse
कल्पनीयाश्च तन्मन्त्राः प्रणवाद्या यथाक्रमम् ।
सजीवाः संज्ञयोपेता नमस्कारसमन्विताः ॥ ६८ ॥
View Verse
अमुकं रक्ष रक्षेति तदन्ते साध्यभूषिताः ।
प्रागादिदिक्षु तद्बाह्ये त्वन्तस्थाश्चाष्टभिः सह ॥ ६९ ॥
View Verse
यशौ रषौ लसौ चाथ वहावपि सबिन्दुकौ ।
विलिखेत् पुनरप्येतानैशान्याऽनल पश्चिमम् ॥ ७० ॥
View Verse
पाशाङ्कुशाब्यामावेष्ट्य द्वाभ्यां वा बहुभिस्तथा ।
अधस्तान्नृवराहं च सर्वोर्ध्वे नृहरेर्मनुम् ॥ ७१ ॥
View Verse
क्रमशः केशवादीनां ध्यानं चाकर्णयामलम् ।
केशवः स्वर्णवर्णोऽब्जशह्खचक्रगादाधरः ॥ ७२ ॥
View Verse
नारायणो नीरदाभः शङ्खचक्रगदाब्जधृक् ।
माधवोऽव्जगदाशङ्खचक्री नीलाब्जसन्निभः ॥ ७३ ॥
View Verse
गोविन्दो धवलश्चक्रगदाशह्खपयोजधृक् ।
विष्णुर्गदाम्बुजदरचक्री बन्धूकसप्रभः ॥ ७४ ॥
View Verse
रक्तस्चक्रदराम्भोजशङ्ख धृङ्नधुसूदनः ।
त्रिविक्रमश्चक्रगदापझशङ्खी जपारुणः ॥ ७५ ॥
View Verse
शह्खचक्रगदापझधरः स्याद्वामनोऽरुणः ।
पझचक्रगदाशङ्खी श्रीधरश्चन्द्रसप्रभः ॥ ७६ ॥
View Verse
विद्युत्प्रभो हृषीकेशो गदाचक्रदराब्जधृक् ।
गदाब्जचक्रविद्याभृत्पझनाभोऽरुणप्रभः ॥ ७७ ॥
View Verse
दामोदरः पझशङ्खगदाचक्रधरोऽरुणः ।
मुख्यदक्षकराम्भोजात् मुख्यवामकरावधि ॥ ७८ ॥
View Verse
पझादिकं धारयन्त आयुधानां चतुष्टयम् ।
किरीटकौस्तुभधरा वनमालाविभूषिताः ॥ ७९ ॥
View Verse
पीताम्बरधराः सर्वे प्रसन्नवदनेक्षणाः ।
करुणापूर्णहृदया जगदुद्धरणोद्यताः ॥ ८० ॥
View Verse
यन्त्रतेजोऽसहिष्णूनां नराणां तापशन्तये ।
आसारैरमृतेर्नित्यं सेच्यन्तः समन्ततः ॥ ८१ ॥
View Verse
विष्णुः प्राच्यादिदिग्भागे हृषीकेशा विदिक्स्थिताः ।
जनार्दनाश्छिद्रगताश्चाष्टपादे चतुर्भुजाः ॥ ८२ ॥
View Verse
पृष्टदक्षिणवामाभ्यां चक्रशह्खधरास्तथा ।
मुख्यवामकरेणैव वरदा वाऽभयप्रदाः ॥ ८३ ॥
View Verse
विष्णवो दक्षिणैर्मुख्यैर्ज्वलत्पावकभीषणाः ।
चक्रकौमोदकीशार्ह्गान् धारयन्तः सखड्गकान् ॥ ८४ ॥
View Verse
वह्न्यादिकोणदेशस्था हृषीकेशाः सुवर्णभाः ।
शङ्खं हलं च मुसलं वहन्तः शूलपश्चिमम् ॥ ८५ ॥
View Verse
प्रागाग्नेयादिकच्छिद्रदेशस्थाश्च जनार्दनाः ।
ज्वलन्मरतकाभाश्च वीक्षमाणाश्च दिक्स्थितान् ॥ ८६ ॥
View Verse
दण्डं कुन्तं च शक्तिं च पाशं चाङ्कुशमेव च ।
वज्रं परशुसंज्ञं च तथा शतमुखानलम् ॥ ८७ ॥
View Verse
दधानाः सुसमैः स्थानैरुत्थिताः स्वस्तिकादिना ।
सुखासीनास्तु वा सर्वे केवला वा सशक्तिकाः ॥ ८८ ॥
View Verse
संकल्प्याः तदधः सर्वयज्ञाङ्गः सूकराननः ।
कृष्णपिङ्गऌअवर्णआभः पुण्डरीकनिभेक्षणः ॥ ८९ ॥
View Verse
पश्चिमाब्यां च पाणिभ्यां पूर्ववच्चक्रशङ्खभृत् ।
मुख्येन दक्षिणेनैव भीतानामभयप्रदः ॥ ९० ॥
View Verse
भूम्याः स्वाङ्के निषण्णाया वामेनास्लेषतत्परः ।
परस्तान्नहरिर्देवस्तुहिनाचलसन्निभः ॥ ९१ ॥
View Verse
करैरष्टभिरत्युग्रः पृष्ठतो दक्षिणादितः ।
शङ्खचक्राम्बुजगदाः खड्गं च सशरं धनुः ॥ ९२ ॥
View Verse
धत्ते षड्भिस्तु मुख्याभ्यां हिरण्यकशिपुं रुषा ।
विदारयंश्च स्वाङ्कस्थं नखरैः क्रकचोपमैः ॥ ९३ ॥
View Verse
उद्धृत्य साम्बुजं पाणि केवलं वाऽभयप्रदः ।
हिरण्यरुधिरस्रोतः पङ्कितोरस्थलः शुभः ॥ ९४ ॥
View Verse
सर्वानेतान् सजीवेन शक्तिबीजेन वेष्टयेत् ।
बहिः प्राच्यादिदिग्देशे साकारानस्त्रविग्रहान् ॥ ९५ ॥
View Verse
चक्रकौमोदकीशार्ह्गनन्दकान् विलिखेदिमान् ।
केशवाद्यास्तथास्त्रान्ताश्चतुस्त्रिंशत्तु मूर्तयः ॥ ९६ ॥
View Verse
स्वतन्त्रं कल्पयेन्मन्त्री यद्वा चावरणक्षितौ ।
कृत्वैवं प्राह्मुखं यन्त्रमपराङ्गं प्रकल्पयेत् ॥ ९७ ॥
View Verse
कर्णिकावलयं कुर्यात् प्राक्प्रमाणेन मध्यतः ।
तदन्तरे कोणषट्कं प्रकाशाह्लादसंपुटम् ॥ ९८ ॥
View Verse
त्रिधा विभज्य तद्बाह्यं क्षेत्रार्धं च तदन्तरे ।
त्रिरष्टयेदुम्बराह्ये कमलं द्वादशच्छदम् ॥ ९९ ॥
View Verse
चतुर्विंशद्दलं चक्रं नाभिनेमित्रयान्वितम् ।
प्रथिभिश्चावृतं बाह्ये नेमिस्थैस्तस्य बाह्यतः ॥ १०० ॥
View Verse
शक्तिभिश्च जयाद्याबिरष्टाभिः परिवारितम् ।
पूर्वं द्वादशपत्राब्जकर्णिकामध्यकल्पिते ॥ १०१ ॥
View Verse
त्रिकोणसंपुटाकारे प्रकाशाह्लादलक्षणे ।
षट्कोणे लक्षयेद्देवं कल्पान्तहुतभुक्प्रभम् ॥ १०२ ॥
View Verse
नृपञचवस्त्रं ज्ञानादिगुमपूर्णमहार्णवम् ।
त्रिलोचनं चतुर्बांहुं चतुश्चक्रधरं परम् ॥ १०३ ॥
View Verse
योगपट्टपिनद्धाङ्गं जान्वारूढभुजद्वयम् ।
श्रीवत्सकौस्तुभोरस्कं भूषितं मकुटादिभिः ॥ १०४ ॥
View Verse
हारशेखरकेयूरकटकैर्नूपुरान्तिमैः ।
भक्तानां स्वानुरक्तानां सिद्धान्तनिरतात्मनाम् ॥ १०५ ॥
View Verse
अशोकविटपिच्छायान्याजेनार्तिविनाशनम् ।
साधुसंरक्षणोद्युक्तचेष्टितं हृषृमानसम् ॥ १०६ ॥
View Verse
अधस्ताच्चरणाम्भोजात् साध्यं बीजपुटीकृतम् ।
विलिख्य कोणषट्केषु प्रागाद्येषु त्रिकं त्रिकम् ॥ १०७ ॥
View Verse
सुदर्शननृसिंहस्य मन्त्रार्णानि यथाक्रमम् ।
तदङ्गानि च तद्बाह्ये कोणाभ्यन्तरभूमिषु ॥ १०८ ॥
View Verse
लिखेदावृत्तियोगेन क्षार्णं प्रथिजणेषु च ।
प्रागादि चक्रबाह्ये तु जया चन्द्रप्रभाविनी ॥ १०९ ॥
View Verse
नवदूर्वाङ्कुरश्यामा मोहिनी विजया ततः ।
राजोपलप्रभा कान्ता ह्लादिनी पाटलप्रभा ॥ ११० ॥
View Verse
अजिता कनकप्रख्या माया नीलोत्पलप्रभा ।
रक्ताऽ पराजिता सिद्धिर्धूम्रवर्णा स्वकं पतिम् ॥ १११ ॥
View Verse
वीक्षमाणाश्च सततं नीलोत्पलविलोचनाः ।
नवयौवनलावण्यविभवेनोपबृंहिताः ॥ ११२ ॥
View Verse
करण्डमकुटोपेताः सर्वाभरणभूषिताः ।
विचित्रक्षौमवसनाः सर्वर्तुकुसुमान्विताः ॥ ११३ ॥
View Verse
द्विभुजा दक्षहस्तस्थपुष्पमालाभ्यलंकृताः ।
वामे चन्द्रांशुसह्काश चामरव्यजनोद्यताः ॥ ११४ ॥
View Verse
भूपच्चरौ नृसिंहस्य भीमोग्रौ भीषणद्युती ।
दंष्ट्राकराऌअवदनौ ज्वलत्पावकलोचनौ ॥ ११५ ॥
View Verse
नीलनीरदसंकाशौ द्विभुजौ दण्डचक्रिणौ ।
उदग्रकायावत्युग्रौ वीक्षयन्तौ परस्परम् ॥ ११६ ॥
View Verse
रक्ताम्बरधरौ रक्तकुसुमस्रग्विमण्डितौ ।
संपाद्यैवं महायन्त्रं सुदर्शननृसिंहयोः ॥ ११७ ॥
View Verse
स्थापयेद्विधिवन्मन्त्री मध्ये प्रासादमण्टपे ।
क्ष्मापरिग्रहमारभ्य संपन्ने सर्वकर्मणि ॥ ११८ ॥
View Verse
विन्यस्ते विष्टरे यन्त्रे प्रतिष्ठाप्य विधानतः ।
त्रैकाल्यमर्चनं कार्यं तल्लक्षणमथोच्यते ॥ ११९ ॥
View Verse
तद्दैर्घ्यं यन्त्रविस्तारादधिकं द्वादशाह्गुलम् ।
विभक्ते यन्त्रविस्तारे सप्तधा वाऽथ पञ्चधा ॥ १२० ॥
View Verse
एकैकमन्तयोस्त्यक्त्वा भागैर्मध्यगतैरतः ।
पञ्चभिर्वा त्रिभिः कार्या विष्टरस्य तु विस्तृतिः ॥ १२१ ॥
View Verse
एकैकं मध्यतः स्थाप्य पार्श्वयोः सषडङ्गुलम् ।
यन्त्रपार्श्वस्थनाऌआभ्यां सुषिरद्बयमाचरेत् ॥ १२२ ॥
View Verse
शिष्टानि मार्जयेन्मन्त्री चतुरश्रप्रसिद्धये ।
त्रिचतुःपञ्चधा वाऽथ यन्त्रोच्छ्राये विभाजिते ॥ १२३ ॥
View Verse
तत्तदेकांशमानेन कार्यःस्याद्विष्टरोच्छ्रयः ।
पीठवत्तदलंकृत्य पञ्चाह्गैः परितो बहिः ॥ १२४ ॥
View Verse
तदूर्ध्वे विष्टरं यन्त्रं कल्पयेत्तद्विधिं श्रृणु ।
पीडमध्यगतं भागं मध्यस्थेन तु तन्तुना ॥ १२५ ॥
View Verse
कर्णिकार्थं परिभ्राम्य शेषे षोढा विबाजिते ।
द्विरष्टकेसरोपेतमष्टपत्राब्जमस्तके ॥ १२६ ॥
View Verse
भागेन तद्बहिस्तद्वद दशारं चक्रमुज्ज्वलम् ।
वायुमण्डलमध्येन षट्कोणं तु बहिस्त्रिभिः ॥ १२७ ॥
View Verse
वज्राङ्कितं कोणभूषु भागार्धेन तु भूपुरम् ।
यन्त्रमद्यमनाऌअस्य निवेशार्थं तु मध्यतः ॥ १२८ ॥
View Verse
वेधयेत् तत्प्रमाणेन साध्यनाम समन्ततः ।
विलिख्य तद्बहिर्वेष्ट्य केसराणां द्विरष्टके ॥ १२९ ॥
View Verse
षोडशार्णं नृसिंहस्य तद्द्विषट्काक्षरावधौ ।
हुंफट्स्वाहा समोपेतो नृहरेः षोडशाक्षरः ॥ १३० ॥
View Verse
प्रागाद्यष्टदलेष्वस्य मन्त्रमानुष्टुभं परम् ।
चतुष्टयक्रमेणैव प्रत्येकस्मिन् दऌए न्यसेत् ॥ १३१ ॥
View Verse
बहिर्दशारचक्रस्य प्रागराद्येषु मन्त्रपम् ।
सौदर्शननृसिंहस्य हनशब्दसमन्बितम् ॥ १३२ ॥
View Verse
विलिखेद्द्वन्द्वयोगेन बाह्ये वायव्यमण्डले ।
विलिखेद्वर्तुऌआकारे वायव्यं बीजमुत्तमम् ॥ १३३ ॥
View Verse
वर्म चास्त्रसमेतं च विलिखेदन्तरान्तरा ।
बाह्यस्थे कोणषट्के तु लिखेदाग्नेयमक्षरम् ॥ १३४ ॥
View Verse
कल्पयेत् प्रतिकोणं तु वह्निज्वालासमन्वितम् ।
कोणेषु भूपुरस्यान्तः पार्थिवं बीजमुल्लिखेत् ॥ १३५ ॥
View Verse
अङ्कारोऽथ विदिग्भागे परितो भद्रपीठवत् ।
कण्ठदेशं समाश्रित्य द्वौ द्वौ प्राच्यां दिशि क्रमात् ॥ १३६ ॥
View Verse
अन्योन्यमभिवीक्षन्तौ कल्पयेदुत्तमोत्तमे ।
यन्त्रसन्धारणोद्युक्तौ व्यात्तास्यावुग्रलोचनौ ॥ १३७ ॥
View Verse
अनन्तगुऌइकौ प्राच्यां याम्यायां शङ्खवासुकी ।
सतक्षको महापझः प्रतीच्यां उत्तरे तथा ॥ १३८ ॥
View Verse
कार्कोटकस्तथापझो विशेषस्तत्र कथ्यते ।
विभज्य कर्णिकाभूमेर्भूपुरान्तं विधान्तरे ॥ १३९ ॥
View Verse
नृसिंहयन्त्रं कुर्वीत बाह्यतो यन्त्रविष्टरम् ।
दिक्षु नारायणास्त्राणि तत्र कूर्चमयानि च ॥ १४० ॥
View Verse
सितादिधातुजैर्वर्णैः कुङ्कुमाद्यैर्विमिश्रितैः ।
विलिखेन्मुख्यमूर्त्यादि यथाशोभं मुखद्वये ॥ १४१ ॥
View Verse
सुदर्शननृसिंहाभ्यां वर्णशोभा समीरिता ।
कर्णिका कनकप्रक्या केसराण्यरुणानि तु ॥ १४२ ॥
View Verse
पाण्डुरक्तानि पत्राणि भूपुराणि समन्ततः ।
कनकाभानि कार्याणि मूर्तीनां प्रागुदीरितम् ॥ १४३ ॥
View Verse
चक्रनाबिद्वयं कुर्याद्धेमपूर्वारुणप्रभम् ।
शरदाकाशसंकाशान्यराणि अरुणमन्तरम् ॥ १४४ ॥
View Verse
हेमकुन्दसितं कुर्यात् क्रमान्नेमित्रयं शुभम् ।
पीतेन वा वऌअर्क्षेण लिखेन्मन्त्राक्षराणि वै ॥ १४५ ॥
View Verse
पझकेसरपत्रेषु भूपुरेषु समन्ततः ।
षट्कोणान्तरबाह्येषु चक्रनाभ्यरनेमिषु ॥ १४६ ॥
View Verse
पृथक् कृतानि वर्णानि मान्त्राण्यन्तर्मुखानि च ।
तारद्वयान्तरस्थानि बिन्दुयुक्तानि चान्ततः ॥ १४७ ॥
View Verse
लेख्यान्येतानि सर्वत्र मुख्यप्रणवसंपुटम् ।
प्राकारसमुपेतानि नमस्कारान्वितानि च ॥ १४८ ॥
View Verse
कुर्यान्नारायणास्त्राणि कूर्चानि हरिताणि च ।
बद्धानि पझपाशेन ततो हयमुखानि च ॥ १४९ ॥
View Verse
भूर्जपत्रे विलिख्येत कुंकुमागरुजै रसैः ।
हरिचन्दनकर्पूरगव्यपञ्चकसाधुभिः ॥ १५० ॥
View Verse
सुवर्णसूच्या विधिवत् समाप्य गुऌइकाकृतिम् ।
सुवर्णपट्टेनावृत्य प्रतिष्ठाप्य विधानतः ॥ १५१ ॥
View Verse
रक्ष्याणामायुरारोग्यधनधान्यादिवृद्धये ।
पुत्रपौत्रादिसन्तानविजयेष्टादिसिद्धये ॥ १५२ ॥
View Verse
धारयेच्छिरसा मन्त्री साधुसंरक्षणे रतः ।
यन्त्रमेतत् समाख्यातं सुदर्शननृसिंहयोः ॥ १५३ ॥
View Verse
स्थापनं सर्वमूर्तीनां यथावत् प्रागुदीरितम् ।
तथैवैतत् प्रतिष्ठाप्य त्रिकालं वैककालिकम् ॥ १५४ ॥
View Verse

Chapter 24

श्रीः ।
चतुर्विंशोऽध्यायः ।
सनकः ।
मुने सम्यक् समाख्यातं सुदर्शननृसिंहयोः ।
पूर्वापरमुखं यन्त्रं नानामन्त्रार्णपूरितम् ॥ १ ॥
View Verse
मध्यमारभ्य मन्त्राणां साङ्गानां लक्षणं परम् ।
न्यासार्थमर्चनार्थं च समाचक्ष्व यथाक्रमम् ॥ २ ॥
View Verse
शाण्डिल्यः ।
साधु पृष्टं त्वया प्राज्ञारहस्याम्नायलक्षितम् ।
सनक त्वं श्रृणुष्वात्र मन्त्रजातं यथास्थितम् ॥ ३ ॥
View Verse
संकर्षणात् पुरा तुष्टाच्छंकरेण मयाऽपि च ।
हिताय सर्वलोकानां यन्त्ररूपं गुणोत्तरम् ॥ ४ ॥
View Verse
सुगुप्ते भूतले शुद्धे वर्णचक्रं परिस्तरेत् ।
अकारादिक्षकारान्तं सर्वार्णमयरूपिणम् ॥ ५ ॥
View Verse
स्वक्षनाभ्यरनेमीभिः प्रथिभिश्चाप्यलंकृतम् ।
कारणं सर्वमन्त्राणां अक्षे प्रणवमालिखेत् ॥ ६ ॥
View Verse
अकाराद्या विसर्गान्ताः स्वरा नाभ्यङ्गमाश्रिताः ।
ककारादीनि भान्तानि तदराणां त्रिरष्टके ॥ ७ ॥
View Verse
मादिहान्तानि नेमौ तु क्षार्णं प्रथिगणे स्थितम् ।
शब्दब्रह्नमयं चक्रं पुरा वर्णगणं ततः ॥ ८ ॥
View Verse
प्रणवाद्यैर्नमोन्तैश्च संज्ञाभिः क्रमशस्ततः ।
विन्यस्य मातृकायन्त्रं स्वं देवं विधिवद्गुरुः ॥ ९ ॥
View Verse
समभ्यर्च्यार्घ्यपुष्पाद्यैर्मातृकामन्त्रविग्रहम् ।
ततः समुद्धरेन्मन्त्रान् सर्वाभिमतसिद्धिदान् ॥ १० ॥
View Verse
जेतुं शक्ताऽत्मनो यातु सृष्टिस्थितिलयोन्मुखी ।
कियाशक्तिः समुद्दिष्टा संकल्पजननी पुरा ॥ ११ ॥
View Verse
कालरूपमधिष्ठाय तयैतद्बृंहितं जगत् ।
कालचक्रं जगज्जक्रं तस्मात् सौदर्शनं वपुः ॥ १२ ॥
View Verse
तमधिष्ठाय सा शक्तिर्जीवभूता व्यवस्थिता ।
विनाकृतं तया सर्वमसत्कल्पमिदं भवेत् ॥ १३ ॥
View Verse
तस्मात् समुद्धरेच्छक्तिमग्नीषोमसमप्रभाम् ।
अक्षाधारां तु वै नित्यामनाद्यन्तां च वैष्णवीम् ॥ १४ ॥
View Verse
पूर्वं नेम्यन्तिमद्वन्द्वं तदाद्यं सानलद्वयम् ।
नाभितुर्यान्तिमद्वाभ्यां पिण्डमेतदलंकृतम् ॥ १५ ॥
View Verse
सौदर्शनमहाशक्तिः सर्वसिद्धिप्रदायिनी ।
जीवभूता षडर्णस्य प्रकाशानन्दरूपिणी ॥ १६ ॥
View Verse
हृदयाद्यङ्गसिध्यर्थं पिण्डमेतत् स्वरोज्झितम् ।
दीर्घैराद्यैस्त्रिभिश्चान्त्यैर्भेदयेन्नेत्रपश्चिमम् ॥ १७ ॥
View Verse
प्रणवादीनि चैतानि कुर्याद्वै हृदयादिभिः ।
नमः स्वाहा वषड्ढुंफट्वौषड्भिर्जातिभिः सह ॥ १८ ॥
View Verse
कमान्नियोजनीयानि विज्ञानादिगुणैः सह ।
शक्तेः प्रकृतिरूपस्य षडर्णस्योद्धृतिं श्रृणु ॥ १९ ॥
View Verse
पूर्ववत् समुपाहृत्य चान्तिमे द्वयमन्तिमम् ।
तत्राष्टं सतृतीयं स्यात् सार्णं सान्त्यंततोन्तिमम् ॥ २० ॥
View Verse
सपञ्चमस्वरं तच्च कुर्यान्नेभ्याद्यभूषितम् ।
पश्चादेकादशारार्णयुक्तं तद्द्विगुणारगम् ॥ २१ ॥
View Verse
अन्त्यार्णमविमुक्तं तु कुर्यात् पञ्चमषष्ठयोः ।
अयं सौदर्शनो मन्त्रः षडर्णः समुदीरितः ॥ २२ ॥
View Verse
तृतीयः पञ्चमः षष्ठः प्रत्येकं त्र्यक्षरः स्मृतः ।
अन्येऽवर्णसमोपेता वर्णाः स्युर्द्व्यक्षरास्त्रयः ॥ २३ ॥
View Verse
एष कालात्मनो विष्णोर्विश्वरूपस्य वाचकः ।
सतारया च शक्त्यायमष्टार्णः परिकीर्तितः ॥ २४ ॥
View Verse
क्षेत्रक्षेत्रज्ञयुक्त्या तु यथा प्रकृतिगः पुमान् ।
स्थूलस६क्ष्मात्मको ध्येयस्तथा सौदर्शनो हरिः ॥ २५ ॥
View Verse
दर्शनं परतत्वस्य स्यात्तदाख्यानदर्शनम् ।
तन्निष्ठानामिदं नित्यमज्ञानतिमिरापहम् ॥ २६ ॥
View Verse
छिनत्ति संशयं तेषां समु पायप्रवृत्तये ।
रूपान्तरमिदं तस्य संशयच्छेदकारिणः ॥ २७ ॥
View Verse
नूनं वर्णाश्रमाचारनिष्ठानामाननेन तु ।
भिनत्ति दूषकान् जन्तून् स्वकविद्याप्रभावतः ॥ २८ ॥
View Verse
लाञ्छितानामनेनाशु भक्तानां भावितात्मनाम् ।
करस्थो विजयस्तु स्यादिह लोके परत्र च ॥ २९ ॥
View Verse
किं पुनर्विषये यन्त्रे स्थापिते पूजिते सति ।
मुने मन्त्रप्रभावोऽयमेवमुक्तः परन्तप ॥ ३० ॥
View Verse
लक्षणं हृदयाद्यस्य मन्त्रस्यास्य क्रमाच्छृणु ।
प्रागेव हृदयादीनां मन्त्रार्णानि यथाक्रमम् ॥ ३१ ॥
View Verse
विन्यसेद्बीजभूतानि तारान्ते बिन्दुना ततः ।
आविसूनां क्रमादन्ते तथा सूर्याक्षरद्वयात् ॥ ३२ ॥
View Verse
महासुदर्शनज्वालापदयोरन्तिमेऽपि च ।
चक्रायेति पदं षोढा शिरोन्तं योजयेत् क्रमात् ॥ ३३ ॥
View Verse
विज्ञानादिगुणौपेतैः तुर्यान्तैर्हृदयादिभिः ।
नमः स्वाहादिजात्यन्तैः प्रागुक्तविधिना लिखेत् ॥ ३४ ॥
View Verse
ध्येयान्याकारवर्त्तीनि बोगस्थानेषु मूलवत् ।
वर्णभूषणवस्त्रास्त्रभुजसंस्थानचेष्टितैः ॥ ३५ ॥
View Verse
वर्मास्त्रेज्ञेयमन्त्रस्य चरमार्णद्वयं स्मृतम् ।
नमो नारायणायेति स्यादष्टार्णं सतारकम् ॥ ३६ ॥
View Verse
अस्य साङ्गान्युपाङ्गानि मन्त्रार्णैर्बिन्दुभुषितैः ।
चरमार्णेन शेषाणि चरणान्तान्यपि क्रमात् ॥ ३७ ॥
View Verse
गुणैश्च हृदयाद्यैश्च तुर्याद्यैर्जातिभिस्सह ।
स्वरूपं षोडशार्णस्य मन्त्रस्य प्रागुदीरितम् ॥ ३८ ॥
View Verse
हृदयादिपदान्तानि कल्पनीयानि पूर्ववत् ।
तत्र द्वादशमं बीजं हुंफट्स्वाहान्त मुच्चरेत् ॥ ३९ ॥
View Verse
विभोर्वराहवक्त्रस्य मन्त्रमानुष्टुभं श्रृणु ।
स्वराद्यं पञ्चमं वर्णमेकीभूतं समं पुरा ॥ ४० ॥
View Verse
प्राग्वर्णमेवमुद्धृत्य जातिमाद्यां समाहरेत् ।
अरान्तं तत् तृतीयं च तदन्ते नेमिपञ्चमम् ॥ ४१ ॥
View Verse
नाभ्येकादशमोपेतमरषोडशकं ततः ।
वराहरूपाय पदं तदूर्ध्वं व्याहृतित्रयम् ॥ ४२ ॥
View Verse
पतये पदमन्तेऽस्य भूपतित्वमनन्तरम् ।
मे देहीति ततः पश्चाद्दापयेति पदं ततः ॥ ४३ ॥
View Verse
शिरसा सह मन्त्रोऽयं द्वात्रिंशार्णः प्रकीर्तितः ।
अङ्गानि कल्पयेदस्य विभक्तैः पञ्चधा पदैः ॥ ४४ ॥
View Verse
क्रमशः सप्तभिः षड्भिः सप्तभिश्चाथ सप्तभिः ।
पञ्चभिर्वर्ण संभूतैः प्रणवाद्यैर्गुणोत्तरैः ॥ ४५ ॥
View Verse
हृदयाद्यस्त्रपर्यन्तैस्तुर्यान्तैर्जातिभिः सह ।
अङ्गक्लृप्तिरियं प्रोक्ता मन्त्रस्यास्य सुलोचन ॥ ४६ ॥
View Verse
शक्तिः स्वाहास्य भूर्बीजं परिज्ञेयं ततोपरि ।
मन्त्रं नृसिहरूपस्य प्राक्सङ्ख्यार्णं समुच्चरेत् ॥ ४७ ॥
View Verse
पुरो दयाद्यं अग्रान्तं नाभ्यर्णान्ताद्यसंयुतम् ।
कवीनां मध्यमं पूर्वं रमायाः संमतान्तरम् ॥ ४८ ॥
View Verse
स्वाहान्तं विष्टराद्यं च कृष्णान्तं चोरुपूर्वकम् ।
नाभिपञ्चदशार्णेन संयुतं तदनन्तरम् ॥ ४९ ॥
View Verse
पूजान्तं लोर्घ्वकं वाद्यमनन्तान्तं सबिन्दुकम् ।
सहस्राद्यं अपूर्वान्तं सर्वतोन्तमतः परम् ॥ ५० ॥
View Verse
मुकुटाद्यं मुखान्तं च नेम्याद्यर्णसन्वितम् ।
किन्नरान्तरमादाय ऋछयाद्यर्णोपरि स्थितम् ॥ ५१ ॥
View Verse
अस्यन्तं बिन्दुसंयुक्तं हरेराद्यं समं ततः ।
गंभीरमध्यं धिषणमध्यमं कर्षणान्तिमम् ॥ ५२ ॥
View Verse
नाभ्यन्ताद्येन संयुक्तं ततो भद्राद्यमेव च ।
उन्निद्रान्तमनुस्वारं अमृताभ्यन्तरं द्विधा ॥ ५३ ॥
View Verse
तयोरन्तेऽमृतान्तं स्यात् वायुं तस्योपरि स्थितम् ।
ततोऽन्नान्त्यं रमान्तं च रम्यान्तं हं समुद्धरेत् ॥ ५४ ॥
View Verse
एवमानुष्टुभो मन्त्रः कीर्तितो नृहरेः परः ।
पञ्चमं सस कान्ताद्यं बीजमस्य प्रकीर्तितम् ॥ ५५ ॥
View Verse
शक्तिश्चैवं सविज्ञेयमिन्दुपूर्वं सबिन्दुकम् ।
पादैश्चतुर्भिः सर्वैश्च प्रणवाद्यैरनुक्रमात् ॥ ५६ ॥
View Verse
पञ्चाङ्गान्यस्य मन्त्रस्य हृदयादीनि कल्पयेत् ।
पादान्ते योजयेदेताननन्तात्मन उच्यते ॥ ५७ ॥
View Verse
ततः प्रियात्मने इति ज्योतिरात्मने इत्यपि ।
तुर्यो मायात्मने इति मन्त्रे चन्द्रात्मने पदम् ॥ ५८ ॥
View Verse
ज्ञानादिहृदयादीनि जात्यन्तानि यथापुरा ।
पाताऌअनृहरेर्मन्त्रश्चाष्टाष्टाक्षर उच्यते ॥ ५९ ॥
View Verse
क्रमात् स्वरान्तपूर्वाभ्यां युक्तं प्रथ्यर्णमुच्चरेत् ।
अरद्विदशकं पश्चात् नेम्याद्यं प्रोतमोस्वरात् ॥ ६० ॥
View Verse
अरान्तं च तृतीयं च तदन्ते नेमिपञ्चमम् ।
नाभ्येकादशमोपेतमक्षरं षोडशारगम् ॥ ६१ ॥
View Verse
बिन्दुयुक्तं ततः शान्तहरेरेखाभिरन्वितम् ।
कुशेशयान्तमग्नीति च तदन्ते नेत्र पूर्वकम् ॥ ६२ ॥
View Verse
त्रातुराद्यं यशाद्यं च साद्यं पर्वतमध्यमम् ।
अष्टारभं समादाय नेमिपञ्चकसंस्थितम् ॥ ६३ ॥
View Verse
रविनेमिपदं पश्चाच्छान्ताद्यं यमलादिकम् ।
द्विनवारं च सान्तं च द्वयमेतद्विधोच्चरन् ॥ ६४ ॥
View Verse
अरैकविंशं षष्ठं च द्विकमेतत्तथोच्चरन् ॥ ६५ ॥
View Verse
नेमितृतीयमक्षान्तं भवेतां पूर्ववद्द्विधा ॥ ६६ ॥
View Verse
क्रमेण भूषयेदेतमन्ते वर्मास्त्रशीर्षकैः ॥ ६७ ॥
View Verse
पाताऌअनृहरेर्मन्त्रः चतुष्षष्ट्यर्णकः स्मृतः ॥ ६८ ॥
View Verse
बीजमाद्यक्षरं प्रोक्तं शक्तिः स्वाहा च सानुगा ॥ ६९ ॥
View Verse
अङ्गानि कल्पयेत् क्षार्णैः पूर्ववत् स्वरभूषितैः ॥ ७० ॥
View Verse
अन्ते बिन्दुसमोपेतैः प्रणवाद्यैरनुक्रमात् ॥ ७१ ॥
View Verse
ज्ञानाद्यस्त्रावसानैश्च तुर्यान्तैर्हृदयादिभिः ॥ ७२ ॥
View Verse
पूर्ववत् समुपेतानि नमः स्वाहेति जातिभिः ॥ ७३ ॥
View Verse
नारसिंहमथाष्टार्णमन्त्रं सर्वार्थसिद्धिदम् ॥ ७४ ॥
View Verse
नमसः प्रणवाद्यस्य नरेत्यर्णमथान्तिमे ।
सिंहायेति पदान्तोऽयं नृसिंहाष्टार्ण ईरितः ॥ ७५ ॥
View Verse
क्षौं बीजमस्य नाभ्यर्णस्तृतीयः शक्तिरुच्यते ।
कल्पयेद्धृदयादीनि बीजेनैव यथा पुरा ॥ ७६ ॥
View Verse
क्रमशः केशवादीनां मन्त्राणां लक्षणं श्रृणु ।
नवमं चाष्टमं नेमावराद्यं मातृकान्तिमम् ॥ ७७ ॥
View Verse
त्रिधैकैकं क्रमात् कृत्वा बीजद्वादशकं यथा ।
पौनः पुन्येन सर्वेषां यलवान् योजयेदधः ॥ ७८ ॥
View Verse
नाभिषष्ठस्वरोर्ध्वस्थानङ्कयेद्विन्दुनोपरि ।
तारादिहृदयान्तानि संज्ञाभिस्तुर्यया सह ॥ ७९ ॥
View Verse
केशवः प्रथमो वाच्यस्ततो नारायणः परः ।
माधवश्चैव गोविन्दो विष्णुश्च मधुसूदनः ॥ ८० ॥
View Verse
त्रिविक्रमो वामनाख्यः श्रीधरः पझलोचनः ।
हृषीकेशः पझनाभो दामोदर इति श्रुतः ॥ ८१ ॥
View Verse
बीजैर्दीर्घस्वरोपैतैः प्राग्वदङ्गानि कल्पयेत् ।
तेषां श्रियादिकान्तानां श्रृणु मन्त्राननुक्रमात् ॥ ८२ ॥
View Verse
मातृकान्तय्त्रयं क्षाद्यं चतुर्धा प्रस्तेरत् पुरा ।
विष्वक्सुयोज्यान्यर्णानि त्वधोभागे यथाक्रमम् ॥ ८३ ॥
View Verse
अग्न्यम्बुपृथिवीवारिवर्ह्निभूज्वलना क्रमात् ।
वारिद्वयं च सोमं च पार्थिवद्वितयं ततः ॥ ८४ ॥
View Verse
योजयेदनलं वर्णं षट्सप्ताष्टसु मूर्धनि ।
अधोनवद्वादशयोः सर्वेषां चोर्ध्वतः पुनः ॥ ८५ ॥
View Verse
स्वरशक्त्या समेतेन नाभ्यन्ताद्येन भूषयेत् ।
स्वरजात्यादियुक्तानि बीजानि हृदयादयः ॥ ८६ ॥
View Verse
बहिश्चक्रगदाशार्ङ्गखड्गाद्यैर्दिक्षु भेदिताः ।
विष्णवो वासुदेवाद्या एतेषां वाचकान् श्रणु ॥ ८७ ॥
View Verse
आद्ये चान्ते स्वरे नाभौ समुद्धृत्य सतारके ।
पूर्वे चक्रधरायेति संज्ञया विष्णवे नमः ॥ ८८ ॥
View Verse
अन्ये गदाधरायेति तृतीये शार्ङ्गधारिणे ।
खङ्गधारिण इत्यन्ते चतुर्थस्य नियोजयेत् ॥ ८९ ॥
View Verse
द्विषट्कार्णेन चोद्दिष्टा विष्णऊनां वाचकाः पृथक् ।
साङ्गान्युपाङ्गान्येतेषां मन्त्राद्यैः प्राग्वदाचरेत् ॥ ९० ॥
View Verse
बीजानि यानि विष्णूनां विलोमेन स्वरान्तिमान् ।
तान्युक्तानि हृषीकेशव्यूहानां समुदीरिताः ॥ ९१ ॥
View Verse
जनार्धनानां वक्ष्यन्ते मन्त्राः प्राच्यानलान्तरात् ।
इकारादीनि चत्वारि चैकारादीन्यनुक्रमात् ॥ ९२ ॥
View Verse
कुर्यात् प्रणवपूर्वाणि तेषामन्ते यथा पुरा ।
पूर्वं दण्डधरायेति सर्वेषां नमसा न्यसेत् ॥ ९३ ॥
View Verse
हृदादिचरणान्तानि मन्त्रार्णैस्तु यथा पुरा ।
नृसिंहक्रोडयोर्मन्त्रस्ते प्रागेव प्रदर्शितः ॥ ९४ ॥
View Verse
अन्तस्थाश्च ततोष्टार्णो वर्णान्ते च स्वरा हलः ।
सुप्रसिद्धाः समाख्यातास्त्वपराङ्गे निबोध तु ॥ ९५ ॥
View Verse
सुदर्शनषडर्णस्य प्राक्स्थमर्णचतुष्टयम् ।
पुराहृत्य ततः पश्चात्तन्नेत्राद्ये चलान्तिमे ॥ ९६ ॥
View Verse
नेमिस्थं पञ्चमं व्रणं अरषोडशकोपरि ।
नेमिनाभ्योस्तृतीये च वियोज्य तदनन्तरम् ॥ ९७ ॥
View Verse
नेम्याद्यं सानलं हान्तं नाभ्यन्ता त्तद्द्वयाङ्कितम् ।
पिण्डमेतन्नृसिंहस्य विद्द्युद्वर्णसमन्वितम् ॥ ९८ ॥
View Verse
सिंहान्त्यं हृदयाद्यं च द्विधोद्धृत्य द्वयं ततः ।
वर्मास्त्रे च शिरो जात्यायुक्तेयं द्विनवाक्षरम् ॥ ९९ ॥
View Verse
अस्यैव दशामो बीजं हनाद्यं शक्तिरुच्यते ।
षडङ्गमस्य ताराद्यं हृदयाद्यं क्रमाच्छृणु ॥ १०० ॥
View Verse
औंकाररहितं बीजं षोढा कृत्वा यथा पुरा ।
स्वरैराद्यैर्विसर्गान्तैर्नपुंसकविवर्जितैः ॥ १०१ ॥
View Verse
योजयित्वा तदूर्ध्वे तु पदानि क्रमशो न्यसेत् ।
चक्रराजपदं पूर्वे ज्वालाचक्रपदं ततः ॥ १०२ ॥
View Verse
जगच्चक्रपदं पश्चादसुरान्तकसंज्ञितम् ।
पञ्चमं दीप्तचक्राख्यमन्ते माहासुदर्शनम् ॥ १०३ ॥
View Verse
चतुर्थ्यन्तं नियोज्यान्ते पश्चाज्ज्ञानादिभिस्तथा ।
तुर्यान्तैर्हृदयाद्यैश्च स्वाहाद्याभिश्च चातिभिः ॥ १०४ ॥
View Verse
द्वादशार्णे नृसिंहस्य बीजं पूर्वं मुने श्रृणु ।
नेमिसप्तममादाय प्रागरार्णोपलक्षितम् ॥ १०५ ॥
View Verse
युक्तं स्वरान्त्यपूर्वाभ्यां कुर्याद्बीजं परं त्विदम् ।
नतिप्रणवमद्यस्थमेकवीरं महाप्रभम् ॥ १०६ ॥
View Verse
सर्वेषां सिंहमन्त्राणां ध्यानभेदात्मनामिदम् ।
जीवभूतं स्वरूपस्य वाचकं विद्धि कामदम् ॥ १०७ ॥
View Verse
मूर्तिमन्त्रान् श्रृणुष्वाथ द्वादशाक्षरमण्डितम् ।
प्रणवं हार्दयीजातिः तुर्यान्तं भगवत्पदम् ॥ १०८ ॥
View Verse
नारसिंहाय दद्याद्वै पदं पञ्चाक्षरं ततः ।
विश्वत्त्रातृनृसिंहस्य मन्त्रेयं द्वादशाक्षरः ॥ १०९ ॥
View Verse
तारान्तस्येद ..................दशाक्षरः ।
वक्ष्यन्ते हृदयादीनि नेत्रान्तानि यथाक्रमम् ॥ ११० ॥
View Verse
षोढास्य बीजं ताराद्यमाकारादिसमन्वितम् ।
बिन्दुनाङ्कितमेतेषां योजनं प्राग्वदाचरेत् ॥ १११ ॥
View Verse
अह्गोपाह्गमयी व्याप्तिः सवीजैर्द्वादशाक्षरैः ।
सबिन्दुभिर्गुणाद्यैश्च कल्पयं वा नतिभिः सह ॥ ११२ ॥
View Verse
व्यापकोऽयं नृसिंहस्य मूर्तिभेदगतस्य च ।
साङ्गो मन्त्रः समुद्दिष्टः सर्वाभिमतसिद्धिदः ॥ ११३ ॥
View Verse
अक्षमध्यगता वर्णा वर्णिताश्चक्रमध्यगाः ।
संज्ञाः सबिन्दुप्राग्वर्णा नतिप्रणवमध्यगाः ॥ ११४ ॥
View Verse
तुर्यान्ताश्शक्तिसंघस्य जयाद्यस्य तु वाचकाः ।
भीमोग्राभ्यां च भूताभ्यां तथा मन्त्रद्वयं भवेत् ॥ ११५ ॥
View Verse
विष्टरेऽभिनिविष्टानां मन्त्राणां लक्षणं श्रृणु ।
साध्यनामस्वरूपं तु व्यापकं वक्ष्यते पुनः ॥ ११६ ॥
View Verse
तारान्ते बीजं शक्तिश्च दैवतं तस्य चेत्ततः ।
शान्तिं पुष्टिं च वश्यं च विजयं चैवमादिकम् ॥ ११७ ॥
View Verse
द्वितीयान्तं समुच्चार्य कुरुवीप्सान्वितं ततः ।
यंच्छ यच्छ पदान्तं वा प्राकस्थितैः प्रणवान्तिमैः ॥ ११८ ॥
View Verse
अङ्कयेदवसाने च साध्यलक्षणमीरितम् ।
द्विरष्टवर्णं नृहरेर्मन्त्रमानुष्टुभं परम् ॥ ११९ ॥
View Verse
पूर्वमेव समुद्दिष्ठं बाह्ये वायव्यमक्षरम् ।
वर्मास्त्रजातियुक्तं च वाह्नं पार्थिवमक्षरम् ॥ १२० ॥
View Verse
विस्तरेण पुरा प्रोक्तं तस्मान्नेह प्रतन्यते ।
वक्ष्यते यन्त्र धर्तॄणां नागानां क्षाद्यमान्वितम् ॥ १२१ ॥
View Verse
बिन्दुस्वरान्वितं बीजं प्रणवाद्यं ततः परम् ।
युक्तं प्रत्येकसंज्ञाभिस्तुर्यान्ताभिर्नमोऽन्तिमम् ॥ १२२ ॥
View Verse
इति शेषादिनागानां मन्त्रा सम्यगुदीरिताः ।
शक्त्या सतारया यान्त्रैः सौदर्शनषडक्षरैः ॥ १२३ ॥
View Verse
एकैकं भेदयेद्वर्णमष्टार्णस्योर्ध्वतोऽप्यधः ।
नारायणास्त्रमन्त्रोऽयं कल्पान्तहुतभुक्प्रभः ॥ १२४ ॥
View Verse
अभिधायाक्षरं पूर्वं चक्राद्यस्त्रगणस्य तु ।
युक्तं वह्निविसर्गाभ्यां बीजं वा प्रणवान्वितम् ॥ १२५ ॥
View Verse
ततः संज्ञा चतुर्थ्यन्ता योजनीया फडन्तिमा ।
चक्रादिषोडशास्त्राणामिति मन्त्राः प्रकीर्तिताः ॥ १२६ ॥
View Verse
ज्ञात्वैवं यन्त्रमाहात्म्यं योर्चयेद्विधिपूर्वकम् ।
दिग्बन्ध वह्णिप्राकार गायत्र्या वाहनादिकैः ॥ १२७ ॥
View Verse
यागोपकरणैर्मन्त्रैर्भोग दान विवर्जितैः ।
क्रमात् सर्वफलावाप्तिर्मन्त्रसिद्धिश्च जायते ॥ १२८ ॥
View Verse
दशदिग्बन्धमन्त्राणां वक्ष्यते लक्षणं पुरा ।
ॐ पूर्वं पुरुषायेति स्वाहान्तं तदनन्तरम् ॥ १२९ ॥
View Verse
अस्त्रेण बन्धयामीति स्वाहान्तं च षडक्षरम् ।
इति दिग्बन्धमन्त्रोऽयमीरितो दुष्टदोषहृत् ॥ १३० ॥
View Verse
प्रणवं प्राक् समुद्धृत्य मनुं वाग्निजाययोः ।
आयान्तं विन्यसेच्चक्रंअग्निप्राकारसंज्ञितम् ॥ १३१ ॥
View Verse
कीर्तितां चक्रगायत्रीं श्रृणु चक्रप्रसादनीम् ।
जातिपूर्वं पुरस्कृत्य चक्रायेति समुद्धरेत् ॥ १३२ ॥
View Verse
द्वितीयं विष्णुगायत्र्या नृसूक्ताद्यक्षरत्रयम् ।
तेत्राब्यां पदमादाय नेमिपूर्बान्तयोजितम् ॥ १३३ ॥
View Verse
धीमहीति तदन्ते नो विनिवेश्योऽनिवारितः ।
गायत्र्यन्तं समुद्धार्य तदन्ते चतुरक्षरम् ॥ १३४ ॥
View Verse
सौदर्शनी समुद्दिष्ठा गायत्री तारकाक्षरा ।
सतारका पुरा चेयं भवेदेकाक्षराधिका ॥ १३५ ॥
View Verse
तारद्वयं पुरोद्धृत्य परमं पदमुद्धरेत् ।
धामेतिवस्थितं चाथ नेम्याद्यं द्विनवारकम् ॥ १३६ ॥
View Verse
द्विदशारगतं वर्णं नाभिपञ्चममूर्धनि ।
ततस्तु गृहकाम्ययो इति पञ्चार्णमुद्धरेत् ॥ १३७ ॥
View Verse
युतं नेमिद्वितीयेन द्विनवारगतं ततः ।
षोडशारगतं वर्णं द्वितीयस्वरसंयुतम् ॥ १३८ ॥
View Verse
नेमिपञ्चमवर्णं च षोडशारगतं पुनः ।
नाभिद्वितीयसंभिन्नं नेम्यन्तं तारपश्चिमम् ॥ १३९ ॥
View Verse
तृतीयस्वरसंयुक्तं तृतीयं नेमिमण्डलात् ।
नेम्यन्तमास्वरोपेतमरान्तं च स्वरान्तरम् ॥ १४० ॥
View Verse
स्वरं तृतीयं संयोज्य ततश्च द्विनवारगम् ।
न्यूनविंशारगोर्ध्वं तद्द्विनवाक्षरमूर्धनि ॥ १४१ ॥
View Verse
स्वरं तृतीयं संयोज्य ततश्च द्विनवारगम् ।
पुनर्मन्त्रशरीरेति प्रणवान्तं ततो नमः ॥ १४२ ॥
View Verse
पुनश्च नमसा युक्तो मन्त्र आवाहनोचितः ।
प्रदाने सर्वभोगानां मन्त्रस्ते संप्रकाश्यते ॥ १४३ ॥
View Verse
प्रणवं पूर्वमुच्चार्य सर्वभोगैककारणम् ।
नेम्यन्तं बिन्दुसंयुक्तं त्रिधेदं पदमप्यथ ॥ १४४ ॥
View Verse
गृहाणेति शिरोऽन्तोयं भोगदानस्य वाचकः ।
आवाहने तथार्चायां विसर्जनविधौ तथा ॥ १४५ ॥
View Verse
प्रणवं पूर्वमुद्धृत्य संबोध्य भगवन्निति ।
मन्त्रमूर्तेपदं दद्यात् स्वपदं च द्वितीयया ॥ १४६ ॥
View Verse
आसादय क्षमस्वेति प्रणवान्तं समुद्धरेत् ।
परप्रयुक्तमन्त्राणां शक्तिह्रासनतत्परः ॥ १४७ ॥
View Verse
समस्तवीर्यमन्त्राढ्यं मुने मन्त्रवरं श्रृणु ।
प्रणवं पूर्वमुद्धृत्य प्रणवाद्यं सबिन्दुकम् ॥ १४८ ॥
View Verse
षडर्णस्यास्त्रमन्त्रप्राक्षडर्णं प्रणवोज्झितम् ।
प्रोक्तस्यार्णद्वयं पूर्वं चक्रराजपदं ततः ॥ १४९ ॥
View Verse
सर्वशब्दं दहद्वन्दूपूर्वं दुष्टभयंकरम् ।
चिन्तामूलं पदं पश्चाद्भिन्दि भिन्दीति वै ततः ॥ १५० ॥
View Verse
द्विधा विदारय पदं मन्त्रं ह्रासय ह्रासय ।
भक्षयेति पदद्वन्द्वं भूतानीति ततः परम् ॥ १५१ ॥
View Verse
त्रासय त्रासयेत्यन्ते वर्मास्त्रे च शिरोन्तिमे ।
एकसप्ततिमन्त्रोऽयं शक्तिह्रासाख्य ईरितः ॥ १५२ ॥
View Verse
मन्त्रमानुष्टुभं वक्ष्ये सर्वेषामभयप्रदम् ।
भगवन्निति संबोध्य सर्वेति पदमुद्धरेत् ॥ १५३ ॥
View Verse
विजयेति पदं पश्चात् सहस्त्रारेति तत्परम् ।
अपराजितेति शरणं पदं त्वामित्यनन्तरम् ॥ १५४ ॥
View Verse
प्रपन्नोऽस्मीति तत्पश्चाद्द्वितीयान्तश्चश्रीकरम् ।
श्रीपदाद्यं ततः पश्चात् सुदर्शनमिति क्रमात् ॥ १५५ ॥
View Verse
प्रपत्तिरिति विख्याता सर्बपापक्षयंकरी ।
वक्ष्ये नृसिह्यगायत्रीमपराङ्गस्य पूजने ॥ १५६ ॥
View Verse
वज्रेति द्व्यक्षरं पूर्वंश्रृङ्खलायेत्यतः परम् ।
आयान्तं तीक्ष्णदंष्ट्रेति विझहेति पदं ततः ॥ १५७ ॥
View Verse
वज्रेति द्व्यक्षरस्यान्ते नखायेति च धीमहि ।
आद्यं च चरमाद्यं च गायत्र्याः पदमुद्धरेत् ॥ १५८ ॥
View Verse
सिंहेति सविसर्गं च गायत्र्यन्तं ततो न्यसेत् ।
आचरेदुक्तमन्त्राभ्यामावाहनविसर्जने ॥ १५९ ॥
View Verse
दिग्बन्धं च सहास्त्रेण प्रागुक्तेन समाचरेत् ।
अन्येषामङ्गमन्त्राणां विनियोगो यथा पुरा ॥ १६० ॥
View Verse
इति निगदितमेतन्मन्त्रजालं यथाव ।
न्मुखयुगऌअसमेते यन्त्रराजे निविष्टम् ॥ १६१ ॥
View Verse
हृदिबहिरपि भोगैर्यानि योज्यानि तानि ।
प्रकटयतु कदाचित् कष्टबुद्धेः परस्य ॥ १६२ ॥
View Verse

Chapter 25

श्रीः ।
पञ्चविंशोऽध्यायः ।
सनकः ।
भगवन् सम्यगाख्यातं सुदर्शननृसिह्नयोः ।
मन्त्ररूपं महायन्त्रं भजतामीप्सितप्रदम् ॥ १ ॥
View Verse
तस्माद्भजनरूपं च वद सानुग्रहोऽसि मे ।
शाण्डिल्य ।
हिताय सर्वलोकानां यन्त्रमेतदुदाहृतमू ॥ २ ॥
View Verse
विधिना पूजितो येन सर्वं तेन समाप्यते ।
मया ते श्रोतुकामाय वष्यते यजनक्रमः ॥ ३ ॥
View Verse
प्राग्वत्स्नानादिकं कृत्वा प्रविश्य यजनालयम् ।
प्रक्षाल्य पादावाचम्य सोत्तरीयः स्वलंकृतः ॥ ४ ॥
View Verse
धृतोर्ध्वपुण्ड्रः कुसुमैः द्वार्सथानभ्यर्च्य पूर्ववत् ।
कवाटोद्धाटनं कृत्वा प्रविश्याभ्यन्तरे विभुम् ॥ ५ ॥
View Verse
प्रणिपत्य च गायत्र्या पाणिप्रक्षाऌअनादिमम् ।
अर्चायां विष्टरे यन्त्रे कृत्वा मार्गत्रयं ततः ॥ ६ ॥
View Verse
प्रासादं शोधयित्वाऽस्य पुरतः फलकादिके ।
प्रोक्षिते चास्त्रमन्त्रेण संमुखं रुचिरासने ॥ ७ ॥
View Verse
समासीनः स्वपार्श्वस्थ याज्ञीयं चाधिवासनम् ।
करशुद्धिं स्थानशुद्धिं कृत्वाऽस्त्रेण यथापुरम् ॥ ८ ॥
View Verse
पाणिभ्यामुक्तमन्त्रेण संयुक्तेनास्त्रमुद्रया ।
पूजास्थानगदान् विघ्नान् बाह्यतोऽदृश्यविग्रहान् ॥ ९ ॥
View Verse
विरेच्य बन्धनं कुर्यात् दिक्षु चैव विदिक्षु च ।
कवचेनावकुण्ठ्याथ प्राणानायम्य पूर्ववत् ॥ १० ॥
View Verse
तत्वानि चोपसंहृत्य देहस्थान्यात्मना सह ।
सर्वतत्वविनिर्मुक्तं विग्रहं केवलं ततः ॥ ११ ॥
View Verse
शोधयेद्धारणाभिश्च शोषणाद्याभिरूर्ध्वतः ।
तुर्याद्यन्ते पदे देवं सुदर्शनतनुं स्मरेत् ॥ १२ ॥
View Verse
बलात्मनाऽस्य मरुता कवचेन तनुं स्वकाम् ।
शोषयित्वा दहेद्देहं दक्षांगुष्ठाद्य षतः ॥ १३ ॥
View Verse
कल्पान्तपावकज्वाला सहस्रायुतदीधितिम् ।
भावयित्वा शिखामन्त्रं तेन दग्धमनुस्मरेत् ॥ १४ ॥
View Verse
दृन्मन्त्रं पूर्णचन्द्राभममृतासारवर्षिणम् ।
वामांगुष्ठाग्रतो ध्यात्वा सेचितं तेन भावयेत् ॥ १५ ॥
View Verse
विनियुक्तांस्ततो मन्त्रान् वर्माद्यां छोषणादिषु ।
मन्त्रेश्वरे लयं यातानिति सञ्चिन्त्य भावयेत् ॥ १६ ॥
View Verse
आनन्दामृतसंपूर्णशीतांशुशतसप्रभम् ।
तत्प्रान्तैरमृतौघैश्च बृंहितां भावयेत्तनुम् ॥ १७ ॥
View Verse
तस्मात्तत्वानि विन्यस्य संहृतानि यथाक्रमम् ।
स्वात्मना तामधिष्ठाय मन्त्रन्यासं समाचरेत् ॥ १८ ॥
View Verse
अकारादिक्षकारान्तमातृकां मन्त्रमातरम् ।
विनय्सेत् करयोः पूर्वं विग्रहेचक्रमाल्लपन् ॥ १९ ॥
View Verse
कृत्वैवं व्यापकन्यासमादित्यातपसप्रभः ।
दक्षेतरक्रमेणैव शाखासु तलयोरपि ॥ २० ॥
View Verse
अंगुष्ठादिकनिष्ठान्तमेकैकस्यास्चतुश्चतुः ।
एवं द्विविंशकं न्यस्य तलयोर्दशकं ततः ॥ २१ ॥
View Verse
मध्ये च त्रि चतुष्के च पञ्चकं पञ्चकं तथा ।
प्रणवद्वयमध्यस्थान्येवं न्यस्त्वा करद्वये ॥ २२ ॥
View Verse
व्यापकन्यासपूर्वं तु स्वशरीरेऽपि विन्यसेत् ।
मूर्ध्नः पादतलं यावत् पाणिब्यां तपनांशुवत् ॥ २३ ॥
View Verse
व्यापयित्वा ततो न्यासं पृथगेव समाचरेत् ।
केशान्ते वक्त्रवृत्ते च नेत्रयोः श्रवणद्वये ॥ २४ ॥
View Verse
घ्राणरन्ध्रद्वये गण्डद्वये दक्षेतरक्रमात् ।
उत्तराधरयोगेन दन्तयोस्तच्छदद्वये ॥ २५ ॥
View Verse
मूर्ध्नि न्यसेत् स्वरानन्यान् सविसर्गाननन्तरम् ।
कवर्गं दक्षिणे बाहौ सन्धिपञ्चगतं क्रमात् ॥ २६ ॥
View Verse
वामे तथा चवर्गं च पादयोर्दक्षिणादितः ।
सन्धिगौ टतवर्गौ च पूर्ववत्तुन्दपार्श्वयोः ॥ २७ ॥
View Verse
पृष्ठे नाभौ च हृदये पवर्गं धातुसप्तके ।
यादिसान्तानि वर्णानि हकारं हृदयान्तरे ॥ २८ ॥
View Verse
क्षकारं हृदयाकाशे न्यस्त्वैवं मातृकां पुरा ।
ततः शक्त्या पडर्णं तु न्यसेत् करशरीरगम् ॥ २९ ॥
View Verse
करन्यासं पुराविद्धि तच्छृणुष्व मुनीश्वर ।
पुटीकृतेन ताराभ्यां मन्त्रेणैव शशक्तिना ॥ ३० ॥
View Verse
नखान्तं मणिबन्धाद्यं प्राग्वत् पाणिद्वयं मृजेत् ।
आद्यन्ते तारशक्त्याढ्चैः षड्भिर्वर्णैः सबिन्दुकैः ॥ ३१ ॥
View Verse
अङ्गुष्ठादिकनिष्ठान्तं न्यस्त्वा मध्यमपर्वसु ।
विन्यसेत् करजाग्रेषु चरमं वर्णमेव च ॥ ३२ ॥
View Verse
एवमर्णानि विन्यस्य हृदयादीनि विन्यसेत् ।
मूलाग्रपर्वस्वङ्गानि वर्णन्यासक्रमेण तु ॥ ३३ ॥
View Verse
पाणिभ्यामालभेद्देहमामूर्ध्नश्चरणावधि ।
कृत्वैवं व्यापकन्यासमङ्गन्यासं समाचरेत् ॥ ३४ ॥
View Verse
मूर्ध्नि वक्त्रे च हृदये नाभौ गुह्ये च पादयोः ।
सृष्टिन्यासो भवेदेष स्यादङ्गोपाङ्गवत् स्थितिः ॥ ३५ ॥
View Verse
पादयोर्गुह्यके नाभौ हृदि वक्त्रे च मूर्धनि ।
पादादिश्च शिरोऽन्त्स्तु संहृतिन्यास उच्यते ॥ ३६ ॥
View Verse
हृदि मूर्ध्नि शिखायां तु स्कन्धयोः करमध्यतः ।
नेत्रयोर्न्यसनीयानि स्वैर्मन्त्रैरुदितैः क्रमात् ॥ ३७ ॥
View Verse
हृदयादीनि विन्यस्य पश्चात् पाणितलद्वये ।
विनय्सेदस्त्रसंघं च अष्टकं वा द्विरष्टकम् ॥ ३८ ॥
View Verse
किरीटं कौस्तुभं मालां श्रीवत्सं च यथापुरम् ।
दक्षिणोत्तरयोरंसे इच्छाशक्तिं स्वपार्श्वयोः ॥ ३९ ॥
View Verse
ऊरुमूले मनस्तत्वं न्यस्त्वा मन्त्रमयं स्वकम् ।
भावयेदहमित्यन्तः सुदर्शनवपुर्हरिः ॥ ४० ॥
View Verse
गायत्र्या वर्तयेद्बाह्ये स्वात्मानं चक्रमुद्रया ।
चक्रज्वालावलिं विप्र परितो मंत्रवित्तमः ॥ ४१ ॥
View Verse
भावनाजनितं यागमाचरेदादिचोदितम् ।
नियम्य करणग्रामं प्राग्वद् वै ज्ञानगोचरे ॥ ४२ ॥
View Verse
आसनं कल्पयेन्मान्त्रमामूलाधृदयावधि ।
आधारशक्तेरारभ्य चिद्भावासनपश्चिमम् ॥ ४३ ॥
View Verse
पुरोक्तं बावयेदूर्ध्वे मन्त्रैश्वर्यं त्रिविष्टपम् ।
साधारणमिदं ज्ञेयं सुदर्शननृसिंहयोः ॥ ४४ ॥
View Verse
पृष्ठभागेऽवतीर्णाभ्यां बहिर्वा हृदयाम्बरे ।
विष्टरासनसह्कल्पकार्ये भावापनोपहृत् ॥ ४५ ॥
View Verse
हृत्पझकर्णिकोर्ध्वस्था शब्दब्रह्नमयी पुरा ।
अक्षगर्भगतं नादं नदन्ती मन्त्रगर्भितम् ॥ ४६ ॥
View Verse
शक्तिः शान्तात्मनो विष्णोः साधकैश्च वशीकृता ।
शब्दशक्तिः समुद्गीता विष्टरार्कखमध्यगा ॥ ४७ ॥
View Verse
वर्णत्वं समनुप्राप्ता सन्ततिर्नादरूपिणी ।
अकारादिक्षकारान्तवर्णपारावसानतः ॥ ४८ ॥
View Verse
निस्तरङ्गे परे व्योम्नि कलनारहिते शुभे ।
तुर्यातीते पदे देवः प्रकाशानन्दबृंहितः ॥ ४९ ॥
View Verse
सद्ब्रह्नवासुदेवाख्यः पूर्णषाड्गुण्यविग्रहः ।
महाविभूतिसंपूर्णः सवशक्तिमयः प्रभुः ॥ ५० ॥
View Verse
संशान्तपरमानन्दस्वरूपः सततोदितः ।
शङ्खचक्राह्कितनुर्वरदाभयपाणिकः ॥ ५१ ॥
View Verse
सहस्रसूर्यसङ्काशः सहस्रेन्दुगभस्तिमान् ।
स्वप्रकाशैः किरीटाद्यैः नूपुरान्तैरलंकृतः ॥ ५२ ॥
View Verse
श्रीवत्सकौस्तुभोपेतो वनमालाविराजितः ।
पीतकौशेयबसनः प्रसन्नवदनेक्षणः ॥ ५३ ॥
View Verse
दन्तपंक्तिशशिज्योत्स्नाविद्योतितदिगन्तरः ।
सेवितश्च श्रिया पुष्ट्या विशेषाब्यां समन्ततः ॥ ५४ ॥
View Verse
शङ्खचक्रादिदिव्यास्त्रैः सर्वतत्त्वात्मकैः सदा ।
विज्ञानभावनाभाव्यो निराशीःकर्मकारिभिः ॥ ५५ ॥
View Verse
अभ्यासयोगसिद्ध्यर्थं बहिरन्तश्च नित्यशः ।
बिम्बपीठादिक्लृप्तेषु वृत्तिस्थानेषु तेषु च ॥ ५६ ॥
View Verse
परव्यूहादिरूपेण पूजितः सर्वमृच्छति ।
ततो नित्योदितस्तत्वात् प्रकाशाह्लादलक्षणात् ॥ ५७ ॥
View Verse
साधर्म्यलक्षणं प्राप्य भक्तानुग्रहकाम्यया ।
क्रियाशक्तिमधिष्ठाय ज गदुद्धरणोद्यताम् ॥ ५८ ॥
View Verse
चिदंशं प्रादुरभवत् प्रकाशानन्दबृंहितम् ।
दुर्दर्शनं प्रकाशेन साधुसन्तापकारिणाम् ॥ ५९ ॥
View Verse
आह्लादेन स्वभक्तानां सुदर्शनमितीरितम् ।
षडध्वोर्ध्वगतो देवो भूत्वा कालानलात्मना ॥ ६० ॥
View Verse
भक्तानां दुरितं हन्ति चिन्तितो नृहरिर्हरिः ।
येन संपूजितावेतौ तेजसातीव निर्भरौ ॥ ६१ ॥
View Verse
स तेजस्वी च भू तात्मा सर्वत्र च सुखी भवेत् ।
ज्ञात्वैवं मन्त्रसद्भावमारभेद्यजनक्रियाम् ॥ ६२ ॥
View Verse
परस्माद्भगवत्तत्वाच्चित्स्वरूपं परात्मकम् ।
मनसा मन्त्रमुच्चार्य विष्टरोर्ध्वेऽवतार्य च ॥ ६३ ॥
View Verse
वाच्यवाचकभावेन द्विधा सौदर्शनं वपुः ।
साकारो वाच्यरूपः स्यान्मन्त्ररूपस्तु वाचकः ॥ ६४ ॥
View Verse
प्रशस्तौ तावुभौ स्यातां परापरविभागतः ।
वाच्यरूपं परं विद्यादपरं मन्त्रयन्त्रितम् ॥ ६५ ॥
View Verse
ज्ञात्वैवमुदयं कुर्यात् परसूक्ष्मादिभावनम् ।
ज्योतीरूपं परं विद्यात् नादान्ताह्लादलक्षणम् ॥ ६६ ॥
View Verse
चिच्छक्तिलक्षणं सूक्ष्मं शिरःपाण्यादिगर्भितम् ।
लिङ्गमात्रं प्रकाशाढ्चं भाविप्रसरधर्मि यत् ॥ ६७ ॥
View Verse
सः स्थूलो व्यक्तरूपः स्याद्वाच्यवाचकरूपयोः ।
मन्त्राणां शब्दरूपाणां तिस्रोऽवस्थाः परादिकाः ॥ ६८ ॥
View Verse
पश्यन्त्याद्याः परिज्ञेयाः स्वं परं त्वपरं त्रिधा ।
आद्यस्तत्रैव तारः स्याद्द्वितीयो बीजसंज्ञितः ॥ ६९ ॥
View Verse
तृतीयः पदमन्त्राद्यस्त्विति भाव्यो भवेन्नृभिः ।
सान्निध्यं संमुखीभावः सन्निरोधोऽपि पूर्ववत् ॥ ७० ॥
View Verse
मन्त्रन्यासादिकं कृत्वा लयभोगार्चनं तथा ।
सकर्णिकेसरदऌअसंयुक्तेष्वम्बुजेष्वपि ॥ ७१ ॥
View Verse
भूपुरादिषु सर्वत्र मन्त्राणां लिङ्गरूपिणाम् ।
मूर्तीनां केशवादीनां मन्त्राणामर्चनं ततः ॥ ७२ ॥
View Verse
प्रागुक्तैर्विधिवन्मन्त्रैर्भोगयागवदाचरेत् ।
शिरोर्ध्वे देवदेवस्य भावयेदिन्दुमण्डलम् ॥ ७३ ॥
View Verse
तत्स्रुतैरमृतौघैश्च कुर्यादर्घ्यादिकल्पनम् ।
षोडशैरुपचारैर्वा द्विगुणैर्वा चतुर्गुणैः ॥ ७४ ॥
View Verse
राजवत्प्रीणनं कृत्वा होमं कुर्यात्तथाविधम् ।
नाभिचक्रकृते कुण्डे षट्कोणे गुणमेखले ॥ ७५ ॥
View Verse
निर्मथ्य भावनोद्भतामरणिं ज्ञानरज्जुना ।
समुत्पाद्य च चिद्वह्निं सर्वसंस्कारसंस्कृतम् ॥ ७६ ॥
View Verse
सदैवोर्ध्वशिखं दीप्तं शुद्धं भगवदात्मकम् ।
नाबिकुण्डगतं ज्ञात्वा तेजः शक्त्युपबृंहितम् ॥ ७७ ॥
View Verse
हृदब्जगगनोर्ध्वस्थं मूलमन्त्रं समुच्चरेत् ।
प्लुतध्यानसमोपेतं सत्यान्तेऽस्मिन् लयं गते ॥ ७८ ॥
View Verse
निस्तरङ्गे परे प्राप्ते ब्रह्नस्थं पूर्णवारितैः ।
ध्यानस्रुवेण चाहृत्य सन्धिमार्गेऽमृताध्वना ॥ ७९ ॥
View Verse
हृदयादवतीर्णस्य ज्वालाग्रावस्थितस्य च ।
मन्त्रनाथस्य शिरसि वसुधारामिव क्षिपेत् ॥ ८० ॥
View Verse
चिदग्निमेवं सन्तर्प्य ज्वालाग्रावस्थितं प्रभुम् ।
हृदब्जकर्णिकान्तस्थं भूयो भाव्याहुतिक्रियाः ॥ ८१ ॥
View Verse
समाप्य विधिवत् पूजामपराङ्गे हरिं स्थितम् ।
स्वमन्त्रेणार्चयित्वाऽथ होमान्तं भावनामृतैः ॥ ८२ ॥
View Verse
तदन्ते यन्त्ररूपस्य मुखद्वयगतस्य च ।
पन्त्रसंघस्य पूर्णान्तं कृत्वा सन्तर्पणं ततः ॥ ८३ ॥
View Verse
विष्टरस्थं यजेद्बाह्ये त्वर्चारूपमुखद्वये ।
मूर्तैरर्घ्यांदिभिर्भोगैर्विधिवत्समुपाहृतैः ॥ ८४ ॥
View Verse
प्राग्वदर्घ्यादिपात्राणां पूजनं स्थापनं तथा ।
दैहविन्यस्तमन्त्राणां गर्भद्वारस्थपूजनम् ॥ ८५ ॥
View Verse
धातारं च विधातारं प्रचण्डं चण्डपूर्वकम् ।
पूर्वपश्चिमयोर्बाह्यमण्टपद्वारयोः क्रमात् ॥ ८६ ॥
View Verse
जयं च विजयं चाथ सुभद्रं चाथ भद्रकम् ।
सूर्याचन्द्रमसौ पूज्यौ दक्षेतरगवाक्षयोः ॥ ८७ ॥
View Verse
कृत्वैवं द्वारयागं तु प्रविश्याभ्यन्तरं ततः ।
आधारशक्तेरारभ्य यन्त्रविष्टरपश्चिमम् ॥ ८८ ॥
View Verse
मन्त्रमासनमब्यर्च्य गणनाथादिकं तथा ।
प्रतिष्ठितस्य देवस्य कुर्यादावाहनं ततः ॥ ८९ ॥
View Verse
बिम्बहृत्कमलाकाशाच्चैतन्यममलं परम् ।
प्रकाशानन्दरूपं च नित्योदितमनूपमम् ॥ ९० ॥
View Verse
कर्णिकामध्यमाश्रित्य निविष्टमनुभावयेत् ।
मूलमन्त्रं समुच्चार्य प्रबुद्धं भास्वरं ततः ॥ ९१ ॥
View Verse
मन्त्रन्यासं ततः कुर्याद्यथा देहे स्वके तथा ।
स्थानेषु हृदयादीनि चक्राद्यस्त्रवराणि च ॥ ९२ ॥
View Verse
भूषणादीनि विन्यस्य मस्तकादेः समानि च ।
रत्नराशिप्रकाशानि लयाख्येनार्चयेत्ततः ॥ ९३ ॥
View Verse
कर्णिकादिषु यन्त्रस्थान् भास्वद्रूपांस्तथैव च ।
आसनाद्यैश्च सांस्पशैर्हृदयंगमपश्चिमैः ॥ ९४ ॥
View Verse
प्रीणयित्वा विधानेन मूर्तिसङ्घसमन्वितम् ।
जप्त्वा मन्त्रं यथाशक्ति तन्निवेद्य यथा पुरा ॥ ९५ ॥
View Verse
पाश्चात्ययन्त्रमध्यस्थमेवं नरहरिं ततः ।
साङ्गं सपरिवारं च सयन्त्रार्णं समर्चयेत् ॥ ९६ ॥
View Verse
इति सङ्क्षेपतः प्रोक्तं महायन्त्रार्चनं परम् ।
प्रीणयेदग्निमध्यस्थं समिद्भिः प्रागुदीरितैः ॥ ९७ ॥
View Verse

Chapter 26

श्रीः ।
षड्विंशोऽध्यायः ।
सनकः ।
पञ्चरात्रार्थतत्वज्ञ भगवन् भविनां प्रिय ।
मय्यनुग्रहबुद्धया त्वमग्निमध्यगतार्चनम् ॥ १ ॥
View Verse
यथाविधि समाचक्ष्व सर्वसिद्धिप्रसाधनम् ।
शाण्डिल्य ।
मुनीन्द्र सकलप्राज्ञ सिद्धिमोक्षप्रदं शुभम् ॥ २ ॥
View Verse
कुण्डमध्यगतं यागं श्रृणु वक्ष्ये समाहितः ।
होमार्थं मण्टपं कुर्याद्विततं वह्निदिग्गतम् ॥ ३ ॥
View Verse
धूमर्निगमनोपेतं गवाक्षगणमण्डितम् ।
तन्मध्ये वेदिका कार्या चतुरश्रा चतुष्करा ॥ ४ ॥
View Verse
द्वादशाङ्गुलमानोच्चा प्रासादासनलक्षणा ।
चक्राब्जलक्षणं कुण्डं तदूर्ध्वे कल्पयेच्छुभम् ॥ ५ ॥
View Verse
मध्ये सूत्रत्रयं दद्यात् प्राक्प्रत्यग्दक्षिणोत्तरम् ।
हस्तद्वयेन तन्मध्ये चतुरश्रं प्रकल्प्य च ॥ ६ ॥
View Verse
एकादशाङ्गुलायामं सूत्रं संस्थाप्य मध्यतः ।
खातार्थं वृत्तमापाद्य बहिरावृतियोगतः ॥ ७ ॥
View Verse
त्यजेदङ्गुलमोष्ठस्य द्व्यङ्गुलं कर्णिकावनेः ।
अङ्गुलं केसराणां च द्व्यङ्गुलं पत्रसन्ततेः ॥ ८ ॥
View Verse
तदग्रस्याङ्गुलं ज्ञेयं नाभेरेकाङ्गुलोन्नतम् ।
द्व्यङ्गुलं स्यादरक्षेत्रं नेमेरेकाह्गुलं भवेत् ॥ ९ ॥
View Verse
द्व्यङ्गुलं मेखलायाः स्यादेवमावृतियोगतः ।
मानमाखातपर्यन्तं मेखलान्तं हृदि स्थितम् ॥ १० ॥
View Verse
कृत्वाऽथ नेमिपर्यन्तं क्षेत्राणां वृत्ततां नयेत् ।
मेखला सर्वबाह्यस्था स्यात्तुर्याश्रा यथा भवेत् ॥ ११ ॥
View Verse
समेखलं द्विहस्तं तन्निर्माणमधुना श्रृणु ।
खातार्थमन्तरावृत्तादन्तरं निखनेत् समम् ॥ १२ ॥
View Verse
त्रिपादमर्धं पादं वा बाह्यतो दशनच्छदात् ।
साधयेत् कर्णिकादीनि नेम्यन्तानि यथाक्रमम् ॥ १३ ॥
View Verse
द्बादशांगुलमानोच्चा कार्या स्यात् कर्णिकान्तरा ।
विस्तारसदृशोच्छ्राया बाह्यतः केसरान्विता ॥ १४ ॥
View Verse
यथाभिमतसङ्ख्यानि पझपत्राणि साधयेत् ।
पझसङ्ख्यासमं क्षेत्रं महापझसमन्ततः ॥ १५ ॥
View Verse
केसरभ्रमकुण्डेन पत्राग्रभ्रमणावधि ।
पक्षमध्यमसूत्राणि प्राक्प्रत्यग्दिक्षु पातयेत् ॥ १६ ॥
View Verse
दऌअमध्यगसूत्रेण दऌअमध्योर्ध्वगामिना ।
दऌअमध्यप्रसादार्थं लाञ्छयेदर्धचन्द्रवत् ॥ १७ ॥
View Verse
चन्द्रश्रृङ्गं च मध्यं च पत्राग्रे सङ्गतानि च ।
पक्षसूत्रेण पत्राग्रं जनयेत् कुलिशाग्रवत् ॥ १८ ॥
View Verse
दऌअसङ्ख्यासमेतानि स्वक्षेत्राणि च साधयेत् ।
विभज्य दऌअवत् क्षेत्रं सूत्राण्यास्फालयेत्तथा ॥ १९ ॥
View Verse
अष्टधा वाऽथ षोढा वा कृत्वैकैकं क्रभेण तु ।
सन्त्यज्य पार्श्वगौ भागौ बाह्यसूत्रस्य मध्यतः ॥ २० ॥
View Verse
स्थापिताभ्यां च सूत्राभ्यां गदाभ्यामग्रमध्यमात् ।
मत्स्यवल्लाञ्छनं कुर्याद्यावन्मूलभ्रमावधि ॥ २१ ॥
View Verse
प्रथयो नेमिभूमिष्ठाः कार्याश्चोर्ध्वेऽथवा बहिः ।
संसाधयेदथामद्यादिष्टकाभिर्मृदा सह ॥ २२ ॥
View Verse
मेखलावधिपर्यन्तं नीचान्यङ्गानि मीलयेत् ।
विस्तारोच्छ्रायतुल्यानि समानि सुदृढानि च ॥ २३ ॥
View Verse
कर्णिकाकेसरोर्ध्वस्था योनिः पिप्पलपत्रवत् ।
जिह्वया संस्पृशन्त्योष्ठं कार्या योन्युपमाश्रिता ॥ २४ ॥
View Verse
केसरावनिमाक्रम्य पृष्ठतोर्ध्वाङ्गुलेन तु ।
पार्श्वयोर्मध्यसूत्रस्य बालचन्द्रद्वयोपमा ॥ २५ ॥
View Verse
प्रोन्नता कर्णिकाबूमैः पृष्ठतश्चाङ्गुलेन तु ।
आमूलादग्रपर्यन्तं क्रमान्निम्ना गजोष्ठवत् ॥ २६ ॥
View Verse
कोणेषु चैवं कुण्डस्य कार्यं शङ्खचतुष्टयम् ।
एवमेतत् समुद्दिष्टं बहुधा मानतो भवेत् ॥ २७ ॥
View Verse
आद्बादशाङ्गुलान्मानादेकैकाङ्गुलवर्धनात् ।
द्विचतुर्हस्तपर्यन्तमेकाशीत्यधिकं शतम् ॥ २८ ॥
View Verse
एतेष्वेकतरं प्रोक्तमन्येषामेवमेव हि ।
तत्साधनं विहा य तत् अह्गव्यूहं प्रकल्प्य च ॥ २९ ॥
View Verse
ततो यथोचितस्थाने होमद्रव्याणि विन्यसेत् ।
संस्कृत्य विधिवत् कुण्डं वह्निमुत्पादितं तथा ॥ ३० ॥
View Verse
संस्कृताज्यस्य विप्रुड्भिः संस्पृशेदिन्धनादिकम् ।
सन्तर्पणं तथाग्नेश्च तस्मिन्मन्त्रासनादिकम् ॥ ३१ ॥
View Verse
यन्त्रविष्टरसंस्थानमन्तराहवनं तथा ।
हृदयादवतारं च महायन्त्रस्य विष्टरे ॥ ३२ ॥
View Verse
समिद्भिश्चाथ नित्याभिः काम्यैश्च हवनं तथा ।
स्विष्टकृद्धवनं चाथ प्रायश्चित्ताहुतिं त्वपि ॥ ३३ ॥
View Verse
पूर्णाहुतिं प्रधानं च यन्त्रस्थस्य विसर्जनम् ।
हृदयस्थे प्रविश्याथ मण्टपं यजनास्पदम् ॥ ३४ ॥
View Verse
समर्पणं च होमस्य पितॄणां तर्पणं त्वपि ।
बलिदानं च भूतानामिष्टशिष्टोदनस्य च ॥ ३५ ॥
View Verse
प्रदानं यज्ञशीलानां कारिणां भावितात्मनाम् ।
अनुयागं च विधिवन्नैवेद्यप्राशनादिकम् ॥ ३६ ॥
View Verse
पूर्ववत् सकलं कुर्याद्भोगमोक्षप्रसिद्धये ।
अनेन यन्त्रराजेन शान्तिकादिषु कर्मसु ॥ ३७ ॥
View Verse
ध्यानेन पूजितेनैव हुतेन जपितेन च ।
समीहितानि पूर्यन्ते भक्तानां भावितात्मनाम् ॥ ३८ ॥
View Verse
एकरूपमिदं ध्यानं वर्णितं शान्तिकादिषु ।
होमे स्वाहान्तिमो मन्त्रः स्वभावादधिकः सदा ॥ ३९ ॥
View Verse
शान्तिके पौष्टिके वौषट्पूर्णायामपि तादृशः ।
आप्यायने वषट्प्रोक्तो हुमन्तो वश्यकर्मणि ॥ ४० ॥
View Verse
फडन्तं क्षयविद्वेषप्रोत्सादनविधौ सदा ।
हुमन्तं चारिविद्वेषे मोहने हुंफडन्तिमम् ॥ ४१ ॥
View Verse
स्तम्भने वषडन्तं सस्यान्नमोन्तो मोक्षकर्मणि ।
अथो हिताय लोकानां राज्ञामपि विशेषतः ॥ ४२ ॥
View Verse
पृच्छते नारदायैतदहिर्बुध्न्येन विस्तरात् ।
यथोपदिष्टं विधिवत्तथा तत्र निरीक्ष्य च ॥ ४३ ॥
View Verse
प्रयोक्तव्यं तु बहुधा शान्तिकामी यथेच्छया ।
कुर्यादेकमुखं यन्त्रं स्थाप्य संपूजयीत च ॥ ४४ ॥
View Verse
नैमित्तिकानि काम्यानि नित्यानि यजनानि वै ।
विशेषेणैव कार्याणि विना स्वापं महोत्सवम् ॥ ४५ ॥
View Verse
न कर्मबिम्बानि तथा नित्यनैमित्तिकादिषु ।
स्थितं यन्त्रं समाराध्यं स्थापितं मन्त्रवित्तमैः ॥ ४६ ॥
View Verse
दिव्याद्यायतनाड्गत्वे स्थापिते सति कुत्रचित् ।
चलस्थिरविबागेन हविरन्तं समर्चयेत् ॥ ४७ ॥
View Verse
द्वादश्यादिषु कालेषु पुण्येषु विविधेष्वपि ।
इति सम्यक् समुद्दिष्टं महायन्त्रार्चनं परम् ॥ ४८ ॥
View Verse
अदीक्षितानां विधिवदशिष्याणां दुरात्मनाम् ।
गोपनीयं प्रयत्नेन त्वभक्तानां जनार्दने ॥ ४९ ॥
View Verse
भावभक्तिसमेतानां वाच्यवाचकयोर्गुरौ ।
शास्त्रे ज्ञानक्रियोपेते सात्विके वेदसंमिते ॥ ५० ॥
View Verse